SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १ पा. ८ आ. शब्दकौस्तुभः ३०५ नियुक्त आनुक ऐकारश्च श्रूयेत । न च सन्नियोग शिष्टन्यायेन निवृत्तिः । परतद्धितलुङ्निमित्ताया ङीनिवृत्तेः पूर्वयोरानुगैकारयोर्निवृत्तौ कर्त्तव्यायामचः परस्मिन्निति स्थानिवत्त्वात् । ये तु पूर्वोक्तरीत्या वर ई इतीकारमश्लेषं कुर्वन्ति तेषामिह लुग्ग्रह - णं न कार्यम् । उपधात्वे कर्त्तव्ये न स्थानिवत् । तेन परिखाशब्दाच्चातुरर्थिके आणि कृते वृद्धाद केकान्तखोपधादिति पारिखशब्दात्खोपधलक्षणे छप्रत्यये पारिखीयः सिध्यति । अन्यथा उपधासंज्ञायाः पूर्वविधित्वेन तत्र कर्त्तव्यायामाल्लोपः स्थानिवत्स्यात् । नन्वेवं पटयतीत्यादौ वृद्धिः स्यादिति चेन्न । यत्रोपधासंज्ञामुपजीव्य प्रत्ययो विधित्सितस्तत्रैवायं निषेध इति भाष्ये स्थितत्वात् । अत्र चङ्परनिर्द्धासग्रहणमेव ज्ञापकम् । कथं तर्हि भाष्ये यलोपे सौरी बलाकेत्युदाहरणं दत्वा उपघाविधौ नेत्येव सिद्धमित्युक्तमिति चेत् । अनास्थावादमात्रं तदित्यवेहि । तत्र हि तेनैकदिगित्यणन्तान्ङीप्यल्लोपद्वयस्यापि यलोपे कर्त्तव्ये स्थानिवद्भावे निषिद्धे समानाश्रयस्याणो लोपस्याभीयत्वेनासिद्धताया यलोपः सिद्ध्यतीति यलोपे न स्थानिवदित्यस्यैव सौ- : रीत्युदाहरणम् । उपधात्वं तत्र लोपे उपयोगि न तु प्रत्ययविधाविति स्थितम् । चङ्परे णौ यो ह्रस्वः स चङ्पर निर्द्वासस्तन स्थानिवत् । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन । प्रथमणिचो लोपस्य स्थानिवत्त्वादनुपधाकार इति णौचङीत्युपधाह्रस्वो न प्राप्नोति । णिसामान्यग्रहणादप्येतत्सिद्धम् । इदं तूदाहरणम् । वारि आख्यत्, अवीवरत् । न च नाग्लोपीति निषेधः शङ्क्यः । परत्वाद् वृद्धौ सत्यां टिलोप इत्यभ्युपगमेनाग्लोपित्वाभावात् । अत एव हलकलेत्यदन्तनिपातनं सार्थकम् | कुत्वे न स्थानिवत् । अर्चयतेरौणादिकः कम " 5 1 ३९ * M
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy