SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २९२ शब्दकौस्तुभः । [१ ० इणः कितीति दीर्घत्वे कृते दीर्घविधानसामर्थ्यादिणो यणभावे ई अतुरिति स्वात् । सिद्धान्ते तु पूर्वपरयोविधौ स्थानिवन्त्वाभावानिमित्तविघातेनाकृतव्यूहपरिभाषयेणो यणि सिद्धं रूपम् । यद्वा । स्थानिवदिति वतिबलेनाभावोप्यतिदिश्यते । उत्तरसूत्रे द्विवचनादिग्रहणाल्लिङ्गात् । विधिग्रहणं तु पूर्वस्यैव न तु पूर्वपरयोरित्येतदर्थमिति दिक् । इह स्थान्यादेशनिमित्तानां त्रया‘णां सन्निधानाविशेषेपि स्थान्यपेक्षमेव पूर्वत्वं गृह्यते न तु आदे. शापेक्षं निमित्तापेक्षं वा । वैयाकरण इत्यत्र आयादेशापत्तेः । तदक्तम् । अचः पूर्वत्वविज्ञानादैचोः सिद्धमिति । नन्वेवं समायेत्यत्र जग्ध्यादेशप्रसङ्गः, ण्यल्लोपाविति पूर्वविप्रतिषेधेन णिलोपे कृते ततः प्रत्ययलक्षणेन वृद्धौ सत्यामेकदेशविकृतस्यानन्यतया दिग्रहणेन ग्रहणात् । एवं घात्यादित्यत्र वधादेशमसङ्ग इति चे न । आदिघात्योरपि स्थानिद्वारा ऽनादिष्टादचः पूर्वत्वात् । ननु स्थानिनः पूर्वत्वेपि आदेशस्य किमायातम् । नानादिष्टादचः पूर्वत्वं नाम शास्त्रीय कार्य यत्स्थानिवदादेश इति पूर्वसूत्रेणातिदिश्यतेति चेन्न । अनादिष्टादचः पूर्वत्वमुपजीव्याचः परस्मिन्निति शास्त्रे प्रवर्तायतव्ये स्थानिवदादेश इत्यस्य प्रवृत्तिसम्भवात् । तथा चाचः परस्मिन्नित्यतिदेश एव शास्त्रीय कार्य तच्च पूर्वसूत्रेणातिदिश्यतइति फलितोर्थः । अत एव नपदान्तसूत्रे सवर्णग्रहणं कृतम् । अन्यथा नसोरल्लोपे कृते पश्चाद्भवमनुस्वारो नानादिष्टादचः पूर्व इति तस्य विधौ स्थानिवद्भावविरहात्सवर्णग्रहणं व्यर्थमेव स्यात् । नवं क्षत्रियकण्डूतिरिति न सिद्धयति । तथाहि । कण्डूयतेः क्तिचि अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवन्त्वेनोवङि कृते ऊकारस्यानादिष्पादचापूर्वस्य स्थाने जातस्योत्रका स्थानिवदादेश इति स्थानि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy