________________
१ पा. ७ आ. शब्दकौस्तुभः ।
२४१ द्यन्तावयवौ स्तः । भविता । यापयति । पुरस्तादपवादा इतिन्यायेन स्थानेयोगत्वस्यायमपवादः । प्रत्ययः परश्चेत्यनेन तु परत्वाबाध्यते । तेन चरेष्टः,गापोष्टक,व्रीहिशाल्योढेक्,इत्यादयः परा एव भवन्ति । परेण परिभाषाप्रकरणेन साहचर्यात्परिभाषेयम् । भाष्ये तु संज्ञापक्षोपि स्थापितः । तथाहि । टकिताविति कर्मधारयः । इत्संज्ञको टकारककारी आद्यन्तयोः संज्ञे स्तः । तथा च इद् इति बहुव्रीहिः इट् आदिर्यस्येति विग्रहः । तथा च स्थानेन्तरतमपरिभाषया तव्यस्य इतव्यादेशे सिद्धमिष्टम् । एवं यापयतीत्यत्र यातेर्याप् आदेशः पुः क् यस्येति व्याख्यानात् । न चैवमाद्यन्तौ टकौ इत्येवास्त्विति वाच्यम् । आलजाटचौ ठस्येक इत्यादावपि टकयाराधन्तसंज्ञात्वप्रसङ्गात् । इत्संज्ञकत्वेन तु देशविशेषो लक्ष्यते। तेन इत्संज्ञकस्य यो देशस्तत्रावस्थितौ टको संज्ञे । न चाटचष्टकार इकादेशस्य ककारश्च तथेति नोक्तदोषः । नन्नास्मिन्पक्षे लुङ्लङ्लक्ष्वित्यादिना भू इत्यस्याभू इत्यादेशः स्यात्स चोदात्त इत्यन्तोदात्तः प्रसज्येत । नैष दोषः।
ट् उदात्तश्च यस्येति त्रिपदबहुव्रीह्याश्रयणात् । विशेषणस्यापि उदात्तस्य सौत्रः परनिपातः। तेनोदात्ताकारादिरादेश इति सिद्धम् । न चैवमप्याडजादीनामित्यत्र दोषतादवस्थ्यम् । अनुवृत्तेनोदात्तशब्देन सह श्रूयमाणस्य बहुव्रीह्यसम्भवादिति वाच्यम् । आडजादीनामिति सूत्रस्य प्रत्याख्यास्यमानत्वात् । वक्ष्यति हि,अजादीनामटा सिद्धमित्यादि ।
मिदचोन्त्यात्परः ॥ सन्निविष्टानामचा मध्ये अन्त्यो योच् तस्मात्परो मित्स्यात् स च पूर्वान्तः । स्थानेयोगस्य परश्चे ति परत्वस्य चापवादः । वनानि । यशांसि । रुणद्धि । ननु पूर्वयोगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्याप