________________
४२
शब्दकौस्तुभः । [१ अ. देशश्च प्रतिपादनम् । तेन प्रयोगविशेषनिष्ठानां वर्णानां प्रतिपादने प्रत्यय इह तु आनुपूर्वीसंपादनमात्रे तात्पर्य न तु कविपुइत्यादौ दृष्टानामकारादीनां प्रतिपादने, अतः कारप्रत्ययाभाव इत्याहुः । अनुकार्यानुकरणयोरभेदविवक्षापक्षे तु अर्थवत्वस्याविवक्षिततया वर्णवाचित्वाभावात्कारप्रत्ययाभावः । अत्रेदमवधेयम् । अकारः संवृतः । विवृतकरणाः स्वराः तेभ्य एओ विवृततरौ ताभ्यामैऔ विवृततरतरौ ताभ्यामप्याकारः संवृतोकार इति शिक्षावाक्यात् । विवृतसंवृतादयः शब्दाः शुक्लादिवधर्मे धर्मिणि च प्रयुज्यन्ते तेन विवृतं करणं प्रयत्नो येषां ते तथाभूसाः स्वरा इकारादय इत्यर्थः । यत्तु छन्दोगविशेषैरिव!वर्णऋकाराणां संवृततामिच्छद्भिक्तं कृतः संहता अन्यत्राभवसाम्न इति । तत्तु तदीयशाखाविशेषमात्रपरं न तु सार्वत्रिकम् । यथा सात्यमुनिराणायनीयानामेव सुजाते ए अश्वसुनते अध्वयों ओ अदिभिः सुतमित्यादावेकमात्र एकारओकारश्च न त्वनेकेषां, तद्वत् । इकारादौ वा यथा तथास्तु । अकारस्य संवृतत्वं तु निर्विवादमेव । तथाप्यसौ प्रक्रियादशायामाकारेण दीर्पण प्लुतेन च सह सावर्ण्यसिद्धये विवृततरोस्मिन्सूत्रे निर्दिश्यते । विवृततरत्वं च प्रयोगदशायां मा भूदित्येतदर्थ शास्त्रांते अ अ इति सूत्रं कृतम् । तेन हि विवृततरमन्द्य संवृतो विधीयते । न चानुवाद्यसमपैकेणाकारेण दीर्घप्लुतयोरपि ग्रहणकशास्त्रवलात्सङ्ग्रहः स्यादिति वाच्यम् । अद इति तपरनिर्देशस्य एकशेषेण इस्वषट्कनिर्देशस्य वा सिद्धांतयिष्यमाणत्वात् । वक्ष्यति हि तत्र वार्तिककारः । सिद्धं तु तपरनिर्देशाद, एकशेषनिर्देशाद्वा स्वरानुनासिकभिन्नानां भगवतः पाणिनेः सि. द्धमिति । शास्त्रान्ते च विधीयमानं प्रत्यापत्तिवचनमेव ज्ञापक