________________
५०८
- शब्दकौस्तुभः । [१ अ० प्रभृतयः । अत एव कृन्मेजन्त इति सूत्रे मानः समस्यदूढय इति मन्त्रव्याख्यायां दुर्धिय इति कैयटेनेयङ् प्रयुक्तः। अदूरवि. प्रकर्षेण बहुव्रीहिणेदमप्यर्थकथनम् । व्याख्येयमन्त्रे तु दुष्टं ध्यायतीति विग्रहे नित्यसमास एव बोध्यः । ततो यण् । दुरो नाशदाशदभध्येष्विति पृषोदरादिसूत्रस्थवार्तिकेन उत्वष्टुत्वे । यन्तु तद्वार्तिकव्याख्यावसरे दुष्टं ध्यायतीति विगृह्य आतश्चोपसर्गइति कमत्यय इति कैयटहरदत्तादिभिरुक्तम् । तच्चिन्त्यम् । अन्तस्वरितानुरोधेन अर्थानुरोधेन च ख्यत्यादितिवत्कृतयणादेशानुकरणतयैव वार्तिकस्य व्याख्येत्वात् । सर्वस्य दुर्वधेः अंहतिरुपद्रवः नोस्मान् मा वादिति तृतीयचरणस्थेन स. हान्वयः । अमेरतिरित्यनुवर्तमाने हन्तेरंहचेत्यंहादेशोतिश्च प्रत्ययः । अहातशब्दस्य प्रादेशनं निर्वपणमपवर्जनमंहतिरित्यमरकोशादिबलादाने रूढौ तु प्रद्वेषयुक्तमाभिचारिकाधगभूतमेव तदिह ग्राह्यम् । उणादीनामव्युत्पत्तिपक्षाश्रयणादन्तोदात्तता। वहिवस्यर्तिभ्यश्चिदिति चिद्रहणानुवृत्तेरिति तु तत्त्वम् । एतेन मानो गर्व इति व्याचक्षाणा अपि प्रत्युक्ताः । पदद्वयत्वस्याध्यापकसम्प्रदायसिद्धन्त्वात् वाक्यशेषानुगुण्याच्च । तस्मादाध्यै ब्रा. ह्मण्य इति भाष्योदाहरणं चिन्त्यमिति स्थितम् । प्राक्सुबुत्पत्ते. यंत्र समासस्तत्रैव गतिकारकपूर्वस्येष्यत इति यण प्रवर्ततइति वदतां श्रीपतिदत्तादीनामपि मते कैयटोक्तं चिन्त्यं दृढमेव । वस्तुतस्तु आध्यानमाधीरिति व्युत्पाद्य गुणगुणिनोरभेदविवक्षयैव प्रयोगोयमिति चिन्त्योद्धारो ऽवधेयः । हरदत्तस्त्वाह । नित्यस्त्रीत्वं नाम न लिङ्गान्तरानभिधायकत्वं किन्तु शब्दान्तरसमभिष्याहारं विनैव स्त्रियां वर्तमानत्वं तत् । वृत्तिस्वरसाप्येवम् । कथम्तार्ह ग्रामण्ये खलप्वइत्यादि प्रत्युदाहियतइति चेत् । श्रृणु ।