________________
१६३
१ पा. ५ आ. शब्दकौस्तुभः ।एतत्सूत्रारम्भस्त्वद्विवचनार्थः पुंसि द्विवचने प्रकृतिभावार्थश्चेति । तच्चिन्त्यम् । प्लुतसंग्रहानुरोधेन पूर्वसूत्रे यथोदेशपक्षस्यैव स्थापितत्वात् । तस्मात् पुंसि द्विवचनेनुनासिकपर्युदासोप्येतत्सूत्रस्य फलं न तु प्रकृतिभावमात्रामत्यवधेयम् । अथापि कथञ्चिदरदत्तोक्तिस्समर्थयितव्येत्याग्रहस्तहि इत्थं समर्थनीया । पूर्वसूत्रे कार्यकालपक्ष एवास्तु । न चैवं प्लुतस्यानुनासिकपर्युदासो न स्यादिति वाच्यम् । ईई ३ त् ऊऊ ३ दिति दीर्घात्परभागे प्लुतस्यापि प्रश्लिष्टनिर्देशात् । एकारस्त्वग्वादेव प्लुतं ग्रहीध्यति । न च तादपि परस्तपर इति तत्कालग्रहणापत्तिः । ऋदोरबितिवद्दकार एवायमित्याशयात् । युक्तञ्चैतत्। यथोद्देशपक्षे प्लुतात् प्रागेव संज्ञाप्रवृत्तौ सत्यां ततः प्लुते कृते तमेव द्विमात्रत्वेन पश्यन्त्या अपि संज्ञायाः पुनः प्रवृत्तौ बीजाभावात् । नाभावस्तु मुभावात्प्रागमाप्तस्ततो मुत्वनिमित्तकं ना. भावमाश्रित्य मुभावे दशब्दोयमिति बुद्धया प्राप्नुवन् दीर्घः प्र. तिविधीयतइत्युचितम् । नत्यसौ प्लुतात् प्राक् प्रगृह्यसंज्ञावन्मुभावात् प्रागेव प्रवृत्तो येन पुनर्न प्रवर्तेत । एतेन पूर्वसूत्रस्थ. हरदत्तग्रन्थोप्युज्जीवित इति यावद्भाधं साधु । भाष्यकैयटयोस्त्वयं भावः । प्लुतात् प्राक् प्राप्तापि प्रगृह्यसंज्ञा फलाभावान क्रियते । न च प्लुतेनुनासिकप्रवृत्तिरेव फलमस्त्विति वाच्यम् । संज्ञाया अप्रवृत्तावपि तल्लाभात् । प्रगृह्यत्वप्रयुक्तप[दा. सस्यैव विधिस्पृष्टस्य तत्फलत्वौचित्याच्चेति । सुश्लोकेतीत्यादावप्यमन्तरङ्गत्वाप्लुतः अन्तरङ्गम्बलीय इति न्यायात् । प्रकृतमनुसरामः । नन्वारभ्यमाणेप्यस्मिन् सूत्रे पूर्वसूत्रेणैकरूप्यार्थ यथोद्देशपक्ष एवाश्रयणीयः। तथा च रुत्वस्योत्वं प्रतीव प्रगृह्य - संज्ञां प्रत्येव मुत्त्वमीत्वयोः सिद्धत्वं स्यात् । नत्वयादीन् प्र