SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुभः । तस्माद्दीर्घविधिना गुणवाधाकि कित्त्वेनेति । उच्यते । उतरार्थमवश्यमिकाझलिति कर्तव्यम् । योगविभागः किमर्थ इ. ति परमवशिष्यते । तत्राग्रहणसामर्थ्यस्य ज्ञीप्स्यमान इत्यादेपिकस्य च पर्यालोचनाक्लेशपरिहारार्थ लक्षणैकचक्षुषो वाध्यसामान्यचिन्ताभ्रमं वारयितुं योगविभाग इति निष्कर्षः । बार्तिकं तु यथाश्रुताभिप्रायकम् । तद्यथा, इकः कित्त्वं गुणो मा भूद्दीर्घारम्भात्कृते भवेत् । अनर्यकं तु इस्वार्थ दीर्घाणां तु प्रसज्यते ॥ सामर्थ्याद्धि पुनर्भाव्यमृदित्त्वं दीर्घसंश्रयम् । दीर्घाणां नाकृते दीर्घ णिलोपस्तु प्रयोजनम् ॥ अस्यार्थः । इक उत्तरस्य सनः किन्त्वं विधीयते गुणो मा भूदित्येवमर्थम् । दूष. यति । दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । आरम्भवाद्याह । कृते भवेदिति । अयं भावः। सनिमीमेत्यत्र मीग्रहणेन मिनोतिमपि ग्राहयित्वा दीर्घः कृतार्थ इति चिचीपतीत्यादौ कृतेपि दीर्घ गुणः स्यात् । दूषयति । अनर्थकं त्विति । मीनातिमिनोतीत्यात्वे कृते गामादाग्रहणेष्वविशेषान्मा. ग्रहणेनैव मिनोतिमीनात्योरपि सिद्धे मीग्रहणं तत्र मास्तु । तथा च दीर्घविधानं न कृतार्थमिति भावः । हूस्वार्थमिति । ह्रस्वेषु दीर्घः प्रवर्तताम् , न तु दीर्धेषु । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । ततश्च बुभूषतीत्यादौ गुणः प्रसज्यतएवेत्यर्थः । दूषयति । सामर्थ्यादिति । गुणनिवृत्तिरूपप्रयोजनसद्भावादीCणां दीधैर्भाव्यमेव , मोराजीतिवदिति भावः । न चैवं दीघेण गुणस्येव ऋदित्त्वस्यापि बाधः स्यात्तथा च चिकीर्षतीति न सिध्येदत आह । ऋदित्त्वमिति । यं विधि प्रतीति न्यायाद् गुण एव बाध्यो न तु ऋदित्त्वमित्यर्थः । ननु तितीर्षतीत्यादौ तर्हि इत्वं बाध्यता, तत्राह । दीर्घाणामिति । इत्वोत्वयो
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy