________________
शब्दकौस्तुभः ।
[ १ अ०
वचनद्वयबलात्सिध्यतीतिदिक् । यथा च प्रयोगे साधूनां निय मस्तथा साधुत्वज्ञानेपि व्याकरणस्य नियम एवेत्यवधेयम् । व्याकृता वागुद्यतइतिप्रागुक्तश्रुतेः । व्याकृता व्याकरणसंस्कृतोति हि तदर्थः । व्याकरणशब्दश्च योगरूढ्या लक्ष्यलक्षणसमुदा'यपरः सूत्रमात्रपरो वेति पक्षद्वयमपि भाष्ये स्थितम् । तत्राद्ये पक्षे सूत्रमात्रमधीयाने वैयाकरणशब्दप्रयोगो भाक्तः समुदायवाचका हि शब्दाः कचिदवयवेपि प्रयुज्यन्ते । यथा पूर्वे पञ्चाला उत्तरे पञ्चाला इति । द्वितीयपक्षे त व्याकरणस्य सूत्रमितिप्रयोगो राहोः शिर इतिवन्भेयः । अष्टाध्याय्या एकदेशः सूत्रमित्यवयवा वयविभावे षष्ठीति वास्तु । अस्य वनस्यायं वृक्ष इत्यादिवत् । चैत्र सूत्रमात्राच्छन्दाप्रतिपत्तेर्नियमानुपपतिः । पदच्छेदविग्रहयोजनादिभिः सूत्रार्थस्यैवाभिव्यञ्जनात् । अत एव छुत्सूत्रमुच्यमानमप्युपेक्ष्यते । यत्रैव तु सूत्रस्य तात्पर्य लेशोप्यस्ति तदेव तु गृह्यते । तदुक्तम् । सूत्रेष्वेव हि तत्सर्वं यद् हृतौ यच्च वार्त्तिकइति । अत एव बहुलग्रहणादिकं सार्थकमिति दिक् । नन्वेवं किं वर्णोपदेशेन । न हि तद्वलेन कस्य चिच्छन्दस्य साधुत्वमवगम्यते । न च कलध्मातादिदो परहितवर्णस्वरूपप्रतिपत्तिरेव त त्फलमिति वाच्यम् । लोकत एवाविप्लुतवर्णप्रततिरवश्यं वाच्यत्वात् । अन्यथा प्लुतादिपाठस्यापीह कर्त्तव्यतापत्तेः । तदुक्तम् । इष्टबुद्धयर्थ वेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेश इति । एकश्रुत्या सूत्रपाठादुदात्तादिस्वरत्रयस्यापि . कर्त्तव्यः पाठ इत्युक्तम् | त्रैस्वर्येण पाठे हि अन्यतमस्य उच्चा रणादेव सिद्धौ द्वयोरेव कर्त्तव्यतां ब्रूयात् । अत एव च लोके
स्वर्थमेकत्या सह विकल्प्यत इति ज्ञाप्यते । एतच्च विभाषा छन्दसीत्यत्र स्फुटीकरिष्यामः । ननु निर्देशस्य जातिपरत्वा
३६