SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुभः । ४६७ श्लाघन्द्रस्थाशपामिति सम्प्रदानसंज्ञा । ज्ञीप्स्यमाने, विवदन्ते । तद्यथा । यस्माआख्यायते स सम्प्रदानमित्येके । य आख्यायते स इत्यन्ये । कथं तर्हि नीवीम्प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामीति । अत्राहुः | स्वाशयं प्रकाशयामीत्येतावदिह विवक्षितं न तु शपथ इति ॥ समवप्रविभ्यः स्थः ॥ एभ्यस्तिष्ठतेः प्राग्वत् । सन्तिष्ठते । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । आङः प्रतिज्ञायामुपसंख्यानम् । शब्दं नित्यमातिष्ठते नित्यत्वेन प्रतिजानीतइत्यर्थः । वृत्तौ तु अस्तिसकारमातिष्ठते । गुणवृद्धी आगमा वा तिष्ठतइत्युदाहृतम्। अस्यार्थः । आपिशलिर्हि अस भुवीति न पठति किं तु सकारमात्रम् ! स्तः सन्तीत्युदाहरणम् । अस्ति आसीदित्यादि सिद्धये तु अडाटावागमौ प्रतिजानीते । तावेव गुणवृद्धीति ॥ प्रकाशनस्थेयाख्ययोश्च ॥ तिष्ठतेरेतयोरर्थयोरात्मनेपदं स्यात् । गोपी कृष्णाय तिष्ठते । स्वाभिप्रायं प्रकाशयतीत्यर्थः । श्लाघनूङिति सम्प्रदानत्वम् । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीनिर्णेतृत्त्वेनाश्रयतीत्यर्थः । स्थेयो विवादपदनिर्णेता तिष्ठतेस्मिन्निति व्युत्पत्तेः । वृत्तौ तु तिष्ठन्त्यस्मिन्निति प्रयुक्तम् । तत्र प्रकरणाच्छिादना विवादपदनिर्णेतुः प्रतीतिर्न तु शाब्दीत्यभिप्रायेण परस्मैपदं बोध्यम् । कृत्यल्युटाहुलमिति अधिकरणे अचो यत् ॥ उदोनूर्ध्वकर्माणि ॥ उत्पूर्वातिष्ठतेरनूर्ध्वस्वविशिष्टे परि स्पन्दे वर्त्तमानादात्मनेपदं स्यात् । उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । अनुध्वेति किम् । जवेन पीठादुदतिठदच्युतः । इह क्रियाया अनूर्ध्वत्वं नाम उपरिदेशसंयोगफलकस्वाभावः । यद्यपि उदोनूइत्युक्तेरनूर्ध्व ताविशिष्टक्रियात्रा -
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy