SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुमः। ४६९ आङो यमहनः ॥ आङ्पूर्वाभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्याञ्च यमिहनिभ्यामात्मनेपदं स्यात् । आयच्छते । आहते । आयच्छते पाणिम् । अहते शिरः । नेह । परस्य शिर आहन्ति । कथं ताजघ्ने विषमविलोचनस्य वक्ष इति भारविः । अत्र के चित् । आजेति पदं छित्वा घ्न इति भावे विपि चतुर्थेकवचनान्तमुक्त्वा घ्ने हन्तुं आजजगामेति व्याचख्युः । तन्न । अजेलिटि वीभावेन विवायेति सिद्धान्तात् । अन्ये तु विषमविलोचनस्य समीपमेत्य स्वं वक्षमास्फालितवानित्यर्थः । मल्लो ह्युत्साहाविष्करणाय स्वं वक्षमास्फालयती. त्याहुः । भागवृत्तौ तु प्रमाद एवायमित्युक्तम् । एवञ्च मोहादाहध्वंमा रघूत्तममिति भट्टिप्रयोगोपि चिन्त्यः ॥ ___ समो गम्यूच्छिभ्याम् ॥ सम्पूर्वाभ्यामकर्मकाभ्यां गम्यूच्छिभ्यामात्मनेपदं स्यात् । सङ्गच्छते । समृच्छिष्यते । अकर्मकाभ्यां किम् । ग्रामं सङ्गच्छति । कथन्ताह तच्चैक्यं समगच्छतति । आर्षत्वात् । यद्वा । चातुर्वण्यादित्वात्स्वार्थे व्यम् । एकं समपद्यतेत्यर्थः । विदिपृच्छिस्वरतीनामुपसङ्ख्यानम् ॥.दिदानार्थस्येह ग्रहणम् । परस्मैपदिभ्यां साहचर्यात् । न लाभार्थस्य । स हि स्वरितेत्त्वादुभयपदी । सत्ताविचारणार्थयोस्त्वनुदात्तत्वादात्मनेपदं सिद्धमेव । संवित्ते सविदाते सं. विद्रते । सम्पृच्छते संस्बरते । अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् ॥ अर्तीतिभ्वादिजुहोत्यादी द्वावपि गृह्यते । सर्तिशास्तीत्यविधौ तु शास्तिना लुप्तविकरणेन साहचर्याज्जुहोत्यादेरेव ग्रहणम् । परस्मैपदेष्विति तूत्तरार्थमनुवर्तमानमपि योगविभागसामर्थ्यादवि धौ न सम्बध्यते । तेन मासमृत मासमृषातां मासमषतेनि भाष्यं भ्वायभिप्रायेण । समारत समारेतां समारन्तेति वृत्तिस्तु जुहोत्या
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy