SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ १ पा. ८ आ. शब्दकौस्तुमः च । यत्त्वनुनासिकनिर्देशसामादित्संज्ञालोपौ प्रत्यसिद्धत्वं नेति । तन्न । तरुमलमित्यादौ हशिचेत्यस्य व्यावृत्तये अतोरोरित्यत्र सानुनासिकस्यैव निर्देशाभ्युपगमेन चारितार्थ्यात् । राम इत्यादावपि सानुनासिकश्रवणस्यापाद्यमानतया चारितार्थ्यस्य स्पष्टत्वादिति दिक् । तेन संयोगादिलोपलत्वयोरसिद्धताविरहास्थानिवत्वं भविष्यतीति सकलेष्टसिद्धिः॥ द्विवचनेचि ॥ रूपातिदेशोयम् । द्वित्वनिमित्ते ऽचि योजादेशः सः स्थानिवद्रूपं लभते द्वित्वे कर्तव्ये । चक्रतुः । चक्रुः । द्वित्वनिमित्तत्वेनाविशेषणादिह न । दुपति । सुस्यूषति । न ह्यूद् द्वित्वनिमित्तम् । नन्वेवं चक्रवारीत यणोपि स्थानिवद्भावो न स्यात् । अतुसो द्वित्वनिमित्तत्वेप्यकारस्यातथात्वात् । सूत्रन्तु चक्रे इत्यादौ सावकाशमिति । सत्यम् । इह निमित्तशब्देन साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकत्वमाश्रीयते न तु साक्षादेवेत्याग्रहः। लक्ष्यानुरोधात् । किञ्चसूत्रे निमित्तशब्दो नास्त्येव । किन्तु लक्षणया वा द्विरुच्यतेस्मिन्निति द्विवचनमिति व्युत्पत्त्या वा द्विवचनमस्त्यस्मिन्निति अर्शआधचा वा द्विवचननिमित्तं लब्धव्यम् । तच्च प्रकारत्रयं साक्षात्परम्परासाधारणे प्रयोजकेपि सुवचम् । एतच्च ठस्येक इति सूत्रे कैयटे स्पष्टम् । अत एव कर्णोतेः सनि सनीवन्तेतीट्पक्षे विभाषोोरिति डि. स्वविरहे ऊर्णनविषतीति सिद्धम् । सन्नन्तस्य द्वित्वविधानपि सनो द्वित्वप्रयोजकत्वेन तस्मिन् गुणावादेशयोर्द्वित्वे कर्तव्ये स्थानिवद्भावात् । तदुक्तम् । तद्भावभावितामात्रेणेह निमित्तत्वमिति । वस्तुतस्तु द्विवचनाक्षिप्तः प्रत्ययो ऽचीत्यनेन विशेष्यते । परस्मिनित्यनुवर्तते । अमीषां मध्ये देवदत्तात्परमानयेत्युक्ते यथा सजातीयन मनुष्यान्तरेणाव्यवहितः पर आनीयते । तथे
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy