________________
शब्दकौस्तुभः । [१ अ.. चमूवित्यादिषु षत्वादिकं सिध्यतीति वक्ष्यते । तात्परस्तत्त्कालस्येति तु उच्चारितेष्वेव स्यादिति चेत्सत्यम् । डा. मोहूस्वादिति सूत्रे ङमुडिति प्रत्याहारे कृतं टित्वं संज्ञायां व्यर्थ तत्सामर्थ्यात्संज्ञिषु डादिषु उपकरोतीति यथा स्वीकृतं तथेहापि तात्परत्त्वं संज्ञायामनुपयुज्यमानं तदुपस्थाप्येषु संज्ञिषु तत्कालावधारणं सामर्थ्यात्करोतीति न कश्चिदोषः । यद्वा । अणुदित्स्त्रे ऽशब्दसंज्ञेत्यनुवर्तते । शब्दस्य संज्ञायां विधेयायामण सवर्णान्न गृहणातीति ऊकालोजित्यत्र भाष्ये स्फुटम् । उपपादयिष्यामश्वेदं तत्रैव । अतो गुणवृद्धिसंज्ञाविधावपि न सवर्णग्रहणम् । तपरकरणं तु स्पष्टार्थम्, ईदूदेदितिवत् । अन्यथा हि किमेचावेवेह निर्दिष्टौ किं वा आकारोपीत्यादिसन्देहः स्यात्। तत्र च मालादीनांचेत्यादिज्ञापकानुसरणक्लेशः स्यादिति दिक् । युक्ततरश्चायमेव पक्षः । आद्यपक्षे हि वृद्विसंज्ञायाम् आइति दीर्घस्यानण्त्वेन सवर्णाग्राहकतया तपरकरणमैजर्थमिति स्थिते ङमुटीव सामर्थमस्तु गुणसंज्ञायां तु तपरकरणस्योभयार्थताभ्युपगमात्पूर्वत्र चरितार्थस्य क्व सामर्थ्य येनेदं संज्ञिनोरेदोतोरुपकुर्यादिति तत्र सवर्णग्रहणं स्यादेव । अस्मिन्नपि पक्षे एकादेशे दीर्घग्रहणमिति वार्तिकं दीर्घस्यैव संज्ञित्वादिति पूर्ववदेव व्याख्येयम् । स्यादेतत् । प्रथमपक्षे तादपि परस्य तत्कालग्राहकत्वाद् ऋदोरप् यवः स्तव इत्यादावेव स्यान्न तु लवः पव इत्या. दावपीति चेत् । अत्र भाष्यम् । नायं तकारः किं तर्हि असन्देहार्थः मुखसुखार्थो वा दकारोयामिति । नन्वेतद्भाष्यं तिति प्रत्ययग्रहणमित्येतद्वार्तिकप्रत्याख्यानपरेण तित्स्वरितमित्यत्रत्यभाष्येण सह विरुध्येत । तथाहि । तत्र तिति प्रत्ययग्रहणं कर्त्तव्यम् इह मा भूत् दिवउत् शुभिर क्तुभिरिति पूर्वपक्षयित्वा