________________
२७४
शब्दकौस्तुभः । [१ अ० विश्चेति न कर्तव्यमेव । घानिषीष्टेति कथं सिध्यदिति परमवशिष्यते । तत्रेदमुत्तरम् । प्रतिपदविधेर्बलीयस्त्वाचिण्वद्भाव इ. ति । एतच्च स्यसिसूत्रे कैयटेन स्पष्टमुक्तम् । तस्माद्वार्तिकमते विप्रतिषेधाच्चिण्वद्भावः । भाष्यमते तु प्रतिपदोक्तत्वादिति विवेक । एतेनैकाच उपदेशइति सूत्रेप्या धातुकीयाः सामान्येन भवन्तीत्यादिभाष्यग्रन्था व्याख्याताः । यत्तु तत्र कैयटौनोक्तं विप्रतिषेधे उपपत्तिश्चिन्त्येति । तत्तु प्रागुक्तोपपत्तिरेव स्मर्तव्येत्येवंपरम् । स्यादेतत् । प्रतिपदविधित्वं किमिह विवक्षितम् अनवकाशत्वं वा साक्षादुपादानमात्रं वा । नाद्यः । स्यसिसूत्रे हनग्रहणस्य प्रघानिष्यतइत्यादौ लब्धावकाशत्वात् । तत्रत्यस्य सीयुट्ग्रहणस्य तु कारिषीष्टेत्यादौ कृतार्थत्वात् । न चाजन्तादी. नां चतुर्णा स्यादिचतुष्कसम्बन्धे अस्वरितत्वाच्च यथासंख्याभावे हन्तेः सीयुटीति योंशस्तस्यानर्थक्यमेव । अन्तरङ्गत्वाद्धि वधः भावे कृते तस्य स्थानिवत्वेन हन्तिग्रहणेन ग्रहणात्सीयुटि चिण्वदिटि कृते ण्यल्लोपावियङिति पूर्वविप्रतिषेधेनाल्लोपे सति वधिषीष्टेत्येव रूपं स्यादिति वाच्यम्। अन्तरङ्गेण वधिनापहारे न्याय्ये सत्यसंभवादेव हन्तेः सीयुटा समं संबंधायोगात् । संभवे व्यभिचारे च स्याद्विशेषणमर्थवदिति न्यायात् । अत एव भस्त्रादिसूत्रे आतः स्थाने इत्येतत्स्वशब्दस्यैव विशेषणं न तु भस्वादीनामिति वक्ष्यते । तथा नित्यं क्रीडाजीविकयोरित्यत्र क्रीडायां तृचो ऽसम्भवादकेनैव तदन्वय इति वक्ष्यते । नान्त्यः । वधादेशेपि हनो वधलिङगीत साक्षादपादानस्याविशिष्टत्वात् । अन्तरगत्वस्याधिकत्वाच्चेति चेत् । अत्रोच्यते । चिण्वदिट्चेति चकारस्यानुक्तसमुच्चयार्थत्वेन व्याख्यानाद्धन्तेरपि परस्य सीयुटश्चिण्वद्भावो विधीयते । तस्य चानर्थकत्वमेव प्रतिपदविधित्व