SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २७२ शब्दकौस्तुमः । [ १ अ० पूर्वोक्तरीत्या तु संयोगान्तलोपेनैव सिद्धौ संहितापाठपर्यन्तं नोपन्यस्येत् । संहितायामपि हि हलोयमामिति लोपस्य बहिरङ्गत्वत्रिपादस्थित्वाभ्यामसिद्धत्वात्संयोगान्तलोपेनैव भाव्यम् । संयोगान्तलोपे यणः प्रतिषेधः, न वा झलो लोपाद्वहिरङ्गल क्षणत्वाद्वेति वार्त्तिकोक्तपक्षत्रये प्रथमचरमयोस्तस्य दुर्वारत्वात् । तस्मात्समुदाये प्रत्येकं वा संयोगसंज्ञेति पक्षद्वयानुरोधेनेह समाधानद्वयं व्यवस्थितमिति भाष्यार्थः । पूर्वोक्तरीत्या सिच इति समाहारमाश्रित्य तदुपरि म् इतिच्छेद इति पक्षे त्वस्तिग्रहणप्रत्याख्यानपरतयापदिं भाष्यं योजयितुं शक्यमिति दिक् । एतेन संयोगान्तस्य लोप इति सूत्रे ऽन्तग्रहणं शक्यमकर्त्तुमिति प दमञ्जरी प्रत्युक्ता । पक्षद्वयेपि प्रयोजनस्योक्तत्वात् । विद्यमानं यत्सिचस् इति पक्षे वा योज्या । वस्तुतस्तु झल इति वत्सस्येत्यपकृष्यते तत्सामर्थ्यात्संयोगान्तस्य पदत्वाभावेपि लोप इत्यलम् । यत्तु सिचः परत्वादीटि प्राप्ते आहिभुवोरीदमतिषेध इति वार्त्तिकबलानिषेध इति कौश्चिदुक्तम् । तन्न । तस्य दोष इत्युपक्रमात्स्थानिवद्भावप्रतिषेधपरेणोक्तवार्त्तिकेनास्तेः परत्वमुपजीव्य प्रवृत्तस्येटो निवृत्तावपि सिच्प्रयुक्तस्यानिवार्यत्वात् । अस्थादगादित्यादावुक्तदोषतादवस्थ्याच्च । तस्मात्प्रागुक्तेष्वेवान्यतमः पन्थाः शरणमित्यलं बहुना । वध्यादेशे वृद्धितत्वप्रतिषेध इद्विधिश्चति वार्त्तिकान्तरम् । अस्यार्थः । इन्तेर्बुलि कृते बहुलन्तण्यन्नवधकगात्र विचक्षणाजिराद्यर्थमिति वार्तिकेन संज्ञाछन्दसोर्वधादेशः । स च हलन्त इति मत्वा वृद्धिरापाद्यते । हनस्तोचिण्णलोरिति तकारश्च । तयोः कर्त्तव्ययोः स्था निवद्भावः प्रतिषेधः । तथा आवधिषीष्ठेत्यादौ स्थानिवद्भावेनाङ्गतयैकाच इति निषेधः प्राप्तः । तस्मिन्नपि कर्त्तव्ये स्थानि •
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy