________________
१०२
शब्दकौस्तुमः । . [१ अ. टिलोपार्थेन डित्करणेन । स्त्रीगवी पुंगवानां गर्भाधानाय प्रथममुपसरणमुपसरः । प्रजने सर्तेरित्यप्पत्ययो घोपवादः । प्रजनः स्यादुपसर इति. संकीर्णवर्गे ऽमरः । प्रजायतेस्मिन्मजनः पशूनां गर्भग्रहणकाल इति क्षीरस्वामी । उपसरे जात उपसरजः, मंदुरायां जातो मन्दुरजः डयापोः संज्ञाछन्दसोर्बद्ध लमिति हस्तः । वाजिशाला तु मन्दुरेत्यमरः । न च डकार: श्रवणार्थोस्त्विति वाच्यम् । मावृटशरत्कालदिवां जइति कृतटिलोपनिर्देशाल्लिङ्गात् । ननु नेदं लिङ्गं जै क्षये इत्यस्य कपत्ययान्तस्य ज इति निर्देशोपपत्तेः । कथं तार्ह कर्मण्युपपदे विहित आतः कः प्रावृषिज इत्यादौ स्यादिति चेत् । द्विपः पादप इत्यादिसिद्धये मुपि स्थ इत्यत्र सुपीति योगविभागाभ्युपगमात् । सत्यम् । डकारस्य श्रवणार्थत्वे इत्संज्ञाशास्त्रं बाध्येत ।न च प्रयोजनाभावः। टिलोषार्थत्वात्। न च गुणेनान्यथासिद्धिः। तदभावस्यापि ज्ञाप्यत्वात् । निषादस्थपत्यधिकरणन्यायेन फलमुखगौरवस्यादोषत्वात् । डकारस्य श्रवणार्थताभ्युपगमे सिद्धं तु नित्यशब्दत्वात्किमर्थ शास्त्रमिति चेनिवर्तकत्वात्सिद्धमिति - द्धिसूत्रस्थवार्तिकविरोधाच्च । नन्वसति डिचे रूपं न सिध्यति । नकारस्थाने गुणस्यापि सानुनासिकस्य प्रसङ्गात् । न च निरनुनासिकेन प्रत्ययाकारेण सह पररूपाच्छुद्धो भविष्यतीति वाच्यम् । पररूपविधानपि गुणानामभेदकतया पर्यायेण सानु नासिकप्रसक्तर्दुवारत्वादिति । मैवम् । एडि पर इतीयता सिद्ध रूपग्रहणादाधकाद्यत्नाद् गुणविवक्षोपपत्तेः । तस्य त्येतदेव फलम् । यादृशं परस्य रूपं निरनुनासिकत्वाद्युपेतं ताडगेव यथा स्यादिति । तस्माज्जनेर्डवचनं ज्ञापकं न व्यञ्जनस्य गुणो भवतीति । एवं चेग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थमिति वा