SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [१ अ० सापवादया ऽसिद्धपरिभाषया कथं निरपवादाया गतार्थता । अथ षत्वतुकोरित्यनेनासिद्धं बहिरङ्गमित्यस्या अनित्यतैव ज्ञाप्यते लाघवात् न तु नाजानन्तर्यइति, गौरवात् । तर्हि पबलमिदं भाष्यं, स्फुटीकृतं चेदमचः परस्मिन्निति सूत्रे ऽस्माभिः । एवञ्चाचारानन्तमिति द्वित्त्वं विवक्षितम् । नचेत्यादयोपि पाचाङ्कलहा मुधैव । एवञ्चान्तरानपि विधीन् बहिरङ्गो लुग्बाधतइत्यपि गतार्थम् । षत्वतुकोरिति वा कृतितुग्ग्रहणेन वा ऽनित्यताज्ञापनात् । अश्विमानण् श्वयुवेत्यादिनिर्देशाच्च । तेन गोमत्तिय इत्यादि सिद्धम् । आचारकिपि तवममादिवाधे च क्रमेण प्रत्ययोत्तरपदग्रहणस्य कृतार्थत्वात्तदीयज्ञापकताप्रवादोपि यथाश्रुताभिप्रायेणैवेति दिक् ॥ - इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य चतुर्थे । पादे प्रथममान्हिकम् ॥ खंयाख्यौ नदी ॥ इवोवर्णान्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । दीर्घान्तयोरेषा संज्ञा व्यवतिष्ठते । अण्त्वेन सवर्णग्रहणात् । हूस्वान्तयोस्तु प्राप्ताप्येषा परया घिसंज्ञया बाध्यते । तेन मते धेनो इत्यादौ अम्बार्थनद्योरिति इखो न भवति । ननु शेषग्रहणाद् घिसंज्ञा कथं भवेदिति चेन्न । शेषग्रहणस्य प्रत्याख्यातत्वात् । तथाहि । एका संज्ञेति पाठे तावच्छेषस्यग्रहणं व्यर्थमिति स्पष्टमेव । अपरङ्कार्यमिति पाठे तु दीर्घान्ते सावकाश नदीसंज्ञा पुनपुंसकयोः सावकाशा घिसंज्ञा हे मतइत्यादौ परत्वाद्वाधिष्यते । मत्यै धेन्वै इत्यादौ तु निरवकाशापि डितिहस्वश्चति नदीसंज्ञा घिसंज्ञा न बाधेत । अतः शेषग्रहणं कृतम् । तदपि वस्तुतो व्यर्थमेव । नदीसंज्ञावचनसामर्थ्यादेव घिसंज्ञाबाधोपपत्तेः। ह्रस्वलक्षणा हि नदीसंज्ञा । सा च
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy