________________
२२०
शब्दकौस्तुभः ।
[ १ अ०
स्यापि संग्रहार्थम् । तेन समासार्थवाक्येपि निषेधः । मासेन पूर्वाय । अयं च लौकिके वाक्ये निषेधो न तु नबहुव्रीहाविति - बदलौकिके । अकारान्ते काकचोरविशेषेणानकारान्तानां प्रतिपदोक्ततृतीयासमासविरहेण चालौकिके निषेधस्य वैयर्थ्यापत्तेः ॥
द्वन्द्वे च ॥ इहोक्तसंज्ञा न स्यात् । पूर्वापराधराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । तथाहि । त्यदादीनां तावद् द्वंद्व एव नास्ति । त्यदादीनि सर्वैर्नित्यमित्येकशेषेण बाधितत्त्वात् । न च द्वंद्वे कृते एकशेष इति भ्रमितव्यम् । एकवछात्रस्वरसमासान्तप्रसङ्गेन द्वंद्वापवादस्वपक्षस्यैव स्थापयिष्यमा - णत्वात् । अन्यथा तेषामित्यादावपि द्वंद्वे चेति निषेधापत्तेश्च । त्यदादिभ्यः प्राचीनास्त्वदन्ताः । तत्र काकचोरविशेषः । सर्वनाम्नो वृत्तिमात्रे इति पुंवद्भावस्त्विष्यतएव । दक्षिणोत्तरपूर्वाणामिति । किञ्च सर्वनामसंज्ञानिषेधेनाप्यसौ दुर्वारः । तत्र हि मात्रग्रहणं कचित्सर्वनामत्वेन दृष्टानां सम्प्रत्य सर्वनामत्वेपि पुंवद्भावार्थम् । अत एव दक्षिणपूर्वायै इत्यत्र संज्ञाभावेपि पुंबद्भावः । नन्ववयवे संज्ञा चेन निषिद्धा तर्ह्यङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनादक्षिणोत्तरपूर्वाणामित्यादौ सुडागमादिप्रसङ्गः । न च निषेधवैयर्थ्यम् । अनाङ्गस्य त्रलादेन्यावृत्त्या चरितार्थत्वादिति चेन्न । अङ्गकार्येषु सर्वनाम्नो विहितस्यामो ङेङसिङयोरित्यादिक्रमेण व्याख्यानात् । विहितविशेषणत्वस्याश्रयणे प्रमाणं तु दक्षिणोत्तरपूर्वाणामिति भाष्यप्रयोग एव । तस्मात्समुदायस्यैवायं प्रतिषेधो नावयवा - नामिति स्थितम् । अत एव सर्वनामसंज्ञायां तदन्तविधिसद्भावे द्वंद्वे चेति ज्ञापकमित्युक्तम् ॥
विभाषा जसि ॥ जसीति कार्यापेक्षयाधिकरणसप्तमी ।