SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २ पा. ३ आ. शब्दकौस्तुभः । पदान्तरगम्यत्वपर्यन्तमुक्तमिति चेत् । उच्यते । नेह विशिष्टाभावः प्रयोजकः किन्तु तन्मात्रप्रयुक्तो विशेषः प्रयोजकः । अन्यथा भागवित्तिंभागवित्तिकावित्यत्र वृद्धोयूनति स्यात् । इह हि कुत्सासौवीरत्वाभ्यां प्रयुक्तपिठकि युवप्रयुक्ततास्त्येवेति विशिष्टाभावो निधिः । एवमिन्द्रेन्द्राण्यावित्यत्र प्रकृतमूत्रप्रवर्तेत। हिमहिमान्यावित्यादौ चोत्तरसूत्रमिति दिक् । नन्वेवं गार्यवात्स्यायन योरतिप्रसङ्ग इति चेत् । योसौ विशेषः स तल्लक्ष. णश्चेदिति वचनव्यक्तया पाठादुद्देश्यविधेयान्वयलाभात् । एवञ्च कृत्स्नस्य विशेषस्य तन्मात्रप्रयुक्तत्त्वं फलितम् । तेन पदान्तरपर्यन्तानुसरणं कैयटादीनां युक्तमति दिक् । तदितरप्रयुक्तविशेषविरहरूपविशिष्टाभावविवक्षायान्तु सर्व सुस्थम् । एतेन सा च स च तावितिव्याख्यातम् । अनैमित्तिकस्यैकशेषस्य तद् तद् इत्यवस्थायां प्रवृत्तावपि पुंस्त्वनियमस्यैतेन लभ्यत्वात् । ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र तु न भवति । स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सहविवक्षा च प्रधानयोरेव । तेन यत्र प्रधानयोरेव स्त्रीपुंसयोर्विशेषप्रयोजकता तत्रैव एकशेषप्रवृत्तेः । इह वा प्रधानकृतस्यापि विशेषस्य सत्त्वात् । एवकारानुवृत्तेर्नेह । इन्द्रेन्द्राण्यौ । इह हि पुंयोगकृतोपि विशेषः । आरण्यारण्यान्यौ । इह महत्वकृतोपि विशेषः ।पुमानितिकिम् । प्राक् च प्रतीची च प्राक्मतीच्यौ स्तः । प्रपूर्वादश्चेः क्विनन्तादस्तातरंचेलगिति तद्धितश्चासर्वविभक्तिरित्यव्ययत्त्वादलिङ्गः प्राक्शब्दः ॥ भातपुत्रौ स्वमृदुहितृभ्याम् ॥ यथासख्यं शिष्यते । भाता च स्वसा च भातरौ । पुत्रश्च दुहिता च पुत्रौ ॥ नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् ॥ अक्लीवेन स
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy