________________
४ पा. ३ आ. शब्दकौस्तुभः । कर्मेत्युक्तम् । अत्र वार्तिकं, क्रियाग्रहणं कर्तव्यम् । पत्ये शेते । भाष्यकारास्तु सन्दर्शनप्रार्थनाध्यवसायैराप्यमानत्वाक्रियापि कृत्रिगं कर्म । तथा च सूत्रेणैव सिद्धम् । प्रतीयमानक्रियापेक्षोपि हि कारकभावो भवत्येव । प्रविश पिण्डीमिति वत् । सूत्रकारइचाह क्रियार्थोपपदस्य च कर्मणि स्थानिन इति । न चैवमप्यददातिकर्मत्वात् क्रियाग्रहणं कर्त्तव्यमेवेति वाच्यम् । भाष्ये अन्वर्थसंज्ञात्वास्वीकारात् । नन्वेवं कटङ्करोतीत्यादावपि सम्प्रदानत्वं स्यात् । वचनबलाच्च कर्मसम्प्रदानत्वयोः पर्यायप्रसङ्गः । अत्रादुः। नेदं वार्तिकं सार्वत्रिकम् । किन्तु प्रयोगानुसारानियतवि. पयं धातूपात्तफलानाधारएव प्रवृत्तेः । भाष्यमते तु यत्र सभ्मदानवामिष्टं तत्र सन्दर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते । ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धन्तयाऽभिप्रेयमाणस्य सम्प्रदानत्वम् । यत्र तन्नेष्टं तत्र भेदो न विवक्ष्यते । ततश्चोत्पत्तिविक्लित्त्यायेकफलावच्यनेकीकृतया क्रियया व्याप्यमानस्य कर्मत्वमेव भविष्यति। कटक्करोत्योदनं पचतीनि गत्यर्थेषु तु भेदो ऽभेदश्चेत्युभयं विवक्ष्यते तत्र भेदविवक्षायां ग्रामाय गच्छतीति प्रयोगः अभेदविवक्षायान्तु ग्रामं गच्छतीति तथा च गत्यर्थकर्मणीति सूत्रं प्रत्याख्यास्यते । उक्तञ्च हरिणा । भेदस्य च विवक्षायां पूर्वी पूर्वी क्रिया प्रति । परस्याङ्गस्य कर्मत्वात्तक्रियाग्रहणं कृतम् ॥ क्रियागां समुदाये तु पदैकत्वं विवक्षितम् । तदा कर्मक्रियायोगात्स्वाख्ययैवोपचर्यते ॥ भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्मादत्यर्थकर्मत्वे व्यभिचारो न. दृश्यते ॥ विकल्पेनैव सर्वत्र संज्ञे स्यातामुभे यदि । भारम्भेण न योगस्य प्रत्याख्यानं स भवेदिति ॥ अस्यार्थः । कर्म स्वा. ख्ययैव क्रियेप्सितत्वप्रयुक्तकर्मसंज्ञयैवोपचर्यते व्यग्रहियते । न