SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १. पा. ८ आ. शब्दकौस्तुभः । २७३. वद्भावनाङ्गता नेति वाच्यम् । तदेतदिविधिश्चेत्यनेनार्थादुक्तम् । एतदपि भाष्ये प्रत्याख्यातम् । तथाहि । धादेशस्तावददन्तः । अन्यथा ऽवधीदित्यत्रातो हलादेरिति वृद्धिप्रसङ्गात् । एतच्चोतरसूत्रे भाष्ये एव स्पष्टम् । वधक इति तु नायं ण्वुल् किं तु हनो वघश्चेत्यौणादिकसूत्रेण क्वुन्प्रत्ययः । तथा चेह वृद्धितत्वयोः प्रसङ्ग एव नास्ति । आवधिषीष्टेत्यादाविनिषेधोपि न भवति । वध्यादेशे आधुदात्तनिपातनसामर्थ्यात् । न चैवं सतिशिष्लेन - तेन यदावधिषीष्टेत्यादौ प्रत्ययस्वरो बाध्येतेति वाच्यम् । आर्द्धधातुकीयानामादेशानां प्रत्ययविवक्षामात्रेण प्रवृत्त्या प्रत्ययस्वरस्यैव सतिशिष्टत्वादिति । स्यादेतत् । इविधिश्वेत्यंशे पूर्वपक्ष एव शिथिलः । तथाहि । उपदेशनुदात्तादिनिषिध्यते । न च वधिस्तथा । स्थानिवद्भावनायं तथेति चेन्न । अल्विधौ स्थानिवद्भावविरहात् । सत्यम् । नेह स्थानिवद्भावं ब्रूमः । किन्तु हन्त्युपदेश एव वधेरुपदेशः। कृअपदेश इव कर्ता कर्तुमित्यादौ करित्यादीनाम् । स्थानिवद्भावस्त्वङ्गसंज्ञार्थ मग्यतइत्यु. क्तमेव । नन्वेवमपि परिहारग्रन्थो ऽसङ्गत एव । यदि हि प्रागेव प्रत्ययोत्पत्तेर्वधादेशाभ्युपगमस्तहि वधभावात्सीयुटि चिण्वद्भावों विप्रतिषेधेनेति स्यसिचसूत्रीय वार्तिकं विरुध्येत । अन्तरङ्गबहिरगयोर्विप्रतिषेधायोगात् । तथा च कर्मणि सीयुटि वधिषीष्टेत्येकमेव रूपं स्यात् । इष्यते तु घानिषीष्टेति द्वितीयमपि । अत्रोच्यते । वार्तिकमते आर्द्धधानुकइत्यस्य विषयसप्तमीत्वोपि लिडिलुङीत्यादीनां परसप्तमीत्वाभ्युपगमेन विप्रतिपेधः सम्भवत्येव । अत एवेहायुदात्तनिपातनासंभवादिविधिश्वेत्युपसंख्यातम् । भाष्यकाराणां त्वयमाशयः । आर्द्धधातुकइतिवल्लिङीत्यादिरपि विषयसप्तम्येव । तथा चायुदात्तनिपातनेनैकोपपत्तौ इव
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy