SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २९४ शब्दकौस्तुभः। [१० लोपश्च प्रामोत्यत उपधाया इति वृद्धिश्च । उभयोनित्ययोः परत्वादृद्धिः । ततष्टिलोपे कृते स्वत एवानादिष्टादचः पूर्वमादन्तं न तु स्थानिद्वारोति पुङ् न प्राप्नोति । तस्माच्छपि णिचो गुणे कृते एचि वृद्धावायादेशे तितायतीति भवति। न च तिता णिच् इति स्थित अन्तरङ्गत्वादाद्गुणे शप्ययादेशे तितयतीति स्यादिति वाच्यम् । शपि हि गुणे सति वृद्धिरेचीति बाधेनाद्गुणस्य निमित्तविघातस्योत्पत्स्यमानतया ऽनव्यूहपरिभाषया पूर्वमन्तरङ्गस्याप्याद्गुणस्याप्रवृत्तेः । अकृतव्यूहपरिभाषा ह्यन्तरङ्गपरिभाषाया अपवाद इत्युक्तम् । न च शपि गुणस्याचः परस्मिन्निति स्थानिवन्त्वादाद्गुणस्य न निमित्तविधात इति वाच्यम् । पूर्वस्यैव विधौ स्थानिवद्भावो न तु पूर्वपरयोविधावित्युक्तत्वात् । तस्मात्तितायतीत्येव साधु । न तु तितयति तितापयतीति वा । चङि तु तिता णिच् चङ् तिप् इति स्थिते तनोतेर्डउः सन्वच्चेति व्युत्पतिपक्षे ऽनभ्यासस्येति द्वित्वनिषेधे टिलोपस्य चङ्परनिहासे स्थानिवत्त्वनिषधाद् इस्वाभावे णिलोपे तस्य स्थानिवत्त्वादसिद्धत्वाद्वा ऽऽतोलोपाभावे दीर्घविधि प्रति स्थानिवत्वनिषेधात्सवर्णदीप॑ ऽतितादिति भवति न त्वतितापदिति । अत्रेदं वक्तव्यम् । परत्त्वाद्वृद्धिरित्यसङ्गतं नित्यत्त्वेन दिलोपात् । न च वृद्धिनित्या । अचः परस्मिन्नितिकार्यातिदेशेन वृद्धिप्राप्तावपि लक्षणान्तरण प्राप्नुवन्ननित्य इति न्यायेनानित्यत्वात् । एवं च हरदत्तोक्तिः सुष्ठ्वेव । किं तु अनित्यत्वपि स्थानिद्वारकं पू. वत्वमिह नेष्यते इत्यस्मिन्नर्थे प्रमाणंचिन्त्यम् । तदेवं स्थानिद्वा. रकं वा स्वनो वा उभयथाप्यचः पूर्ववमिह गृह्यते इति स्थितम् । विधीयते इति विधिरिति कर्मणि किप्रत्ययः । पूर्वस्येति शेषे षष्ठी । अनुवादे परिभाषानुपस्थानात् । पुगाद्यागमपि विधेये
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy