SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५७ १ पा. ९ आ. शब्दकौस्तुमः । . नात् । एचस्तु द्वादशानां संज्ञाः । यवला द्वयोः । रहौ तु स्वस्यैवेति । यद्यपि हकार आकारस्य संज्ञेति प्राप्तं तथापि तपरिहाराय नाज्झलावित्यत्रैव यत्नः कृतो न विस्मर्तव्यः । वार्तिककारास्त्विहाण्ग्रहणं प्रत्याचख्युः । तन्मते ऽस्यच्चावित्यादौ जातिनिर्देशात्सिद्धम् । अनुवाद्यविशेषणस्य च ह्रस्वत्वस्य ग्रहैकत्ववदविवक्षा । विधिप्रदेशे तु पश्वेकत्ववद्विवक्षेति सर्वेसिद्धिः । यद्यप्यस्मिन्पक्षे ऋकारेण लकारग्रहणं दुःसाध्यं तथापि ऋलक्सूत्रोक्तरीत्या समाधेयमिति दिक् ॥ तपरस्तत्कालस्य ॥ तः परो यस्मात्स तपरः । तात्परोपि तपरः। द्विविधोप्ययं स्वसमानकालस्य ग्राहकः स्यात् । तेन अत् इत् उदिति षण्णां संज्ञाः । ऋदिति द्वादशानाम् । अत एवोपसर्गादतिधातावित्यत्र सावात् लवर्णस्य ग्रहणन्तपरत्वादीर्घ नेति सिद्धान्तः । पञ्चमीसमासोदाहरणन्तु वृद्धिरादै. जिति । इह हि संज्ञायां कृतं तात्परत्वं संज्ञिनोः फलति ङमुट. ष्टित्वमिवेत्युक्तम् । परम्परासम्बन्धेन लाक्षणिकस्य स्मारकतेति पक्षे तु न कश्चिदोषः । आदेङ्गुण इत्यत्राप्येवं सिद्धम् । तत्र तकारस्योभयार्थतया सामर्थ्य विरहात् । यदि तूकालसूत्रे वक्ष्यमाणरीत्याणुदित्सूत्रे ऽशब्दसंज्ञायामित्यनुवर्तते । यदि वा कार्यकालपक्षमाश्रित्य भाव्यमानत्वादेव सवर्णग्रहणं वार्यते । तदा वृद्धिसूत्रे तपरकरणं स्पष्टार्थम् । इह तु पञ्चमीसमासो नाश्रयणीयः । अत एव शास्त्रान्ते अददिति भाष्यं सङ्गच्छते । गुणा भेदका इति पक्षे तु वृद्धिसूत्रे तपरकरणमुभयार्थम् । गुणान्तरयुक्तस्य ग्राहकत्वात् । भेदकत्वे ज्ञापकत्वणुदित्सूत्रस्थमण्ग्रहणमिति हल् इति सूत्रएकोफ्पादितम् । तथैतत्सूत्रस्थं तत्कालस्योति पदमपीह ज्ञापकम् । अन्यथा हि स्वस्य रूप
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy