________________
१ पा. २ आ. शब्दकौस्तुभः । मिह विवृततर उपदिष्ट इत्यस्यार्थस्य । यत्तु अत्रत्यं वार्तिकम. कारस्य विवृतोपदेश आकारग्रहणार्थ इति । तत्र विवृतशब्दो विवृततरत्वपरः उदाहृतशिक्षानुरोधात् । ननु शुक्लतरोपि शुक्लो भवत्येव यथा तथेह विवृततरस्याकारस्य विवृत. त्त्वानपायात्सावयं यथाश्रुतपि सेत्स्यतीति चेत् । न । सवर्णसंज्ञायां तुल्यप्रयत्नत्वस्य विवृततरत्वाद्यवान्तरधर्मपुरस्कारेणैव वक्तव्यत्वात् । अन्यथा ओदौतोरपि सावापचौ गां गाइत्यत्रेव नावं नावः ग्लावं ग्लाव इत्यादावपि औतोम् शसोरित्यात्वं प्रवर्तेत । ईदेदित्येकारान्तस्य विधीयमाना प्रगृह्यसंज्ञा करवावहै इत्यादावपि प्रक्र्तेत । एङ: पदान्तादतीति पूर्वरूपं कस्मै अदान् विष्णौ अस्तीत्यादावपि स्यान् । किंचैवं हकारादीनामीषद्विवृतत्वादकारादीनाञ्च विवृतत्वात्सावाप्रसक्ते ज्झलाविति सूत्रं न कर्त्तव्यमिति भाष्यसिद्धान्तो व्याकुप्येत । एओङित्यादिसूत्रद्वये उकारचकाररूपानुबन्धद्वयकरणं चेह लिङ्गम् । अन्यथा हि अन्यतरेणैव स. वत्र व्यवहरेत् । किम्बहुना ऐकारौकारावपि न निर्दिशेदाकारा. दीनामिव सावर्येन सिद्धेरिति दिक् । तस्मादत्रत्यभाष्यवार्तिकयोोर्ववृतशब्दो विवृततरं लक्षयतीत्येव तत्त्वम् । यद्वा । विवृतप्रतिज्ञानसामाद्विवृततरेण सह सावर्ण्य सेत्स्यतीत्यवधेयम् । एवं च भाष्यादिग्रन्यो यथाश्रुत एवास्तु । एतच्च न्यासकारहरदत्तयोर्ग्रन्थमनुसृत्य उदाहृतशिक्षावाक्योपष्टम्भेन व्याख्यातम् । परमार्थतस्तु । आकारो विकृत इत्येव भाष्य वार्तिकस्वरससिद्धं न तु निवृततरइति । तथा च पाणिनीप्रशिक्षा । स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योपि विवृतावेडी ताभ्यामचौ तथैव चेति । प्रामुक्तं तु मता-: