Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
Catalog link: https://jainqq.org/explore/600150/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीयशोविजयउपाध्यायविरचित तत्त्वार्थदीपिकाभिधान-स्वोपज्ञवृत्तिविभूषित द्वात्रिंशद द्वात्रिंशिका प्रकरण प्रकाशक दिव्य दर्शन ट्रस्ट, धोळका. Page #2 -------------------------------------------------------------------------- ________________ |શ્રી શંખેશ્વરપાર્શ્વનાથાય નમઃ || મહોપાધ્યાયશ્રી યશોવિજયગણિ વિરચિત હાર્મિંશદ્રદ્ધાત્રિંશિક પ્રણ • દિવ્યાશિષ વર્ધમાનતપોનિધિ સંઘહિતચિંતક ન્યાયવિશારદ સ્વ.આ.શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજા • કૃપાદૃષ્ટિ સિદ્ધારદિવાકર ગીતાથશિરોમણિ ગચ્છાધિપતિ આ.શ્રીમદ્ વિજય જયઘોષસૂરીશ્વરજી મહારાજા • સંપાદક + સંશોધક • પદ્મમણિતીર્થોદ્ધારક પ્રવચનપ્રભાવક પંન્યાસપ્રવરશ્રી વિશ્વકલ્યાણવિજયજી ગણિવરના શિષ્ય મુનિ યશોવિજય - પ્રકાશક છે દિવ્ય દર્શન ટ્રસ્ટ ૩- કલિકંઠ સોસાયટી મકલીપર ચાર રસ્તા ધોળ કા જિ અમદાવાદ. પીન-૩૮૭૮૧0. For Private & Personal use only Page #3 -------------------------------------------------------------------------- ________________ સમર્પણ - જેમના રોમેરોમમાં જૈનશાસનની વફાદારી વણાયેલી છે, જેમના પ્રત્યેક રક્તબિંદુમાં જૈનસંઘએકતાની તમન્ના છવાયેલી છે, જેમનો દરેક શ્વાસ-ઉચ્છવાસ જૈનયુવાપેઢીને જાગૃત કરવા માટે છે, જેમના તમામ શબ્દોમાં આધ્યાત્મિકતાનું ઓજસ ઉભરાય છે, જેમની ઝીણી આંખોમાં આગમમર્મભેદી તેજ છલકાય છે. જેમની પ્રત્યેક સંયમચર્યામાં અપ્રમત્તત્તા-પવિત્રતા નજરાય છે, એવા વર્ધમાનતપોનિધિ સંઘહિતચિંતક આગમમર્મજ્ઞ સુવિશાલગચ્છાધિપતિ સ્વ.દાદાગુરુદેવ આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજના પવિત્ર કરકમલમાં સાદર સમર્પણ ( પ્રથમ આવૃતિ • • વિ.સં. ૨૦૬૦ • • ૫૦૦ નકલ • • ૨૦૦ રૂ. મૂલ્ય ) • સર્વહક્ક શ્રમણપ્રધાન શ્રી જૈન સંઘને આધીન • • પ્રાપ્તિસ્થાન :- (૧) પ્રકાશક (૨) લાલભાઈ ત્રિકમભાઈ, ૪૫૬, શાંતિનાથની પોળ, હાજા પટેલની પોળમાં, રિલિફ રોડ, અમદાવાદ-૩૮૦૦૦૧ મુદ્રકઃ શ્રી પાર્શ્વ કોમ્યુટર્સ ૫૮, પટેલ સોસાયટી, જવાહર ચોક, મણિનગર, અમદાવાદ-૮. ફોનઃ ૩૦૯૧૨૧૪૯ Jain Education Interational For Private & Personal use only Page #4 -------------------------------------------------------------------------- ________________ • પ્રાસ્તાવિક્મ. થોડાક સમય પૂર્વે જ મહોપાધ્યાયશ્રીયશોવિજયજી ગણિવરરચિત દ્વાત્રિંશદ્-દ્વાત્રિંશિકા ગ્રંથ સ્વોપજ્ઞવૃત્તિ, નયલતાવૃત્તિ તથા દ્વાત્રિંશિકાપ્રકાશ-ગુજરાતીવિવરણસહિત આઠ ભાગમાં શ્રી અંધેરી ગુજરાતી જૈન સંઘમુંબઈ તરફથી પ્રકાશિત થયો. આઠ ભાગમાં પુસ્તકાકારે છપાયેલ મહાકાય ગ્રંથરત્ન વિહારાદિમાં મહાત્માઓ ઊંચકી ન શકે તેમ જ જેમને ફક્ત મૂળગ્રંથ-સ્વોપજ્ઞ-વૃત્તિસહિત વાંચવો હોય તેમણે પણ આઠ ભાગ સાથે રાખવા પડે. આથી સ્વોપક્ષવૃત્તિયુક્ત દ્વાત્રિંશિકા પ્રકરણ મૂળ ગ્રંથનું શુદ્ધ સંસ્કરણ પ્રતાકારે છપાય તો વિહારાદિમાં મહાત્માઓને અનુકૂળ પડે -તેવી અનેક મહાત્માઓ તરફથી માંગણી આવી. તેને લક્ષમાં રાખીને, અનેક હસ્તપ્રતો તથા મુદ્રિતપ્રતોના આધારે સંશોધિત અને મુદ્રિત થયેલ, શ્રી અંધેરી ગુજરાતી જૈન સંઘ-મુંબઈ પ્રકાશિત દ્વાત્રિંશદ્ દ્વાત્રિંશિકા ગ્રંથના આધારે પ્રસ્તુત પ્રકાશન થઈ રહેલ છે. મહોપાધ્યાય યશોવિજયગણીરચિત સ્વોપશ-વૃત્તિયુક્ત દ્વાત્રિંશદ્ દ્વાત્રિંશિકા નામના પ્રસ્તુત ગ્રંથમાં ટિપ્પણમાં જે અશુદ્ધ પાઠ, પાઠાંતર, ત્રુટકપાઠ, અધિક પાઠ વગેરેની નોંધ આપેલ છે તે અંધેરી ગુજરાતી જૈન સંઘમુંબઈથી પ્રકાશિત થયેલ દ્વાત્રિંશિકા ગ્રંથ (આઠ ભાગ)ના આધારે દર્શાવેલ છે. તેની વાચકવર્ગે નોંધ લેવી. જ્ઞાનદ્રવ્ય દ્વારા પ્રસ્તુત ગ્રંથના મુદ્રણ આદિમાં શ્રી આંબાવાડી શ્વે.મૂર્તિપૂજક જૈન સંઘ-અમદાવાદ તરફથી સહર્ષ સંપૂર્ણ આર્થિક સહયોગ મળેલ છે તે બદલ આંબાવાડી સંઘના ટ્રસ્ટી ગણને ધન્યવાદ. પ્રસ્તુત ગ્રંથના માધ્યમથી વિશે વાચવર્ગ મોક્ષમાર્ગે હરણફાળ ભરે તેવી મંગળકામના. જિનાજ્ઞાવિરુદ્ધ લખાયું હોય તો ત્રિવિધ-ત્રિવિધ મિચ્છામિ દુક્કડમ્. માગ.વદ-૧૦ લિ. પૂજ્યપાદ વર્ધમાનતપોનિધિ સ્વ.ગચ્છાધિપતિ શ્રી ભુવનભાનુસૂરીશ્વરજી શ્રી પાર્શ્વનાથ જિનજન્મકલ્યાણક, મહારાજના શિષ્યરત્ન પૂજ્યપંન્યાસ પ્રવર શ્રી વિશ્વકલ્યાણવિજય ઓપેરા, અમદાવાદ. ગણિવરના શિષ્યાળુ મુનિ યશોવિજય Page #5 -------------------------------------------------------------------------- ________________ २९१ ३०९ ३२६ ३६२ વિષયમાર્ગદર્શિક : १. दानद्वात्रिंशिका १ | १७. दैव-पुरुषकारद्वात्रिंशिका २. देशनाद्वात्रिंशिका १८ | १८. योगभेदद्वात्रिंशिका ३. मार्गद्वात्रिंशिका ३३ | १९. योगविवेकद्वात्रिंशिका ४. जिनमहत्त्वद्वात्रिंशिका २०. योगावतारद्वात्रिंशिका ३४२ ५. भक्तिद्वात्रिंशिका २१. मित्राद्वात्रिंशिका ६. साधुसामग्र्यद्वात्रिंशिका २२. तारादित्रयद्वात्रिंशिका ३७८ ७. धर्मव्यवस्थाद्वात्रिंशिका २३. कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ३९५ ८. वादद्वात्रिंशिका १३४ २४. सदृष्टिद्वात्रिंशिका ४१४ ९. कथाद्वात्रिंशिका . क्लेशहानोपायद्वात्रिंशिका १०. योगलक्षणद्वात्रिंशिका १६९ २६. योगामाहात्म्यद्वात्रिंशिका ४४९ ११. पातंजलयोगलक्षणद्वात्रिंशिका | २७. भिक्षुद्वात्रिंशिका ४६९ १२. पूर्वसेवाद्वात्रिंशिका | २८. दीक्षाद्वात्रिंशिका ४८१ १३. मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका २९. विनयद्वात्रिंशिका ४९३ १४. अपुनर्बन्धकद्वात्रिंशिका २३२ | ३०. केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ५०३ १५. सम्यग्दृष्टिद्वात्रिंशिका ३१. मुक्तिद्वात्रिंशिका ईशानुग्रहविचारद्वात्रिंशिका २७४ ३२. सज्जनस्तुतिद्वात्रिंशिका ४३० २०६ P २ P Jain Education Interational For Private & Personal use only Page #6 -------------------------------------------------------------------------- ________________ htt ho to दा न द्वा त्रिं शि का १/१ श्रीयशोविजयोपाध्यायविरचितम् तत्त्वार्थदीपिकाऽभिधान-स्वोपज्ञव्याख्याऽलङ्कृतम् मुनियशोविजयेन संशोधितं सम्पादितञ्च द्वात्रिंशद्-द्वात्रिंशिका प्रकरणम् १. दानद्वात्रिंशिका ऐन्द्रवृन्दविनताङ्घ्रियामलं यामलं जिनपतिं समाश्रिताम् । योगिनोऽपि विनमन्ति भारतीं भारती मम ददातु सा सदा ।। श्रेयोभूतानेकशास्त्रार्थसङ्ग्रहं मनसिकृत्य द्वात्रिंशिकाप्रकरणमारभमाणो ग्रन्थकारो दानधर्मस्य प्राथम्येन परममङ्गलरूपत्वादादौ तद्वात्रिंशिकामाह ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ।।१।। ऐन्द्रेति - अनुकम्पासमन्वितं = अनुकम्पापूर्वकं दानं, इन्द्रस्य सम्बन्ध्यैन्द्रं यच्छर्म तत्प्रदम् (=ऐन्द्रशर्मप्रदम् ) । सांसारिकसुखान्तरप्रदानोपलक्षणमेतत् । स्वेष्टबीजप्रणिधानार्थं चेत्थमुपन्यासः । भक्त्या सुपात्रदानं तु जिनैः = भगवद्भिः मोक्षदं देशितं, तस्य बोधिप्राप्तिद्वारा भगवत्यां For Private Personal Use Only ।।१।। Page #7 -------------------------------------------------------------------------- ________________ । मोक्षफलकत्वाभिधानात् ।।१।। अनुकम्पाऽनुकम्प्ये स्याद् भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातृणामतिचारप्रसञ्जिका ॥२॥ अनुकम्पेति । अनुकम्पाऽनुकम्प्ये विषये, भक्तिस्तु 'पात्रे साध्वादौ सङ्गता स्यात् = समुचितफलदा स्यात् । अन्यथाधीस्तु = अनुकम्प्ये सुपात्रत्वस्य सुपात्रे चानुकम्प्यत्वस्य बुद्धिस्तु दातॄणामतिचारप्रसञ्जिका = अतिचारापादिका । अत्र यद्यपि सुपात्रत्वधियोऽनुकम्प्येऽसंयतादौ मिथ्यारूपतयाऽतिचारापादकत्वं युज्यते, सुपात्रेऽनुकम्प्यत्वधियस्तु न कथञ्चित्, तत्र ग्लानत्वादिदशायामन्यदापि च स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपानुकम्प्यत्वधियः प्रमात्वात्, तथापि स्वापेक्षया हीनत्वे सति स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपमनुकम्प्यत्वं तत्राप्रामाणिकमेवेति न दोषः । ___ अपरे त्वाहुः- तत्र प्रागुक्तं निर्विशेषणमनुकम्प्यत्वं प्रतीयमानं साहचर्यादिदोषेण यदा हीनत्वबुद्धिं जनयति तदैवातिचारापादकं, नान्यदा, अन्यथाधियो हीनोत्कृष्टयोरुत्कर्षापकर्षबुद्ध्याधानद्वारैव दोषत्वात् । अत एव → न चानुकम्पादानं साधुषु न सम्भवति, "आयरिय अणुकम्पाए गच्छो अणुकम्पिओ महाभागो" इति वचनाद् + (अष्टक २७/ १. हस्तादर्श :...सुपात्रे' इति अर्थत: शुद्धोऽपि मूलानुसारेणाऽशुद्धः पाठः । २. मुद्रितप्रतो 'बुद्धया...' इत्यशुद्धः पाठः। ३. हस्तप्रतौ ....कंपयाए...' इति पाठः । । ॥२ Jain Education Interational Page #8 -------------------------------------------------------------------------- ________________ ज ।। ३ वृ.) इति अष्टकवृत्त्यनुसारेणाचार्यादिष्वप्युत्कृष्टत्वधियोऽप्रतिरोधेऽनुकम्पाऽव्याहतेति । एतन्नये च सुपात्रदानमपि गृहीतृदुःखोद्धारोपायत्वेनेष्यमाणमनुकम्पादानमेव, साक्षा। त्स्वेष्टोपायत्वेनेष्यमाणं चान्यथेति बोध्यम् ।।२।। तत्राद्या दुःखिनां दुःखोद्दिधीर्षाल्पाऽसुखश्रमात् । पृथिव्यादौ जिनार्चादौ यथा तदनुकम्पिनाम् ।।३।। तत्रेति । तत्र = भक्त्यनुकम्पयोर्मध्ये आद्या = अनुकम्पा दुःखिना = दुःखार्तानां पुंसां दुःखोद्दिधीर्षा = दुःखोद्धारेच्छा, अल्पानामसुखं यस्मादेतादृशो यः श्रमस्तस्मात् (= दुःखोद्दिधीर्षाल्पाऽसुखश्रमात्) । इत्थं च वस्तुगत्या बलवदनिष्टाननुबन्धी यो दुःखिदुःखोद्धारस्तद्विषयिणी स्वस्येच्छाऽनुकम्मेति फलितम्। उदाहरति- यथा जिनार्चादी कार्ये पृथिव्यादौ विषये तदनुकम्पिनां ='इत्थम्भूतभगवत्पूजाप्रदर्शनादिना प्रतिबुद्धाः सन्तः षट्कायान् रक्षन्त्वि'ति परिणामवतामित्यर्थः । यद्यपि जिनार्चादिकं भक्त्यनुष्ठानमेव, तथापि तस्य सम्यक्त्वशुद्ध्यर्थत्वात् तस्य चानुकम्पालिङ्गकत्वात् तदर्थकत्वमप्यविरुद्धमेवेति, पञ्चलिङ्ग्यादावित्थं व्यवस्थितेरस्माभिरप्येवमुक्तम् ।।३।। अल्पासुखश्रमादित्यस्य कृत्यमाह - स्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसाम् । तत्रानुकम्पा न मता यथेष्टापूर्तकर्मसु ।।४।। १. हस्तादर्श 'एतन्नये' नास्ति । २. हस्तादर्श'... दिकार्ये' इत्यशुद्धः पाठः । ३. 'व्यस्थि...' इत्यशुद्धः पाठो हस्तादर्श। ।।३।। Jain Education Intemational Page #9 -------------------------------------------------------------------------- ________________ To It To For स्तोकानामिति- स्पष्ट: । नवरमिष्टापूर्तस्वरूपमेतत्ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ।। वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ।। (योगदृष्टिससमुच्चय ११६-११७) इति ।।४।। नन्वेवं कारणिकदानशालादिकर्मणोऽप्युच्छेदापत्तिरित्यत आह - पुष्टालम्बनमाश्रित्य दानशालादिकर्म यत् । तत्तु प्रवचनोन्नत्या बीजाधानादिभावतः ।।५।। बहूनामुपकारेण नानुकम्पानिमित्तताम् । अतिक्रामति तेनात्र मुख्यो हेतुः शुभाशयः ॥६॥ पुष्टालम्बनमिति । पुष्टालम्बनं = सद्भावकारणं आश्रित्य यद्दानशालादिकर्म प्रदेशिसम्प्रतिराजादीनां, तत्तु प्रवचनस्य प्रशंसादिना उन्नत्या (= प्रवचनोन्नत्या बीजाधानादिभावतः) बीजाधानादीनां भावतः = सिद्धेर्लोकानाम् ।।५।। बहूनामिति । ततो निर्वृतिसिद्धेः बहूनामुपकारेणानुकम्पानिमित्ततां नातिक्रामति । तेन कारणेन अत्र = अनुकम्पोचितफले मुख्यः शुभाशयो हेतुः, दानं तु गौणमेव, 'वेद्यसंवेद्यपदस्थ एव तादृगाशयपात्रं, तादृगाशयानुगम एव च निश्चयतोऽनुकम्पेति फलितम् १. हस्तादर्श 'वैद्य...' इत्यशुद्धः पाठः । ।।४।। Jain Education Interational Page #10 -------------------------------------------------------------------------- ________________ ho tt has its 2 दा न द्वा त्रिं शि का १/९ ।। ६ ।। एतदेव नयप्रदर्शनपूर्वं प्रविवेचयति क्षेत्रादि व्यवहारेण दृश्यते फलसाधनम् । निश्चयेन पुनर्भावः केवलः फलभेदकृत् ॥ ७ ॥ क्षेत्रादीति । व्यवहारेण पात्रादिभेदात् फलभेदो, निश्चयेन तु तत्त्वम्।।७।। कालालम्बनस्य पुष्टत्वं स्पष्टयितुमाह Eraseraft लाभाय नाकाले कर्म बह्वपि । - भाववैचित्र्यादेवेति वृष्टौ वृद्धिः कस्यापि कणकोटिर्वृथान्यथा ।।८।। काल इति । स्पष्टः ।।८।। अवसरानुगुण्येनानुकम्पादानस्य प्राधान्यं भगवद्दृष्टान्तेन समर्थयितुमाह धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ॥ ९ ॥ धर्मांत्वमिति । अत एव = कालेऽल्पस्यापि लाभार्थत्वादेव दानस्य = अनुकम्पादानस्य धर्माङ्गत्वं स्फुटीकर्तुं भगवानपि व्रतं गृह्णन् संवत्सरं वसु ददौ । ततश्च महता धर्मावसरेऽनुष्ठितं सर्वस्याप्यवस्थौचित्ययोगेन धर्माङ्गमिति स्पष्टीभवतीति भावः । तदाह १. मुद्रितप्रतौ 'प्रञ्च...' इति पाठान्तरम् । १. हस्तादर्शे 'भाववैदेवे 'ति त्रुटितः पाठः । १. हस्तादर्शे ' .... लवस्या...' इति पाठः । सोऽपि शुद्धः । 11411 Page #11 -------------------------------------------------------------------------- ________________ - के धर्माङ्गख्यापनार्थं च दानस्यापि महामतिः । अवस्थौचित्ययोगेन सर्वस्यैवानुकम्पया ।। ।। (अष्टक.२७/३) इति ।।९।। नन्वेवं साधोरप्येतदापत्तिरित्यत आह - साधुनापि दशाभेदं प्राप्यैतदनुकम्पया । दत्तं ज्ञाताद् भगवतो रङ्कस्येव सुहस्तिना ॥१०॥ साधनापीति । साधनापि = महाव्रतधारिणापि दशाभेदं प्राप्य = पष्टालम्बनमाश्रित्य एतद् = दानं अनुकम्पया दत्तं, सुहस्तिनेव रङ्कस्य, तदाह- 'श्रूयते चागमे आर्यसुहस्त्याचार्यस्य रङ्कदानमिति । कुतः? इत्याह- "भगवतः श्रीवर्धमानस्वामिनो ज्ञातात् । तदुक्तं 'ज्ञापकं चात्र भगवान्निष्क्रान्तोऽपि द्विजन्मने। देवदूष्यं ददद्धीमाननुकम्पाविशेषतः ।।' (अष्टक २७/ ५) इति। प्रयोगश्चात्र - ‘दशाविशेषे यतेरसंयताय दानमदुष्टं, अनुकम्पानिमित्तत्वात्, भगवद्द्विजन्मदानवद्' इत्याहुः ।।१०।। न चाधिकरणं ह्येतद्विशुद्धाशयतो मतम् । ___ अपि त्वन्यद्गुणस्थानं गुणान्तरनिबन्धनम् ।।११।। न चेति । न चैतत् = कारणिकं यतिदानं (हि) अधिकरणं मतं, अधिक्रियते ।।६।। आत्माऽनेनाऽसंयतसा-मर्थपोषणत इत्यधिकरणम् । कुतः ? इत्याह - विशुद्धाशयतः = अवस्थौचित्येनाशयविशुद्धेः, भावभेदेन कर्मभेदात् । अनर्थाऽसम्भवमुक्त्वाऽर्थप्राप्तिमप्याह- 'अपि Jain Education Interational Page #12 -------------------------------------------------------------------------- ________________ // तु' इत्यभ्युच्चये । अन्यद् = अधिकृतगुणस्थानकान्मिथ्यादृष्टित्वादेरपरमविरतसम्यग्दृष्ट्यादिकं गुणानां = ज्ञानादीनां स्थानं (= गुणस्थानं) मतं गुणान्तरस्य सर्वविरत्यादेर्निबन्धनम् (= गुणान्तरनिबन्धनम्) ।।११।। नन्वेवं 'गिहिणो वेयावडिअं न कुज्जा' (दशवैकालिक-चूलिका २/९) इत्याद्यागमविरोध इत्यत आह वैयावृत्त्ये गृहस्थानां निषेधः श्रूयते तु यः । स औत्सर्गिकता' बिभ्रन्नैतस्यार्थस्य बाधकः ॥१२॥ वैयावृत्त्य इति । गृहस्थानां वैयावृत्त्ये तु साधोः निषेधः यः श्रूयते, स औत्सर्गिकतां बिभ्रन्नैतस्य आपवादिकस्य अर्थस्य बाधकः । अपवादो ह्युत्सर्गं बाधते, न तूत्सर्गोऽपवादमिति ।।१२।। सूत्रान्तरं समाधत्ते ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि सङ्गतः । विहाय विषयो मृग्यो दशाभेदं विपश्चिता ।।१३।। ये त्विति । ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि- 'जे या दाणं पसंसंति वहमिच्छंति पाणिणं । जे अ णं पडिसेहंति वित्तिच्छेअं करेंति ते ।। (सूत्रकृताड्ग १/११/२०) इति ।। ।।७।। १. हस्ताद” ....कतं..' इत्यशुद्धः पाठः । १. मुद्रितप्रतौ 'उ' इति पाठः । ३. हस्तादर्श 'करिति' इति पाठान्तरम् । मुद्रितप्रतौ च 'करंति' इति पाठान्तरम् । Jain Education Interational Page #13 -------------------------------------------------------------------------- ________________ Foto&to a दा न द्वा त्रिं शि का १/१५ सूत्रकृतसूत्रेऽपि दशाभेदं विहाय सङ्गतः = युक्तो विषयो विपश्चिता मृग्यः = ऐदम्पर्यशुद्ध्या विचारणीयः । न तु पदार्थमात्रे मूढतया भाव्यं, अपुष्टालम्बनविषयतयैवास्योपपादनात् । आह च- 'ये तु दानं प्रशंसन्तीत्यादि सूत्रं तु यत्स्मृतम् । अवस्थाभेदविषयं द्रष्टव्यं तन्महात्मभिः' ।। (अष्टक २७ / ७ ) इति ।। १३ ।। पुनः शङ्क नन्वेवं पुण्यबन्धः स्यात्साधोर्न च स इष्यते । पुण्यबन्धान्यपीडाभ्यां छन्नं भुङ्क्ते यतो यतिः ।। १४ ।। नन्विति । नन्वेवं = अपवादतोऽपि साधोरनुकम्पादानेऽभ्युपगम्यमाने पुण्यबन्धः स्यात्, अनुकम्पायाः सातबन्धहेतुत्वात् । न च स पुण्यबन्ध इष्यते साधोः । यतः = यस्माद् यतिः पुण्यबन्धान्यपीडाभ्यां 'हेतुभ्यां छन्नं भुङ्क्ते || १४ || एतदेव स्पष्टयति दीनादिदाने पुण्यं स्यात्तददाने च पीडनम् । शक्तौ पीडाsप्रतीकारे शास्त्रार्थस्य च बाधनम् ।।१५।। दीनादीति । प्रकटं भोजने दीनादीनां याचमानानां दाने ( = दीनादिदाने) पुण्यं स्यात्, न चानुकम्पावांस्तेषामदत्त्वा कदापि भोक्तुं शक्नोति', अतिधाष्टर्यमवलम्ब्य कथञ्चित् तेषामदाने च ( = तददाने च ) पीडनं स्यात् तेषां तदानीमप्रीतिरूपं शासनद्वेषात्परत्र १. मुद्रितप्रतौ ' हेतुभ्यां' पदं नास्ति । २. मुद्रितप्रतौ शक्तः' इति पाठः । ३. हस्तादर्शे 'दानं च' इत्यशुद्धः पाठः । ||८| Page #14 -------------------------------------------------------------------------- ________________ shor ।। च कुगतिसङ्गतिरूपम्। 'तदप्रीतिदानपरिणामाभावान्न दोषो भविष्यती' त्याशङ्क्याह-शक्ती सत्यां पीडायाः = परदुःखस्य अप्रतीकारे = अनुद्धारे च ( = पीडाऽप्रतीकारे च) शास्त्रार्थस्य = पराप्रीतिपरिहारप्रयत्नप्रतिपादनरूपस्य बाधनं, रागद्वेषयोरिव शक्तिनिगृहनस्यापि चारित्र| प्रतिपक्षत्वात् । प्रसिद्धोऽयमर्थः सप्तमाष्टके ।।१५।। किं च दानेन भोगाप्तिस्ततो भवपरम्परा । धर्माधर्मक्षयान्मुक्तिर्मुमुक्षोर्नेष्टमित्यदः ।।१६।। किं चेति । किं च दानेन हेतुना भोगाप्तिः भवति, ततो भवपरम्परा, मोहधारावृद्धेः । तथा 'धर्माधर्मयोः = पुण्यपापयोः क्षयान्मुक्तिः' (= धर्माधर्मक्षयान्मुक्तिः) इति हेतोः अदः II = अनुकम्पादानं मुमुक्षोर्नेष्टम् ।।१६।। सिद्धान्तयति नैवं यत्पुण्यबन्धोऽपि धर्महेतुः शुभोदयः । वढेर्दाह्यं विनाश्येव नश्वरत्वात्स्वतो मतः ।।१७।। नैवमिति। नैवं यथा प्रागुक्तः, यद् = यस्मात् पुण्यबन्धोऽपि शुभोदयः = सद्विपाको धर्महेतुर्मतः तद्धेतुभिरेव दशाविशेषेऽनुषङ्गतः पुण्यानुबन्धिपुण्यसम्भवात्, प्राणातिपातविरमणादौ तथाऽवधारणात् । न चायं मुक्तिप्रतिपन्थी', दाह्यं विनाश्य वहनेरिव तस्य पापं विनाश्य १. मुद्रितप्रतौ .र्थ स...' इत्यशुद्धः पाठः । २. हस्तादर्श 'क्षोर्न' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'नुषंगः ॥ पु'.... इत्यशुद्धः पाठः । ४. मुद्रितप्रती '...परिपन्थी...' इति पाठः । सोऽपि शुद्धः । ।।९।। Jain Education Intemational For Private & Personal use only Page #15 -------------------------------------------------------------------------- ________________ ।। स्वतो नश्वरत्वात् = नाशशीलत्वात् । शास्त्रार्थाऽबाधेन निर्जराप्रतिबन्धपुण्यबन्धाभावान्नात्र || दोष इति गर्भार्थः ।।१७।। भोगाप्तिरपि नैतस्मादभोगपरिणामतः । मन्त्रितं श्रद्धया पुंसां जलमप्यमृतायते ।।१८।। भोगाप्तिरिति । भोगाप्तिरपि नैतस्माद् = आपवादिकानुकम्पादानात्, अभोगपरिणामतः = भोगानुभवोपनायकाध्यवसायाभावात् । दृष्टान्तमाह- मंत्रितं जलमपि पुंसां श्रद्धया = भक्त्या अमृतायते = अमृतकार्यकारि भवति । एवं हि भोगहेतोरप्यत्राध्यवसायविशेषाद् भोगानुपनतिरुपपद्यत इति भावः ।।१८।। नन्विदं हरिभद्रसम्मत्या भवद्भिर्व्यवस्थाप्यते, तेनैव चाभिनिविश्योक्तमित्याशङ्क्याह न च स्वदानपोषार्थमुक्तमेतदपेशलम्। 'हरिभद्रो ह्यदोऽभाणीद् यतः संविग्नपाक्षिकः ॥१९॥ न चेति । न च स्वदानस्य = स्वीयासंयतदानस्य पोषार्थं = समर्थनार्थं ( = स्वदानपोषार्थ) उक्तमेतद् अपेशलं = असुन्दरम् । यतः = यस्मात् संविग्नपाक्षिको हरिभद्रोऽदः = प्रागुक्तं हि = निश्चितं अभाणीत् । न हि संविग्नपाक्षिकोऽनृतं ब्रूते । तदुक्तं सप्तविंशतितमाष्टकविवरणे१. मुद्रितप्रतौ इदं पदं नास्ति । २. हस्तादर्श ...बन्धपुण्य..' इति पाठः । ३. हस्तप्रतौ 'हरिदो' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘णीद्योतः' इत्यशुद्धः पाठः । ५. हस्तादर्श ...भाणी' इत्यशुद्धः पाठः ।। ॥॥१०॥ Jain Education Interational For Private & Personal use only Page #16 -------------------------------------------------------------------------- ________________ जो । 'स्वकीयासंयतदानसमर्थनागर्भार्थकमिदं प्रकरणं सूरिणा कृतमिति केचित्कल्पयन्ति, हरि भद्राचार्यो हि भोजनकाले 'शङ्खवादनपूर्वकमर्थिभ्यो भोजनं दापितवानिति श्रूयते । न चैतत्सम्भाव्यते, संविग्नपाक्षिको ह्यसौ, न च संविग्नस्य तत्पाक्षिकस्य वाऽनागमिकार्थोपदेशः सम्भवति, तत्त्वहानिप्रसङ्गात् । आह च- “संविग्गोऽणुवएसं ण देइ दुब्भासिअं कडुविवागं। जाणतो तम्मि तहा अतहक्कारो उ मिच्छत्तं ॥” (पंचा.१२/१७) इति' (अष्टक २७/७ वृत्ति) ।।१९।। भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः। तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् ॥२०॥ भक्तिस्त्विति । भक्तिस्तु स्वस्य सुपात्रतो भवनिस्तारवाञ्छा । आराध्यत्वेन ज्ञानं भक्तिः, आराधना च •गौरवितप्रीतिहेतुः क्रिया• 'गौरवितसेवा 'चेत्येतदपि फलतो नैतल्लक्षणमतिशेते। तया = भक्त्या सुपात्राय दत्तं बहुकर्मक्षये क्षमं = समर्थं भवति ।।२०।। तथाहि- पात्रदानचतुर्भङ्ग्यामाद्यः संशुद्ध इष्यते । द्वितीये भजना शेषावनिष्टफलदौ मतौ ॥२१॥ १. हस्तादर्श 'शंखवादिनःपू...' इत्यशुद्धः पाठः । २. संविग्नोऽनुपदेशं न ददाति दुर्भाषितं कटुविपाकम् । जानानस्तस्मिंस्तथाऽतथाकारस्तु मिथ्यात्वम् ।। ३. हस्तप्रतौ 'क्षमा' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ४. हस्तादर्श ‘गौरववात..' इत्यशुद्धः पाठः । ५. हस्तादर्श ‘एत...' इति पाठः। १/२१ ।।११।। Jain Education Interational Page #17 -------------------------------------------------------------------------- ________________ जज । पात्रेति । पात्रदानविषयिणी या चतुर्भगी- संयताय शुद्धदानं, संयतायाशुद्धदानं, असंयताय शुद्धदानं, असंयतायाशुद्धदानं इत्यभिलापाः । तस्यां ( = पात्रदानचतुर्भङ्ग्यां) आद्यो भङ्गः सम्यग् = अतिशयेन शुद्ध (= संशुद्ध) इष्यते, निर्जराया एव जनकत्वात् । (द्वितीये = ) द्वितीयभङ्गे कालादिभेदेन 'फलभावाभावाभ्यां भजना विकल्पात्मिका । शेषौ = तृतीयचतुर्थभङ्गौ अनिष्टफलदौ एकान्तकर्मबन्धहेतुत्वान्मतौ ।।२१।। "शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् । सानुबन्धं न बध्नाति पापं बद्धं च मुञ्चति ।।२२।। शुद्धमिति । सुपात्राय = प्रतिहतप्रत्याख्यातपापकर्मणे शुद्धं अन्नादिकं दत्त्वा सानुबन्धस्य = पुण्यानुबन्धिनः शुभस्य = पुण्यस्यार्जनात् ( = सानुबन्धशुभार्जनात्) सानुबन्धं = अनुबन्धसहितं पापं न बध्नाति । बद्धं च पूर्वं पापं मुञ्चति = त्यजति । इत्थं च पापनिवृत्तौ प्रयाणभङ्गाप्रयोजकपुण्येन मोक्षसौलभ्यमावेदितं भवति ।।२२।। भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्यापि दानं हि द्वयोर्लाभाय नान्यथा ।।२३।। भवेदिति । पात्रविशेषे वा आगमाभिहितस्वरूपक्षपकादिरूपे, कारणे वा तथाविधे १. हस्तादर्श ‘असंयताय शुद्धदानं' इति पाठो नास्ति । २. मुद्रितप्रतौ ....पा त...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'फल' नास्ति । ४. हस्तादर्श 'शुद्ध' इत्यशुद्धः पाठः । ५. हस्तादर्श '...माचदितं' इत्यशुद्धः पाठः ।। ।।१२।। Jain Education Interational Page #18 -------------------------------------------------------------------------- ________________ ।। = दुर्भिक्षदीर्घाध्वग्लानत्वादिरूपे आगाढे अशुद्धस्यापि दानं हि सुपात्राय द्वयोः = दातृगृहीत्रोः लाभाय भवेत्, दातुर्विवेकशुद्धान्तःकरणत्वात्, ग्रहीतुश्च गीतार्थादिपदवत्त्वात् । नान्यथा = पात्रविशेषस्य कारणविशेषस्य वा विरहे ।।२३।। नन्वेवं संयतायाशुद्धदाने फले द्वयोर्भवतु भजना, दातुर्बहुतरनिर्जराऽल्पतरपापकर्मबन्धभागित्वं तु भगवत्युक्तं कथम् ? अपवादादावपि भावशुद्ध्या फलाविशेषाद्-इत्यत आह अथवा यो गृही मुग्धो लुब्धकज्ञात'भावितः । तस्य' तत्स्वल्पबन्धाय बहुनिर्जरणाय च ॥२४॥ ___ अथवेति । अथवा पक्षान्तरे । यो गृही मुग्धः = अगृहीतदानशास्त्रार्थों लुब्धकज्ञातेन 'मृगेषु लुब्धकानामिव साधुषु श्राद्धानां यथाकथञ्चिदन्नाद्युपढौकनेनानुधावनमेवयुक्तमिति पार्श्वस्थप्रदर्शितेन भावितः = वासितः ( = लुब्धकज्ञातभावितः) तस्य तत = संयतायाशुद्धदानं तु' मुग्धत्वादेव (स्वल्पबन्धाय = ) स्वल्पपापबन्धाय (बहुनिर्जरणाय च = ) बहुकर्मनिर्जरणाय च भवति ।।२४।। इत्थमाशयवैचित्र्यादत्राल्पायुष्कहेतुता । युक्ता चाशुभदीर्घायुहेतुता सूत्रदर्शिता ।२५।। १. हस्तप्रती 'ज्ञाति...' इत्यशुद्धः पाठः । २. हस्तादर्श 'तस्यैत...' इति पाठः । ३. मुद्रतिप्रतौ 'असच्छास्त्रार्थ' इत्यशुद्धः पाठः । ४. हस्तादर्श 'मृगेषु' नास्ति । ५. हस्तादर्श 'तु' नास्ति । ।।।१३।। Jain Education Interational For Private & Personal use only Page #19 -------------------------------------------------------------------------- ________________ ___ इत्थमिति । इत्थं = अमुना प्रकारेण आशयवैचित्र्यात् = भावभेदात् अत्र = संयताशुद्धदाने अल्पायुष्कहेतुताऽशुभदीर्घायुहेतुता' च सूत्रदर्शिता = स्थानाङ्गायुक्ता युक्ता, मुग्धाभिनिविष्टयोरेतदुपपत्तेः, शुद्धदायकापेक्षयाऽशुद्धदायके मुग्धेऽल्पशुभायुर्बन्धसम्भवात्, क्षुल्लकभवग्रहणरूपाया अल्पतायाश्च सूत्रान्तरविरोधेनासम्भवादिति व्यक्तमदः स्थानाङ्गवृत्त्यादौ (सू.१२५) ।।२५।। यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिगोचरं वदेत् । तेनात्र भजनासूत्रं दृष्टं सूत्रकृते कथम् ? ॥२६॥ यस्त्विति । यस्तु आधाकर्मिकस्यैकान्तदुष्टत्वं मन्यमानः प्रकृतेऽर्थे प्रज्ञप्तिगोचरं = भगवतीविषयं उत्तरगुणाशुद्धं वदेत्, शक्यपरित्यागबीजादिसंसक्तान्नादिस्थलेऽप्यप्रासुकानेषणीयपदप्रवृत्तिदर्शनात् । तेन चैवं यूकापरिभवभयात् परिधानं परित्यजता अत्र = विषये सूत्रकृते भजनासूत्रं कथं द्रष्टम्? एवं हि तदनाचारसूत्रे श्रूयते "अहागडाई(कम्माणि) जंति अन्नमन्ने सकम्मणा । उवलित्ते वियाणिज्जा अणुवलित्तेत्ति वा पुणो ।। (सूत्रकृताङ्ग द्वि.श्रु.५-८) । अत्र ह्याधाकर्मिकस्य फले भजनैव व्यक्तीकृता, 'अन्योऽन्यं' पदग्रहणेनार्थान्तरस्य कर्तुमशक्यत्वात, स्वरूपतोऽसावद्ये भजनाव्युत्पादनस्य "अनतिप्रयोजनत्वाच्चेति सक्षेपः ।।२६।। १. हस्ताद” '....तुतादी...' इति त्रुटितः पाठः । २. हस्तादर्श 'क्षुल्लकग्रहण...' इत्येवं त्रुटितः पाठः । ३. हस्तादर्श '...संसृक्त..' इत्यशुद्धः पाठः । ४. यथाकृतानि कर्माणि भुञ्जन्ति अन्योऽन्यं स्वकर्मणा । उपलिप्तान् विजानीयात् अनुपलिप्तानिति वा पुनः ।। ५. हस्तादर्श 'अतिप्र....' इत्यशुद्धः पाठः । ।।१४।। Jain Education Interational For Private & Personal use only Page #20 -------------------------------------------------------------------------- ________________ शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नानुकम्पया ।।२७।। शुद्धं वेति । असंयताय यच्छुद्धं वाऽशुद्धं वा गुरुत्वबुद्ध्या प्रदीयते तद् असाधुषु | साधुसंज्ञया कर्मबन्धकृत् । न पुनः अनुकम्पया, अनुकम्पादानस्य क्वाप्यनिषिद्धत्वात्, 'अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धम्" (समरादित्यकथा-भव-३/पृ.१९४) इति वचनात् ।।२७।। दोषपोषकतां ज्ञात्वा तामुपेक्ष्य ददज्जनः। प्रज्वाल्य चन्दनं कुर्यात्कष्टामङगारजीविकाम ।।२८ ।। अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया । तत् त्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथापरः।।२९।। 'दोषेति- 'अत' इति-स्पष्टौ ।।२८।।२९।। एतेषां 'दानमेतत्स्थगुणानामनुमोदनात् । "औचित्यानतिवृत्त्या च सर्वसम्पत्करं मतम् ।।३०।। एतेषामिति । एतेषां = मुनि-श्राद्ध-सम्यग्दृशां दानं एतत्स्थानां = एतद्वृत्तीनां गुणानां १. अनुकम्पादानं पुनर्जिनैर्न कदापि प्रतिषिद्धम् । २. हस्तादर्श '...विताम्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'दानमेमे...' इत्यशुद्धः पाठः । ४. 'अचि...' इत्यशुद्धः पाठो हस्तप्रतौ। ५. हस्तादर्श 'शां दानं' इति नास्ति। ।।।॥१५॥ Jain Education Interational Page #21 -------------------------------------------------------------------------- ________________ ।। (= एतत्स्थगुणानां) अनुमोदनात्, तद्दानस्य तद्भक्तिपूर्वकत्वात्, औचित्यानतिवृत्त्या = स्वाचारानुल्लङ्घनेन च सर्वसम्पत्करं = ज्ञानपूर्वकत्वेन परम्परया महानन्दप्रदं मतम् ।।३०।। शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनर्नानिष्टो यतनावतः ॥३१॥ शुभयोगेऽपीति । पात्रदानबद्धबुद्धीनां साधर्मिकवात्सल्यादौ शुभयोगेऽपि = प्रशस्तव्यापारेऽपि यः कोऽपि द्रव्यतः दोषो जायते स (पुनः) कूपज्ञातेन = आगमप्रसिद्धकूपदृष्टान्तेन यतनावतः = यतनापरायणस्य नानिष्टः, स्वरूपतः सावद्यत्वेऽप्यनुबन्धतो निरवद्यत्वात् । तदिदमुक्तम् ‘जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला अज्झत्थविसोहिजुत्तस्स ।। (ओ.नि.७५९, पिं.नि.६७१) अत्र हि अपवादपदप्रत्ययाया विराधनाया १/३१ व्याख्यानात् फलभेदौपयिको ज्ञान-पूर्वकत्वेन 'क्रियाया भेद एव लभ्यते ।। यत्तु 'वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवघातपरिणामाऽजन्यत्वेन जीवविराधनायाः प्रति-बन्धकाभावत्वेनैवात्र हेतुत्वमिति' कश्चिदाह साहसिकः तस्यापूर्वमेव व्याख्यानमपूर्वमेव चागमतर्ककौशलं, केवलायास्तस्याः प्रतिबन्धकत्वाभावात्, जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे च विशेषणाऽभावप्रयुक्तस्य विशिष्टाभावस्य शुद्ध विशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य १. हस्तादर्श '...पूर्वत्वादिति पाठान्तरम् । २. हस्तादर्श ‘महंमहा...' इत्यधिकोऽशुद्धश्च पाठः । ३. हस्तादर्श 'यतनीयत' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'दानवबु...' इति पाठः । ५. "क्रियाभेद' इति मुद्रितप्रतौ पाठः । सोऽपि शुद्धः । भर 4 ।।।।१६।। Jain Education Interational Page #22 -------------------------------------------------------------------------- ________________ तस्य शुद्ध विशेषणरूपस्यापि सम्भवाज्जीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येत । अथ वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत् ? किमेतद् विराधनापदप्रवृत्तिनिमित्तं विशेषणं वा ? आद्ये 'प्रवृत्तिनिमित्तं 'नास्ति, पदं चोच्यते' इत्ययमुन्मत्तप्रलापः । अन्त्ये चोक्तदोषतादवस्थ्यमिति २शिष्यध्यन्धनमात्रमेतत् । अथ 'यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिरिति नियमाद 'वर्जनाऽभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यते, इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वमक्षतमिति चेत् ? न, प्रकृतविराधनाव्यक्तौ जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वात् । अत एव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्य अपि तद्धानस्यानुपपत्तेः । स्यादेतत् वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमिति ? ___ मैवं, विशेषणविशेष्यभावे विनिगमनाविरहात्, अन्यथा दोषाभावविशिष्टबाधत्वेनैव दुष्टज्ञाने प्रतिबन्धकत्वप्रसङ्गात्, विशेष्याभावस्थलेऽतिप्रसङ्गाच्च । १. 'नास्तिपदं चोच्यत' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'शिष्यधंध...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'लभते' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'तद्दान...' इत्यशुद्धः पाठः । १/३१ ।।१७।। Jain Education Interational For Private & Personal use only Page #23 -------------------------------------------------------------------------- ________________ तस्माद्वर्जनाभिप्रायस्यैव फलविशेषे निश्चयतो हेतुत्वम् । व्यवहारेण च तत्तद्व्यक्तीनां भावानुगतानां निमित्तत्वमिति साम्प्रतम् । विपञ्चितं । चेदमन्यत्रेति नेह विस्तरः ।।३१।।। इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग भवेत् ।।३।। इत्थमिति स्पष्टः ।।३२।। ।। इति दानद्वात्रिंशिका ।।१।। ॥ अथ देशनाद्वात्रिंशिका ॥२॥ आद्यायां द्वात्रिंशिकायां दानमुक्तं, तदन्तरायभीरुत्वं च मुख्यो गुणः, तच्च देशनाविवेकनिह्यमितीयमधुना विविच्यते यथास्थानं गुणोत्पत्तेः सुवैद्येनेव भेषजम् । बालाद्यपेक्षया देया देशना क्लेशनाशिनी ॥१॥ ।।।।१८।। यथास्थानमिति । सुवैद्येन भेषजमिव बालाद्यपेक्षया = बालाद्यानुगुण्येन देशना देया साधुनेति शेषः। किंभूता ? क्लेशनाशिनी = भावधातुसाम्येन दोषापहा । कुतः ? || Jain Education Interational For Private & Personal use only Page #24 -------------------------------------------------------------------------- ________________ इत्याह यथास्थानं = स्थानमनतिक्रम्य गुणोत्पत्तेः । यथाहि सदप्यौषधं तरुणादियोग्यं बालादीनां न गुणाय तथा धर्मदेशनाऽपि' मध्यमादियोग्या बालादीनां न गुणाय, इति यथास्थानमेतन्नियोगो' न्याय्यः ।।१।। विपक्षे बाधमाह उन्मार्गनयनात् पुंसामन्यथा वा कुशीलता । सन्मार्गद्रुमदाहाय वह्निज्वाला प्रसज्यते ॥२॥ उन्मार्गेति । अन्यथा = यथास्थानं देशनाया अदाने पुंसांध्यांध्यकरणद्वारेण उन्मार्गनयनात् वा कुशीलता प्रसज्यते । किम्भूता ? सन्मार्गद्रुमाणां दाहाय (=सन्मार्गद्रुमदाहाय) वहिलज्वाला, 'अनाभोगेनापि स्वतः परेषां मार्गभेदप्रसङ्गस्य प्रबलापायहेतुत्वादिति भावः ।।२।। नन्वेवं, 'न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ।।' इति वाचकवचनं (तत्त्वार्थकारिका-२९) व्याहन्येत। अतः खल्वनुग्रहधियाऽऽगमार्थोपदेशमात्रमेवेष्टसाधनतया प्रतीयते, श्रोतुर्भावस्तु दुर्ग्रहः- इत्याशङ्कायामाह अनुग्रहधिया वक्तुर्धर्मित्वं नियमेन यत् । भणितं तत्तु देशादिपुरुषादिविदं प्रति ।।३।। १. हस्तादर्श :...शनादि' इति पाठः । २. हस्तादर्श '...योग्या' इत्यशुद्धः पाठः । ३. हस्तादर्श '..च्च कु...' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘प्रसद्यते' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भोगेना..' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'त्वेकाततो' इत्यशुद्धः पाठः । ||१९।। Jain Education Intemational Page #25 -------------------------------------------------------------------------- ________________ । अनुग्रहेति । अनुग्रहधिया वक्तुः = धर्मोपदेष्टुः धर्मित्वं = निर्जराभागित्वं नियमेन | = एकान्तेन यद् भणितं, तत्तु (देशादि-पुरुषादिविदं=) देशादीन् पुरुषादींश्च वेत्ति यस्तं प्रति, न तु तज्ज्ञाने शक्तिमस्फोरयन्तं प्रति' ।।३।। ___ ननु पुरुषादिभेदेन देशनाभेदो न युक्तः, राजरङ्कयोरेकरूपेणैव देशनाविधानात् । तथा च आचारसूत्रं- "जहा पुण्णस्स कत्थई • तहा तुच्छस्स कत्थई, जहा तुच्छस्स कत्थई तहा पुण्णस्स कत्थई' (आचारांग सू.१०१ पत्र १४५) त्ति । सूत्रोल्लङ्घनं च महतेऽनय इत्याशङ्क्याह कोऽयं पुरुष इत्यादिवचनादत एव च । पर्षदादिविवेकाच्च व्यक्तो मन्दस्य निग्रहः ।।४।। कोऽयमिति। अत एव च = विपर्यये दोषादेव च 'कोऽयं पुरुषः ?' इत्यादिवचनात् नन्द्यावश्यकादौ (पर्षदादिविवेकात्=) पर्षदादीनां विवेकाद् = विवेचनात् च मन्दस्य = देशादिपुरुषादिज्ञानाभाववतो वक्तुः निग्रहः = अपसिद्धान्तलक्षणो व्यक्तः = प्रकट एव । अयं भावः - उक्ताचारसूत्रं साधोधर्मव्याख्याने निरीहतामात्रद्योतकमेव, राजादेरभिप्रायाननुसरणे प्रकटदोषोपद पदमेव 'तत्र पुरुषादि-देशादिपरिज्ञानवत्त्वेन देशनाधिकारित्वाभिव्यञ्जनात। १. मुद्रितप्रतौ 'प्रति' शब्दो नास्ति । २. हस्तादर्श 'रूप्ये...' इति पाठः । ३. मुद्रितप्रतौ सर्वत्र 'देशनाभिधानात्' इति पाठः । ४. मुद्रितप्रतौ ‘लंधनं' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ५. हस्तादर्श 'सूत्र' इति अशुद्धः पाठः । ।।२०।। Jain Education Interational For Private & Personal use only Page #26 -------------------------------------------------------------------------- ________________ tv F तदुक्तं - अवि य हणे अणाइयमाणे एत्थं पि जाण सेयं ति णत्थि केयं पुरिसे कं च णए त्ति' (आचाराड्ग २/६ सू.१०३)। किञ्चैवं पुरुषादिपरिज्ञानानावश्यकत्वे पर्षदादिगुणदोषोपवर्णनं तत्र तत्र व्यर्थं स्यादिति ।।४।। अज्ञातवाग्विवेकानां पण्डितत्वाभिमानिनाम् । विषं यद्वर्तते वाचि मुखे नाशीविषस्य तत् ।।५।। ___ अज्ञातेति । अज्ञातो वाग्विवेकः = शुद्धाशुद्ध-योग्यायोग्यविषयत्वादिरूपो यस्तेषां (=अज्ञातवाग्विवेकानां) पण्डितत्वाभिमानिनां वाचि = भाषायां विषं यद् मिथ्यात्वरूपं वर्तते तद् आशीविषस्य = व्यालस्य मुखे न, अनेकजन्मदुःखदं ह्येकमन्यच्चैकजन्मदुःखदमेवेति ।।५।। बालादीनां लक्षणमाह तत्र बालो रतो लिङ्गे वृत्तान्वेषी तु मध्यमः । पण्डितः सर्वयत्नेन शास्त्रतत्त्वं परीक्षते ॥६।। तत्रेति । तत्र = तेषु बालादिषु मध्ये लिङ्गे = लिङ्गमात्रे रतो बालः, लिङ्गमात्रप्राधान्यापेक्षयाऽसदारम्भत्वात् । वृत्तान्वेषी तु = वृत्तप्राधान्यापेक्षी तु मध्यमः, बालापेक्षया मध्यमाचारत्वात्। यस्तु १. अपि च हन्यादनाद्रियमाणेऽत्रापि जानीहि श्रेय इति नास्ति कोऽयं पुरुषः? कं च नतः ? २. हस्तादर्श 'अविग्रहणे' इत्यशुद्धः पाठः । मुद्रितप्रतौ 'अविग्गहणे' इत्यशुद्धः पाठः । ३. हस्तादर्श 'यस्तु सर्व' इति पाठो नास्ति । ।।२१।। Jain Education Interational For Private & Personal use only Page #27 -------------------------------------------------------------------------- ________________ cha Ft ho to श ना द्वा त्रिं शि का २/८ सर्वयत्नेन शास्त्रतत्त्वं' परीक्षते स पण्डितः, तत्त्वतस्तस्य मार्गानुसारितयोत्कृष्टाचारत्वात् ॥६॥ गृहत्यागादिकं लिङ्गं बाह्यं' शुद्धिं विना वृथा । न भेषजं विनाssरोग्यं वैद्यवेषेण रोगिणः ।।७।। गृहेति । 'गृहत्यागादिकं बाह्यं = बहिर्वर्ति लिङ्गं शुद्धिं विना = अन्तस्तत्त्वविवेकमन्तरा वृथा = निरर्थकम् । न हि रोगिणो ( भेषजं = ) भेषजोपयोगं विना (वैद्यवेषेण = ) वैद्यवेषधारणमात्रेण आरोग्यं भवति । अत एवैतत्परैरपि मिथ्याचारफलमुच्यते । तल्लक्षणं चेदं “बाह्येन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ।। " ( भगवद्गीता ३ / ६ ) इति || ७ || गुरुदोषकृतां वृत्तमपि त्याज्यं लघुत्यजाम् । जाड्यत्यागाय पतनं ज्वलति ज्वलने यथा ॥ ८ ॥ गुर्विति । वृत्तं खलु असदारम्भनिवृत्तिमदनुष्ठानं, तच्च कार्ये हेतूपचारेण यच्चारित्रमुच्यते तत्क्षायोपशमिकत्वाच्छुद्धमेव, यत्तु कीर्त्त्याद्यर्थं तद्वदाभासते लघुत्यजामपि = सूक्ष्मदोषाकरणयत्नवतामपि गुरुन् दोषान् प्रवचनोपघातकारिणः कुर्वन्ति ये तेषां (गुरुदोषकृतां ) संबन्धि १. हस्तादर्श' ...त्वं त प... ' इत्यधिकोऽशुद्धश्च पाठः । २ हस्तादर्शे 'बाह्यां' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'दिकं' इति त्रुटितः पाठः । ।।२२।। Page #28 -------------------------------------------------------------------------- ________________ tv ।। त्याज्यम्। यथा जाड्यत्यागाय = अङ्गशैत्यापनयनाय ज्वलति ज्वलने पतनम् ।।८।। || शास्त्रतत्त्वं बुधज्ञेयमुत्सर्गादिसमन्वितम् । तद् दृष्टेष्टाविरुद्धार्थमैदम्पर्यविशुद्धिमत् ॥९॥ शास्त्रेति । शास्त्रतत्त्वं बुधज्ञेयं = पण्डितैकगम्यम्, उत्सर्गादिसमन्वितं, आदिनाऽपवादनिश्चयव्यवहारादिग्रहः। तद् दृष्टेष्टाभ्यां = प्रत्यक्षादिनाऽऽगमान्तरेण चाऽविरुद्धार्थं (=दृष्टेष्टाविरुद्धार्थम्), तथा ऐदम्पर्यविशुद्धिमत् = तात्पर्यतः शुद्धम् ।।९।। श्रुतचिन्तोत्तरोत्पन्नभावनाभाव्यमस्त्यदः । ____श्रुतं सर्वानुगाद्वाक्यात्प्रमाणनयवर्जितात् ॥१०॥ __ श्रुतेति । श्रुतचिन्ताभ्यामुत्तरोत्पन्ना या भावना तया भाव्यं = सुग्रहतात्पर्य I(श्रुतचिन्तोत्तरोत्पन्नभावनाभाव्यं) अदः = शास्त्रतत्त्वं अस्ति । ___तत्र श्रुतं सर्वानुगात् = सर्वशास्त्राविरोधिनिर्णीतार्थात् वाक्यात् प्रमाणनयवर्जितात् = प्रमाणनयाधिगमरहितात्, पदार्थमात्रावग्रहोत्तरस्य वाक्यार्थस्य कथम्भावाकाङ्क्षागर्भत्वेनेहारूपत्वात्, "प्रमाणनयाधिगमयोश्च कृत्स्नैकदेशापायरूपत्वात् ।।१०।। उत्पन्नमविनष्टं च बीजं कोष्ठगतं यथा । ।।२३।। ४, हस्तादर्श 'समन्विते' इति अशुद्धः पाठः । २. मुद्रितप्रतौ ...तात्' इति त्रुटितः पाठः । ३. हस्तादर्श '.वर्जित् प्र...' इति त्रुटितः पाठः । ४. हस्ताद” 'प्रमाणनयवर्जिता...' इत्यशुद्धः पाठः । Jain Education Intemational For Private & Personal use only Page #29 -------------------------------------------------------------------------- ________________ परस्परविभिन्नोक्तपदार्थविषयं तु न ॥११॥ उत्पन्नमिति । उत्पन्नं इत्यत्र प्राक्तनपञ्चम्यन्तस्यान्वयः, ज्ञानमिति व्यवहितोत्तरश्लोकस्थमत्रानुषज्यते । एवमग्रेऽपि । अविनष्टं च यथा कोष्ठगतं बीजं, परस्परविभिन्नोक्ता ये पदार्थास्तद्विषयं (=परस्परविभिन्नोक्तपदार्थविषयं) तु न, तस्य सन्देहरूपत्वात्। यैस्तु वाच्यार्थमात्रविषयस्यात्र व्यवच्छेद उच्यते. तैर्विशकलितस्यैवायमेष्टव्यः, न त दीर्घकोपयोगानुस्यूतस्य पदवाक्यमहावाक्यैदम्पर्यार्थमूर्तिकस्य, तस्य उपदेशपदप्रसिद्धत्वादिति ध्येयम् । ___ यद्वा तत्र 'स्वतन्त्रसंज्ञाव्यवच्छेद एवेष्यते इति न दोषः ।।११।। महावाक्यार्थजं सूक्ष्मयुक्त्या स्याद्वादसङ्गतम् । चिन्तामयं विसर्पि स्यात्तैलबिन्दुरिवाम्भसि ।।१२।। महेति । महावाक्यार्थेन = वस्त्वाकाङ्क्षारूपेण जनितं (=महावाक्यार्थज) सूक्ष्मया = सूक्ष्मबुद्धिगम्यया युक्त्या (सूक्ष्मयुक्त्या) स्याद्वादेन = सप्तभङ्ग्यात्मकेन सङ्गतं (=स्याद्वादसगतं) ज्ञानं अम्भसि तैलबिन्दुरिव विसर्पि = प्रवर्धमानं चिन्तामयं स्यात ।।१२।। सर्वत्राज्ञापुरस्कारि ज्ञानं स्याद्भावनामयम् । अशुद्धजात्यरत्नाभासमं तात्पर्यवृत्तितः ।।१३।। ॥ १. मुद्रितप्रती 'स्वतन्त्र' पदं नास्ति । २. हस्तादर्श 'चिन्तामयं' पदं नास्ति । २/१३ ||२४।। Jain Education Interational Page #30 -------------------------------------------------------------------------- ________________ rivo सर्वत्रेति । सर्वत्र = महावाक्यनिर्णीतेऽर्थे विपक्षशङ्कानिरासदाढाय आज्ञापुरस्कारि = भगवदाज्ञाप्राधान्यद्योतकं 'तात्पर्यवृत्तितो जायमानं ज्ञानं भावनामयं स्यात् । अशुद्धजात्यरत्नस्य = स्वभावत एवान्यजीवरत्नेभ्योऽधिकज्ञानदीप्तिस्वभावस्य भव्यरूपस्य आभासमं = कान्तितुल्यम (अशुद्धजात्यरत्नाभासमम्) ।। एकस्य वाक्यस्य कथं श्रुतादयो व्यापाराः ? इति परप्रत्यवस्थाने तु यथेन्द्रियस्य तव सविकल्पके जननीये सन्निकर्षादय इत्युत्तरम् । अधिकमुपदेशरहस्ये विपञ्चितमस्माभिः ।।१३।। आद्येऽविरुद्धार्थतया मनाक् स्यादर्शनग्रहः । द्वितीये बुद्धिमाध्यस्थ्यचिन्तायोगात्कदापि न ।।१४।। __ आद्य इति । आये = श्रुतमये ज्ञाने सति मनाक् = 'ईषद् अविरुद्धार्थतया स्वाभिमतस्य दर्शनग्रहो भवति ‘अस्मदीयं दर्शनं शोभनं नान्यद्' इत्येवंरूपः । द्वितीये = चिन्तामये ज्ञाने सति बुद्धेर्नयप्रमाणाधिगमरूपाया माध्यस्थ्येन = स्वपरतन्त्रोक्तस्य न्यायबलायातस्यार्थस्य समर्थनसामर्थ्याविशेषरूपेण चिन्तायोगात् (=बुद्धि-माध्यस्थ्यचिन्तायोगात्) कदापि न स्यादर्शनग्रहः । ____ अत एवान्यत्राप्यविसंवादिनोऽर्थस्य दृष्टिवादमूलकत्वात्तन्निराकरणे दृष्टिवादस्यैव तत्त्वतो निराकरणमिति व्यक्तमुपदेशपदे ।।१४।। १. हस्तादर्श 'तोत्प....' इत्यशुद्धः पाठः । २. हस्तादर्श 'आभोस....' इत्यशुद्धः पाठः । ३. हस्तादर्श 'आपद्' इत्यशुद्धः पाठः । ४. मुद्रितप्रतो 'माणधिग.....' इत्यशुद्धः पाठः । ५. हस्तादर्श 'प्यविसंवादि' इति पाठो नास्ति । २/१४ ।॥२५॥ Jain Education Interational Page #31 -------------------------------------------------------------------------- ________________ brhas to r श ना द्वा शि का २/१६ सर्वत्रैव हिता वृत्तिः समापत्त्याऽनुरूपया । ज्ञाने सञ्जीविनीचारज्ञातेन चरमे स्मृता ।। १५ ।। सर्वत्रेति । सर्वत्रैव भव्यसमुदाये हिता = हितकारिणी वृत्तिः = प्रवृत्तिः समापत्त्या = सर्वानुग्रहपरिणत्या अनुरूपया = ' 'उचितया सञ्जीविनीचारज्ञातेन चरमे ज्ञाने भावनामये स्मृता । अत्रायं भावार्थो वृद्धैरुपदिश्यते यथा किल कयाचित् स्त्रिया 'कृत्रिमगवीकृतस्य स्वपत्युर्वटवृक्षाधःस्थितया विद्याधरीवचनेनोपलब्धस्वभावलाभोपायभावं सञ्जीविनीसद्भावं तत्र विशिष्याऽजानानया तत्प्रदेशवर्तिनी सर्वैव चारिस्तस्य चारिताऽनुषङ्गतः सञ्जीविन्युपभोगाच्च स पुरुषः संवृत्त इति । एवं सर्वत्रैव कृपापरं भावनाज्ञानं भवति, हितं तु योग्यतानियतसम्भव ।। १५ ।। एतस्यैव फलमभिष्टौति एतेनैवोपवासादेर्वैयावृत्त्यादिघातिनः । नित्यत्वमेकभक्तादेर्जानन्ति बलवत्तया ।। १६ । एतेनेति । एतेनैव = भावनाज्ञानेनैव उपवासादेः वैयावृत्त्यादिर्बलवद्गुणघातिनः (=वैयावृत्त्यादिघातिनः ) सकाशात् बलवत्तया नित्यत्वं = सार्वदिकत्वं 'अहो णिच्चं तवो कम्मं' ( दशवैकालिकसूत्र ६/२३) इत्याद्यागमप्रसिद्धं एकभक्तादेर्जानन्ति = निश्चिन्वन्ति उपदेशपदादिकर्त्तारः । १. हस्तादर्शे ‘उचिता योगात् कदापि तस्यादृश संजी...' इत्यधिकोऽनावश्यकश्च पाठः । २. हस्तादर्श 'कृम...' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्शे ' ....बलबद्' इत्यशुद्धः पाठः । For Private Personal Use Only ॥२६॥ Page #32 -------------------------------------------------------------------------- ________________ tv Ed अन्यथा हि यथाश्रुतार्थमात्रग्राह्येकभक्तापेक्षयोपवासादेरेव बलवत्त्वश्रवणात्पूर्वापरविरोधोद्भावनेनैव म्रियेतेति भावः । विस्तरस्तु उपदेशरहस्ये ।।१६।। विनैतन्नूनमज्ञेषु धर्मधीरपि न श्रिये । गृहीतग्लानभैषज्यप्रदानाभिग्रहेष्विव ।।१७।। विनेति । एतद् = भावनाज्ञानं• विना नूनं = निश्चितं धर्मधीरपि = धर्मबुद्धिरपि न श्रिये = चारित्रलक्ष्म्यै प्रभवति । गृहीतो ग्लानभैषज्यप्रदानस्याभिग्रहो 'ग्लानाय मया भैषज्यं दातव्यमि'त्येवंरूपो यैस्तेषु (=गृहीत-ग्लानभैषज्यप्रदानाभिग्रहेषु) इव अज्ञेषु = पूर्वापरानुसन्धानविकलेषु ।।१७।। तेषां तथाविधाऽप्राप्तौ स्वाधन्यत्वविभाविनाम् ।। चित्तं हि तत्त्वतः साधुग्लानभावाभिसन्धिमत् ॥१८॥ तेषामिति । तेषां = गृहीतोक्ताभिग्रहाणां तथाविधस्य = ग्लानस्याप्राप्तौ (=तथाविधा प्राप्तौ) स्वाधन्यत्वविभाविनां' 'अहोऽहमधन्यो न सिद्धं मे वाञ्छितमि' त्येवमालोचनपराणां 'चित्तं हि = यतः तत्त्वतो अभिग्रहविषयाप्राप्तौ शोकगमनलक्षणाद्भावात्साधूनां ग्लानभावेऽभिसन्धिमद् १. मुद्रितप्रती 'श्रयणा' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । २. मुद्रितप्रतौ 'नभषज्य...' इत्यशुद्धः पाठः । ३. हस्तादर्श ...भावनां' इत्यशुद्धः पाठः । ४. हस्तादर्श '...मधन' इत्यशुद्धः त्रुटितश्च पाठः । ५. हस्तादर्श 'चित्रि' इत्यशुद्धः पाठः । . ।।२७|| Jain Education Interational For Private & Personal use only Page #33 -------------------------------------------------------------------------- ________________ to hd f दे श ना द्वा शि का २/२१ = अभिप्रायान्वितं (=साधुग्लानभावाभिसन्धिमत्) भवति । भावनान्वितश्च नैवं प्रतिजानीते । यतः परैरप्येवमिष्यते, यदाह तारावाप्तौ रामं प्रति सुग्रीवः- “अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं मम । नरः प्रत्युपकाराय विपत्सु लभते फलम् ।। " ( अष्टक - २१ / ६ ) इति । एवं दानदीक्षादिकमपि भावनां विना स्थूलबुद्ध्या न श्रिये, किन्त्वनर्थकृदेव । यदुक्तम् एवं विरुद्धदानादौ हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते।। ← (अष्टक - २१ / ७ ) इति ।। १८ ।। इत्थं च भावनैव सर्वक्रियाजीवातुरिति निगमयति अष्टके तस्माद् भावनया भाव्यं शास्त्रतत्त्वं विनाऽपरम् । परलोकविधौ मानं बलवन्नात्र दृश्यते ।। १९ ।। तस्मादिति । परलोकविधौ = धर्मक्रियायां मानं प्रमाणं बलवद् = अन्यानुपजीवि । । १९ ।। बाह्यक्रियाप्रधानैव देया बालस्य देशना । सेवनीयस्तदाचारो यथाऽसौ स्वास्थ्यमश्नुते ।। २० । बाह्येति । स्पष्टः ।। २० ।। सम्यग्लोचो धरा शय्या तपश्चित्रं परीषहाः । अल्पोपधित्वमित्यादि बाह्यं बालस्य कथ्यते ।। २१ ।। सम्यगिति । आदिनाऽनुपानत्कत्वं रजन्यां प्रहरद्वयं स्वापः, महती पिण्डविशुद्धिः, ।। २८ । Page #34 -------------------------------------------------------------------------- ________________ ।। द्रव्याद्यभिग्रहाः, विकृतित्यागः, एकसिक्थादिपारणकं, अनियतविहारकल्पः, नित्यं कायोत्सर्गश्चे- 11 त्यादिकं ग्राह्यम् ।।२१।। मध्यमस्य पुनर्वाच्यं वृत्तं यत्साधुसङ्गतम् । सम्यगीर्यासमित्यादि त्रिकोटीशुद्धभोजनम् ।।२२।। मध्यमस्येति । आदिनाऽन्यप्रवचनमातृग्रहः । तिस्रः कोट्यो रागद्वेषमोहरूपाः कृतकारितानुमतिभेदेन हननपचनक्रयरूपा वा ।।२२।। वयःक्रमेणाध्ययनश्रवणध्यानसङ्गतिः । सदाशयेनानुगतं पारतन्त्र्यं गुरोरपि ।।२३।। वय इति । क्रमोऽत्र प्रथमे वयस्यध्ययनं द्वितीयेऽर्थश्रवणं तृतीये च ध्यानेन भावनमित्येवंरूपः। ॥ सदाशयः 'संसारक्षयहेतुर्गुरुरयमिति कुशलपरिणामः ।।२३।। २/२४ वचनाराधनाद्धर्मोऽधर्मस्तस्य च बाधनात् । ___धर्मगुह्यमिदं वाच्यं बुधस्य च विपश्चिता ।।२४।। वचनेति । वचनाराधनाद् = आगमाराधनयैव धर्मः, तस्य = वचनस्य च बाधनाद् एव अधर्मो, नान्यत्रैकान्त इत्येतदुपसर्जनीकृतसकलक्रियं प्रधानीकृतभगवद्वचनं धर्मगुह्यं (इदं) ।।२९। १. हस्ताद” 'सिक्ता' इत्यशुद्धः पाठः । २. हस्तादर्श 'नुमित' इति पाठः । ३. हस्तादर्श 'वचनाराधनाद्' इति नास्ति । ४. हस्तादर्श 'धर्माधर्म' इति पाठोऽशुद्धः । Jain Education Interational Page #35 -------------------------------------------------------------------------- ________________ hr Foto ।। च बुधस्य विपश्चिता वाच्यं, वचनायत्तत्वात्सर्वानुष्ठानस्य ।।२४।। इत्थमाज्ञाऽऽदरद्वारा हृदयस्थे जिने सति'। भवेत्समरसापत्तिः फलं ध्यानस्य या परम् ।।२५।। ___ इत्थमिति । इत्थं = अनया रीत्या आज्ञाऽऽदरद्वारा = भगवद्वचनबहुमानद्वारेण हृदयस्थे = ध्यानसाक्षात्कृते जिने सति भवेत्समरसापत्तिः = समतापत्तिः या ध्यानस्य परं = प्रकृष्टं फलं, तदाह- 'सैवेह' योगिमातेति (षोडशक २/१५) । इत्थं च समापत्तिसंज्ञकाऽसङ्गानुष्ठानफलकस्य वचनानुष्ठानस्याज्ञाऽऽदरद्वारैवोपपत्तेरयमेव गरीयानिति फलितम् । क्रियान्तरे च नैतदुपपत्तिः, न च तदनन्तरं भगवदनुध्यानादुपपत्तिः, अनियमाद्, अनुषङ्गत एवासङ्गसम्भवाच्चेति ।।२५।। देशनैकनयाक्रान्ता कथं बालाद्यपेक्षया । २/२६ इति चेदित्थमेव स्यात्तबुद्धिपरिकर्मणा ॥२६॥ ___देशनेति । धर्मगुह्यानुक्तौ बालाद्यपेक्षया एकनयाक्रान्ता = व्यवहारादिमात्रप्रधाना देशना कथं युज्यते? 'एगंते होइ मिच्छत्तं' (महानिशीथ-अ.५-सावद्याचार्य) इति वचनाद् इति चेत् ? ___ इत्थमेव = बालाद्यपेक्षया व्यवहारादिमात्रप्राधान्येनैव (=तबुद्धिपरिकर्मणा) तबुद्धेः १. हस्तादर्श सेति' इत्यशुद्धः पाठः । २. हस्तादर्श 'रसापूर्ति' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'सैषेह' इति पाठः । |॥३०॥ Jain Education Interational Page #36 -------------------------------------------------------------------------- ________________ vक 1 = बालादिबुद्धेः परिकर्मणा = अर्थान्तरग्रहणसौकर्यरूपा' स्यात् । ___इत्थं चात्रार्थान्तरप्रतिक्षेपाभावान्नयान्तरव्यवस्थापनपरिणामाच्च न दोषः, शिष्यमतिपरिकर्मणार्थमेकनयदेशनाया अपि सम्मत्यादौ व्युत्पादनात् ।।२६।। प्रमाणदेशनैवेयं ततो योग्यतया मता। द्रव्यतः सापि नो मानं वैपरीत्यं यया भवेत् ।।२७।। प्रमाणेति । 'तत इयं योग्यतया प्रमाणदेशनैव मता, व्युत्पादयिष्यमाणनयान्तरसमाहारेण तत्त्वोपपतेः, तद्भावेन तत्फलसम्भवाच्च । द्रव्यतः फलानुपयोगलक्षणात् सापि = प्रमाणदेशनापि नो मानं = न प्रमाणं यया वैपरीत्यं ध्यान्ध्यलक्षणं भवेत् ।।२७।। आदौ यथारुचि श्राव्यं ततो वाच्यं नयान्तरम् । ज्ञाते त्वेकनयेऽन्यस्मात् परिशिष्टं प्रदर्शयेत् ॥२८॥ आदाविति । आदौ = प्रथमं यथारुचि = श्रोतृरुच्यनुसारिनयानुगुण्येन श्राव्यं जिनवचनम्। ततः स्वपारतन्त्र्यं "बुद्धिपरिकर्मणां च श्रोतुर्ज्ञात्वा नयान्तरं वाच्यम् । अन्यस्मात = स्वव्यतिरिक्तात तु (एकनये) एकस्मिन नये श्रोत्रा ज्ञाते सति परिशिष्टं १. हस्तादर्श '...कर्मख्या...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'प्रतिपक्षा' इत्यशुद्धः पाठः । ३. हस्तादर्श 'नात्र' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'मान्न' इति पाठान्तरम् । ४. हस्ताद” 'ना मानं' इति पाठः । ५. मुद्रितप्रतौ 'तदियं' इत्यशुद्धः पाठः । ६. 'नयागुण्येन' इत्यशुद्धः पाठो मुद्रितप्रतौ । ७. मुद्रितप्रतौ 'बुधिप' इत्यशुद्धः पाठः । २/२८ ।।।३ ।। Jain Education Interational For Private & Personal use only Page #37 -------------------------------------------------------------------------- ________________ rrE 11 = अज्ञातनयान्तरं प्रदर्शयेत्, अप्राप्तप्रापणगरीयस्त्वान्महतामारम्भस्य ।।२८।। संविग्नभाविता ये स्युर्ये च पार्श्वस्थभाविताः । मुक्त्वा द्रव्यादिकं तेषां शुद्धोञ्छं तेन दर्शितम् ।।२९ ।। संविग्नेति । 'संविग्नभाविता बालाः पण्डिताश्च स्युः, पार्श्वस्थवासिता बालाः स्युः, तत्र पार्श्वस्थवासिता बालाः (=मुग्धाः) आभिनिवेशिकाश्च बोध्याः । ये संविग्नभाविता बालास्तेऽपरिणताः यथापरिणतिमजानाना द्रव्यादिकमविशेषतयैकान्तव्यवस्थानाः । तेन = हेतुना ये संविग्नभाविताः स्युः ये च पार्श्वस्थभावितास्तेषां द्रव्यादिकं मुक्त्वाऽऽदिना क्षेत्रादिग्रहः, शुद्धोञ्छं = शुद्धपिण्डविधानं दर्शितं, 'संविग्गभाविआणं लुद्धयदिट्ठन्तभाविआणं च । मुत्तूण खित्तकालं भावं च कहिंति सुद्धञ्छं ।। - (बृ.क.भा.१६०७ नि.भा.१६४९) इत्यादिना बृहत्कल्पादौ । __अत्र हि संविग्नभावितान् प्रति द्रव्यादिकारणेष्वशुद्धस्यापि व्युत्पादनं, पार्श्वस्थभावितान् प्रति च शुद्धोञ्छविधेरेव तत्सार्थकमिति लभ्यते, इतरत्तु पिष्टपेषणतुल्यमिति ।।२९।। दुर्नयाभिनिवेशे तु तं दृढं दूषयेदपि ।। दुष्टांशच्छेदतो नाझी दूषयेद्विषकण्टकः ।।३०।। दुर्नयेति । परस्य कुदेशनया दुर्नयाभिनिवेशे तु एकान्तग्रहरूपे ज्ञाते तं = दुर्नयं दृढं ....... चिह्नद्वयान्तर्गतः पाठः संवेगी हस्तादर्श नास्ति । १. संविग्नभावितानां लुब्धकदृष्टान्तभावितानां च । मुक्त्वा क्षेत्रकालं भावं च कथयन्ति शुद्धोञ्छम् ।। २/३० ॥३२॥ Jain Education Interational Page #38 -------------------------------------------------------------------------- ________________ ।। दूषयेदपि, यतो दुष्टांशस्य छेदतो (=दृष्टांशच्छेदतो) विषकण्टकोऽध्री न दूषयेद् । एवमिहापि दुर्नयलवच्छेदे द्वावपि नयौ सुस्थिताववतिष्ठेते इति । ___न चैवमितरांशप्रतिक्षेपार्नयापत्तिः, तस्य प्रकृतनयदूषणातात्पर्येण नयान्तरप्राधान्यग्राहकत्वेन परेषां तर्कवदनुग्राहकत्वेन तत्र तत्र व्यवस्थितत्वात्। निर्णीतमेतद् नयरहस्ये (पृ.३६) ।।३०।। जानाति दातुं गीतार्थो य एवं धर्मदेशनाम् । कलिकालेऽपि तस्यैव प्रभावाद्धर्म एधते ।।३१।। गीतार्थाय जगज्जन्तुपरमानन्ददायिने । मुनये भगवद्धर्मदेशकाय नमो नमः ॥३२।। जानातीति गीतार्थायेति व्यक्तौ ।।३१।।३२।। ।। इति देशनाद्वात्रिंशिका ।।२।। ॥ अथ मार्गद्वात्रिंशिका ।।३।। देशनया मार्गो व्यवस्थाप्य इति तत्स्वरूपमिहोच्यते___मार्गः प्रवर्तकं मानं शब्दो भगवतोदितः । ।।३३।। संविग्नाऽशठगीतार्थाऽऽचरणं चेति स द्विधा ।।१।। मार्ग इति । मार्गः प्रवर्तकं = स्वजनकेच्छाजनकज्ञानजननद्वारा प्रवृत्तिजनकं मानं ॥ Jain Education Interational For Private & Personal use only Page #39 -------------------------------------------------------------------------- ________________ = प्रमाणम्। स च भगवता = सर्वज्ञेन उदितो विधिरूपः शब्दः । संविग्नाः = संवेगवन्तोऽशठाः = अभ्रान्ता गीतार्थाः = 'स्वभ्यस्तसूत्रार्थास्तेषामाचरणं (=संविग्नाऽशठगीतार्थाचरणं) चेति द्विधा, विधेरिव शिष्टाचारस्यापि प्रवर्तकत्वात् । तदिदमाह धर्मरत्नप्रकरणकृत्- 'मग्गो आगमणीई अहवा संविग्गबहुजणाइण्णं त्ति (ध.र.प्र.गा.८०)।।१।। द्वितीयानादरे हन्त प्रथमस्याप्यनादरः । जीतस्यापि प्रधानत्वं साम्प्रतं श्रूयते यतः ॥२॥ द्वितीयेति । (=द्वितीयानादरे) द्वितीयस्य = शिष्टाचरणस्य अनादरे = प्रवर्तकत्वेनानभ्युपगमे हन्त प्रथमस्यापि = भगवद्वचनस्यापि अनादर एव, “यतो जीतस्यापि साम्प्रतं प्रधानत्वं व्यवहारप्रतिपादकशास्त्रप्रसिद्धं श्रूयते । तथा च जीतप्राधान्यानादरे तत्प्रतिपादकशास्त्रानादराद व्यक्तमेव नास्तिकत्वमिति भावः ।।२।। अनुमाय सतामुक्ताचारेणागममूलताम् । पथि प्रवर्तमानानां शक्या नान्धपरम्परा ।।३।। अनमायेति । उक्ताचारेण = संविग्नाशठगीतार्थाचारेण आगममूलतामनुमाय सतां १. हस्तादर्श 'स्वल्प...' इत्यशुद्धः पाठः । २. उभयाणुसारिणी जा सा मग्गणुसारिणी किरिया ।। इत्युत्तरार्द्धः ।।८०।। ३. 'इणं ति' इति पाठो मुद्रितप्रतौ । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शविशेषे नास्ति । ४. हस्तादर्श 'यते' इत्यशुद्ध पाठ । ५. हस्तादर्श 'शेषः' इति पाठः । ।।३४।। For Private & Personal use only Page #40 -------------------------------------------------------------------------- ________________ 11 = मार्गानुसारिणां पथि = महाजनानुयातमार्गे प्रवर्तमानानामन्धपरम्परा न 'शङ्ख्या = न शङ्कनीया । इत्थं चात्रागमबोधितेष्टोपायताकत्वमेवानुमेयं, आगमग्रहणं चान्धपरम्पराशङ्काव्युदासाय, इति नागमकल्पनोत्तरं विध्यर्थबोधकल्पनाद्वारव्यवधानेन प्रवर्तकतायाः शब्दसाधारण्यक्षतिः, अप्रत्यक्षेणागमेन प्रकृतार्थस्य बोधयितुमशक्यत्वात्, व्यवस्थितस्य चानुपस्थितेः सामान्यत एव तदनुमानात्, तदिदमुक्तं 'आयरणा वि हु आणत्ति'(उ.प.८१२)। ____वस्तुत उपपत्तिकेन शिष्टाचारेणैव विध्यर्थसिद्धावागमानुमानं भगवद्बहुमानद्वारा समापत्तिसिद्धये इति द्रष्टव्यम् ।।३।। सूत्रे सद्धेतुनोत्सृष्टमपि क्वचिदपोद्यते । हितदेऽप्यनिषिद्धेऽर्थे किं पुनर्नास्य मानता ।।४।। __सूत्र इति । सूत्रे = आगमे उत्सृष्टमपि = उत्सर्गविषयीकृतमपि सद्धेतुना = पुष्टेनालम्बनेन क्वचिदपोद्यते = अपवादविषयीक्रियते । हितदेऽपि = "इष्टसाधनेऽपि अनिषिद्धे = सूत्रावारिते अर्थे किं पुनरस्य = शिष्टाचारस्य न मानता = न प्रमाणता ? ।।४।। ___ उदासीनेऽर्थे भवत्वस्य मानता, 'वारितं तु कारणसहस्रेणापि परावर्तयितुमशक्यमित्यत आह ।।३५।। १. मुद्रितप्रतौ 'न शक्या' इति पाठो नास्ति । २. संवेगी, हस्तप्रती 'चात्र विधिबोधिते'त्यादिः पाठः । ३. हस्तादर्श '...पायिताक..' इत्यशुद्धः पाठः । ४. हस्तादर्श 'सिद्धे' इत्यशुद्धः पाठः । ५. हस्तादर्श 'अपि | इष्ट' इति नास्ति । ६. प्राचीनमुद्रितप्रतौ ‘चारितं' इत्यशुद्धः पाठः । Jain Education Interational Page #41 -------------------------------------------------------------------------- ________________ निषेधः सर्वथा नास्ति विधिर्वा सर्वथाऽऽगमे । ___ आय व्ययं च तुलयेल्लाभाकाङ्क्षी वणिग्यथा ।।५।। निषेध इति । सूत्रे विधिनिषेधौ हि गौणमुख्यभावेन मिथः संवलितावेव प्रतिपाद्येते, अन्यथाऽनेकान्तमर्यादातिक्रमप्रसङ्गादिति भावः ।।५।। प्रवाहधारापतितं निषिद्धं यन्न दश्यते । अत एव न तन्मत्या दूषयन्ति विपश्चितः ।।६।। प्रवाहेति' । शिष्टसम्मतत्वसन्देहेऽपि तद्दषणमन्याय्यं किं पुनस्तन्निश्चय इति भावः। तदिदमाह जं च ण सुत्ते विहिअं ण य पडिसिद्धं जणंमि चिररूढं । समइविगप्पियदोसा तं पि ण दूसंति गीयत्था ।। (धर्मरत्नप्रकरण-९९) ।।६।। . संविग्नाचरणं सम्यक् कल्पप्रावरणादिकम् । विपर्यस्तं पुनः श्राद्धममत्वप्रभृति स्मृतम् ।।७।। १. हस्तादर्श 'कारणसे' इत्यशुद्धः पाठः । २. हस्ताद” 'प्रवादेति' इत्यशुद्धः पाठः । २. यच्च न सूत्रे विहितं न च प्रतिषिद्ध जने चिररूढम् । स्वमतिविकल्पितदोषास्तदपि न दूषयन्ति गीतार्थाः ।। ३. मुद्रितप्रतौ हस्तादर्श च 'विहिअं ण सुत्ते' इति पाठः । परं धर्मरत्नप्रकरणप्रतौ साम्प्रतं यः पाठो लभ्यते सोऽत्र गृहीतः।। ४. हस्तादर्श 'ममृत' इत्यशुद्धः पाठः । ।।३६।। Jain Education Interational Page #42 -------------------------------------------------------------------------- ________________ संविग्नेति । संविग्नानामाचरणं (=संविग्नाचरणं) सम्यक् = साधुनीत्या कल्पप्रावरणादिकम् । तदाह- 'अन्नह भणियं पि सुए किंचि कालाइकारणाविक्खं । आइन्नमन्नहच्चिय दीसइ संविग्गगीएहिं ।। कप्पाणं पावरणं अग्गोअरच्चाओ झोलिआभिक्खा । उवग्गहियकडाहयतुंवयमुहदाणदोराई ।। (धर्मरत्नप्रकरण-८१/८२) इत्यादि । विपर्यस्तं = असंविग्नाचरणं पुनः श्राद्धममत्वप्रभृति स्मृतम् । तदाह"जह सड्ढेसु ममत्तं 'राढाइ असुद्धउवहिभत्ताई ।। णिट्ठि(णिद्देज्ज) वसहि-तूली-मसूरगाईण परिभोगोत्ति ।। (धर्मरत्नप्रकरण-८७) ।।७।। आद्यं ज्ञानात्परं मोहाद्विशेषो विशदोऽनयोः । एकत्वं नानयोर्युक्तं काच-माणिक्ययोरिव ॥८॥ आद्यमिति । ज्ञानं = तत्त्वज्ञानं, मोहः = गारवमग्नता ।।८।। दर्शयद्भिः कुलाचारलोपादामुष्मिकं भयम् । वारयद्भिः स्वगच्छीयगृहिणः साधुसङ्गतिम् ॥९॥ १. अन्यथा भणितमपि सूत्रे किंचित्कालादिकारणापेक्षम् । आचीर्णमन्यथैव दृश्यते संविग्नगीतैः ।। २. कल्पानां प्रावरणमग्रावतारत्यागो झोलिकाभिक्षा । औपग्नहिककटाहकतुंबकमुखदानदवरकादि ।। ३. मुद्रितप्रतौ 'दोरा' इति पाठः । ४. यथा श्राद्धेषु ममत्वं राढ्याऽशुद्धोपधिभक्तादीनि । प्रदत्तवसतितूलीमसूरकादीनां परिभोगः ।। ५. हस्तादर्श 'गाढाइ' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'भागे' इति पाठः । ।।।।३७।। Jain Education Interational For Private & Personal use only Page #43 -------------------------------------------------------------------------- ________________ 町fa伢何可 मा द्वा शि का ३/१२ द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् । विवेकविकलं दानं स्थापयद्भिर्यथा तथा ।। १० । अपुष्टालम्बनोत्सिक्तैर्मुग्धमीनेषु मैनिकैः । इत्थं दोषादसंविग्नैर्हहा विश्वं विडम्बितम् ॥ ११ ॥ दर्शयद्भिरिति । आमुष्मिकं = प्रेत्यप्रत्यवायविपाकलक्षणम् ।। ९ ।। द्रव्यस्तवमिति । अपिना आगमे यतीनां तन्निषेधो द्योत्यते । अनुपश्यद्भिः = मन्य मानैः ॥ १० ॥ अपुष्टेति । व्यक्तः ।। ११ ।। अप्येष शिथिलोल्लापो न श्राव्यो गृहमेधिनाम् । सूक्ष्मोऽर्थ इत्यदोऽयुक्तं सूत्रे तद्गुणवर्णनात् ।।१२।। अपीति । एषोऽपि (= शिथिलोल्लापो ) शिथिलानामुल्लापो यदुत 'न श्राव्यो गृहमेधिनां सूक्ष्मोऽर्थः' इत्यदः = वचनं अयुक्तं, सूत्रे = भगवत्यादौ तेषां = गृहमेधिनामपि केषाञ्चिद् गुणवर्णनात्, (= तद्गुणवर्णनात्) 'लखट्ठा 'गहिअट्ठा' (भ.सू.२/५/१०७ ) इत्यादिना साधूक्तसूक्ष्मार्थपरिणामशक्तिमत्त्वप्रतिपादनात् । सम्यक्त्वप्रकरणप्रसिद्धोऽयमर्थः ।। १२ ।। १. ... विपाकफलं इति पूर्वमुद्रितप्रतौ । २ हस्तादर्शे ... मषि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'अहि...' इत्यशुद्धः पाठ: । 113211 Page #44 -------------------------------------------------------------------------- ________________ तेषां निन्दाऽल्पसाधूनां बह्वाचरणमानिनाम् । प्रवृत्ताङ्गीकृतात्यागे मिथ्यादृग्गुणदर्शिनी ।।१३।। । तेषामिति । तेषां = असंविग्नानां अल्पसाधूनां = विरलानां यतीनां, बह्वाचरित(रण)| मानिनां = 'बहुभिराचीर्णं खलु वयमाचरामः स्तोकाः पुनरेते संविग्नत्वाभिमानिनो दाम्भिका' इत्यभिमानवतां निन्दा, अङ्गीकृतस्य मिथ्याभूतस्यापि बह्वाचीर्णस्यात्यागे(अङ्गीकृताऽत्यागे) अभ्युपगम्यमाने मिथ्यादृशां गुणदर्शिनी (=मिथ्यादृग्गुणदर्शिनी) प्रवृत्ता, 'सम्यग्दृगपेक्षया मिथ्यादृशामेव बहुत्वात् । तदाह 'बहुजणपवित्तिमिच्छं(मेत्तं) इच्छंतेण(हिं) इह लोइओ चेव । धम्मो न उझियबो जेण तहिं बहुजणपवित्ति ।। (उपदेशपद ९०९) ।।१३।। इदं कलिरजःपर्वभस्म भस्मग्रहोदयः । खेलनं तदसंविग्नराजस्यैवा'धुनोचितम् ।।१४।। इदमिति । व्यक्तः ।।१४।। समुदाये मनाग्दोषभीतैः स्वेच्छाविहारिभिः । संविग्नैरप्यगीताथैः परेभ्यो नातिरिच्यते ।।१५।। १. प्राचीनमुद्रितप्रतौ 'सम्यगृग...' इत्यशुद्धः पाठः । २. बहुजनप्रवृत्तिमात्रमिच्छद्भिरिह लौकिकश्चैव । धर्मो || नोज्झितव्यो येन तत्र बहुजनप्रवृत्तिः । ३. हस्ताद” 'वादकृतो' इत्यशुद्धः पाठः । ||३९।। Jain Education Interational For Private & Personal use only Page #45 -------------------------------------------------------------------------- ________________ 'समुदाय इति । समुदाये मनाग्दोषेभ्यः = ईषत्कलहादिरूपेभ्यो भीतैः (=मनाग्दोषभीतैः) । स्वेच्छाविहारिभिः = स्वच्छन्दचारिभिः संविग्नैरपि = बाह्याचारप्रधानैरपि अगीताथैः परेभ्यः = असंविग्नेभ्यो नातिरिच्यते = नाधिकीभूयते ।।१५।। वदन्ति गृहिणां मध्ये पार्श्वस्थानामवन्द्यताम् । यथाच्छन्दतयात्मानमवन्धं जानते न तेरे ॥१६॥ वदन्तीति । परदोषं पश्यन्ति, स्वदोषं च न पश्यन्तीति महतीयं तेषां कदर्थनेति भावः ॥१६॥ गीतार्थपारतन्त्र्येण ज्ञानमज्ञानिनां मतम् । विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् ।।१७।। गीतार्थेति । मुख्यं ज्ञानं गीतार्थानामेव, तत्पारतन्त्र्यलक्षणं गौणमेव तदगीतार्थानामिति भावः ।।१७।। तत्त्यागेनाऽफलं तेषां शुद्धोञ्छादिकमप्यहो । विपरीतफलं वा स्यान्नौभङ्ग इव वारिधौ ।।१८।। ||४०।। तदिति । अहो ! तत्त्यागेन = गीतार्थपारतन्त्र्यपरिहारेण तेषां = संविग्नाभासानां ३/१८ ।। १. हस्तादर्श 'समुदाय इति' इति नास्ति । २. हस्तादर्श न हि' इति पाठः सोऽपि शुद्धः । Jain Education Interational Page #46 -------------------------------------------------------------------------- ________________ ।। शुद्धोञ्छादिकमप्यफलं विपरीतफलं वा स्यात्, वारिधाविव नौभंगः ।।१८।। यदि 'नामैतेषां नास्ति ज्ञानं, कथं तर्हि मासक्षपणादिदुष्करतपोऽनुष्ठातृत्वमित्यत आह__ अभिन्नग्रन्थयः प्रायः कुर्वन्तोऽप्यतिदुष्करम् । बाह्या इवाव्रता मूढा ध्वांक्षज्ञातेन दर्शिताः।।१९।। अभिन्नेति । अभिन्नग्रन्थयः = अकृतग्रन्थिभेदाः प्रायः कुर्वन्तोऽप्यतिदुष्करं मासक्षपणादिकं बाह्या इवाऽव्रताः स्वाभाविकव्रतपरिणामरहिता मूढाः = अज्ञानाऽऽविष्टा ध्वांक्षज्ञातेन = वायसदृष्टान्तेन दर्शिताः। यथाहि केचन वायसा निर्मलसलिलपूर्णसरित्परिसरं परित्यज्य मरुमरीचिकासु जलत्वभ्रान्तिभाजस्ताः प्रति प्रस्थिताः, तेभ्यः केचनान्यैर्निषिद्धाः प्रत्यायाताः सुखिनो बभूवुः, ये च नाऽऽयातास्ते मध्याह्नार्कतापतरलिताः पिपासिता एव मृताः । •एवं समुदायादपि मनाग्दोषभीत्या ये स्वमत्या विजिहीर्षवो गीतार्थनिवारिताः प्रत्यावर्तन्ते, तेऽपि ज्ञानादिसम्पद्भाजनं भवन्ति', अपरे तु ज्ञानादिगुणेभ्योऽपि भ्रश्यन्तीति। तदिदमाह 'पायं अभिन्नगंठी तमाउ तह दुक्करं पि कुव्वंता । _ 'बज्झव्व ण ते साहू धंखाहरणेण विन्नेया ।। (पञ्चाशक-११/३८) १. मुद्रितप्रतौ 'विपरीतं फलं.....' इत्यशुद्धः पाठः । हस्तादर्श ‘विलं' इति त्रुटितः पाठः । २. हस्तादर्शेषु 'नामनै' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ३. हस्तादर्श ‘भवन्तु' इति अशुद्धः पाठः । ४. प्रायोऽभिन्नग्रन्थयस्तमसस्तथा दुष्करमपि कुर्वन्तः। बाह्या इव न ते साधवः ध्वांक्षोदाहरणेन विज्ञेयाः ।। ५. मुद्रितप्रतौ 'तवाइ' इत्यशुद्धः पाठः । ६. हस्तादर्श 'बझब्ब' नास्ति । ३/१९ ४१। Jain Education Interational Page #47 -------------------------------------------------------------------------- ________________ आगमेऽप्युक्तं- "नममाणा वेगे जीविअं विपरिणामंति' (आचाराङ्ग ६।४।१९१) ) द्रव्यतो नमन्तोऽप्येके संयमजीवितं विपरिणामयन्ति = नाशयन्तीत्येतदर्थः इति ।।१९।। वदन्तः प्रत्युदासीनान् परुषं परुषाशयाः । विश्वासादाकृतेरेते महापापस्य भाजनम् ।।२०।। वदन्त इति । उदासीनान् = मध्यस्थान् शिक्षापरायणान् प्रति परुषं 'भवन्त एव सम्यक्क्रियां न कुर्वते कोऽयमस्मान् प्रत्युपदेशः' इत्यादिरूपं वचनं वदन्तः परुषोऽज्ञानावेशादाशयो येषां ते तथा (=परुषाशयाः), एते आकृतेः = आकारस्य विश्वासान्महापापस्य परप्रतारणलक्षणस्य भाजनं भवन्ति, पामराणां गुणाभासमात्रेणैव स्खलनसम्भवात् ।।२०।। ये तु स्वकर्मदोषेण प्रमाद्यन्तोऽपि धार्मिकाः । . संविग्नपाक्षिकास्तेऽपि मार्गान्वाचयशालिनः ॥२१॥ ये विति । ये तु स्वकर्मदोषेण = वीर्यान्तरायोदयलक्षणेन प्रमाद्यन्तोऽपि = क्रियास्ववसीदन्तोऽपि धार्मिकाः = धर्मनिरताः संविग्नपाक्षिकाः = संविग्नपक्ष कृतः तेऽपि मार्गस्यान्वाचयो भावसाध्वपेक्षया पृष्ठलग्नतालक्षणस्तेन शालन्त इत्येवंशीलाः (=मार्गान्वाचयशालिनः) । तदुक्तं- 'लब्भिहिसि तेण पहं ति' (उपदेशमाला.५२२) ।।२१।। शुद्धप्ररूपणैतेषां मूलमुत्तरसम्पदः । १. नमन्तो वैके जीवितं विपरिणामयन्ति । २. मुद्रितप्रतौ 'इति' नास्ति । ३. मुद्रितप्रतौ 'पक्षीकृतः' इति पाठः। ।।४२।। Jain Education Interational Page #48 -------------------------------------------------------------------------- ________________ मा + has to र्ग द्वा त्रिं का ३/२३ सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः ।। २२।। शुद्धेति । एतेषां = संविग्नपाक्षिकाणां शुद्धप्ररूपणा एव मूलं सर्वगुणानामाद्यमुत्पत्तिस्थानं, तदपेक्षयतनाया एव तेषां निर्जराहेतुत्वात् । तदुक्तं 'हीणस्स वि सुद्धपरूवगस्स संविग्गपक्खवाइस्स । जा जा हविज्ज जयणा सा सा से णिज्जरा होइ ।। (उपदेशमाला ५२६ ) इच्छायोगसम्भवाच्चात्र नेतराङ्गवैकल्येऽपि फलवैकल्यम् । सम्यग्दर्शनस्यैवात्र सहकारित्वात्, शास्त्रयोग एव सम्यग्दर्शन -चारित्रयोर्द्वयोस्तुल्यवदपेक्षणात् । तदिदमुक्तम्- 'दंसणपक्खो सावय चरित्तभट्ठे य मंदधम्मे य । दंसणचरित्तपक्खो समणे परलोकंखिंमि ।। ( आवश्यकनिर्युक्ति - ११६५) उत्तरसम्पदः = उत्कृष्टसम्पदश्च सुसाधूनां ग्लानेरपनायकं यद् भैषज्यं तत्प्रदानं चाभ्यर्चनं च तदादिकाः (= सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः ) ||२२|| आत्मार्थं दीक्षणं तेषां निषिद्धं श्रूयते श्रुते । ज्ञानाद्यर्थाऽन्यदीक्षा च स्वोपसम्पच्च नाऽहिता ।। २३ ।। आत्मार्थमिति । आत्मार्थं = स्ववैयावृत्त्याद्यर्थं तेषां = संविग्नपाक्षिकाणां दीक्षणं श्रुते १. हीनस्यापि शुद्धप्रख्पकस्य संविग्नपक्षपातिनः । या या भवेद्यतना सा सा तस्य निर्जरा भवति । २. 'जो जो ' इत्यशुद्धः पाठो हस्तप्रतौ । ३. दर्शनपक्षः श्रावके चारित्रभ्रष्टे च मन्दधर्मे च । दर्शनचारित्रपक्षः श्रमणे परलोककाङ्क्षिणि । ।।४३ ।। Page #49 -------------------------------------------------------------------------- ________________ कफ has its त्रिं शि का ३/२५ निषिद्धं श्रूयते, 'अत्तट्ठा न वि दिक्खइ' (उपदेशमाला - ५१६) इति वचनात् । ज्ञानाद्यर्था अन्येषां भावचरेणपरिणामवत्पृष्ठभाविनामपुनर्बन्धकादीनां दीक्षा च ( = अन्यदीक्षा च) तदर्थं च तेषां स्वोपसम्पच्च नाऽहिता' = नाऽहितकारिणी, असद्ग्रहपरित्यागार्थमपुनर्बन्धकादीनामपि दीक्षणाऽधिकारात् । तदुक्तं 'सइअपुणबंधगाणं कुग्गहविरहं लहुं कुणइत्ति' (पञ्चाशक. २ / ४४) । तात्त्विकानां तु तात्त्विकैः सह योजनमप्यस्याचारः । तदुक्तं - 'देइ सुसाहूण बोहेउ' ( उपदेशमाला - ५१३) ति ।।२३।। नावश्यकादिवैयर्थ्यं तेषां शक्यं प्रकुर्वताम् । अनुमत्यादिसाम्राज्याद् भावावेशाच्च चेतसः ।।२४।। ने । आवश्यकादिवैयर्थ्यं च तेषां स्ववीर्यानुसारेण शक्यं स्वाचारं प्रकुर्वतां न भवति, तत्करण एवाचारप्रीत्येच्छायोगनिर्वाहात् । तथाऽनुमत्यादीनां = अनुमोदनादीनां साम्राज्यात् = सर्वथाऽभङ्गात् ( = अनुमत्यादिसाम्राज्यात्) । चेतसः = चित्तस्य भावावेशात् अर्थाद्युपयोगाच्च श्रद्धामेधाद्युपपत्तेः ||२४|| = द्रव्यत्वेऽपि प्रधानत्वात्तथाकल्पात् तदक्षतम् । यतो मार्गप्रवेशाय मतं मिथ्यादृशामपि ।। २५ ।। १. हस्तादर्शे 'निषिद्धं श्रूयते' इति नास्ति । २. मुद्रितप्रतौ 'चरप' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ 'नाऽहिता' इति पाठो नास्ति । 118811 Page #50 -------------------------------------------------------------------------- ________________ द्रव्यत्वेऽपीति । तदावश्यकस्य भावसाध्वपेक्षया द्रव्यत्वेऽपि प्रधानत्वाद् = इच्छाद्यतिशयेन भावकारणत्वाद्, द्रव्यपदस्य क्वचिदप्रधानार्थकत्वेन क्वचिच्च कारणार्थकत्वेनानुयोगद्वारवृत्तौ व्यवस्थापनात्। तथाकल्पात् = तथाऽऽचारात् तद् = आवश्यकं तेषां अक्षतं, यतो मार्गप्रवेशाय मिथ्यादृशामपि तदावश्यकं मतं = गीतार्थैरङ्गीकृतं, अभ्यासरूपत्वात्, अस्खलितत्वादिगुणगर्भतया द्रव्यत्वोपवर्णनस्यैतदर्थद्योतकत्वाच्च ।।२५ ।। मार्गभेदस्तु यः कश्चिन्निजमत्या विकल्प्यते । स तु सुन्दरबुद्ध्यापि क्रियमाणो न सुन्दरः ।।२६।। मार्गेति । व्यक्तः ।।२६।। निवर्तमाना अप्येके वदन्त्याचारगोचरम् । आख्याता मार्गमप्येको नोञ्छजीवीति च श्रुतिः ॥२७।। निवर्तमाना इति । एके संयमाद् निवर्तमाना अप्याचारगोचरं यथावस्थितं वदन्ति 'वयमेवं कर्तुमसहिष्णवः,मार्गः पुनरित्थम्भूत एवे'ति। • यद् आचारसूत्रं नियट्टमाणा' वेगे आयारगोअरमाइक्खंति' (आचा.६/४/१८९)। अत्र संयमाल्लिङगाद्वा निवर्तमानाः, 'वा' शब्दादनिवर्तमानाश्च लभ्यन्ते, उभयथाप्यवसीदन्त एव योजिता। यथास्थिताचारोक्त्या हि १. मुद्रितप्रती 'वयमेव' इति पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । २. निवर्तमाना वैके आचारगोचरमाचक्षते । ||४५।। Jain Education Interational Page #51 -------------------------------------------------------------------------- ________________ मा 원과 백의 शि का ३/२८ तेषामेकैव' बालता भवत्याचारहीनतया न तु द्वितीयापि । ये तु हीना अपि वदन्ति ‘एवंभूत एवाचारोऽस्ति योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषमानुभावेन' बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी, नोत्सर्गावसरः' इति, तेषां तु द्वितीयापि बालता बलादापतति, गुणवदोषानुवादात् । यदागमः- सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बितिआ मंदस्स बालया' (आचाराङ्ग- ६/४/१८६) । तथा 'मार्गमेक आख्याता न चोञ्छजीवी' त्यपि श्रुतिरस्ति । तदुक्तं स्थानाङ्गे - आघाइत्ता ( ? आघवतिता ) णामं एगे णो उंछजीवी (उंछजीविसंपन्ने ? ) ' ( स्था. ४/४/३४४ ) इति ।। २७ ।। असंयते संयतत्वं मन्यमाने च पापता । भणिता तेन मार्गोऽयं तृतीयोऽप्यवशिष्यते ॥ २८ ॥ असंयत इति । असंयते संयतत्वं मन्यमाने च पापता भणिता, 'असंजए संजयलप्पमाणे पावसमणुत्ति वुच्चइ' (उत्तरा . १७/६ ) त्ति पापश्रमणीयाध्ययनपाठात्, असंयते यथावस्थितवक्तरि पापत्वानुक्तेः । तेन कारणेन अयं = संविग्नपक्षरूपस्तृतीयोऽपि मार्गोऽवशिष्यते, साधुश्राद्धयोरिव संविग्नपाक्षिकस्याप्याचारेणाऽविसंवादिप्रवृत्तिसम्भवात् । तदुक्तं " सावज्जजोगपरिवज्जणाइ सव्वुत्तमो अ जइधम्म । १. मुद्रितप्रतौ 'मेकैकबा...' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' नुभवेन' इति पाठः । ३. शीलवन्त उपशान्ताः सङ्ख्यया गच्छन्तः ‘अशीला' अनुवदतो द्वितीया मन्दस्य बालता ।। १८६ ।। ४. आख्यायकः नाम एको नोञ्छजीविकासंपन्नः । ५. सावद्ययोगपरिवर्जनातः सर्वोत्तमश्च यतिधर्मः । द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः । ।।४६।। Page #52 -------------------------------------------------------------------------- ________________ बीओ सावगधम्मो तइओ संविग्गपक्खपहो ।। (उपदेशमाला ५१९) योगाख्यो मार्गः संविग्नपाक्षिकाणां नासम्भवी, मैत्र्यादिसमन्वितवृत्तादिमत्त्वेनाध्यात्मादिप्रवृत्त्यबाधात् । 'अविकल्पतथाकाराविषयत्वेन नैतद्धर्मो मार्गः, 'कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पंचसु ठिअस्स संजमतवड्ढगस्स उ अविगप्पेण तहक्कारो ।।(आवश्यकनियुक्ति६८८) इति वचनात् साधुवचन एवाविकल्पेन तथाकारश्रवणादिति चेत् ? न, एतद्वचनबलादन्यत्र लभ्यमानस्य विकल्पस्य व्यवस्थितत्वेन व्याख्यानात्। ___ व्यवस्था चेयं-संविग्नपाक्षिकस्य वचनेऽविकल्पेनैव तथाकारोऽन्यस्य तु 'विकल्पेनैवेति । विवेचितं चेदं सामाचारीप्रकरणेऽस्माभिः (गाथा ३२) ।।२८।। "साधुः श्राखश्च संविग्नपक्षी शिवपथास्त्रयः। शेषा भवपथा रोहिद्रव्यलिङ्गिकुलिङ्गिनः।।२९।। गुणी च गुणरागी च गुणद्वेषी च साधुषु । श्रूयन्ते व्यक्तमुत्कृष्टमध्यमाधमबुद्धयः ।।३०।। ते च चारित्र-सम्यक्त्व-मिथ्यादर्शनभूमयः। अतो द्वयोः प्रकृत्यैव वर्तितव्यं यथाबलम् ॥३१॥ १. कल्पाकल्पे परिनिष्ठितस्य स्थानेषु पञ्चसु स्थितस्य । संयमतपआढ्यकस्य त्वविकल्पेन तथाकारः ।। २.मुद्रितप्रतौ 'संजमतववट्टग...' इति पाठः। ३. हस्तादर्श 'विकल्पेनेवे...' इत्यशुद्धः पाठः। ४. हस्तादर्श इत आरभ्य चतुःश्लोकी नास्ति। ॥४७॥ Jain Education Intemational Page #53 -------------------------------------------------------------------------- ________________ इत्थं मार्गस्थिताचारमनुसृत्य प्रवृत्तया । मार्गदृष्ट्यैव लभ्यन्ते परमानन्दसम्पदः ॥३२॥ 'साधुरित्याद्यारभ्य चतुःश्लोकी सुगमा ।।२९।।३० ।।३१।।३२।। ।। इति मार्गद्वात्रिंशिका ।।३।। ॥ अथ जिनमहत्त्वद्वात्रिंशिका ।।४।। मार्गविवेचनाऽनन्तरं तद्देशकस्य भगवतो माहात्म्यं व्यवस्थाप्यते वप्रत्रय-ध्वज-च्छत्र-चक्र-चामरसम्पदा। महत्त्वं न विभोस्तादृङ्मायाविष्वपि सम्भवात् ॥१॥ वप्रेति । तादृक = प्रेक्षावच्चमत्कारजनकं, मायाविष्वपि = ऐन्द्रजालिकेष्वपि । यदि हिं बाह्यसम्पदैव महत्त्वबुद्धिर्धर्मजननी स्यात्तदा मायाविष्वपि सा स्यादित्यर्थः । तदिदमुक्तं समन्तभद्रेणापि देवागम-नभोयान-चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।। (आप्तमीमांसा.१) इति । १. मुद्रितप्रतौ प्रतिश्लोकं 'साधुरिति व्यक्तः । गुणीति व्यक्तः । ते चेति व्यक्तः। इत्थमिति व्यक्तः।' २. विभुत्वं' | इति हस्तलिखितप्रतिषु मुद्रितप्रतिषु च। वृत्तिपाठात् हस्तादर्शविशेषाच्च 'महत्त्वं' इति मूलपाठो निश्चीयते। ।।।।४८।। Jain Education Interational For Private & Personal use only Page #54 -------------------------------------------------------------------------- ________________ भर में व न च व्यक्तिविशेषविषयकत्वेन नाऽतिप्रसङ्ग इति शङकनीयं, प्रमेयत्वादिना महत्त्वप्रकारकज्ञानादपि 'फलापत्तेर्विशेषरूपेण महत्त्वप्रकारकत्वनिवेशस्याऽऽवश्यकत्वात् । अत एवाऽसाधावप्यालय-विहारादिमत्त्वेन साधुत्वबुद्धावपि विशेषाऽदर्शनदशायां न फला-ऽभाव इति तत्र तत्र व्यूत्पादितम् । ___ अव्यक्तसमाधिफलविशेषे तु विषयविशेषोऽपि निवेश्यः । *यदि चाऽऽलयविहारादिलिङगेन साधुत्वमनुमीयत एव, तदनुमितिप्रयोज्यवन्दनादिना च फलविशेष इति विभाव्यते, तदा भगवत्यपि विशिष्टरूपेण महत्त्वाऽनुमित्यनन्तरमेव स्मरणादिना फलोदयाऽविशेषाद् ‘महत्त्वं ने'त्यनन्तर मनुमेयम्' इत्यध्याहारान्नाऽनुपपत्तिः, स्वेतरनिष्ठाऽत्यन्ताभावप्रतियोगिगुणवत्त्वरूपस्य महत्त्वस्य बाह्यसम्पदाऽनुमातुमशक्यत्वात्, मायाविष्वेव व्यभिचारात् ।।१।। स्वामिनो वचनं यत्तु संवादि न्यायसङ्गतम् । कुतर्कध्वान्तसूर्यांशुमहत्त्वं तद्यदभ्यधुः ।।२।। स्वामिन इति । यत्तु स्वामिनः = वीतरागस्य वचनं संवादि = समर्थप्रवृत्तिजनक न्यायसगतं = स्याद्वादमुद्रामनतिक्रान्तं, एकान्तस्य तत्त्वतोऽन्याय्यत्वात । १. हस्तादर्श 'फलाथात्र' इत्यशुद्धः पाठः । २. हस्तादर्श 'महद...' इत्यशुद्धः पाठः । ३. 'आत्मवि...' इत्यशुद्धः पाठो हस्तादर्श । ४. हस्तादर्श 'यदि चालय यदि चालय' इति द्विरुक्तः पाठः । ५. हस्तादर्श 'वन्दनादि' इति पाठः । ६. हस्तादर्श 'भ्याधात्' इति पाठः । परं व्याख्यानुसारेण न स सङ्गच्छते । ॥४९॥ Jain Education Interational For Private & Personal use only Page #55 -------------------------------------------------------------------------- ________________ Fhoto धर्मधर्मिसम्बन्धभेदेऽनवस्थानात् । तदभेदे च सहप्रयोगाद्यनुपपत्तेः । धर्मिग्राहकमानेन स्वतः सम्बद्धस्य सम्बन्धान्तरस्य कल्पनाऽपेक्षया तेनैव सिद्धस्य शबलस्य वस्तुनोऽभ्युपगमस्य न्याय्यत्वात् । तदनुभवेऽपि चैकान्तभ्रमस्य दोषप्राबल्यादुपपत्तेः । विशेषदर्शनेन च तस्य निवर्तयितुं शक्यत्वादिति दिक् । 'कुतर्का एव ध्वान्तानि तेषु सूर्यांशुः । तन्महत्त्वं (=कुतर्कध्वान्तसूर्यांशुमहत्त्वं), अवच्छेद्याऽवच्छेदकयोर्लिङ्गलिङ्गिनोर्वा स्याद्वादाऽऽश्रयणेन कथञ्चिदभेदात्' । यदभ्यधुः श्रीहरिभद्रसूरयः ।।२।। पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥३॥ पक्षपात इति । न मे = मम वीरे = श्रीवर्धमानस्वामिनि पक्षपातः = गुणाऽनालोचनपूर्व || एव रागः । कपिलादिषु च न मे द्वेषः । किन्तु यस्य वचनं युक्तिमत्तस्य परिग्रहः || = स्वीकारः कार्यः । इत्थं चात्राविसंवादिवचनत्वेनैव भगवतो महत्त्वमाचार्यैरभिप्रेतम ।।३।। ।।५ ।। १. मुद्रितप्रती 'कुतुर्का' इत्यशुद्धः पाठः । २. हस्तादर्श 'कथञ्चिद' इति त्रुटितः पाठः । ३. हस्तादर्श 'कापि...' इति पाठः । ४. मुद्रितप्रतौ 'भगवति' इति पाठः । Jain Education Interational For Private & Personal use only Page #56 -------------------------------------------------------------------------- ________________ औदयिकभावस्याऽपि विशिष्टस्य महत्त्वप्रयोजकत्वं व्यवस्थापयति पुण्योदयभवैर्भावैर्मतं क्षायिकसङ्गतैः । महत्त्वं महनीयस्य बाह्यमाभ्यन्तरं तथा ।।४।। __पुण्येति । पुण्योदयभवैः = तीर्थकरनामकर्माद्युदयोत्पन्नैः भावैः = विशिष्टसंहननरूप-सत्त्वसंस्थानगतिप्रभृतिभिः क्षायिकसङ्गतैः = क्षायिकज्ञानादिमिलितैः महत्त्वं महनीयस्य = पूज्यस्य मतं बाह्यं तथाऽऽभ्यन्तरं प्रत्येकं विशिष्टमेव वा कथचिदुभयव्यपदेशभाक् । इत्थं च विशिष्टबाह्यसंपदोऽन्याऽसाधारणत्वान्नाऽतिप्रसञ्जत्वमिति भावः ।।४।। बहिरभ्युदयाऽऽदर्शी भवत्यन्तर्गतो गुणः। मणेः पटाऽऽवृतस्यापि बहिर्कोतिरुदञ्चति ।।५।। बहिरिति । व्यक्तः ।।५।। स्वभावभेदादपि कार्यैकलिङ्गकं महत्त्वमाह भेदः प्रकृत्या रत्नस्य जात्यस्याऽजात्यतो यथा। तथाऽर्वागपि देवस्य भेदोऽन्येभ्यः स्वभावतः।।६।। भेद इति । अर्वागपि = मिथ्यात्वादिदशायामपि । स्वभावत इति । अन्यथा स्वस्मिन्नन्यवृत्तिगुणाऽऽपत्तेः । न च प्रागभावाऽभावान्नेयमापत्तिः, १. हस्तादर्श '...गतइः' इत्यशुद्धः पाठः । २. 'संगत्व...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्श 'बहिसुमुदया' इत्यशुद्धः पाठः । ।।१।। Jain Education Interational For Private & Personal use only Page #57 -------------------------------------------------------------------------- ________________ स्वगुणप्रागभावस्य स्वयोग्यतापरिणतिपर्यवसितत्वादिति भावः ।।६।। नित्यनिर्दोषताऽभावान्महत्त्वं नेति दुर्वचः । नित्यनिर्दोषता यस्माद् घटादावपि वर्तते ।।७।। नित्येति । नित्यनिर्दोषताया अभावात् (= नित्यनिर्दोषताऽभावात्)महत्त्वं न प्रक्रमाद्वीतरागे इति दुर्वचः = दुष्टं वचनं, यस्माद् नित्यनिर्दोषता = दोषाऽत्यन्ताऽभाववत्त्वरूपा नित्यत्वे सतीयमेव वा घटादावपि वर्तते । आदिनाऽऽकाशादिग्रहः । ____ इत्थं च 'वीतरागो न महान्, नित्यनिर्दोषत्वाभावादि'त्यन्वयिनि घटादौ दृष्टान्ते साधनवैकल्यमुपदर्शितं भवति, व्यतिरेकिणि चेश्वरदृष्टान्ते नोभयवादिसम्मतत्वम् । वीतरागस्यैवाऽसिद्धौ परस्याऽऽश्रयाऽसिद्धिश्च, तत्सिद्धौ वा धर्मिग्राहकमानेन तन्महत्त्वसिद्धौ बाधश्चेति द्रष्टव्यम् ।।७।। सात्मन्येव महत्त्वाङ्गमिति चेत्तत्र का प्रमा । पुमन्तरस्य कल्प्यत्वाद् ध्वस्तदोषो वरं पुमान् ।।८।। ___ सेति । सा = नित्यनिर्दोषता आत्मन्येव = आत्मनिष्ठैव महत्त्वाङ्गम् । इत्थं च नित्यनिर्दोषात्मत्वाभावस्य हेतुत्वान्न दृष्टान्ते साधनवैकल्यमिति भावः । अत्राऽऽह- इति चेत ? तत्र = आत्मनि नित्यनिर्दोषत्वे का प्रमा = किं प्रमाणम् ? १.हस्तादर्श 'च' इति पाठः । २.हस्ताद” 'द्रव्येष्टे' इत्यशुद्धः पाठः । ३.मुद्रितप्रतो । निर्दोषत्वाभा..' इत्यशुद्धः पाठः । ।।।।५।। Jain Education Interational For Private & Personal use only Page #58 -------------------------------------------------------------------------- ________________ क + E he_2_st तथा च प्रतियोग्यप्रसिद्ध्याऽभावाऽप्रसिद्धेर्हेतुरेवाऽसिद्ध इति भावः। महत्पदप्रवृत्तिनिमित्ततयैव नित्यनिर्दोषात्मत्वं सेत्स्यतीत्यत आह- पुमन्तरस्य = नित्य|| निर्दोषस्य पंसः कल्प्यत्वाद्वरं ध्वस्तदोषः पुमान कल्पनीयः । तथा च 'दोषाऽत्यन्ताऽभाववदा | त्मत्वाऽपेक्षया लघौ दोषध्वंस एव महत्पदप्रवृत्तिनिमित्तत्वकल्पनं न्याय्यमिति भावः । वस्तुतः पदप्रवृत्तिनिमित्तमात्रं न पदार्थाऽन्तरकल्पनक्षममिति द्रष्टव्यम् ।।८।। ध्वस्तदोषत्वे भगवतः समन्तभद्रोक्तं मानमनुवदति दोषाऽऽवरणयोर्हानिनिःशेषाऽस्त्यतिशायनात् । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः२ ॥९॥ दोषेति । क्वचिदोषावरणयोनिःशेषा हानिरस्ति, अतिशायनात् = तारतम्यात्, यथा स्वहेतुभ्यः = मलक्षयहेतुभ्यः स्वर्णादेर्बहिरन्तश्च मलक्षयः । यद्यपि अत्र 'दोषाऽऽवरणे निःशेषहानिप्रतियोगिनी, तारतम्यवद्धानिप्रतियोगित्वादि'त्यनुमाने पक्षविवेचने बाधाऽसिद्धी न 'क्वचित्'पदग्रहणमात्रनिवत्यै । साध्याऽऽश्रयतया पृथक्कृतां व्यक्तिमनुपादाऽऽयापादनाच्च न दिङ्नागमतप्रवेशः । न च निःशेषहानिप्रतियोगिजातीयत्वस्य साध्यत्वे सम्प्रतिपन्नस्वर्णमलस्य दृष्टान्तत्वे च न कोऽपि दोष इति वाच्यम, निःशेषक्षीयमाणस्वर्णमलवृत्तिदोषाऽऽवरणसाधारणौपाधि१. मुद्रितप्रतौ 'दोषात्यन्ताभावादात्म....' इत्यशुद्धः पाठः । २. हस्तादर्श ‘र्बलक्षयः' इत्यशुद्धः पाठः । ३. हस्तादर्श '...पदग्रहग्रहण...' इत्यधिकः पाठः । ४. हस्तादर्श 'शोचि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'स्वि' इत्यशुद्धः पाठः । , ।।५३। Jain Education Interational For Private & Personal use only Page #59 -------------------------------------------------------------------------- ________________ जि न म he P has त्त्व द्वा त्रिं शि का ४/१० कत्वजातिसिद्ध्याऽर्थान्तराऽऽपत्तेः । दोषत्वादिजातिग्रहे च दृष्टान्तस्य साध्यविकलत्वात्, तथापि दोषत्वमावरणत्वं च निःशेषक्षीयमाणवृत्ति देशतः क्षीयमाणवृत्तिजातित्वात्, स्वर्णमलत्ववदित्यत्र तात्पर्यम् ।।९।। इत्थं जगदकर्तृत्वेऽप्यमहत्त्वं निराकृतम् । कार्ये कर्तृप्रयोज्यस्य विशेषस्यैव दर्शनात् ।। १० । = इत्थमिति । इत्थं ध्वस्तदोषत्वेनैव महत्त्वसिद्धौ जगदकर्तृत्वेऽपि सति भगवतः अमहत्त्वं निराकृतं जगत्कर्तृत्वस्य क्वचिदप्यसिद्धेश्च । न च ' क्षित्यादिकं सकर्तृकं, कार्यत्वात्, घटादिवत्' इत्यनुमानात्तत्सिद्धिः, अप्रयोजकत्वात् । 'कार्यत्वेन 'कर्तृत्वेन च कार्यकारणभावस्य विपक्षबाधकस्य तर्कस्य सत्त्वान्नाऽप्रयोजकत्वमिति चेत् ? न, कार्यत्वाऽवच्छिन्नं प्रति कर्तृत्वेन हेतुत्वे प्रमाणाऽभावात्, कार्ये = घटादौ कर्तृप्रयोज्यस्य कर्तृजन्यताऽवच्छेदकस्य विशेषस्यैव क्षिति-मेर्वादिव्यावृत्तजातिविशेषस्यैव दर्शनाद् : 'इदं सकर्तृकमिदं च ने 'ति व्युत्पन्नव्यवहारेण ग्रहणाद्, व्याप्यधर्मेण व्यापकधर्माऽन्यथासिद्धेः, = = = तदवच्छिन्न एव कर्तृत्वेन हेतुत्वात् । 'पृथिवीत्वादिना साङ्कर्यान्नाऽयं विशेष' इति चेत् ? न, उपाधिसाङ्कर्यस्येव जातिसाङ्कर्यस्याऽप्यदूषणत्वस्य त्वदीयैरेव व्यवस्थापितत्वात्, 9 हस्तादर्शे 'कन' इति त्रहितोऽशब्दश्च पाठः । ।।५४।। Page #60 -------------------------------------------------------------------------- ________________ ____ कार्यत्वस्य कालिकसम्बन्धेन घटत्व-पटत्वादिमत्त्वरूपस्य नानात्वात् । कृत्यव्यवहितोत्तरत्वस्य परम्परासम्बन्धेन कृतित्वस्यैव वा कर्तृजन्यताऽवच्छेदकत्वौचित्याच्च ।।१०।। 'द्रव्यजन्यताऽवच्छेदकतया सिद्धं जन्यसत्त्वमेव कर्तृकार्यताऽवच्छेदकं भविष्यतीत्यत आह कर्तृत्वेन च हेतुत्वे ज्ञातृत्वेनाऽपि तद् भवेत् । ज्ञानस्यैव च हेतुत्वे सिद्धे नः सिद्धसाधनम् ।।११।। कर्तृत्वेनेति । कर्तृत्वेन च हेतुत्वे ज्ञातृत्वेनाऽपि तद् = हेतुत्वं भवेत्, तथा चाऽनेककार्यकारणभावकल्पनमित्थमप्रामाणिकमिति भावः । ___ 'घट-तदुपादानप्रत्यक्षयोः कार्यकारणभावः कल्प्यमानः सामान्यव्यभिचाराऽनुपस्थितिलाघवाभ्यां सामान्यत एव सिध्यतीति द्व्यणुकाद्युपादानप्रत्यक्षाऽऽश्रयतया जगत्कर्तृत्वं सेत्स्यती'त्यत आह- ज्ञानस्यैव च हेतुत्वेऽभ्युपगम्यमाने "सिद्धे नः = अस्माकं सिद्धसाधनं, प्रवाहतस्तेषामनादित्वात् । तदिदमुच्यते → 'जं जहा भगवया दिटुं तं तहा विपरिणमइत्ति (व्याख्याप्रज्ञप्ति-१।४।४१)। ___अपि चैवमुपादानप्रत्यक्षं निराश्रयमेव सिध्यतु, गुणस्य साश्रयकत्वव्याप्तौ मानाऽभावात्, क्षणमात्रमिव सदापि कस्यचिद् गुणस्यानाश्रयस्याऽवस्थितेर्वक्तुं शक्यत्वात् ।।११।। १. हस्तादर्शविशेषे 'द्रव्यजन्यतावच्छेदकत्वोचित्याच्च' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रतौ 'कर्तृकार्यत्वा...' इति पाठान्तरम्। ३. हस्तादर्श 'सिदै निः' इत्यशुद्धः पाठः । ४. मुद्रितप्रतो 'सिद्धेः' इति पाठः, हस्तादर्श तु 'सिद्धौः' इति पाठः । ५. यद्यथा भगवता दृष्टं तत्तथा विपरिणमति । ४/११ Page #61 -------------------------------------------------------------------------- ________________ क + hcen __ 'ब्रह्माण्डादिधृतिः प्रयत्नजन्या, धृतित्वात्, घटादिधृतिवत्' इत्यनुमानाद् ब्रह्माण्डादिधारकप्रयत्नाऽऽश्रयतया जगत्कर्तृत्वसिद्धिः । तथा च श्रुतिः ‘एतस्य चाऽक्षरस्य प्रशासने गार्गि' ! द्यावापृथिवी विधृते तिष्ठतः' (बृहदारण्यक-८/३/९) इत्यत आह धृत्यादेरपि धर्मादिजन्यत्वान्नाऽत्र मानता । कृतित्वेनापि जन्यत्वाच्चेत्यन्यत्रैष विस्तरः ॥१२॥ धृत्यादेरिति । धृत्यादेरपि, धृतिः पतनप्रतिबन्धकः संयोगः आदिना स्थितिग्रहः, धर्मादिजन्यत्वाद्, आदिना स्वभावादिग्रहः, 'नाऽत्र = जगत्कर्तृत्वे मानता = प्रमाणता । उक्तश्रुतावक्षरप्रशासनपदयोः सङ्ग्रहाऽभिमतैकात्म-तद्धर्मपरतया नाऽनुपपत्तिः । किञ्च प्रयत्नवदीश्वरसंयोगमात्रस्य धारकत्वेऽतिप्रसङ्गः । ___ धारणाऽनुकूलप्रयत्नवदीश्वरसंयोगस्य 'धारणाऽवच्छिन्नेश्वरप्रयत्नस्यैव वा तत्त्वे स एव दोषो यदि न स्वजनकवृत्तिधारणाऽवच्छिन्नविशेष्यताया धारणाऽवच्छिन्नविशेष्यताया एव वा धारकताऽवच्छेदकसम्बन्धत्वमभ्युपगम्यते । _____ तदभ्युपगमे च तज्ज्ञानेच्छयोरपि धारकत्वाऽऽपत्तौ गौरवात् । १. हस्तादर्श 'गार्गी' इत्यशुद्धः पाठः । २. हस्तादर्श 'परितन.. इत्यशुद्धः पाठः । ३. हस्तादर्श ‘मात्र' इत्यशुद्धः पाठः । ४. हस्तादर्श ....गमस्य' इति त्रुटितोऽशुद्धश्च पाठः । ५. मुद्रितप्रतौ 'धारणव...' इत्यशुद्धः पाठः । ६. मुद्रितप्रती 'धारणावच्छिन्नविशेष्यताया' इति पदं नास्ति । ७. हस्तादर्श 'ज्ञान-क्रिस्थयो' इत्यशुद्धः पाठः । के ४/१२ ।।।५६।। Jain Education Interational Page #62 -------------------------------------------------------------------------- ________________ जि न म ho has de ह त्त्व त्रिं शि का ४/१३ लाघवाद्धर्मस्यैव' धारकत्वौचित्यम् । तदिदमुच्यते निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चाऽवतिष्ठते तत्र धर्मादन्यन्न कारणम् ।। ← (योगशास्त्र. ४ / १८ ) इति । तथा कृतित्वेनापि जन्यत्वाच्च न जगत्कर्तृत्वसिद्धिः । कृतित्वाद्यवच्छिन्ने इच्छादेर्हेतुत्वान्नित्यकृत्यादौ मानाऽभावात् जन्यत्वस्य कार्यताऽवच्छेदककोटौ प्रवेशे गौरवात्, फलमुखस्याऽपि तस्य क्वचिद्दोषत्वात् । ‘‘नित्यं विज्ञानमानन्दं ब्रह्म' (बृहदारण्यक - ३/९/२८) इति श्रुतेर्नित्यज्ञानसिद्धावपि नित्येच्छाकृत्योरसिद्धेः, अत एव नित्यसुखस्याऽपीश्वरे सिद्धिप्रसङ्गाच्च । तस्मादुक्तश्रुतिरपि नित्यज्ञान-सुखाऽऽश्रयतया ध्वस्तदोषत्वेनैव महत्त्वमीश्वरस्य बोधयतीति स्थितम् । इत्येष विस्तरोऽन्यत्र = स्याद्वादकल्पलतादौ, दिग्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ।। १२ ।। अन्ये त्वाहुर्महत्त्वं हि संख्यावद्दानतोऽस्य न । शास्त्रे नो गीयते ह्येतदसङ्ख्यं त्रिजगद्गुरोः ।।१३।। अन्ये त्विति । अन्ये तु = बौद्धास्तु आहुः 'अस्य = जिनस्य हि सङ्ख्यावद्दानतो न महत्त्वम् । श्रूयते हि 'जिनदानस्य सङ्ख्यावत्त्वं, "तिन्नेव य कोडिसया अट्ठासीअं १. 'धर्मस्येव' इत्यशुद्धो मुद्रितप्रतौ । २. 'धारो' इत्यशुद्धः पाठो हस्तादर्शे । ३. मुद्रितप्रती 'कार्यत्वा... इति पाठान्तरम् । ४. ‘नित्यवि....' इति पाठो मुद्रितप्रतौ । ५. हस्तादर्शे 'सिधं' इत्यशुद्धः पाठः । ६. हस्तादर्शे 'जिनं दा...' इति पाठ: । ७ त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोट्यः । अशीतिश्च शतसहस्राण्ये - तत्संवत्सरे दत्तम् ||२२० || आ.नि. ।। For Private Personal Use Only 114011 Page #63 -------------------------------------------------------------------------- ________________ जि न म ह he te has its त्त्व द्वा त्रिं शि का ४/१४ च हुंति कोडिओ । असियं च सयसहस्सा एयं संवच्छरे दिन्नं ।। ' ( आ.नि. २२० ) इत्यादिना । नः = अस्माकं शास्त्रे च एतद् = दानं (हि) असङ्ख्यं त्रिजगद्गुरोः = बोधिसत्त्वस्य गीयते । तदुक्तं - “एते हाटकराशयः प्रवितताः शैलप्रतिस्पर्द्धिनो, रत्नानां निचयाः स्फुरन्ति किरणैराक्रम्य भानोः प्रभाः। हाराः पीवरमौक्तिकौघरचितास्तारावली भासुरा, यानादाय निजानिव स्वगृहतः स्वैरं जनो गच्छति ।। " ( ) इत्यादि । । १३ ।। असङ्ख्यदानदातृत्वेन हि बोधिसत्त्वस्य बहुविभूतिमत्त्व - कार्पण्याऽभावादिना परेण महत्त्वं व्यवस्थाप्यते, सङ्ख्यावद्दानदातृत्वेन च जिनस्य तद्विपर्ययान्न महत्त्वमिति, तच्चाऽयुक्तं, सङ्ख्यावत्त्वस्याऽन्यप्रयुक्तत्वादित्याशयेन समाधते अत्रोच्यते न सङ्ख्यावद्दानमर्थाद्यभावतः । सूत्रे वरवरिकायाः श्रुतेः किं त्वर्थ्यभावतः । । १४ ॥ अत्रोच्यते इति । अत्र = भगवद्दानस्य सङ्ख्यावत्त्वे उच्यते- न संख्यावद्दानमर्थाद्यभावतः, आदिनोदारत्वग्रहः । अत्रैव किं मानमित्यत आह- सूत्रे = आवश्यकनिर्युक्त्यादिरूपे वरवरिकायाः = ‘वृणुत वरं, वृणुत वरमित्युद्घोषणारूपायाः श्रुतेः, तस्याश्चार्थाद्यभावविरोधात्, किन्त्वर्थ्यभावतः = अन्यादृशयाचकाऽभावात् । तदिदमुक्तं १. हस्तादर्शे ...गृहित' इति पाठः । ।। ५८ ।। Page #64 -------------------------------------------------------------------------- ________________ Phow 'महादानं हि संख्यावदीभावाज्जगद्गुरोः । सिद्धं वरवरिकातस्तस्याः सूत्रे विधानतः ।।' (अष्टक.२६/५) इति ।।१४।। स च स्वाम्यनुभावेन सन्तोषसुखयोगतः । धर्मेऽप्युग्रोद्यमात्तत्त्वदृष्ट्येत्येतदनाविलम् ॥१५॥ स चेति । स च = अर्थ्यभावश्च स्वाम्यनुभावेन = भगवतः सिद्धयोगफलभाजः प्रभावेण सोपक्रम-निरुपक्रमधनाऽऽदानवाञ्छाजनककर्मणा(णां) सन्तोषसुखस्याऽनिच्छामितेच्छालक्षणस्य योगतः = सम्भवात् (= सन्तोषसुखयोगतः) । ____ तथा स्वाम्यनुभावेनैव प्राणिनां धर्मेऽपि कुशलाऽनुष्ठानरूपे उग्रोद्यमात् = अतिशयितप्रयत्नात् तत्त्वदृष्ट्या = संसाराऽसारतापरिज्ञानेन, इत्येतत् = सङ्ख्यावद्दानं अनाविलं = निर्दोषम् । तदिदमुक्तं"महानुभावताप्येषा 'तद्भावे न यदर्थिनः । विशिष्टसुखयुक्तत्वात् सन्ति प्रायेण देहिनः।। धर्मोद्यताश्च तद्योगात्ते तदा तत्त्वदर्शिनः । महन्महत्त्वमस्यैवमयमेव जगद्गुरुः ।।" (अष्टक २६/७-८) इति । यत्तु सन्तोषजनकत्वे मितमपि दानं न स्यादिति केनचिदुच्यते तत्तूक्तसन्तोषव्यवस्थाऽपरिज्ञानविजृम्भितम् । तदिदमाहाष्टकवृत्तिकृत् 'ननु यदि तीर्थङ्कराऽनुभावादशेषदेहिनां सन्तोष१. हस्ताद” 'इत्येत्' इति त्रुटितः पाठः । २. हस्तादर्श 'अनाषि...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'तद्भावेन' इति पदच्छेदशून्यः पाठः । ४/१५ ।।५९।। Jain Education Interational For Private & Personal use only Page #65 -------------------------------------------------------------------------- ________________ ।। भावादीभावः स्यात्तदा सङ्ख्याकरणमप्ययुक्तं, अल्पस्यापि दानस्याऽसम्भवात्, इत्यत्रोच्यतेदेवताशेषाया' इव संवत्सरमात्रेण प्रभूतप्राणिग्राह्यत्वाद्युक्तमेव सङ्ख्यावत्त्वमिति ।।१५।। दानादेवाऽकृतार्थत्वान्महत्त्वं नेति मन्दधीः । तस्योत्तरमिदं पुण्यमित्थमेव विपच्यते ॥१६॥ दानादिति। 'दानादेव हेतोः अकृतार्थत्वात् = फलविशेषप्रत्याशाऽऽवश्यकत्वेनाऽसिद्धप्रयोजनत्वात् महत्त्वं न अर्हतः' इति मन्दधीः कश्चिदाह । तस्येदमुत्तरं यदुत पुण्यं = तीर्थकरत्वनिबन्धनं इत्थमेव = दानादिप्रक्रमेणैव विपच्यते = स्वविपाकं प्रदर्शयति । तथा च स्वकल्पादेव भगवतो दानं न तु फलप्रत्याशयेति नाऽकृतार्थत्वमिति ध्वन्यते । तदिदमाह_ 'उच्यते कल्प एवास्य 'तीर्थकृन्नामकर्मणः । उदयात् सर्वसत्त्वानां हित एव प्रवर्तते ।।' (अष्टक २७/२) इति । चत्वारो हि भङ्गा पुण्य-पापयोः सम्भवन्ति । पुण्याऽनुबन्धि पुण्यमित्येकः, पापाऽनुबन्धि ४/१६ पुण्यमिति द्वितीयः, पापाऽनुबन्धि पापमिति तृतीयः, पुण्याऽनुबन्धि पापमिति चतुर्थः । तत्राऽऽद्यं मनुष्यादेः पूर्वभवप्रचितं मानुषत्वादिशुभभावाऽनुभवहेतुः अनन्तरं देवादिगति- १. मुद्रितप्रतौ 'देवताशोषा...' इत्यशुद्धः पाठः । २. 'संवत्सरमात्रेणाऽप्रभूतप्राणिग्राह्यत्वादिति अष्टकप्रकरणमुद्रितप्रतौ । ३. मुद्रितप्रतौ 'तीयकृ...' इत्यशुद्धः पाठः । ४. 'हेत्वनन्तरं' इत्यशुद्धः पाठो मुद्रितप्रतौ । ६० ।। Jain Education Interational For Private & Personal use only Page #66 -------------------------------------------------------------------------- ________________ 4 | F_ho P । परम्पराकारणम् । अनन्तरं नारकादिभवपरम्पराकारणं चैतद् द्वितीयम् । यच्च तिर्यगादेः । प्राग्जन्मोपात्तं तिर्यक्त्वाद्यशुभभावाऽनुभवननिमित्तमनन्तरं च नरकादिहेतुः तत्तृतीयम् । तदनन्तरं देवादिगतिपरम्परानिमित्तं चैतच्चतुर्थमिति। यदाह (अष्टके) → गेहाद् गेहान्तरं कश्चिच्छोभनादधिकं नरः। याति यद्वत्सुधर्मेण तद्वदेव भवाद् भवम् ।। (अ.२४/१) गेहाद् गेहान्तरं कश्चिच्छोभनादितरन्नरः। याति यद्वदसद्धर्मात्तद्वदेव भवाद् भवम् ।। (अ.२४/२) गेहाद् गेहान्तरं कश्चिदशुभादधिकं नरः। याति यद्वन्महापापात्तद्वदेव भवाद् भवम् ।। (अ.२४/३) गेहाद् गेहान्तरं कश्चिदशुभादितरन्नरः। याति यद्वत्सुधर्मेण तद्वदेव भवाद् भवम् ।। (अ.२४/४) ____ अत्र चाऽऽद्यभङ्गवर्तिभगवत्पुण्यमनुभूताऽवशिष्टमप्युचितक्रियाप्रगुणमेवेति न दानादकृतार्थत्वमिति भावनीयम् ।।१६।। एतदेव गुणान्तराऽनुगुणविपाकशालितया स्पष्टयति गर्भादारभ्य सत्पुण्याद् भवेत्तस्योचिता क्रिया । तत्राऽप्यभिग्रहो न्याय्यः श्रूयते स्वामिनस्ततः ।।१७।। __ गर्भादिति । गर्भादारभ्य सत्पुण्यात् = पुण्याऽनुबन्धिपुण्यात् भवेत् तस्य = तीर्थकृत उचिता क्रिया, २"तीर्थकृत्त्वं सदौचित्यप्रवृत्त्या मोक्षसाधक"मिति (अष्टक-२५/१) वचनादुचितप्रवृत्तिद्वारा तीर्थकृत्त्वस्य मोक्षसाधकत्वात् । ततः = तस्मात् तत्राऽपि = गर्भेऽपि १. मुद्रितप्रतौ 'सत्पुण्यात्' इति पदं नास्ति । २. अतः प्रकर्षसम्प्राप्ताद्विज्ञेयं फलमुत्तमम् । इति पूर्वार्धः अष्टक r ।।६१। २५-१ । Jain Education Interational For Private & Personal use only Page #67 -------------------------------------------------------------------------- ________________ क + horo स्वामिनः श्रीवर्धमानस्य अभिग्रहः = प्रतिज्ञाविशेषः → 'जीवतो गृहवासेऽस्मिन् यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि' गृहानहमपीष्टतः।। - (अष्टक २५/४) इत्येवमुक्तस्वरूपो न्याय्यः = न्यायादनपेतः श्रूयते ।।१७।। न्याय्यता चेष्टसंसिद्धेः पित्रुद्वेगनिरासतः । प्रारम्भमङ्गलं ह्येतद् गुरुशुश्रूषणं हि तत् ॥१८॥ 'न्याय्यतेति । न्याय्यता चोक्ताऽभिग्रहस्य पित्रोर्दुःप्रतिकारयोरुद्वेगस्य वियोगनिमित्तकशोकरूपस्य निरासतः (= पित्रुद्वेगनिरासतः) अन्येषामप्येवम्विधस्थितिप्रदर्शनात् इष्टस्य = मोक्षस्य संसिद्धेः (= इष्टसंसिद्धेः) उचितप्रवृत्तिर्हि तदुपायोऽनुचितप्रवृत्तिश्च तद्विघ्न इति । ___ तदिदमुक्तम् – 'पित्रुद्वेगनिरासाय महतां स्थितिसिद्धये । इष्टकार्यसमृद्ध्यर्थमेवम्भूतो जिनागमे ।।' (अष्टक-२५/३) ननु भगवतो नियतकालीनचारित्रमोहनीयकर्मविपाकोदयेनैव गृहाऽवस्थानमिति नाऽभिग्रहन्याय्यतेति चेत् ? न, सोपक्रमस्य तस्य पित्रुद्वेगनिरासाद्यवलम्बनकाऽभिग्रहग्रहणमन्तरा विरतिपरिणामविनाश्यत्वात् । ____तथापि प्रव्रज्याविरोधिगृहाऽवस्थानकारिणोऽस्य कथं न्याय्यत्वमिति चेत् ? न, आनुपूर्पण न्याय्यप्रव्रज्यासम्पादकत्वेनैव तस्य न्याय्यत्वात, कालान्तरे बहुफलस्य कार्यस्य क्वचित्काले का ४/१८ ।।६२।। १. मुद्रितप्रतौ 'न्याय्ये 'ति पाठः । Jain Education Interational Page #68 -------------------------------------------------------------------------- ________________ कम । Fhoto // निषेधेऽपि' न्याय्यत्वव्यवहारस्य सार्वजनीनत्वात् । तदिदमुक्तं| 'इमौ शुश्रूषमाणस्य गृहानाऽऽवसतो गुरू। प्रव्रज्याप्यानुपूर्येण न्याय्याऽन्ते मे भविष्यति ।। सर्वपापनिवृत्तिर्यत् सर्वथैषा सतां मता । गुरूद्वेगकृतोऽत्यन्तं नेयं न्याय्योपपद्यते ।।' (अष्टक२५/५-६) इति । तथा यद् गुर्वोः = मातापित्रोः शुश्रूषणं = परिचरणं (=गुरुशुश्रूषणं), (ए)तद्धि प्रारम्भमङ्गलम् = आदिमङ्गलं प्रव्रज्यालक्षणशुभकार्यस्येति नैतद्विना प्रव्रज्यासिद्धिः, इत्यस्मादेव तस्या न्याय्यत्वम्। तदिदमाह___प्रारम्भमङ्गलं ह्यस्या गुरुशुश्रूषणं परम् । एतौ धर्मप्रवृत्तानां नृणां पूजाऽऽस्पदं महत् ।।' (अष्टक २५/७) इति ।।४/१८ ।। ननु पित्रुद्वेगे परिणामस्तावन्नास्त्येव मुमुक्षोरनिष्टनिमित्ततापरिहारस्तु सर्वत्र दुःशक इत्यत आह तखेदरक्षणोपायाऽप्रवृत्तौ न कृतज्ञता । त्यागोऽप्यबोधे न त्यागो यथा ग्लानौषधाऽर्थिनः ।।१९।। तदिति । तयोः = पित्रोः खेदस्य यद्रक्षणं तदुपायेऽप्रवृत्तौ (= तत्खेदरक्षणोपायाऽप्रवृत्तौ) ॥ न कृतज्ञता । सा हि तत्प्रतिपत्तिसाध्यैव। यदाह - ___ ‘स कृतज्ञः पुमाँल्लोके स धर्मगुरुपूजकः । स शुद्धधर्मभाक् चैव य एतौ प्रतिपद्यते।।' ।।३।। (अष्टक २५/८) इति । तथा च सर्वश्रेयोमूलभूतस्य स्वेष्टस्य कृतज्ञतागुणस्य प्रतिपक्षः १. हस्तादर्श 'निषेधेऽपि' पदं नास्ति । २. हस्तादर्श 'बोधन' इत्यशुद्धः पाठः । Page #69 -------------------------------------------------------------------------- ________________ Fhoto ।। पितृखेदः सर्वथैव वर्जनीय इति भावः। यदाह “अप्पडिवुज्झमाणे कहिंचि पडिबोहिज्जा अम्मापियरो” (पञ्चसूत्र-३) प्रव्रज्याभिमुखीकुर्वीतेत्यर्थः । “२अप्पडिबुज्झमाणेसु य कम्मपरिणइए विहेज्जा जहासत्ति तदुवगरणं तओ अणुण्णाए पडिवज्जेज्जा' धम्म” (पञ्चसूत्र-३) । ___ अथ नाऽनुजानीतस्तदा "अणुवहे चेव उवहिजुत्ते सिया' (पञ्चसूत्र-३) 'अल्पायुरहमि'त्यादिकां मायां कुर्यादित्यर्थः । ___ एवमुपायप्रवृत्तावपि तयोः अबोधे त्यागोऽपि मुमुक्षोस्तत्त्वतो न त्यागः, यथा ग्लानयोः = अध्वनि ग्लानीभूतयोः पित्रोरोषधार्थिनः (= ग्लानौषधार्थिनः) तदुपकारकौषधाऽऽनयनार्थं कथञ्चित्तौ विमुच्याऽपि गच्छतः पुत्रस्य, प्रव्रज्यायास्तयोः स्वस्याऽन्येषां चोपकारहेतुत्वात् । तदिदमाह- "सव्वहा अपडिवुज्झमाणे चएज्जा अद्धाणगिलाणओसहत्थचागणाएणं' (पञ्चसूत्र-३) ।।१९।। अपरस्त्वाह राज्यादि महाऽधिकरणं ददत् । शिल्पादि दर्शयंश्चाहन्महत्त्वं कथमृच्छति ।।२०।। अपरस्त्विति । अपरस्तु वादी आह- 'राज्यादि महाधिकरणं = महापापकारणं १. अप्रतिबुध्यमाने कथञ्चित्प्रतिबोधयेन्मातापितरौ । २. अप्रतिबुध्यमानयोश्च कर्मपरिणत्या विदध्याद्यथासक्ति तदुपकरणं, ततोऽनुज्ञाते प्रतिपद्येत धर्मम् । ३. हस्तादर्श 'वज्जेज्ज' इति पाठः । ४. अनुपधश्चैव उपधियुक्तः स्यात् । ५. सर्वथाऽप्रतिबुध्यमाने त्यजेदध्वग्लानौषधार्थत्यागज्ञातेन । 11६४ Jain Education Interational Page #70 -------------------------------------------------------------------------- ________________ Fhee ।। ददत् स्वपुत्रादिभ्यः, शिल्पादि दर्शयंश्च लोकानां अर्हन् कथं महत्त्वमृच्छति ।।२०।। । तन्नेत्थमेव प्रकृताधिकदोषनिवारणात् । शक्तौ सत्यामुपेक्षाया अयुक्तत्वान्महात्मनाम् ।।२१।। तदिति । यदक्तमपरेण वादिना तन्न. इत्थमेव = राज्यप्रदानादिप्रकारेणैव प्रकतात = राज्य-प्रदानादिदोषादधिको राज्याऽप्रदानादिकृतमिथःकलहाऽतिरेकप्रसङ्गादिरूपो यो दोषस्तस्य निवारणात् (=प्रकृताधिकदोषनिवारणात्), शक्तौ परेषामधिकदोषनिवारणविषयायां सत्यामुपेक्षाया = माध्यस्थ्य-रूपाया अयुक्तत्वात् महात्मनां = परार्थमात्रप्रवृत्तशुद्धाऽऽशयानाम्। तदिदमाहअप्रदाने हि राज्यस्य नायकाऽभावतो जनाः' । मिथो वै कालदोषेण मर्यादाभेदकारिणः ।। विनश्यन्त्यधिकं यस्मादिह लोके परत्र च । शक्तौ सत्यामुपेक्षा च युज्यते न महात्मनः।। तस्मात्तदुपकाराय तत्पदानं गुणाऽऽवहम्। परार्थदीक्षितस्याऽस्य विशेषेण जगद्गुरोः ।। एवं विवाहधर्मादौ तथा शिल्पनिरूपणे । न दोषो ह्युत्तमं पुण्यमित्यमेव विपच्यते ।। किं चेहाऽधिकदोषेभ्यः सत्त्वानां रक्षणं तु यत् । उपकारस्तदेवैषां प्रवृत्त्यङ्गं तथाऽस्य च।। ४/२१ (अष्टक २८/२-६) ।।२१।।। नागादे रक्षणायेव गर्ताद्याकर्षणेऽत्र न । १. हस्तादर्श 'जिना' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'विनश्यतीति अशुद्धः पाठः । ३. मुद्रितप्रतौ 'तदेवां' इत्यशुद्धः पाठः । ।।६५।। Jain Education Interational Page #71 -------------------------------------------------------------------------- ________________ क + Phop दोषोऽन्यथोपदेशेऽपि स स्यात्परनयोद्भवात् ।।२२।। नागादेरिति । नागादेः सकाशाद् रक्षणाय = रक्षणार्थं जनन्याः स्वपुत्रस्य गर्तादेराकर्षणे (गर्ताद्याकर्षणे) हनु-जानुप्रभृत्यङ्गघर्षणकारिकर्मणि इव अत्र = भगवतो राज्यप्रदानादौ न दोषः, अन्यथा = असम्भविवारणदोषनिमित्तकस्यापि बहुगुणकर्मणो दुष्टत्वे उपदेशेऽपि = भगवतो धर्मव्याख्यानेऽपि स दोषः स्यात्, परेषां = बौद्धादीनां नयानां मिथ्यात्वमूलभूतानां दर्शनानामुद्भवात् (= परनयोद्भवात्) तत एवोपपत्तेः, 'जावइया णयवाया तावइया चेव परसमया' (सम्मतितर्क-३/४७) इति वचनात्। तदिदमाह - ___ नागादे रक्षणं यद्वद्गर्ताद्याकर्षणेन तु । कुर्वन्नदोषवांस्तद्वदन्यथासम्भवादयम् ।। इत्थं चैतदिहैष्टव्यमन्यथा देशनाप्यलम् । कुधर्मादिनिमित्तत्वाद्दोषायैव प्रसज्यते ।। (अष्टक २८/७-८) ॥२२॥ कश्चित्तु कुशलं चित्तं मुख्यं नास्येति नो महान् । तदयुक्तं यतो मुख्यं नेदं 'सामायिकादपि ॥२३॥ __ कश्चित्त्विति । कश्चित्तु मायापुत्रीयो मुख्यं = सर्वोत्तमं कुशलं चित्तं नाऽस्य = भवदभिमतस्य भगवतः, इति नो महान् अयमित्याह- तदयुक्तं, यतो नेदं = परपरिकल्पितं कुशलं चित्तं समतृणमणिलेष्टुकाञ्चनानां सर्वसावद्ययोगनिवृत्तिलक्षणात् सामायिकादपि मुख्यम्, १. मुद्रितप्रतौ 'समा...' इति पाठः । २. मुद्रितप्रतौ 'सवसा...' इत्यशुद्धः पाठः । ४/२३ ॥६६। Jain Education Interational For Private & Personal use only Page #72 -------------------------------------------------------------------------- ________________ he असद्भूताऽर्थविषयत्वात् ।।२३।। तथाहि स्वधर्मादन्यमुक्त्याशा तदधर्मसहिष्णुता । यद्वयं कुशले चित्ते तदसम्भवि तत्त्वतः ।।२४।। स्वधर्मादिति । स्वधर्माद अन्येषां जगत्प्राणिनां मक्त्याशा = मक्तिवाञ्छा (= अन्य मुक्त्याशा) तेषां = अन्येषां येऽधर्मा दुर्गतिहेतवस्तेषां सहिष्णुता (= तदधर्मसहिष्णुता) स्वस्मिंस्तत्फलाऽऽपत्त्या परदुःख परिजिहीर्षालक्षणा, यद् एतद् द्वयं कुशले चित्ते विषयीभवति तत्तत्त्वतोऽसम्भवि, बुद्धानां निर्वृतिप्रतिपादनात्, ‘गङ्गावालुकासमा बुद्धा निर्वृता'( ) इति परेषामागमव्यवस्थितेः, स्वाऽन्यधर्माऽधर्मयोः परेषु स्वस्मिंश्चोपसङ्कमे तदयोगात् । यदि चैवमसद्भूतार्थविषयं कुशलचित्तं प्रामाणिकं स्यात्तदा'मय्येव निपतत्वेतज्जगद्दश्चरितं यथा । मत्सुचरितयोगाच्च मुक्तिः स्यात्सर्वदेहिनाम् ।।' (अष्टक २९/४) इतिवत् 'अज्ञानानां यदज्ञानमास्तां मय्येव तत्सदा । मदीयज्ञानयोगाच्च | चैतन्यं तेषु सर्वदा ।।' (अष्टक-२९/६ वृत्ति) इत्यपि परेण पठनीयं स्यात् ।।२४।। अतो मोहाऽनुगं ह्येतन्निर्मोहानामसुन्दरम् । बोध्यादिप्रार्थनाकल्पं सरागत्वे तु साध्वपि ॥२५ ।। अत इति । अतः = उक्तकुशलचित्तस्य तत्त्वतोऽसम्भव्यर्थविषयत्वाद् एतद्धि मोहा। १. मुद्रितप्रतौ 'परजिहीषालक्षर्णा' इत्यशुद्धः पाठः । ||६७।। Jain Education Intemational Page #73 -------------------------------------------------------------------------- ________________ ॥ क Fhee ।। ऽनुगं = मोहनीयकर्मोदयाऽनुगतं, मोहोदयाऽभावे हि समस्तविकल्पोत्कलिकावर्जितमेव चित्तं स्यादिति निर्मोहानां = वीतरागाणां असुन्दरम् । तथा च कुशलचित्तस्य न मुख्यत्वं, निर्मोहत्वविरोधादित्यर्थः। सरागत्वे तु = प्रशस्तरागदशायां त्वेतद् बोध्यादिप्रार्थनाकल्पम् आदिनाऽऽरोग्योत्तमसमाधिग्रहः, साध्वपि = प्रशस्तमपि, असम्भविविषयकयोरपि वाङ्-मनसोः प्रशस्तभावोत्कर्षकत्वेन चतुर्थ भङ्गाऽन्तःपातित्वसम्भवात् । तदुक्तं- 'बोध्यादिप्रार्थनाकल्पं सरागत्वे तु साध्वपि' (द्वा द्वा.४/२५)। ___ ननु चतुर्थभङ्गस्थवाङ्-मनसोर्भगवत्यपि सम्भवात् कथं न कुशलचित्तयोग इति चेत् ? न, वैकल्पिकभक्तिभावप्रयुक्तस्य चतुर्थभङ्गस्य प्रार्थनारूपस्य भगवत्यनुपपत्तेः । विचित्रवर्गणासद्भावेनैव तत्र तदुपवर्णनादिति बोध्यम् ।।२५।। यदपि 'व्याघ्रादेः स्वकीयमांसदानादावतिकुशलं चित्तं बुद्धस्येष्यते, न चैतदर्हत इति नात्र महत्त्वमि'त्याशक्यते तदप्यसङ्गतम्, तच्चित्तस्यैवाऽनतिकुशलत्वेन' मोहाऽनुगतत्वाऽविशेषादित्यभिप्रायवानाह सत्त्वधीरपि या स्वस्योपकारादपकारिणि । सात्मम्भरित्वपिशुना पराऽपायाऽनपेक्षिणी ।।२६।। | १. हस्तादर्श मुद्रितप्रतौ च 'चतुर्भग.... इति पाठः। २. हस्तादर्श 'कुशलत्वे' इति पाठः । ।।६८।। Jain Education Interational For Private & Personal use only Page #74 -------------------------------------------------------------------------- ________________ 4 Fhoto सत्त्वधीरिति । याऽपि बुद्धस्य अपकारिणि = स्वमांसभक्षकव्याघ्रादौ स्वस्योपकारात् कर्मकक्षकर्तनसाहाय्यककरणलक्षणात् सत्त्वधीः, साऽऽत्मानमेव न परं बिभर्ति = पुष्णातीत्यात्मम्भरिस्तत्त्वं पिशुनयति = सूचयतीति आत्मम्भरित्वपिशुना परेषां स्वमांसभक्षकव्याघ्रादीनामपायान् दुर्गतिगमनादीन्नाऽपेक्षत इत्येवंशीला (= परापायाऽनपेक्षिणी) । तथा चाऽत्राऽऽताम्भरित्वं पराऽपायाऽनपेक्षत्वं च महद् दूषणमिति भावः । तदुक्तं - अपकारिणि सद्बुद्धिर्विशिष्टाऽर्थप्रसाधनात् । । आत्मम्भरित्वपिशुना परा(?तद)पायाऽनपेक्षिणी ।। (अष्टक २९/७) इति' ।।२६।। परार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् । "अमूढलक्षो भगवान् महानित्येष मे मतिः ॥२७ ।। अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति ।।२८।। परः सहस्राः शरदां परे 'योगमुपासताम् । "हन्ताऽर्हन्तमनासेव्य गन्तारो न परं पदम् ॥२९॥ १. हस्तादर्श 'उपका...' इति पाठः । २. मुद्रितप्रतौ 'इति' पदं नास्ति । ३. मुद्रितपुस्तकादौ ‘पदार्थ...' इत्यशुद्धः पाठः । ४. मुद्रितपुस्तकादौ 'अगूढलक्ष' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'यस्स' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'योगमुनपा...' इत्यशुद्धः पाठः । ७. हस्तादर्श ‘परं जिनमनन्तारो' इति पाठः । ४/२९ ।।६९।। Jain Education Interational For Private & Personal use only Page #75 -------------------------------------------------------------------------- ________________ आत्माऽयमहतो ध्यानात्परमात्मत्वमश्नुते । रसविद्धं यथा तानं स्वर्णत्वमधिगच्छति ॥३०॥ पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः।।३१।। सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ।।३२॥ परार्थेत्याद्यारभ्य षट्श्लोकी सुगमा ।।२७।।२८।।२९।।३०।।३१।।३२।। ॥ इति जिनमहत्त्वद्वात्रिंशिका ।।४।। ॥ अथ भक्तिद्वात्रिंशिका ।।५।। जिनमहत्त्वज्ञानानन्तरं तत्र भक्तिरावश्यकीति सेयमिदानी प्रतिपाद्यते श्रमणानामियं पूर्णा सूत्रोक्ताऽऽचारपालनात् । द्रव्यस्तवाद् गृहस्थानां देशतस्तद्विधिस्त्वयम् ।।१।। *श्रमणानामिति । इयं = भक्तिः ।।१।। १. मुद्रितप्रतौ 'मश्रुते' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘पदार्थे' इत्यशुद्धः पाठः । ३. हस्तादर्श ‘श्लोकाः' इति पाठान्तरम् । ४. मुद्रितप्रतौ 'श्रमणामिति' इत्यशुद्धः पाठः । ।।७०। Jain Education Interational Page #76 -------------------------------------------------------------------------- ________________ क df ho tत क क्ति द्वा शि का ५/५ न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसम्मतः ।।२।। न्यायेति । धीरः = मतिमान् गुर्वादिसम्मतः = पितृ-पितामह - राजाऽमात्यप्रभृतीनां बहुमतः । ईदृग्गुणस्यैव 'जिनभवनकारणाऽधिकारित्वमिति भावः || २ || तत्र शुद्धां महीमादौ गृह्णीयाच्छास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ।।३।। तत्रेति । तत्र = जिनभवनकारणे प्रक्रान्ते, शास्त्रनीतितः धर्मशास्त्रोक्तन्यायाऽनतिक्रमेण । परोपतापः प्रातिवेश्मिकादिखेदः ||३|| अप्रीतिर्नैव कस्यापि कार्या धर्मोद्यतेन वै । वास्तुविद्या = = इत्थं शुभाऽनुबन्धः स्यादत्रोदाहरणं प्रभुः । । ४ । । अप्रीतिरिति । धर्मोद्यतस्य परपीडापरिहारप्रयत्नाऽतिशयो मुख्यमङ्गम्, प्रीतिपरिहारार्थं भगवतो वर्षास्वपि गमनमिति भावः ||४|| आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इथं शुभाशयस्फात्या बोधिवृद्धिः शरीरिणाम् ।।५।। १. हस्तादर्शे 'जिनभन....' इत्यशुद्धः पाठः । यथा तापसाS ।।७१ ।। Page #77 -------------------------------------------------------------------------- ________________ आसन्नोऽपीति । आसन्नोऽपि = तद्देशवर्ती स्वजनादिसम्बन्धरहितोऽपि । इत्थं = | भगवद्भक्तिप्रयुक्तौदार्ययोगात् ।।५।। 'इष्टकादि दलं चारु दारु वा सारवन्नवम् । गवाद्यपीडया ग्राह्यं मूल्यौचित्येन यत्नतः ।।६।। ___ इष्टकादीति । आदिना पाषाणाऽऽदिग्रहः । चारु = गुणोपेतम् । दारु वा चारु यत्नाऽऽनीतं देवताद्युपवनादेः प्रगुणं च । सारवत् = स्थिरं खदिरसारवत् । (गवाद्यपीडया=) गवादीनामपीडा बहुभाराऽऽरोपणकृतपीडापरिहाररूपा तया। मूल्यौचित्येन ग्राह्यं तत्कारिवर्गतः । | तद्ग्रहणं च पूर्णकलशादिसुशकुनपूर्वं श्रेयः, सुशकुनश्च चित्तोत्साहाऽनुग इति भाव| नीयम् ।।६।। भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः ।। धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु ॥७॥ भृतका इति । स्वयं प्रकृतिसाधव एव भृतका नियोज्याः । ते अपि सन्तोष्याः, तेषामपि धर्मनिमित्तत्वेन धर्ममित्रत्वात्, तेषु वञ्चनविरहितभावेनैव धर्मोपपत्तेः ।।७।। ||७२।। १. हस्तादर्श 'इष्टिका' इति पाठः । २. मुद्रितप्रतौ 'दारु' इति पाठो नास्ति । ३. हस्तादर्श 'तेषु च' इति पाठान्तरम् । ४. हस्तादर्श 'धर्मापत्तेः' इत्यशुद्धः पाठः । Jain Education Interational Page #78 -------------------------------------------------------------------------- ________________ स्वाशयश्च विधेयोऽत्राऽनिदानो जिनरागतः । अन्यारम्भपरित्यागाज्जलादियतनावता ।।८।। __ स्वाशयश्चेति । स्वाशयश्च = शुभाऽऽशयश्च विधेयः अत्र = जिनभवनकृत्ये अनेनाऽऽलम्बनत्वाख्यविषयतया शुद्धिरभिहिता । अनिदानः = निदानरहितो जिनरागतः = भगवद्भक्तेः, अनेनोद्देश्यत्वाख्यविषयतया शुद्धिरभिहिता । •अन्येषां = गृहादिसम्बन्धिनामारम्भाणां परित्यागात् (= अन्यारम्भपरित्यागात्) । जलादीनां या यतना स्वकृतिसाध्यजीवपीडापरिहाररूपा तद्वता (= जलादियतनावता), अनेन साध्यत्वाऽऽख्यविषयतया शद्धिरभिहिता. ।।८।। इत्थं चैषोऽधिकत्यागात्सदारम्भः फलाऽऽन्वितः प्रत्यहं भाववृद्ध्याऽऽप्तैर्भावयज्ञः प्रकीर्तितः ॥९॥ इत्थमिति । इत्थं च = यतनावत्त्वे च एषः = प्रकृत आरम्भः अधिकत्यागाद् = निष्फलाऽधिकाऽऽरम्भनिवृत्तेः फलाऽन्वितः = श्रेयःफलयुक्तः सदारम्भः प्रत्यहं = प्रतिदिवसं भाववृझ्या = कृताऽकृतप्रत्युपेक्षणादि-शुभाशयाऽनुबन्धरूपया आप्तैः = साधुभिः भावयज्ञः = भावपूजारूपः प्रकीर्तितः। तदाह 'एतदिह भावयज्ञः' (षोडशक-६/१४) इति। न चैवं द्रव्यस्तवव्यपदेशाऽनुपपत्तिः, द्रव्य-भावयोरन्योऽन्यसमनुवेधेऽपि द्रव्यप्राधान्येन तदुपपादनादिति ...... चिह्नद्वयमध्यवर्ती अग्नेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्श नास्ति । ।।।।७३ ।। Jain Education Interational For Private & Personal use only Page #79 -------------------------------------------------------------------------- ________________ Esar द्रष्टव्यम् ।।९।। जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद् बिम्बं साधिष्ठानं हि वृद्धिमत् ॥१०॥ जिनगेहमिति । अव्ययनीवि = परिपालन-संवर्धनद्वाराऽहीयमानमूलधनम् ।।१०।। विभवोचितमूल्येन कर्तुः पूजापुरःसरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥११॥ विभवेति । पूजा भोजन-पत्र-पुष्प-फलादिना । अनघस्य = अव्यसनस्य । एवकारेण स्त्री-मद्य-द्यूतादिव्यसनिनो निषेधः । यथा = येन प्रकारेण चित्तं न नश्यति = कारयितृवैज्ञानिकयोः कालुष्यलक्षणश्चित्तनाशो न भवति । प्रतिषिद्धो ह्येष धर्मप्रक्रमेऽमङ्गलरूपस्तत्त्वज्ञैरिति ।।११।। यावन्तश्चित्तसन्तोषास्तदा बिम्बसमुद्भवाः । तत्कारणानि तावन्तीत्युत्साह उचितो महान् ।।१२।। यावन्त इति । तदा = बिम्बकारणे । तावन्ति, तावबिम्बकारणसाध्यफलोदयात् ।।७४ | ।।१२।। तत्कर्तरि च याऽप्रीतिस्तत्त्वतः सा जिने स्मृता । Jain Education Interational For Private & Personal use only Page #80 -------------------------------------------------------------------------- ________________ पूर्या 'दौर्हृदभेदास्तज्जिनावस्थात्रयाश्रयाः ।।१३॥ तत्कर्तरि चेति । तत्कर्तरि च = बिम्बनिर्मातरि च याऽप्रीतिः सा तत्त्वतः = फलतो जिने स्मृता, तदालम्बनकाया अपि तस्या जिनो द्देश्यकत्वात् । सा च सर्वापायहेतुरिति तत्परिहारे यत्नो विधेयः। तदाह अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया । सर्वाऽपायनिमित्तं ह्येषा पापा न कर्तव्या ।। (षोडशक-७/७) तत् = तदप्रीतेः सर्वथा परिहार्यत्वात् 'दौर्हृदभेदाः = शिल्पिगता बाल-कुमारयुवलक्षणाऽवस्थात्रयगामिनो मनोरथाः तदवस्थात्रयमनादृत्य जिनाऽवस्थात्रयाऽऽश्रयाः प्रतिमागताऽवस्थात्रयोद्भावनेन मनसोत्थापिताः सन्तः (पूर्याः=) पूरणीयाः क्रीडनकाद्युपढौकनादिना, इत्थमेव भगवद्भक्तिप्रकर्षापपत्तेः। यदाह 'अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौहुंदैर्युक्तम् । न्यायाऽर्जितवित्तेन तु जिनबिम्बं भावशुद्धेन ।। अत्राऽवस्थात्रयगामिनो बुधैौर्हृदाः समाख्याताः । "बालाद्याश्चैत्ता यत्तत्क्रीडनकादि देयमिति।।' (षोडशक-७/८-९) ।।१३।। १. हस्तादर्श 'दोहद' इति पाठः । २. ....देशक.....' इति मुद्रितप्रतौ पाठः । ३. मुद्रितप्रतौ 'तत्' पदं नास्ति । ४. हस्तादर्श 'दौहृद' इति पाठः । ५. हस्तादर्श '...त्रयाश्र' इति त्रुटितः पाठः । ६. हस्तादर्श 'भावेन' इति पाठः । ७. मुद्रितप्रतौ 'बालद्या' इति पाठः । ५/१३ ।।७५।। Jain Education Interational Page #81 -------------------------------------------------------------------------- ________________ Edo स्ववित्तस्थेऽन्यवित्ते तत्पुण्याऽऽशंसा विधीयते । मन्त्रन्यासोऽर्हतो' नाम्ना स्वाहाऽन्तः प्रणवादिकः ।।१४।। ___स्ववित्तस्थ इति । स्ववित्तस्थे कथञ्चित्स्वधनाऽन्तःप्रविष्टे (अन्यवित्ते =) परवित्ते सति तस्य = परस्य पुण्याऽऽशंसा 'अत्रस्थात्परधनांऽशात्परस्यापि पुण्यं भवत्वि'तीच्छारूपा (= तत्पुण्याशंसा) विधीयते, एवं हि परकीयवित्तेन स्ववित्ताऽनुप्रविष्टेन पुण्यकरणाऽनभिलाषाद् भावशुद्धं न्यायाऽर्जितं वित्तं भवतीति । ___ तदिदमुक्तं- 'यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् । ___भवतु शुभाऽऽशयकरणादित्येतद्भावशुद्धं स्यात् ।।' (षोडशक-७/१०) इति । तथा अर्हतोऽधिकृतस्य नाम्ना मध्यगतेन प्रणवाऽऽदिकः स्वाहाऽन्तः च मन्त्रन्यासो विधीयते, मनन-त्राणहेतुत्वेनाऽस्यैव परममन्त्रत्वात्। यदाह- ‘मन्त्रन्यासश्च तथा प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो मनन-त्राणे ह्यतो नियमात् ।।' (षो.७/११) इति ।।१४।। हेमादिना विशेषस्तु न बिम्बे किन्तु भावतः । चेष्टया स शुभो भक्त्या तन्त्रोक्तस्मृतिमूलया ।।१५।। हेमादिनेति । हेम = सुवर्णम्, आदिना रत्नादिग्रहस्तेन (= हेमादिना) तु न विशेषः १. हस्तादर्श 'न्यासाहता' इत्यशुद्धः पाठः । ||७६। Jain Education Interational For Private & Personal use only Page #82 -------------------------------------------------------------------------- ________________ F稀可伢何可 भ क्ति द्वा त्रिं शि का ५/१६ कश्चन बिम्बे, किन्तु भावतः = परिणामात् । = स परिणामः तन्त्रोक्तस्मृतिमूलया = आगमवचनस्मरणपूर्विकया ( भक्त्या) चेष्टया - प्रवृत्त्या शुभो भवति, भक्ति-बहुमान -विनयादिलिङ्गानामागमाऽनुसरणमूलत्वात् । तदिदमाह 'बिम्बं महत् सुरूपं कनकादिमयश्च यः खलु विशेषः । नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् ।। आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः ।।' ( षोडशक- ७ / १२-१३ ) इति ।।१५।। लोकोत्तरमिदं ज्ञेयमित्थं यद् बिम्बकारणम् । मोक्षदं लौकिकं चान्यत् (? मन्यच्च) कुर्यादभ्युदयं फलम् ।। १६ ।। लोकोत्तरमिति । इत्थं = आगमोक्तविधिस्मृतिगर्भचेष्टाशुद्धेन यद् बिम्बकारणमिदं लोकोत्तरं मोक्षदं च (ज्ञेयम् = ) ज्ञातव्यम् । अन्यच्च = उक्तविपरीतं च बिम्बकारणं लौकिकं सद् अभ्युदयं फलं कुर्यात् । पूर्वस्मिन्नभ्युदयस्याऽऽनुषङ्गिकत्वं, अत्र च मुख्यत्वमिति विशेषः । तदिदमुक्तं ' एवंविधेन यद् बिम्बकारणं तद्वदन्ति समयविदः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ।। लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाऽऽश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्राऽनुषङ्गेण ।।' ( षो. ७ / १४-१५) ।। १६ ।। 110011 Page #83 -------------------------------------------------------------------------- ________________ 町佈可分可可 भ द्वा शि का ५/१८ इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाग्दशभ्यस्तु व्यक्ति - क्षेत्र - महाह्वयाः ।।१७।। इत्थमिति । इत्थं = उक्तविधिना निष्पन्नस्य बिम्बस्य ( = निष्पन्नबिम्बस्य ) प्रतिष्ठा आप्तैः = शिष्टैः त्रिधोदिता दशभ्यस्तु = दशभ्य एव दिनेभ्योऽर्वाक् 'दशदिवसाऽभ्यन्तरतः' ( षोड. ८/१) इत्युक्तेः । व्यक्ति - क्षेत्र - महाह्वयाः - व्यक्तिप्रतिष्ठा क्षेत्रप्रतिष्ठा महाप्रतिष्ठा चेति । तत्र वर्तमानस्य तीर्थकृतः प्रतिष्ठा = व्यक्तिप्रतिष्ठा। ऋषभादिचतुर्विंशतितीर्थकृतां प्रतिष्ठा च क्षेत्रप्रतिष्ठा । 'सप्तत्यधिकशतजिनप्रतिष्ठा च सर्वक्षेत्राऽपेक्षया महाप्रतिष्ठा । तदाह 'व्यक्त्याख्या खल्वेका क्षेत्राऽऽख्या चाऽपरा महाऽऽख्या च । यस्तीर्थकृद्यदा किल तस्य तदाऽऽद्येति समयविदः ।। ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ।। ' ( षोडशक- ८ / २-३ ) ।।१७।। देवोद्देशेन मुख्येयमाऽऽत्मन्येवात्मनो धियः । स्थाप्ये समरसापत्तेरुपचाराद् बहिः पुनः ।। १८ ।। देवोद्देशेनेति । देवोद्देशेन = मुख्यदेवमुद्देश्यतया विषयीकृत्य आत्मन्येव = कारयितर्येव १. हस्तादर्शे 'सप्तधि...' इति त्रुटितः पाठः । २. मुद्रितप्रती ' च परा' इति पाठः । ।। ७८ ।। Page #84 -------------------------------------------------------------------------- ________________ क dE his its f क्ति त्रिं शि का ५/१८ आत्मनः = स्वस्य धियो वीतरागत्वादिगुणाऽवगाहिन्या मुख्या = निरुपचरिता इयं = प्रतिष्ठा, 'स्वार्थाऽबाधात्, प्रतिष्ठाकर्मणा वचननीत्या स्वभावस्यैव स्थापनात् । तदिदमुक्तं'भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् । स्वात्मन्येव परं यत्स्थापनमिह वचननीत्योच्चैः ।। ' ( षोडशक - ८ / ४ ) इति । तत एव स्थापये वीतरागे समरसापत्तेः, वचनाऽनलक्रियादग्धकर्ममलस्याऽऽत्मनो वीतरागत्वलक्षणस्वर्णभावाऽऽपत्तिरूपपरमप्रतिष्ठाया हेतुत्वादप्यस्य मुख्यत्वम् । यदाह'बीजमिदं परमं यत्परमाया एव समरसाऽऽपत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ।। ' ( षोडशक - ८/५ ) इति । तथा, 'भावरसेन्द्रात्तु ततो महोदयाज्जीवताम्रस्वरूपस्य । कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता ।। वचनाऽनलक्रियातः कर्मेन्धनदाहतो यतश्चैषा । इतिकर्तव्यतयाऽतः सफलैषाप्यत्र भावविधौ ।।' ( षोडशक- ८/८-९ ) नन्वेवं प्रतिष्ठाकारयितर्येव प्रतिष्ठोपपादने प्रतिमायां प्रतिष्ठितत्वव्यवहारः, तस्यां च पूजादिफलप्रयोजकत्वं कथं स्यात् ? अत आह- उपचारात् बहिः = प्रतिमायां पुनः इयं प्रतिष्ठा भवति, यत् षोडशकवृत्तिकृत् “बाह्यजिनबिम्बगता तु प्रतिष्ठा बहिर्निजभावोप१. मुद्रितप्रतौ 'स्वार्थाऽबोधात्' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ' स्थापना' इति पाठः । ३. हस्तादर्शे 'इति' पदं नास्ति । ४. मुद्रितप्रतौ '...तास्वरू...' इत्यशुद्धः पाठः । = ।।७९ ।। Page #85 -------------------------------------------------------------------------- ________________ का चारद्वारेण, निज एव हि भावो मुख्यदेवतास्वरूपाऽऽलम्बनः ‘स एवायमि'त्यभेदोपचारेण विदुषां भक्तिमतां पूज्यतापदवीमासादयती"ति (षोडशक-८/९ सुगमार्थकल्पनावृत्ति) । न चैवं तदध्यवसायनाशात्प्रतिमाया अप्रतिष्ठितत्वाऽऽपत्तिरिति शङ्कनीयम्, तन्नाशेऽपि तदाऽऽहितस्योपचरितस्वभावविशेषस्याऽनाशात् । द्विविधो ह्युपचरितस्वभावो गीयते- स्वाभाविक औपाधिकश्च, आद्यः परज्ञता-परदर्शकत्वलक्षणः, अन्त्यश्च विचित्र इति न दोषः ।।१८।। प्रतिष्ठितत्वज्ञानोत्थसमापत्त्या परेष्वपि । फलं स्याद्वीतरागाणां सन्निधानं त्वसम्भवि ।।१९।। प्रतिष्ठितत्वेति । प्रतिष्ठितत्वज्ञानोत्थया = पर्व-पर्वप्रतिष्ठितत्वप्रतिसन्धानोत्थापितवचनाऽऽदरभगवद्बहुमानाऽऽहितया समापत्या (प्रतिष्ठितत्वज्ञानोत्थसमापत्त्या) 'परेष्वपि = प्रतिमापूजाकारिष्वपि फलं = विपलनिर्जरालक्षणं स्यात । ____वीतरागाणां = रागरहितानां सन्निधानं तु समीपागमनरूपं कायिकमहङ्कारममकाररूपं मानसं च मन्त्रसंस्कारादिना असम्भवि । तदुक्तं मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । "स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ।। १. हस्तादर्श 'अप्रतितत्वा...' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रती 'प्रतिष्ठित्व...' इत्यशुद्धः पाठः । ३. हस्तादर्श '...पूर्वप्रप्रतिसं..' इति त्रुटितोऽशुद्धश्च पाठः । ४. मुद्रितप्रतौ 'परष्वपि' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'स्थाप्येन' इतिपदच्छेदशून्यतया भ्रामकः पाठः । ।।८ ।। Jain Education Interational Page #86 -------------------------------------------------------------------------- ________________ 'इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बालक्रीडासमा भवति ।।' (षोडशक-८/६-७) इति' । एतेन ‘प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधिरहङ्कारममकाररूपा क्रियते, विशेषदर्शनेऽपि स्वसादृश्यदर्शिनश्चित्रादाविवाऽऽहाऽऽरोपसम्भवात, ज्ञानस्य नाशेऽपि संस्कारसत्त्वाच्च न पूजाफलाऽनुपपत्तिः, अस्पृश्यस्पर्शनादिना' च तन्नाशः' इति यत्परैरुच्यते तन्निरस्तं भवति । वीतरागदेवस्थले इत्थं वक्तुमशक्यत्वात्, सरागे देवत्वबुद्धेरेव च मिथ्यात्वात् । देवतायां सर्वज्ञत्वाऽभावे व्यासङ्गदशायां व्यवहितनानादेशेषु प्रतिष्ठाकर्मबाहुल्ये चाऽहङ्कारममकाराऽनुपपत्तेः । संस्कारनाशेऽपूज्यत्वाऽऽपत्तेः, तज्ज्ञानसंस्कारयोरननुगतयोः पूजाफलप्रयोजकत्वे गौरवाच्चेति। न च भवतामपि व्यासङ्गवशात्प्रतिष्ठितत्वज्ञानाऽभावे पूजाफलाऽनुपपत्तिरिति, विशेषफलाऽभावेऽपि प्रीत्यादिना सामान्यफलाऽनपायात् । __यैस्तु यथार्थं प्रतिष्ठितत्वप्रत्यभिज्ञानं पूजाफलसामान्य एव प्रयोजकमिष्यते तेषामयमपि दोष एव । ये तु नव्यनैयायिकाः५ - प्रतिष्ठाविधिना जनितं विचित्रमदृष्टं स्वाऽऽश्रयाऽऽत्मसंयोगाऽऽ१. मुद्रितप्रतौ 'इति' पदं नास्ति । २. मुद्रितप्रतौ 'प्रतिमादा' इत्यशुद्धः पाठः । ३. हस्तादर्श 'स्पर्शादे' इति अशुद्धः पाठः । ४. मुद्रितप्रतौ '..रनुगतयोः' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ ...नैयानिका' इत्यशुद्धः पाठः । ।।८१।। Jain Education Interational For Private & Personal use only Page #87 -------------------------------------------------------------------------- ________________ श्रयस्य पूज्यताप्रयोजकमभ्युपयन्ति, तेषां तद्व्यक्तिविशिष्टसम्बन्धानहेऽतिप्रसङ्गः । तद्ग्रहे चाऽननुगम इति । यत्पुनरुच्यते चिन्तामणिकृता - 'प्रतिष्ठितं पूजयेदिति विधिवाक्येन प्रतिष्ठायाः कारणत्वं न बोध्यते, किं तु भूताऽर्थे क्ताऽनुशासनादतीतप्रतिष्ठे पूज्यत्वं बोध्यते । तथा च प्रतिष्ठाध्वंसः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शादिप्रतियोगिकाऽनादिसंसर्गाऽभावसहितः पूज्यत्वप्रयोजकः । स च प्रागभावोऽत्यन्ताऽभावश्च क्वचिदिति- (तत्त्वचिन्तामणि ईश्वरसिद्धिप्रकरण) तदप्यविचारितरमणीयम् ।। प्रतिष्ठायाः क्रियेच्छारूपत्वे तदध्वंसस्य प्रतिमाऽनिष्ठत्वात । संयोगरूपत्वेऽपि द्विष्ठत्वात्, कारणीभूताऽभावप्रतियोगित्वेन पूजाफले प्रतिष्ठायाः प्रतिबन्ध कत्वव्यवहाराऽऽपत्तेः', क्तप्रत्ययस्थलेऽपि 'प्रोक्षिता व्रीहयः'( ) इत्यादौ ध्वंसव्यापारकत्वाऽकल्पनात, कालान्तरभाविनि फले चिरनष्टस्य भावव्यापारकत्वनियमाच्च. अन्यथाऽपूर्वोच्छेदाऽऽपत्तेश्च । किञ्च किञ्चिदवयवनाशेन प्रतिमान्तरोत्पत्तौ तव तत्र प्रतिष्ठाध्वंसाऽनभ्युपगमात्पूज्यताऽनापत्तिः। 'प्रतिष्ठितत्वबुद्धिबलाद् व्रीहिषु संस्कृतत्वस्येव तेन तस्य न क्षति रित्यभ्युपगमे १. मुद्रितप्रतौ 'प्रतिष्ठिताया' इति पाठः । २. हस्तादर्श ....सतः' इति त्रुटितोऽशुद्धश्च पाठः । ३. मुद्रितप्रतौ 'कारणीभूत..' इत्यशुद्धः पाठः । ४. हस्तादर्श 'प्रतितिबन्ध..' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ .रोपपत्तेः' इत्यशुद्धः पाठः । ।।८२। Jain Education Interational Page #88 -------------------------------------------------------------------------- ________________ EM ।। च यथाप्रतीति शबल-वस्त्वभ्युपगमोऽपि बलादापतेदिति किमतिपल्लवितेन ।।१९।। सम्प्रदायागतं चेह मन्त्रन्यासादि युक्तिमत् । अष्टौ दिनान्यविच्छित्त्या पूजा दानं च भावतः ॥२०॥ सम्प्रदायेति । इह = प्रतिष्ठाविधौ मन्त्रन्यासादिकं च क्षेत्रसंशोधनाऽभिवर्षणादिनिष्पत्तये वायुमेघकुमारादिविषयं संप्रदायाऽऽगतं = शिष्टपारम्पर्याऽऽयातं युक्तिमद् भवति । [परः प्राह- इत्थं विशिष्टन्यायार्जने(? न्यायार्जितद्रव्य)भावशुद्धनिष्पन्नबिम्बस्य स्थापनाऽवसरे बल्यादेः विघ्नोपशान्त्यर्थमापादनमसारम्, भावशुद्धेनैव(? भावशुद्धयैव) सिद्धेः । मैवम्, भावसत्याऽन्तरितस्थापनायां तत्प्राधान्यात्सत्यताऽतिशयेन स्वारसिकेनैव सिद्धेः। अत्र तूपचारादेव क्षेत्राऽधिष्ठातृप्रस्तुतशान्त्याद्यर्थं शासनोन्नतित्वेन विशेषाऽभ्युदयतासिद्धेः, अन्यथाऽप्रतिष्ठापत्तेः। केवलं भावसिद्धत्वे, पद्मासन-पर्यङ्कादिमुद्राविधीयमानत्वे, सिद्धावस्थात्वे जलाभिषेकादिव्यवहृतित्वमनापत्तिः यत्परैरुच्यते तन्न, तदेवाऽभिमतफलेप्सिताऽवाप्तिपूर्वकज्ञायकसिद्धद्रव्यशरीरमत्त्वे(? शरीरत्वे)नाऽमरैरपि तद्विहितत्वात् सर्वसावद्य(?द्यनि)वृत्तिमतामनिष्टापत्तिर्भवितेत्यारेकापहारः । ।।८३ ।। १. हस्तादर्श 'भवतः' इति पाठः । २. [ ] बैंसमा मापेख पृ९.३४८ सुधानो विस्तृत 416 संवा पाश्रयनी तेम पाटन मं.२नी .लि. प्रतम नथी. ३. मुद्रितप्रतौ 'बल्यादिवि...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #89 -------------------------------------------------------------------------- ________________ तस्मात्स्थापनात्वेऽवस्थान्तरकल्पनाविशेषाद् भाववृद्ध्यैव विहितत्वात्तवापि सिध्येद्येन स्थापनमपि अश्लील(न) स्यादतो नैव शङ्का-व्यभिचारित्वम्(?त्वे)]। ___ अष्टौ दिनानि यावत् अविच्छित्त्या = नैरन्तर्येण पूजा बिम्बस्य दानं च (भावतः) विभवानुसारेण शासनोन्नतिनिमित्तमिति ।।२०।। पूजा प्रतिष्ठितस्येत्थं बिम्बस्य क्रियतेऽर्हतः । भक्त्या विलेपन-स्नान-पुष्प-धूपादिभिः शुभैः ॥२१॥ पूजेति व्यक्तः ।।२१।। सा च पञ्चोपचारा स्यात् काचिदष्टोपचारिका' । अपि सर्वोपचारा च निजसम्पद्विशेषतः ।।२२।। सा चेति । (सा च) पञ्चोपचारा जानु-करद्वयोत्तमाऽगैरुपचारयुक्ता, आगमप्रसिद्धैः पञ्चभिर्विनयस्थानैर्वा, (काचित्) अष्टोपचारिका = अष्टभिरङ्गरुपचारो यस्यां भवति, तानि चामूनिसीसमुरोअरपिट्ठी दो बाहू उरूआ य अट्ठङ्गा' (आवश्यकनियुक्तिभाष्य१६०) । ___ सर्वोपचारापि च (स्याद्) देवेन्द्रन्यायेन निजसम्पद्विशेषतः = सर्वबलविभूत्यादिना ।।२२।। ।।।।८।। १. हस्तादर्श 'प्टोचारि...' इति पाठः । २. मुद्रितप्रतौ ...न्द्रयायेन' इति त्रुटितोऽशुद्धश्च पाठः । Page #90 -------------------------------------------------------------------------- ________________ इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता । विशुद्धोज्ज्वलवस्त्रेण शुचिना संय(?)तात्मना ।।२३।। __इयमिति । इयं = पूजा न्यायोत्थवित्तेन = भावविशेषात्परिशोधितद्रव्येण भक्तिमता सता कार्या विशुद्धं पट्टयुग्मादि रक्त-पीतादिवर्णमुज्ज्वलं च वस्त्रं यस्य तेन ( विशुद्धोज्ज्वलवस्त्रेण), तदुक्तं ‘सितशुभवस्त्रेण' (षोडशक-९/५) इति । शुचिना द्रव्यतो देश-सर्वस्नानाभ्यां भावतश्च विशुद्धाऽध्यवसायेन संवृताऽऽत्मना = अङ्गोपाङ्गेन्द्रियसंवरवता ।।२३।। पिण्ड-क्रिया-गुणोदारैरेषा स्तोत्रैश्च सङ्गता । पापग परैः सम्यक्प्रणिधानपुरःसरैः ।।२४।। पिण्डेति । पिण्डं = शरीरमष्टोत्तरलक्षणसहस्रकलितं, क्रिया = आचारो दुर्वारपरीषहोपसर्गजयलक्षणः, गुणाः = श्रद्धा-ज्ञान-विरतिपरिणामादयः केवलज्ञान-दर्शनादयश्च तैरुदारैः = गम्भीरैः (=पिण्डक्रिया-गुणोदारैः) पापानां = राग-द्वेष-मोहपूर्वं स्वयंकृतानां गर्हा = भगवत्साक्षिकनिन्दारूपा तया परैः = प्रकृष्टैः (=पापगर्हापरैः) सम्यक् = समीचीनं यत्प्रणिधानं = ऐकाग्र्यं तत्पुरःसरैः (=सम्यकप्रणिधानपुरःसरैः) स्तोत्रैश्चैषा = पूजा सङ्गता ।।२४।। ___ अन्ये त्वाहुस्त्रिधा योगसारा सा शुद्धिचित्ततः (वित्तशुद्धितः) । ॥८५ । अतिचारोज्झिता विघ्नशमाऽभ्युदय-मोक्षदा ।।२५।। अन्ये त्विति । अन्ये तु आचार्याः आहुः = प्राहुः ‘सा = पूजा योगसारा त्रिधा ५/२५ Jain Education Interational For Private & Personal use only Page #91 -------------------------------------------------------------------------- ________________ काययोगप्रधाना, वाग्योगप्रधाना मनोयोगप्रधाना च । शुद्धिचित्ततः (वित्तशुद्धितः) कायादिदोषपरिहाराऽभिप्रायाद् अतिचारोज्झिता शुद्ध्यतिचारविकला यथाक्रमं विघ्नशमदा, अभ्युदयदा मोक्षदा' च' (=विघ्नशमाऽभ्युदय-मोक्षदा) । तदुक्तं षोडशके 'कायादियोगसारा त्रिविधा तच्छुद्ध्युपात्तवित्तेन । या तदतिचाररहिता सा परमाऽन्ये 'तु समयविदः ।। विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चाऽन्या । निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ।।' (षो.९/९-१०) ।।२५।। आद्ययोश्चारुपुष्पाद्यानयनैतन्नियोजने । अन्त्यायां मनसा सर्वं सम्पादयति सुन्दरम् ।।२६।। आद्ययोरिति । आद्ययोः काय-वाग्योगसारयोः पूजयोः क्रमात्पुष्पादिकं = प्रधानपुष्पगन्धमाल्यादिकं सेवते च स्वयमेव ददात्यानयति च वचनेनाऽन्यतोऽपि क्षेत्रात् । तदुक्तं प्रवरं पुष्पादि सदा चाऽऽद्यायां सेवते तु तदाता । आनयति चाऽन्यतोऽपि हि नियमादेव द्वितीयायाम् ।।' (षोडशक-९/११) ___ अन्त्यायां = मनोयोगसारायां सर्वं सुन्दरं पारिजातकुसुमादि मनसा सम्पादयति । तदुक्तं- “त्रैलोक्यसुन्दरं यन्मनसाऽऽपादयति तत्तु चरमायाम्।” (षोड. ९/१२) इति ।।२६।। १. हस्तादर्श 'मोक्षदः' इत्यशुद्धः पाठः । २. हस्तप्रतौ ' चित्तेन' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'परमान्येति' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ....योगसारं (सारायां)' इति पाठः । 11८६।। Jain Education Interational For Private & Personal use only Page #92 -------------------------------------------------------------------------- ________________ का न च स्नानादिना कायवधादत्राऽस्ति दुष्टता । दोषादधिकभावस्य तत्राऽऽनुभविकत्वतः ॥२७॥ न चेति । न चात्र = पूजाविधौ कायवधात् = जलवनस्पत्यादिविराधनात् स्नानादिना दुष्टताऽस्ति, दोषात् = कायवधदोषाद् अधिकभावस्य = स्नानादिजनिताऽधिकशुभाऽध्यवसायस्य (तत्र) आनुभविकत्वतः = अनुभवसिद्धत्वात् । तदिदमुक्तं स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ।। कूपोदाहरणादिह कायवधोऽपि गुणवान्मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ।। कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः ।। (षोडशक-९/१३-१४-१५) ।।२७।। यतिरप्यधिकारी स्यान्न चैवं तस्य सर्वथा । भावस्तवाऽधिरूढत्वादर्थाऽभावादमूदृशा ।।२८।। यतिरपीति । न चैवं = “स्नानादेरदुष्टत्वाद् यतिरप्यत्राधिकारी स्यात्, विभूषार्थस्नानादेस्तस्य निषेधेऽपि पूजार्थस्नानादेर्निषेद्धुमशक्यत्वात्, अन्यथा गृहस्थस्याऽपि तन्निषेधप्रसङ्गात् । १. हस्तादर्श 'गुणिनां' इति पाठः । स चाऽशुद्धः । ५/२८ ||८७|| Page #93 -------------------------------------------------------------------------- ________________ न च कुटुम्बाद्यर्थमारम्भप्रवृत्तत्वाद् गृहस्थस्य तत्राऽधिकारः, यतो नैकं पापमाचरितमित्यन्यदप्याचरितव्यं स्यात्, गुणान्तरलाभस्तु द्वयोरपि समानः” इति शङ्कनीयम्, तस्य = यतेः सर्वथा = सर्वप्रकारेण भावस्तवाऽधिरूढत्वाद् अमूदृशा = जिनपूजादिकर्मणा अर्थाऽभावात् = प्रयोजनाऽसिद्धेः । न हि यदाद्यभूमिकावस्थस्य गुणकरं तदुत्तरभूमिकावस्थस्याऽपि तथा, रोगचिकित्सावद्धर्मस्य शास्त्रे नियताऽधिकारिकत्वेन व्यवस्थितत्वात् । तदुक्तं- "अधिकारिवशात् शास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुण-दोषयोः ।।" (अष्टक २/ ५) ।।२८।। प्रकृत्यारम्भभीरुर्वा यो वा सामायिकादिमान् । गृही तस्यापि नाऽत्राऽर्थेऽधिकारित्वमतः स्मृतम् ।।२९।। प्रकृत्येति । अतः = भावस्तवाऽधिरूढस्य यतेरत्राऽनधिकारित्वात् यः प्रकृत्याऽऽरम्भीरुयो वा सामायिकादिमान् (गृही) तस्याप्यत्राऽर्थे जिनपूजारूपे अधिकारित्वं न स्मृतम्। यदष्टकवृत्तिकृत् “अत एव सामायिकस्थः श्रावकोऽप्यनधिकारी, तस्याऽपि सावद्यनिवृत्ततया भावस्तवाऽऽरूढत्वेन श्रमणकल्पत्वात् । ____ अत एव गृहिणोऽपि प्रकृत्या पृथिव्याधुपमर्दनभीरोर्यतनावतः सावद्यसंक्षेपरुचेर्यतिक्रियाऽनुरागिणो न धर्मार्थं सावद्याऽऽरम्भप्रवृत्तिर्युक्ते"ति (अष्टकवृत्ति-२/५) ।।२९।। १. हस्ताद” 'अर्था' नास्ति । २. हस्तादर्श 'प्रयोजेना...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'यत्पंचाशकवृत्तिकृत्' इत्यशुद्धतरः पाठः । ५/२९ ।।८८।। Jain Education Interational Page #94 -------------------------------------------------------------------------- ________________ अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशङ्किनः । अबोधिरेव परमा' विवेकौदार्यनाशतः ॥३०॥ अन्यत्रेति। यस्त्वन्यत्र' = कुटुम्बाद्यर्थे आरम्भवाँस्तस्याऽत्र = जिनपूजानिमित्तपुष्पादौ आरम्भशङ्किनः = स्तोकपुष्पादिग्रहणाऽभिव्यङ्ग्याऽऽरम्भशङ्कावतः परमा = प्रकृष्टा अबोधिरेव = बोधि-हानिरेव, विवेकः कार्याऽकार्यज्ञानमौदार्यं च विपुलाऽऽशयलक्षणं तयो शतः (=विवेकौदार्यनाशतः)। तदुक्तं - "अण्णत्थाऽऽरंभवओ धम्मेऽणारंभओ अणाभोगो । लोए पवयणखिंसा अबोहिबीअंति दोसा अ ।” (पंचाशक. ८/१२) ।।३०।। नन्वेवं धर्मार्थमप्यारम्भप्रवृत्तिप्राप्तौ, धर्मार्थं यस्य वित्तेहा तस्याऽनीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।। (अष्टक ४/६, पराशरस्मृति-१३३ हितोपदेश-१/१८७, पञ्चतन्त्र-२/१५७) तथा 'शुद्धागमैर्यथालाभं प्रत्यग्रैः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वापि पुष्पैर्जात्यादिसम्भवैः।।' (अष्टक ३/२) इत्यादिकं विरुध्येतेत्याशङ्क्याह यच्च धर्मार्थमित्यादि तदपेक्ष्य दशान्तरम् । सकाशादेः किल श्रेयस्युपेत्यापि प्रवृत्तितः ।।३१।। १. हस्तादर्श ‘परम' इति पाठः । २. हस्तादर्श 'कुत्र' इति पाठः । ३. मुद्रितप्रतौ 'प्रत्येनेः' इत्यशुद्ध पाठः । ४. मुद्रितप्रतौ 'श्रेयस्युपेत्यादि' इत्यशुद्धः पाठः । ।।८९।। Jain Education Interational Page #95 -------------------------------------------------------------------------- ________________ // ऽशुभस्वरूपव्यापारस्य विशिष्टनिर्जराकारणत्वाऽयोगादिति ।।३१।। पूजया परमानन्दमुपकारं विना कथम् । ददाति पूज्य इति चेच्चिन्तामण्यादयो यथा ॥३२॥ पूजयेति । व्यक्तः ।।३२।। ।। इति भक्तिद्वात्रिंशिका ।।५।। ।। अथ साधुसामग्र्यद्वात्रिंशिका ।।६।। जिनभक्तिप्रतिपादनाऽनन्तरं तत्साध्यं 'साधुसामग्र्यमाह ज्ञानेन ज्ञानिभावः स्याद् भिक्षुभावश्च भिक्षया । वैराग्येण विरक्तत्वं संयतस्य महात्मनः ।।१।। ज्ञानेनेति । व्यक्तः ।।१।। विषयप्रतिभासाऽऽख्यं तथाऽऽत्मपरिणामवत् । तत्त्वसंवेदनं चेति त्रिधा ज्ञानं प्रकीर्तितम् ॥२॥ विषयेति । विषयप्रतिभास इत्याख्या यस्य, विषयस्यैव हेयत्वादिधर्माऽनुपरक्तस्य १. 'सामग्यमाह' इति त्रुटितः पाठो मुद्रितप्रतौ । २. ..धर्मानुरक्तस्ये'त्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च 'धर्मानुपरक्रम्य' इत्यशुद्धः पाठः । ।।।९१॥ Jain Education Intemational Page #96 -------------------------------------------------------------------------- ________________ भ क्ति द्वा त्रिं शि का ५/३१ यच्चेति । यच्च धर्मार्थमित्यादि भणितं तद्दशान्तरं सर्वविरत्यादिरूपं अपेक्ष्य, आद्यश्लोकस्य सर्वविरत्यधिकारे पाठात्, द्वितीयस्य च पूजाकालोपस्थिते मालिके दर्शनप्रभावनाहेतोर्वणिक्कला न प्रयोक्तव्येत्येतदर्थख्यापनपरत्वात् । पञ्चाशक - ४ /४९, अन्यथा, ‘“सुब्बइ दुग्गयनारी जगगुरुणो सिंदुवारकुसुमेहिं । पूआपणिहाणेणं उववन्ना तियसलोअंमि ।। " सम्बोधसप्ततिका - ७० ) इत्यादिवचनव्याघात प्रसङ्गात् । इत्थं चैतदङ्गीकर्तव्यं सङ्काशादेः किल श्रेयसि धर्मकार्ये उपेत्याऽपि विषयविशेषपक्षपातगर्भत्वेन पापक्षयकरीं वाणिज्यादिक्रियामङ्गीकृत्याऽपि प्रवृत्तितः । सङ्काशश्रावको हि प्रमादाद् भक्षितचैत्यद्रव्यो निबद्धलाभाऽन्तरायादिक्लिष्टकर्मा चिरं पर्यटितदुरन्तसंसारकान्तारोऽनन्तकालाल्लब्धमनुष्यभावो दुर्गतनरशिरः शेखररूपः पारगतसमीपोपलब्धस्वकीयपूर्वभववृत्तान्तः पारगतोपदेशतो दुर्गतत्वनिबन्धनकर्मक्षपणाय 'यदहमुपार्जयिष्यामि द्रव्यं तद्ग्रासाऽऽच्छादनवर्जं सर्वं जिनायतनादिषु नियोक्ष्ये' इत्यभिग्रहं गृहीतवान्, कालेन च निर्वाणमवाप्तवानिति । = = 1 अथ युक्तं सङ्काशस्यैतत्, तथैव तत्कर्मक्षयोपपत्तेः न पुनरन्यस्य नैवं सर्वथैवा१. श्रूयते दुर्गतनारी जगद्गुरोः सिंदुवारकुसुमैः पूजाप्रणिधानेनोपपन्ना त्रिदशलोके ।। २. हस्तादर्शे 'जगद्गुरुणो' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'व्याघाप्र...' इति अशुद्धपाठः । ४. मुद्रितप्रतौ ' तद्ग्रासात्याद....' इत्यशुद्धः पाठ: । ५ मुद्रितप्रती 'निर्वाणमृवा...' इत्यशुद्धः पाठः । ।। ९० । Page #97 -------------------------------------------------------------------------- ________________ अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशङ्किनः ।। अबोधिरेव परमा' विवेकौदार्यनाशतः ।।३०।। अन्यत्रेति। यस्त्वन्यत्र' = कुटुम्बाद्यर्थे आरम्भवाँस्तस्याऽत्र = जिनपूजानिमित्तपुष्पादौ आरम्भशङ्किनः = स्तोकपुष्पादिग्रहणाऽभिव्यङ्ग्याऽऽरम्भशङ्कावतः परमा = प्रकृष्टा अबोधिरेव = बोधि-हानिरेव, विवेकः कार्याऽकार्यज्ञानमौदार्यं च विपुलाऽऽशयलक्षणं तयो शतः (=विवेकौदार्यनाशतः)। तदुक्तं - "अण्णत्थाऽऽरंभवओ धम्मेऽणारंभओ अणाभोगो । लोए पवयणखिंसा अबोहिबीअंति दोसा अ ।।” (पंचाशक. ८/१२) ।।३०।। नन्वेवं धर्मार्थमप्यारम्भप्रवृत्तिप्राप्तौ, धर्मार्थं यस्य वित्तेहा तस्याऽनीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।।। (अष्टक ४/६, पराशरस्मृति-१३३ हितोपदेश-१/१८७, पञ्चतन्त्र-२/१५७) तथा, 'शुद्धागमैर्यथालाभं प्रत्यग्रैः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वापि पुष्पैर्जात्यादिसम्भवैः ।।' (अष्टक ३/२) इत्यादिकं विरुध्येतेत्याशझ्याह यच्च धर्मार्थमित्यादि तदपेक्ष्य दशान्तरम् । सङ्काशादेः किल श्रेयस्युपेत्यापि प्रवृत्तितः ॥३१॥ १. हस्तादर्श 'परम' इति पाठः । २. हस्तादर्श 'कुत्र' इति पाठः । ३. मुद्रितप्रतौ 'प्रत्येग्रेः' इत्यशुद्ध पाठः । ४. मुद्रितप्रतौ 'श्रेयस्युपेत्यादि' इत्यशुद्धः पाठः । ।।८९।। Jain Education Intemational For Private & Personal use only Page #98 -------------------------------------------------------------------------- ________________ प्रतिभासादिवत् = तत्तुल्यम् (=मुग्धरत्नाऽऽदिप्रतिभासवत्) । तदाह- 'विषकण्टकरत्नादौ बालादिप्रतिभासवत्' (अष्टक-९/२) इति । अज्ञानं = मत्यज्ञानादिकं तदावरणं यत्कर्म तस्य अपायः = क्षयोपशमस्तस्मात् (=अज्ञानाऽऽवरणाऽपायात्) । तदाह- ''अज्ञानावरणापायं' (अ.९/३) इति । ग्राह्यत्वादीनाम् = उपादेयत्वादीनां अविनिश्चयः = अनिर्णयो' यतस्तत् (=ग्राह्यत्वाद्यविनिश्चयम्)। तदाह- 'तद्धेयत्वाद्यवेदक'मिति (अष्टक- ९/२) । यद्यपि मिथ्यादृशामपि घटादिज्ञानेन घटादिग्राह्यता निश्चीयत एव, तथापि स्वविषयत्वावच्छेदेन तदनिश्चयान्न दोषः, स्वसंवेद्यस्य स्वस्यैव तदनिश्चयात् ।।३।। भिन्नग्रन्थेर्द्वितीयं तु ज्ञानावरणभेदजम् ।। श्रद्धावत् प्रतिबन्धेऽपि कर्मणा सुख-दुःखयुक् ।।४।। भिन्नग्रन्थेरिति । भिन्नग्रन्थेः = सम्यग्दृशस्तु द्वितीयं = आत्मपरिणामवत् ज्ञानाऽऽवरणस्य भेदः = क्षयोपशमस्तज्जं (=ज्ञानावरणभेदजम्), तदाह - "ज्ञानावरणह्रासोत्थ मिति (अष्टक ९/५) श्रद्धावत् = वस्तुगुणदोषपरिज्ञानपूर्वकचारित्रेच्छान्वितं प्रतिबन्धेऽपि चारित्रमोहोदयजनितान्तरायलक्षणे सति, कर्मणा पूर्वाऽर्जितेन सुख-दुःखयुक् = सुख-दुःखान्वितम् । तदाह - 'पातादिपरतन्त्रस्य तद्दोषादावसंशयम । अनर्थाद्याप्तियुक्तं चाऽऽत्मपरिणतिमन्मतम्' १. हस्तादर्श 'अज्ञानावराणा...' इत्यशुद्धः पाठः । २. हस्तादर्श ...नियतः...' इति त्रुटितोऽशुद्धश्च पाठः । । ३. हस्तादर्श 'तथाहि' इति पाठः । ४. हस्तादर्श 'ज्ञानावरणः' इति पाठः । ।।९३।। Jain Education Interational Page #99 -------------------------------------------------------------------------- ________________ BE by E E ।। (अष्टक-९/४) ।।४।। स्वस्थवृत्तेस्तृतीयं तु सज्ज्ञानावरणव्ययात् । साधोर्विरत्यवच्छिन्नमविघ्नेन फलप्रदम् ।।५।। स्वस्थेति। स्वस्था = अनाकला वृत्तिः कायादिव्यापाररूपा यस्य तस्य (=स्वस्थवृत्तेः) साधोः-'तु तृतीयं विरतिः = सदसत्प्रवृत्तिनिवृत्त्यात्मिका तया अवच्छिन्नं = उपहितं (=विरत्यवच्छिन्नं) अविघ्नेन = विघ्नाऽभावेन फलप्रदम । तदाह स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ।। (अष्टक ९/६) इदं च सज्ज्ञानावरणस्य व्ययात् = क्षयोपशमात्प्रादुर्भवति। तदाह- 'सज्ज्ञानावरणापाय'मिति (अ.९/७) ।।५।। निष्कम्पा च सकम्पा च प्रवृत्तिः पापकर्मणि । निरवद्या च सेत्याहुर्लिङ्गान्यत्र यथाक्रमम् ।।६।। निष्कम्पा चेति । अत्र = उक्तेषु त्रिषु भेदेष्वज्ञान'ज्ञानसज्ज्ञानत्वेन फलितेषु यथाक्रम पापकर्मणि 'निष्कम्पा = दृढा प्रवृत्तिः सकम्पा चाऽदृढा निरवद्या च सा = प्रवृत्तिः इति लिङ्गान्याहुः । तदुक्तं 'निरपेक्षप्रवृत्त्यादिलिङ्गमेतदुदाहृतम्' (अ.प्र.९/३) तथा, १. मुद्रितप्रतौ 'तु' पदं नास्ति । २. मुद्रितप्रतौ 'अपहितं' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ..वज्ञान-सज्ज्ञान...' इति त्रुटितः पाठः । ४. हस्तादर्श 'सिष्कं...' इत्यशुद्धः पाठः । ।।९४। Jain Education Interational For Privale & Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ 456095 सा धु सा म ग्य द्वा त्रिं शि का ६/८ ‘तथाविधप्रवृत्त्यादिव्यङ्ग्यं' सदनुबन्धि च' । ( अष्टक - ९/५ ) तथा 'न्याय्यादौ शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्त्तितम्' (अष्टक - ९/७ ) इति ।।६।। 'ननु क्वैतानि लिङ्गान्युपयुज्यन्ते' इत्यत आहजातिभेदानुमानाय व्यक्तीनां वेदनात्स्वतः । = तेन कर्मान्तरात् कार्यभेदेऽप्येतद्भिदाऽक्षता ।।७।। जातीति | जातिभेदस्य = = निष्कम्पपाप्रवृत्त्यादिजनकताऽवच्छेदकस्याऽज्ञानादिगतस्याऽनुमानाय (= जातिभेदानुमानाय) उक्तानि लिङ्गानीति सम्बन्धः, व्यक्तीनां = अज्ञानादिव्यक्तीनां स्वतः लिङ्गनैरपेक्ष्येणैव वेदनात् = परिज्ञानात् । तेन कर्मान्तरात् = चारित्रमोहादिरूपादुदयक्षयो२पशमावस्थावस्थितात् कार्यभेदेऽपि सावद्याऽनवद्यप्रवृत्तिवैचित्र्येऽपि (ए) तद्भिदा अज्ञानादिभिदा अक्षता, प्रवृत्तिसामान्ये ज्ञानस्य हेतुत्वात्तद्वैचित्र्येणैव तद्वैचित्र्योपपत्तेः, प्रवृत्तौ कर्मविशेषप्रतिबन्धकत्वस्याऽपि हेतुविशेषविघटनं विनाऽयोगात् । = वस्तुतः कार्यस्वभावभेदे कारणस्वभावभेदः सर्वत्राप्यावश्यकः, अन्यथा हेत्वन्तरसमवधानस्याप्यकिञ्चित्करत्वादिति विवेचितमन्यत्र ||७|| योगादेवाऽन्त्यबोधस्य साधुः सामग्र्यमश्नुते । अन्यथाऽऽकर्षगामी स्यात् पतितो वा न संशयः ।।८।। व्यगं' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ .. पशमावस्थानव...' इत्यशुद्धः पाठः । १. मुद्रित = ।। ९५ ।। Page #101 -------------------------------------------------------------------------- ________________ Ey E FRs योगादिति । अन्त्यबोधस्य = तत्त्वसंवेदनस्य योगादेव = संस्काररूपसम्बन्धादेव साधुः सामग्र्यं = पूर्णभावं अश्नुते । अन्यथा = तत्त्वज्ञानसंस्काराऽभावे 'पुनर्योगशक्त्यनुवृत्तौ शङ्काकाङ्क्षादिना आकर्षगामी वा स्यात्, तदननुवृत्तौ च पतितो वा, न संशयोऽत्र कश्चित्, बाह्यलिङ्गस्याऽकारणत्वात् ।।८।। त्रिधा भिक्षाऽपि तत्राऽऽद्या सर्वसम्पत्करी मता । द्वितीया पौरुषघ्नी स्याद् वृत्तिभिक्षा तथाऽन्तिमा ।।९।। विधेति । व्यक्तः ।।९।। सदाऽनारम्भहेतुर्या सा भिक्षा प्रथमा स्मृता । एकबाले द्रव्यमुनौ सदाऽनारम्भिता 'तु न ॥१०॥ सदेति । सदाऽनारम्भस्य हेतुर्या भिक्षा सा प्रथमा = सर्वसम्पत्करी स्मृता, तद्धेतुत्वं च सदाऽऽरम्भपरिहारेण सदाऽनारम्भगुणाऽनुकीर्तनाऽभिव्यङ्ग्यपरिणामविशेषाऽऽहितयतनया वा । सदाऽनारम्भिता त्वेकबाले द्रव्यमुनौ संविग्नपाक्षिकरूपे न सम्भवति । इदमुपलक्षणमेकादशी प्रतिमा प्रतिपन्नस्य श्रमणोपासकस्याऽपि प्रतिमाकालाऽवधि। १. हस्तादर्श 'पुनः' पदं नास्ति । २. मुद्रितप्रतौ 'पुनः' इत्यशुद्धः पाठः । ।।९६। Jain Education Interational For Private & Personal use only Page #102 -------------------------------------------------------------------------- ________________ कत्वादनारम्भकत्वस्य न तत्सम्भवः । न च तद्भिक्षायाः सर्वसम्पत्करी'कल्पत्वोक्त्यैव निस्तारः। इत्थं हि यथाकथञ्चित् 'सर्वसम्पत्करीयमिति व्यवहारोपपादनेऽपि 'न 'पौरुषघ्नी'त्यादिव्यवहाराऽनुपपादनात्। तथा च- यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता।। (अष्टक-५/२) इत्याचार्याणामभिधानं सम्भवाऽभिप्रायेणैव । ___जिनकल्पिकादौ गुर्वाज्ञाव्यवस्थितत्वादेरिव सदाऽनारम्भित्वस्य फलत एव ग्रहणात्, अन्यथा लक्षणाऽननुगमाऽऽपत्तेः । द्रव्यसर्वसम्पत्करीमुपेक्ष्य भावसर्वसम्पत्करीलक्षणमेव वा कृतमिदमिति यथातन्त्रं भावनीयम् ।।१०।। दीक्षाविरोधिनी भिक्षा पौरुषघ्नी प्रकीर्तिता । धर्मलाघवमेव स्यात्तया पीनस्य जीवतः ॥११॥ दीक्षेति । दीक्षाया विरोधिनी (=दीक्षाविरोधिनी) = दीक्षाऽऽवरणकर्मबन्धकारिणी भिक्षा पौरुषघ्नी प्रकीर्तिता । तया जीवतः पीनस्य = 'पुष्टाङ्गस्य धर्मलाघवमेव स्यात् । तथाहि- गृहीतव्रतः पृथिव्याधुपमर्दनेन शुद्धोञ्छजीविगुणनिन्दया च भिक्षां गृह्णन् स्वस्य परेषां च धर्मस्य लघुतामेवाऽऽपादयति । तथा गृहस्थोऽपि यः सदाऽनारम्भविहितायां भिक्षायां तचितमात्मानमाकलयन्मोहमाश्रयति सोऽपि 'अनुचितकारिणोऽमी खल्वार्हताः' इति शा ६/११ ।।९७। १. हस्तादर्श 'करिक' इति पाठः । २. हस्तादर्श 'पौरुघ्नी' इति पाठः । ३. हस्तादर्श 'पुष्टस्य' इति पाठान्तरम् । Jain Education Interational For Private & Personal use only Page #103 -------------------------------------------------------------------------- ________________ Eb) EFr सनाऽवर्णवादेन धर्मलघुतामेवाऽऽपादयतीति । तदिदमुक्तम् प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य पौरुषघ्नीति कीर्तिता ।। ___धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति केवलम् ।। (अष्टक-५/४-५) अत्र प्रतिमाप्रतिपन्नभिक्षायां दीक्षाविरोधित्वाऽभावादेव नाऽतिव्याप्तिरिति ध्येयम् ।।११।। क्रियान्तराऽसमर्थत्वप्रयुक्ता वृत्तिसंज्ञिका । दीनान्धादिष्वियं सिद्धपुत्रादिष्वपि केषुचित् ।।१२।। क्रियान्तरेति । क्रियान्तराऽसमर्थत्वेन प्रयुक्ता (=क्रियान्तराऽसमर्थत्वप्रयुक्ता), न तु मोहेन चारित्रशुद्धीच्छया वा वृत्तिसंज्ञिका भिक्षा भवति । इयं च दीनाऽन्धादिषु सम्भवति । यदाहनिःस्वाऽन्ध-पङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ।। नाऽतिदुष्टाऽपि चाऽमीषामेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्धर्मलाघवकारिणः।। (अ.५/६-७) तथा सिद्धपुत्रादिष्वपि केषुचिद् वृत्तिभिक्षा सम्भवति, आदिना सारूपिकग्रहः, दीनादिपदाऽव्यपदेश्यत्वाच्चैषां पृथगुक्तिः । श्रूयन्ते चोत्प्रव्रजिता अमी जिनागमे 'भिक्षुकाः, ९८।। १. हस्तादर्श 'भिक्षाका' इति पाठः । Jain Education Interational For Private & Personal use only Page #104 -------------------------------------------------------------------------- ________________ यतो व्यवहारचूामुक्तं- “जो अणुसासिओ ण पडिनियत्तो सो सारूविअत्तणेण वा सिद्धपुत्तत्तणेण वा अच्छिउं कंचि कालं । सारूविओ णाम सिरमुंडो अरजोहरणो अलाउएहिं भिक्खं हिंडइ अभज्जो । सिद्धपुत्तो णाम सबाली भिक्खं हिंडइ वा ण वा वराडएहिं वेंटलिअं करेइ लट्टिं वा धरेतित्ति" (व्य.सू.चू. ) । केषुचिदित्यनेन ये उत्प्रवजितत्वेन क्रियान्तराऽसमर्थास्ते गृह्यन्ते । येषां पुनरत्यन्तावद्यभीरूणां संवेगाऽतिशयेन प्रव्रज्यां प्रति प्रतिबद्धमेव मानसं तेषामाद्यैव भिक्षा । एतव्यतिरिक्तानामसदारम्भाणां च पौरुषध्येव । 'तत्त्वं पनरिह केवलिनो विदन्तीत्यष्टकवृत्तिकद्वचनं (अ.प्र.५/८ वृ.) च तेषां नियतभावाऽपरिज्ञानसूचकमित्यवधेयम् ।।१२।। अन्याऽबाधेन सामग्र्यं मुख्यया भिक्षयाऽलिवत् । गृह्णतः पिण्डमकृतमकारितमकल्पितम् ।।१३।। ___ अन्येति । अन्येषां = स्वव्यतिरिक्तानां दायकानां अबाधेन = अपीडनेन (=अन्याऽबाधेन) मुख्यया = सर्वसम्पत्कर्या भिक्षया अलिवद् = भ्रमरवद् अकृतमकारितमकल्पितं च पिण्डं १. योऽनुशिष्टो न प्रतिनिवृत्तः सारूपिकत्वेन वा सिद्धपुत्रत्वेन वा स्थित्वा कञ्चित्कालं, सारुपको नाम मुण्डशिरा अरजोहरणः अलाबुकैः भिक्षां हिण्डेऽभार्यश्च। सिद्धपुत्रो नाम सबालः भिक्षा हिण्डते वा न वा वराटकैः वेण्टलिकां करोति यष्टिं वा धारयति इति । २. मुद्रितप्रतौ 'अच्छउ' इत्यशुद्धः पाठः। ३. हस्तादर्श 'सारवि..' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'अलाउयाहिं' इति पाठः। ५. मुद्रितप्रतौ 'वेठलिअं' इति पाठः । ६. मुद्रितप्रतौ 'पौरुषघ्नयेव' इत्यशुद्धः पाठः । ६/१३ ||९९।। Jain Education Interational For Private & Personal use only Page #105 -------------------------------------------------------------------------- ________________ mymㄐ两面貸全和 सा धु सा म ग्य द्वा शि का ६/१५ गृह्णतः सामग्र्यं = चारित्रसमृद्धया पूर्णत्वं भवति । अलिवदित्यनेनाऽनटनप्रतिषेधः, तथा 'सत्यभ्याहृतदोषप्रसङ्गात् । साधुवन्दनार्थमागच्छद्भिः गृहस्थैः पिण्डाऽऽनयने नाऽयं भविष्यति, तदागमनस्य वन्दनार्थत्वेन साध्वर्थपिण्डाऽऽनयनस्य प्रासङ्गिकत्वादिति चेत् ? न, एवमपि मालापहृताद्यनिवारणादिति वदन्ति ।। १३ ।। नन्वेवं सद्गृहस्थानां गृहे भिक्षा न युज्यते । अनात्मम्भरयो यत्नं स्व- परार्थं हि कुर्वते ॥ १४॥ नन्वेवमिति । नन्वेवं = सङ्कल्पितपिण्डस्याप्यग्राह्यत्वे सद्गृहस्थानां = 'शोभनब्राह्मणाद्यगारिणां गृहे भिक्षा न युज्यते यतेः, हि = यतः अनात्मम्भरयः = अनुदरम्भ "यत्नं पाकादिविषयं स्व-परार्थं कुर्वते, भिक्षाचरदानाऽसङ्कल्पेन स्वार्थमेव पाकप्रयत्ने सद्गृहस्थत्वभङ्गप्रसङ्गात्, देवतापित्रतिथिभर्तव्यपोषणशेषभोजनस्य गृहस्थधर्मत्वश्रवणात् । न च दानकालात्पूर्वं देयत्वबुद्ध्याऽसङ्कल्पितं दातुं शक्यत इत्यपि द्रष्टव्यम् ।।१४।। सङ्कल्पभेदविरहो विषयो यावदर्थिकम् । पुण्यार्थिकं च वदता दुष्टमत्र हि दुर्वचः ।। १५ ।। सङ्कल्पेति । अत्र हि = 'असङ्कल्पितः पिण्डो यतेर्ग्राह्यः' इति वचने हि सङ्कल्पभेदस्य १. हस्तादर्शे 'सेत्य.....' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सगृह...' इति पाठः । प्रत्यन्तरे च 'सद्गृस्था....' इति पाठः । ३. मुद्रितप्रती 'यत्र' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'शोभवन..... इत्यशुद्धः पाठः 1 ५. मुद्रितप्रती 'यंत्र' इत्यशुद्धः पाठः I ।। १०० । Page #106 -------------------------------------------------------------------------- ________________ = यतिसम्प्रदानकत्वप्रकारदानेच्छात्मकस्य विरहो (=संकल्पभेदविरहो विषयो) दुर्वचः । केनेत्याह- यावदर्थिकं = यावदर्थिनिमित्तनिष्पादितं पुण्यार्थिकं = पुण्यनिमित्तनिष्पादितं च पिण्डं दुष्टं वदता, अन्यथोक्ताऽसङ्कल्पितत्वस्य यावदर्थिक-पुण्यार्थिकयोः सत्त्वेन तयोग्राह्यत्वाऽऽपत्तेः । तदाह“सङ्कल्पनं विशेषेण यत्राऽसौ दुष्ट इत्यपि । परिहारो न सम्यक्स्याद्यावदर्थिकवादिनः।।" "विषयो वाऽस्य वक्तव्यः पुण्यार्थं प्रकृतस्य च । असम्भवाऽभिधानात्स्यादाप्तस्याऽनाप्तताऽन्यथा ।।" (अष्टक.६/४-५) इति ।।१५।। उच्यते विषयोऽत्राऽयं भिन्ने देये स्वभोग्यतः । सङ्कल्पनं क्रियाकाले दुष्टं पुष्टमियत्तया ।।१६।। उच्यत इति । अत्राऽयं विषय उच्यते यदत क्रियाकाले - "पाकनिर्वर्तनसमर | स्वभोग्यात (?ग्यतः) = आत्मीयभोगाऽर्हादोदनादेः भिन्ने = अतिरिर इयत्तया = 'एतावदिह कुटुम्बायैतावच्चार्थिभ्यः पुण्यार्थं चेति विषयतया पुष्टं = संवलितं सङ्कल्पनं दुष्टम् । तदाह “विभिन्नं देयमाश्रित्य स्वभोग्याद्यत्र वस्तुनि । सङकल्पनं क्रियाकाले तद्दष्टं विषयोऽनयोः।।" (अष्टक-६/६) ।।१६।। १. हस्तादर्श 'ग्राह्यतापत्तेः' इति पाठः । २. हस्तादर्श ‘यावदर्थक...' इति पाठः । ३. हस्तादर्श 'स्वभोगत' ।। इति पाठः । ४. मुद्रितप्रतौ 'निवर्तन' इत्यशुद्धः पाठः । । ।।१०१। Jain Education Interational For Private & Personal use only Page #107 -------------------------------------------------------------------------- ________________ सा धु सा म ग्य द्वा d शि का ६/१७ स्वोचिते तु तदारम्भे निष्ठिते नाऽविशुद्धिमत् । तदर्थकृतिनिष्ठाभ्यां चतुर्भङ्ग्या द्वयोर्ग्रहात् ।। १७ ।। स्वचित्विति । स्वोचिते तु = स्वशरीर - कुटुम्बादेर्योग्ये तु आरम्भे = पाकप्रयत्ने निष्ठित्' = चरमेन्धनप्रक्षेपेणौदनसिद्ध्युपहिते तत् = स्वभोग्याऽतिरिक्तपाकशून्यतया सङ्कल्पनम्, ‘स्वार्थमुपकल्पितमन्नमितो मुनीनामुचितेन दानेनाऽऽत्मानं कृतार्थयिष्यामी 'त्याकारं नाऽविशुद्धिमत् = न दोषाऽन्वितम् । तदर्थं = साध्वर्थं कृतिः = आद्यपाकः निष्ठा च चरमपाकः, ताभ्यां (=तदर्थकृति-निष्ठाभ्यां)निष्पन्नायां चतुर्भङ्ग्यां = (१) तदर्थं कृतिस्तदर्थं निष्ठा, (२) अन्यार्थं कृतिस्तदर्थं निष्ठा, (३) तदर्थं कृतिरन्यार्थं निष्ठा, (४) अन्यार्थं कृतिरन्यार्थं च निष्ठेत्येवंरूपायां द्वयोः भङ्गयोः ग्रहात् = शुद्धत्वेनोपादानात् । तदुक्तं- 'तस्स कडं तस्स निट्ठियं चरमो भंगो तत्थ दु चरिमा सुद्धा । ' ( ) यदि च साध्वर्थं पृथिव्याद्यारम्भाऽप्रयोजकशुभसङ्कल्पनमपि गृहिणो दुष्टं स्यात्तदा साधुवन्दनादियोगोऽपि तथा स्यादिति न किञ्चिदेतत् । तदिदमुक्तम् - स्वोचिते यदारम्भे तथा सङ्कल्पनं क्वचित् । न दुष्टं शुभभावत्वात्तच्छुद्धाऽपरतु योगवत् ।। ( अ. ६ / ७) ।। १७ ।। १. हस्तादर्शे 'निष्टत्यो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'निश्चित' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'मुचितदाने...' इति पाठान्तरम्। ४. मुद्रितप्रतौ 'चउभंगो' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ ' द्यारम्भप्रयोज...!' इत्यशुद्धः पाठः । For Private Personal Use Only ।। १०२ । Page #108 -------------------------------------------------------------------------- ________________ प्राय एवमलाभः स्यादिति चेद् ? बहुधाऽप्ययम् । सम्भवीत्यत एवोक्तो यतिधर्मोऽतिदुष्करः ॥१८॥ प्राय इति । एवं = असङ्कल्पितस्यैव पिण्डस्य 'ग्राह्यत्वे प्रायोऽलाभः स्यात् = शुद्धपिण्डाऽप्राप्तिः स्याद् इति चेत् ? बहुधाऽपि = सङ्कल्पाऽतिरिक्तैर्बहुभिरपि प्रकारैः शङ्कितम्रक्षिताभिः अयं = अलाभः सम्भवी, अथवा- एवं प्रायोऽसङ्कल्पितस्याऽलाभः स्यादिति चेत् ? बहुधाप्ययमसङ्कल्पितस्य लाभः सम्भवी, आदित्सूनां भिक्षूणामभावेऽपि च बहूनां पाकस्योपलब्धेः । तथापि तद्वत्तेर्दुष्करत्वात्तत्प्रणेतुरनाप्तता स्यादित्यत आह- इत्यत एव यतिधर्मो मूलोत्तरगुणसमुदायरूपोऽतिदुष्कर उक्तः, अतिदुर्लभं मोक्षं प्रत्यतिदुष्करस्यैव धर्मस्य हेतुत्वात्, कार्याऽनुरूपकारणवचनेनैवाऽऽप्तत्वसिद्धेः ।।१८।। सङ्कल्पितस्य गृहिणा त्रिधा शुद्धिमतो ग्रहे । को दोष इति चेज्ज्ञाते प्रसङ्गात्पापवृद्धितः ।।१९।। सङ्कल्पितस्येति । गृहिणा = गृहस्थेन सङ्कल्पितस्य = यत्यर्थं प्रदित्सितस्य त्रिधा ||१०३। १. हस्तादर्श 'ग्राह्यत्व प्रा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘अदित्सू...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'प्रतिदि...' इत्यशुद्धः पाठः । Page #109 -------------------------------------------------------------------------- ________________ शुद्धिमतः = मनोवाक्कायशुद्धस्य साधोः ग्रहे = ग्रहणे को दोषः, आरम्भप्रत्याख्यानस्य लेशतोऽप्यव्याघातात् इति चेत् ? ज्ञाते = 'मदर्थं 'कृतोऽयं पिण्डः' इति ज्ञाते सति तद्ग्रहणे प्रसङ्गात् गृहिणः पुनः तथाप्रवृत्तिलक्षणात् पापवृद्धितः, तन्निमित्तभावस्य परिहार्यत्वात् ।।१९।। यत्यर्थं गृहिणश्चेष्टा प्राण्यारम्भप्रयोजिका । यतेस्तद्वर्जनोपायहीना सामग्र्यघातिनी ॥२०॥ यत्यर्थमिति । यत्यर्थं गृहिणः प्राण्यारम्भप्रयोजिका चेष्टा = निष्ठितक्रिया तद्वर्जनोपायैराधाकर्मिककुलपरित्यागादिलक्षणेींना सती (=तद्वर्जनोपायहीना) यतेः सामग्र्यघातिनी = गुणश्रेणीहानिक: ।।२०।। वैराग्यं च स्मृतं दुःख-मोह-ज्ञानान्वितं त्रिधा । आर्तध्यानाख्यमाद्यं स्याद्यथाशक्त्यप्रवृत्तितः।।२१।। __ वैराग्यं चेति । दुःखान्वितं मोहान्वितं ज्ञानान्वितं' चेति (=दुःख-मोह-ज्ञानान्वितं) त्रिधा वैराग्यं स्मृतम् । आद्यं = दुःखान्वितं आर्त्तध्यानाख्यं स्यात्, यथाशक्ति = शक्त्यनुसारेण मुक्त्युपाये तः । तात्त्विकं तु वैराग्यं शक्तिमतिक्रम्याऽपि श्रद्धातिशयेन प्रवृत्तिं जनयेदिति ।।२१।। १. मुद्रितप्रतौ 'कुतो' इत्यशुद्धः पाठ । २. हस्तादर्श 'इति' पदं नास्ति । ३. मुद्रितप्रती ....न्वित' इत्यशुद्धः पाठः । ६/२१ ।।१०४। Jain Education Interational For Private & Personal use only Page #110 -------------------------------------------------------------------------- ________________ सा धु 9 hots s सा म ग्य द्वा त्रिं शि का ६/२३ अनिच्छा ह्यत्र संसारे स्वेच्छालाभादनुत्कटा । नैर्गुण्यदृष्टिजं द्वेषं विना चित्ताङ्गखेदकृत् ।। २२ ।। अनिच्छेति । अत्र हि = वैराग्ये सति ( स्वेच्छाऽलाभात् ) संसारे = विषयसुखे अनिच्छा = इच्छाऽभावलक्षणाऽऽत्मपरिणतिः नैर्गुण्यदृष्टिजं = संसारस्य 'बलवदनिष्टसाधनत्वप्रतिसन्धानजं द्वेषं विनाऽनुत्कटा । अत एव ( चित्ताङ्गखेदकृत् = ) चित्ताङ्गयोः खेदकृत् शारीरदुःखोत्पादिका । इच्छाविच्छेदो हि द्विधा स्याद्- अलभ्यविषयत्वज्ञानाद्, द्वेषाच्च । आद्य इष्टाऽप्राप्तिज्ञानाद् दुःखजनकः, अन्त्यश्च न तथेति ।। २२ ।। = मानस एकान्तात्मग्रहोद्भूतभवनैर्गुण्यदर्शनात् । शान्तस्यापि द्वितीयं सज्ज्वराऽनुद्भवसन्निभम् ।। २३ ।। एकान्तेति । एकान्तः = सर्वथा सन् क्षयी वा य आत्मा तस्य ग्रहादुत्पन्नं यद् भवनैर्गुण्यदर्शनं ततः (=एकान्तात्मग्रहोद्भूतभवनैर्गुण्यदर्शनात् ) शान्तस्याऽपि = प्रशमवतोऽपि लोकदृष्ट्या, द्वितीयं = मोहाऽन्वितं वैराग्यं भवति । एतच्च सन् शक्त्याऽवस्थितो यो ज्वरस्तस्या अनुदयः ( ?द्भवः) वेलाप्राक्काललक्षणः तत्सन्निभं (=सज्ज्वराऽनुद्भवसन्निभम् ) । तेषां भवे द्वेषजनितस्य वैराग्यस्योत्कटत्वेऽपि १. हस्तादर्शे 'बलद...' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सन्त' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'ज्वरासन्निभं ' इति त्रुटितः पाठः । ४. मुद्रितप्रतौ 'भवेत्, द्वेषजनि...' इति पाठः । स चाशुद्धः । ॥१०५॥ Page #111 -------------------------------------------------------------------------- ________________ ।। मिथ्याज्ञानवासनाऽविच्छेदादपायप्रतिपातशक्तिसमन्वितत्वात् ।।२३।। स्याद्वादविद्यया ज्ञात्वा बद्धानां कष्टमङ्गिनाम् । तृतीयं भवभीभाजां मोक्षोपायप्रवृत्तिमत्' ।।२४।। ___स्याद्वादेति । स्याद्वादस्य = सकलनयसमूहात्मकवचनस्य विद्यया ( स्याद्वादविद्यया) बद्धानामगिनां कष्टं = दुःखं ज्ञात्वा भवभीभाजां = संसारभयवतां तृतीयं = ज्ञानाऽन्वितं वैराग्यं भवति । तच्च मोक्षोपाये त्रिरत्नसाम्राज्यलक्षणे प्रवृत्तिमत् = प्रकृष्टवृत्त्युपहितम् (=मोक्षोपायप्रवृत्तिमत्) ।।२४।। सामग्र्यं स्यादनेनैव द्वयोस्तु स्वोपमर्दतः । अत्राऽङ्गत्वं कदाचित्स्याद् गुणवत्पारतन्त्र्यतः ।।२५।। सामग्र्यमिति । अनेनैव = ज्ञानाऽन्वितवैराग्येणैव सामग्र्यं सर्वथा दुःखोच्छेदलक्षणं स्यात्, 'ज्ञानसहितवैराग्यस्यापायशक्तिप्रतिबन्धकत्वात् । द्वयोस्तु = दुःख-मोहाऽन्वितवैराग्ययोः स्वोपमर्दतः = स्वविनाशद्वारा अत्र = ज्ञानान्वितवैराग्ये अङ्गत्वं = उपकारकत्वं कदाचित् = शुभोदयदशायां स्यात्, गुणवतः पारतन्त्र्यं = आज्ञावशवृत्तित्वं ततः (=गुणवत्पारतन्त्र्यतः), ज्ञानवत्पारतन्त्र्यस्याऽपि फलतो ज्ञानत्वात् ।।२५।।। ___ ननु गुणवत्पारतन्त्र्यं विनापि भावशुद्ध्या वैराग्यसाफल्यं भविष्यतीत्यत आह१. मुद्रितप्रती 'वृद्धिमत्' इत्यशुद्धः पाठः । २. हस्तादर्श 'ज्ञानहित...' इति त्रुटितः पाठः । ।।१०६। Jain Education Interational For Private & Personal use only Page #112 -------------------------------------------------------------------------- ________________ सा धु सा म ग्य द्वा hast त्रिं शि का ६/२७ भावशुद्धिरपि न्याय्या न मार्गाऽननुसारिणी । अप्रज्ञाप्यस्य बालस्य विनैतत्स्वाग्रहात्मिका ।।२६।। भावेति । भावशुद्धिरपि = यम-नियमादिना मनसोऽसङिक्लश्यमानताऽपि एतत् गुणवत्पारतन्त्र्यं विना अप्रज्ञाप्यस्य = गीतार्थोपदेशाऽवधारणयोग्यतारहितस्य बालस्य = अज्ञानिनः स्वाग्रहात्मिका • शास्त्रश्रद्धाऽधिकस्वकल्पनाऽभिनिवेशमयी मार्गः = विशिष्टगुणस्थानाऽवाप्तिप्रवणः स्वरस - वाही जीवपरिणामस्तदननुसारिणी ( = मार्गाननुसारिणी) = न न्याय्या । यदाह भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियात्यर्थं न पुनः स्वाग्रहात्मिका ।। रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो हन्तोत्कर्षोऽस्य तत्त्वतः ।। तथोत्कृष्टे च सत्यस्मिन्शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धिकल्पनांशिल्पिनिर्मितं नाऽर्थवद् भवेत् ।। ( अष्टक - २२ / १-२-३ ) ।। २६ ।। मोहानुत्कर्षकृच्चैतदत एवाऽपि शास्त्रवित् । क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु ।। २७ ।। मोहेति । एतद् = गुणवत्पारतन्त्र्यं च मोहानुत्कर्षकृत् = स्वाऽऽग्रहहेतुमोहापकर्षनिबन्धनं, १. हस्तादर्शे 'ग्रहात्मका' इति पाठः । २ हस्तादर्शे 'विप्रज्ञा..' इति त्रुटितः पाठः । ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे द्विरुक्तः । ३. हस्तादर्श शल्य...' इत्यशुद्धः पाठः । = ।। १०७ ।। Page #113 -------------------------------------------------------------------------- ________________ तदाह- न मोहोद्रिक्तताऽभावे स्वाग्रहो जायते क्वचित्। गुणवत्पारतन्त्र्यं हि तदनुत्कर्षसाधनम्।। (अ.२२/४) अत एव = गुणवत्पारतन्त्र्यस्य मोहाऽनुत्कर्षकृत्त्वादेव शास्त्रविदपि = आगमज्ञोऽपि सर्वेषु कर्मसु = दीक्षादानोद्देशसमुद्देशादिषु 'क्षमाश्रमणहस्तेने'त्याह । इत्थमभिलापस्य भावतो गुणपारतन्त्र्यहेतुत्वात्, तस्य च मोहापकर्षद्वाराऽतिचारशोधकत्वात् । तदाह- __अत एवाऽऽगमज्ञोऽपि दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु ।। (अष्टक-२२/५) ।।२७ ।। यस्तु नाऽन्यगुणान् वेद न वा स्वगुणदोषवित् । स एवैतन्नाद्रियते न त्वासन्नमहोदयः ।।२८।। यस्त्विति । व्यक्तः ।।२८।। गुणवबहुमानाद्यः कुर्यात्प्रवचनोन्नतिम् । अन्येषां दर्शनोत्पत्तेस्तस्य स्यादुन्नतिः परा ॥२९॥ गुणवदिति । गुणवतां = ज्ञानादिगुणशालिनां बहुमानाद् (=गुणवद्बहुमानाद्) यः प्रवचनस्योन्नतिं = बहुजनश्लाघां (=प्रवचनोन्नति) कुर्यात्तस्य स्वतः अन्येषां दर्शनोत्पत्तेः परा तीर्थकरत्वादिलक्षणा उन्नतिः स्यात्, कारणाऽनुरूपत्वात्कार्यस्य । तदाहयस्तून्नतौ यथाशक्ति सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह तदेवाप्नोत्यनुत्तमम् ।। १. हस्तादर्श ...नुत्तरम्' इति पाठः । ६/२९ ||१०८ Page #114 -------------------------------------------------------------------------- ________________ EFo ।। प्रक्षीणतीव्रसङ्क्लेशं प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां तथा सिद्धिसुखाऽऽवहम् ।। (अष्टक २३/३-४) ।।२९।। यस्तु शासनमालिन्येऽनाभोगेनाऽपि वर्तते । बध्नाति स तु मिथ्यात्वं महाऽनर्थनिबन्धनम् ।।३०।। यस्त्विति । यस्तु शासनमालिन्ये = लोकविरुद्ध-गुणवन्निन्दादिना प्रवचनोपघाते अनाभोगेनाऽपि = अज्ञानेनाऽपि वर्तते स तु शासनमालिन्योत्पादनाऽवसर एव मिथ्यात्वोदयाद् महाऽनर्थनिबन्धनं = दुरन्तसंसारकान्तारपरिभ्रमणकारणं मिथ्यात्वं बध्नाति । यदाह - यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनां ध्रुवम्।। बध्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थनिबन्धनम् ।। (अष्टक-२३/१-२)।।३०।। स्वेच्छाचारे च बालानां मालिन्यं मार्गबाधया । गुणानां तेन सामग्र्यं गुणवत्पारतन्त्र्यतः ।।३१।। स्वेच्छेति । बालानां = अज्ञानिनां स्वेच्छाचारे च सति (मार्गबाधया=) मार्गस्य बाधया = 'अप्रधानपुरुषोऽयं जैनानां मार्गः' इत्येवं जनप्रवादरूपया मालिन्यं भवति मार्गस्य, तेन हेतुना गुणवत्पारतन्त्र्यत एव गुणानां = ज्ञानादीनां सामग्र्यं = पूर्णत्वं भवति ।।३१।। ॥१०९।। Jain Education Interational For Private & Personal use only Page #115 -------------------------------------------------------------------------- ________________ ध व्य व स्था ho to be द्वा त्रिं शि का ७/२ इत्थं विज्ञाय मतिमान् यतिर्गीतार्थसङ्गकृत् । त्रिधा शुद्ध्याऽऽचरन् धर्मं परमानन्दमश्नुते ।। ३२ ।। इति साधुसामग्र्यद्वात्रिंशिका || ६ || ।। अथ धर्मव्यवस्थाद्वात्रिंशिका ।।७।। साधुसामग्र्यं धर्मव्यवस्थया निर्वाह्यत इतीयमत्राऽभिधीयतेभक्ष्याभक्ष्यविवेकाच्च गम्याऽगम्यविवेकतः । तपो दयाविशेषाच्च स धर्मो व्यवतिष्ठते ॥ १ ॥ भक्ष्येति । स्पष्टः ।। १ ।। भक्ष्यं मांसमपि प्राह कश्चित्प्राण्यङ्गभावतः । ओदनादिवदित्येवमनुमानपुरःसरम् ।।२।। भक्ष्यमिति । मांसादिकमभक्ष्यमोदनादिकं च भक्ष्यमिति सकलशिष्टजनप्रसिद्धा व्यवस्था । तत्र कश्चित् = सौगतो मांसमपि भक्ष्यं प्राण्यङ्गभावत: ' = प्राण्यङ्गत्वात् । न चायमसिद्धो हेतुः, मांसस्य प्राण्यङ्गतायाः प्रत्यक्षसिद्धत्वात्, ओदनादिवत् । न चाऽत्र दृष्टान्ते हेतु - वैकल्यं, ओदन-स्यैकेन्द्रियप्राण्यङ्गत्वेन प्रतीतत्वात्' इत्येवमनुमानपुरःसरं प्राह || २ || १. मुद्रितप्रतौ 'व्यक्त' इति पाठ: । १. हस्तादर्शे 'भाव' इत्यशुद्धः पाठः । For Private Personal Use Only ।।११० । Page #116 -------------------------------------------------------------------------- ________________ र्म कठिts व्य स्था द्वा त्रिं शि का ७/४ स्वतन्त्रसाधनत्वेऽदोऽयुक्तं दृष्टान्तदोषतः । प्रसङ्गसाधनत्वेऽपि बाधकत्वाद् व्यवस्थितेः । । ३ । स्वतन्त्रेति । अदः = सौगतोक्तमेतदनुमानं स्वतन्त्रसाधनत्वे दृष्टान्तदोषतः = दृष्टान्तस्य साधनवैकल्याद् अयुक्तं, 'वनस्पत्याद्येकेन्द्रियाणां बौद्धस्य प्राणित्वेनाऽसिद्धत्वात् । प्रसङ्गसाधनत्वेऽपि = विकल्पसिद्धदृष्टान्ताद्युपादानेन परमतदूषणमात्रपर्यवसितहेतुत्वेऽपि अदोऽयुक्तं, व्यवस्थितेः = लोकाऽऽगमसिद्ध-भक्ष्याऽभक्ष्यव्यवस्थाया बाधकत्वात्, प्राण्यङ्गत्वमात्रस्य भक्ष्यत्वाप्रयोजकत्वात् । न हि शक्यभक्षणकत्वमेव भक्ष्यत्वं, किं त्वधर्माऽजनकभक्षणकत्वं तत्र च व्यवस्था प्रयोजिकेति । तदाह भक्ष्याभक्ष्यव्यवस्थेह शास्त्र - लोकनिबन्धना । सर्वैव भावतो यस्मात्तस्मादेतदसाम्प्रतम् ।। (अष्टक - १७/ २ ) । । ३ । । इत्थञ्चैतदभ्युपेयं, यतःव्यवस्थितं हि गोः पेयं क्षीरादि रुधिरादि न । न्यायोऽत्राप्येष नो चेत्स्याद् भिक्षुमांसादिकं तथा ॥ ४ ॥ व्यवस्थितमिति । व्यवस्थितं हि 'गोः क्षीरादि पेयं, रुधिरादि न' । न हि गवाङ्गत्वाऽविशेषादुभयोरविशेषः । एष न्यायोऽत्राऽपि = अधिकृतेऽप्यवतरति, प्राण्यङ्गत्वेऽप्योदनादेर्भक्ष्यत्वस्य मांसा - देश्चाभक्ष्यत्वस्य व्यवस्थितत्वात् । तदुक्तं - - १. हस्तादर्शे 'वनस्पाद्ये...' इति त्रुटितः पाठः । २ मुद्रितप्रती 'न' पदं नास्ति । ।।१११ ।। Page #117 -------------------------------------------------------------------------- ________________ 'तत्र प्राण्यङ्गमप्येकं भक्ष्यमन्यत्तु नो तथा । सिद्धं गवादिसत्क्षीर-रुधिरादौ तथेक्षणात्'।। (अष्टक-१७/३) । नो चेत्- यदि च नैवमभ्युपगम्यते तदा तव •भिक्षुमांसादिकं तथा = भक्ष्यं स्यात्, प्राण्यङ्गत्वाऽविशेषात् ।। तदाह- भिक्षुमांसनिषेधोऽपि न चैवं युज्यते क्वचित् ।। अस्थ्याद्यपि च भक्ष्यं स्यात्प्राण्यङ्गत्वाऽविशेषतः।। (अष्टक-१७/५) । किं चैवं स्त्रीत्वसाम्याज्जाया-जनन्योरप्यविशेषेण गम्यत्वप्रसङ्ग इति नाऽयमन्मत्तप्रलापो विदुषां सदसि शोभते । यदाह- एतावन्मात्रसाम्येन प्रवृत्तिर्यदि चेष्यते । जायायां स्वजनन्यां च स्त्रीत्वात्तुल्यैव साऽस्तु ते ।। (अष्टक-१७/६) 'मण्डलतन्त्रवादिनोऽत्राऽपीष्टाऽऽपत्तिरेवे'ति चेत् ? तन्मतं बहुधाऽन्यत्र निराकृतं, लेशतश्चाग्रे निराकरिष्यामः ।।४।। अपि च प्रसङ्गसाधनं पराऽभ्युपगमाऽनुसारेण भवति, न चास्माकं प्राण्यङ्गत्वेन मांसम-भक्ष्यमित्यभ्युपगमः', किं तु जीवोत्पत्त्याश्रयत्वादिति दर्शयन्नाह प्राण्यङ्गत्वादभक्ष्यत्वं न हि मांसे मतं च नः । जीवसंसक्तिहेतुत्वात् किन्तु तद् गर्हितं बुधैः ।।५।। प्राण्यङ्गत्वादिति । न हि नः = अस्माकं प्राण्यङ्गत्वान्मांसेऽभक्ष्यत्वं च मतं, ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श 'अभ्युपगमः' पदं नास्ति । २. हस्तादर्श 'च' ११२। नास्ति । Jain Education Interational For Private & Personal use only Page #118 -------------------------------------------------------------------------- ________________ किन्तु जीवसंसक्तिहेतुत्वात् तत् = मांसं बुधैः = बहुश्रुतैः गर्हितं = निषिद्धम् ।।५।। ।। तथाहि पच्यमानाऽऽम-पक्वासु मांसपेशीषु सर्वथा। 'तन्त्रे निगोदजीवानामुत्पत्तिर्भणिता जिनैः ।।६।। पच्यमानेति । एतदर्थसंवादिनी चेयं गाथाआमासु य पक्कासु य विपच्चमाणासु मंसपेसीसु । आयंतियमुववाओ भणिओ अ निगोअजीवाणं ।। (सम्बोधप्रकरण-७/५५) ।।६।। ननु भवतामेव क्वचिदागमे मांसभक्ष्यताऽपि श्रूयते इति पूर्वाऽपरविरोध इत्याशङ्क्याह सूत्राणि कानिचिच्छेदोपभोगादिपराणि तु । अमद्यमांसाऽशितया न हन्यन्ते प्रसिद्धया ।।७।। सूत्राणीति । कानिचित्तु सूत्राणि छेदः = छेदसूत्रोक्तप्रायश्चित्तौपयिकार्थविशेषः, उपभोगश्च बहि:-परिभोगः, आदिनाऽत्यन्ताऽपवादादिग्रहः, तत्पराणि (= छेदोपभोगादिपराणि तु) प्रसिद्धयाऽमद्यमांसाशितया साधोः (न हन्यन्ते=) न विरुध्यन्ते, उत्सर्गतो मांसभक्षणस्य दुष्टत्वादेवेति भावः। ||११३। १. हस्तादर्श तन्त्रो' इत्यशुद्धः पाठः । २. आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपातो भणितो निगोदजीवानाम् ।। ३. हस्तादर्श 'सूति' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'सूत्राणीति' इति नास्ति । Jain Education Interational For Private & Personal use only Page #119 -------------------------------------------------------------------------- ________________ तथाहि अवि य इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीयं वा घयं वा गुलं वा तिल्लं वा महुँ वा मज्जं वा मंसं वा सक्कुलिं वा फाणिशं वा पूर्व वा सिहिरिणिं वा तं पुवामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय सम्मज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिस्सामि वा 'णिक्खमिस्सामि वा माइट्ठाणं संफासे' (आचाराड्ग २-१-१-४-२४) इत्यत्र 'नवरं मद्य-मांसे छेदसूत्राऽभिप्रायेण व्याख्येये' इति वृत्तिकृद् व्याख्यातवान् ।। ___'अथवा कश्चिदतिप्रमादाऽवष्टब्धोऽत्यन्तगृभुतया मद्य-मांसाद्यप्याश्रयेदतस्तदुपादानमिति मातृ-स्थानस्पर्शयोग्यतया नेदमपि विरुध्यते । तथा- 'से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा बहुअट्ठिअं मंसं वा मच्छं वा बहुकण्टयं' (आ.२-१-१-१०-५८) इत्यादिकं सूत्रमपि बहुपरित्यजनधर्मकमांसाऽग्रहणस्य गृहस्थाऽऽमन्त्रणादिविधेर्ग्रहणे सत्यपि कण्टकादिपरिष्ठापनविधेश्च प्रतिपादकं 'अस्योपादानं १. अपि चात्र लप्स्ये पिंडं वा लोयं वा क्षीरं वा दधि वा नवनीतं घृतं वा गुडं वा तैलं वा मधु वा मद्यं वा मांसं वा शुष्कुलिं वा फाणितं वा पूतं वा शिखरिणीं वा तत्पूर्वमेव भुक्त्वा पीत्वा पतद्ग्रहं च संलिह्य संमृज्य ततः पश्चाद् भिक्षुभिः सार्द्ध गृहपतिकुलं पिंडपातप्रतिज्ञया प्रवेश्यामि निष्क्रमिष्यामि वा मातृस्थानं स्पृशेद् । २. मुद्रितप्रतौ 'संकुलिं' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'भिक्खूहि' इति पाठः । ४. हस्तादर्श 'णिक्खमिस्सामि वा' इति पाठो नास्ति । ५. हस्तादर्श'..तवा' इति त्रुटितः पाठः । ६. अथ भिक्षुर्वा भिक्षुणी वा यत्पुनः जानीयाद् बह्वस्थिकं मांसं वा मत्स्यं वा बहुकण्टकम्... । ७. हस्तप्रतौ 'भिक्खुणी' पदं नास्ति । ८. मुद्रितप्रतौ 'मच्छि' इति पाठः । ९. मुद्रितप्रतौ '....पादनं' इत्यशुद्धः पाठः । ||११४। Jain Education Interational For Private & Personal use only Page #120 -------------------------------------------------------------------------- ________________ 과 외 외 क्वचिल्लूताद्युपशमनार्थं सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवदृष्टं, भुजिश्चाऽत्र बहिः परिभोगार्थ' इति व्याख्यया न विरुद्धम् । तथा 'से भिक्खू वा 'भिक्खुणी वा जाव समाणे से जं पुण जाणिज्जा मंसं वा मच्छं वा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिज्जमाणं पेहाए नो खलं खद्धं उवसंकमित्तु' ओभासिज्जा नन्नत्थ गिलाणणीसाए' (आचाराङ्ग २-१-१-९-५१) इत्यत्र नाऽन्यत्र ग्लानादिकार्यादि'त्यनेनाऽत्यन्ताऽपवाद एवच्छेदसमसूत्रविषय इति न कश्चिद्विरोधः श्रुतपरिष्कृतचेतसां प्रतिभाति ।।७।। _ 'न प्राण्यङ्गसमुत्थं' चेत्यादिना वोऽपि वारितम् । लङ्काऽवतारसूत्रादौ तदित्येतद्वथोदितम् ।।८।। नेति । 'न प्राण्यङ्गसमुत्थ'मित्यादिना च = 'न प्राण्यङ्गसमुत्थं मोहादपि शेषचूर्णमश्नीयात्' (अष्टकवृत्ति-१७/८ उद्धृत) इत्यादिग्रन्थेन च वोऽपि = युष्माकमपि लङ्कावतारसूत्रादौ तद् = मांसभक्षणं वारितं = निषिद्धमादिना शीलपटलादिशास्त्रपरिग्रहः, इत्येतद् १. हस्तादर्श 'भिक्खुणी' पदं नास्ति । २. मुद्रितप्रती 'संकमित्तओ' इति पाठः । ३. मुद्रितप्रतौ 'चान्यत्र' इत्यशुद्धः पाठः। ४. मुद्रितप्रतौ 'ग्लानादिकार्था...' इत्यशुद्धः पाठः । 의 ॥११५।। Jain Education Interational For Private & Personal use only Page #121 -------------------------------------------------------------------------- ________________ // = मांसभक्ष्यत्वं वृथोदितं' परेण ।।८।। अधिकृतार्थ एव वाद्यन्तरमतनिरासायोपक्रमते न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥९॥ नेति । न = नैव मांसभक्षणे दोषः कर्मबन्धलक्षणः, न मद्ये पीयमान इति गम्यते, न च मैथुने सेव्यमान इति गम्यते , यतः प्रवृत्तिः = स्वभाव एषा = मांसभक्षणादिका भूतानां = प्राणिनाम् । निवृत्तिः = विरमणं (तु = ) पुनः मांसभक्षणादिभ्यो महदभ्युदयलक्षणं फलं यस्याः सा (तथा = महाफला) ।।९।। भक्ष्यं मांसं परः प्राहाऽनालोच्य वचनादतः । जन्मान्तराऽर्जनाद्दष्टं न चैतद्वेद यत्स्मृतम् ॥१०॥ भक्ष्यमिति । परः = द्विजन्मजातीयोऽतो वचनाद्' अनालोच्य पूर्वाऽपरशास्त्रन्यायविरुद्धतां' मांस भक्ष्यं प्राह । न चैतद् = मांसभक्षणं जन्मान्तरार्जनाद् = अन्यभवोत्पादनाद् दुष्टं वेद = जानाति । यत्स्मृतं मनुना ।।१०।। मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् । १. हस्तादर्श 'मांसभक्षणं' इति पाठान्तरम् । २. मुद्रितप्रतौ 'वृथोपितं' इत्यशुद्धः पाठः । ३. हस्तादर्श 'वचनालोच्य' इत्यशुद्धः पाठः । ४. हस्तादर्श 'पूर्वापरमशा...' इत्यशुद्धः पाठः । ५. हस्तादर्श 'विद्वतां' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Jain Education Interational Page #122 -------------------------------------------------------------------------- ________________ ध र्म कठ has to s व्य व स्था द्वा त्रिं शि का ७/१२ एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।। ११ ।। मामिति । अत्र हि भक्षकस्य भक्षितेन भक्षणीयत्वप्राप्तिनिबन्धनजन्मान्तराऽर्जनादेव व्यक्तं मांसभक्षणस्य दुष्टत्वं प्रतीयत इति तददुष्टत्वप्रतिपादकं वचनमनेनैव विरुध्यते ।। ११ ।। निषेधः शास्त्रबाह्येऽस्तु विधिः शास्त्रीयगोचरः । दोषो विशेषतात्पर्यान्नन्वेवं न यतः स्मृतम् ।।१२।। निषेध इति । ननु शास्त्रबाह्ये मांसभक्षणे निषेधोऽस्तु, निरुक्तबलप्राप्तनिषेधे' विध्यर्थोऽवे, विधिश्च शास्त्रीयगोचरः वचनोक्तमांसभक्षणविषयोऽस्तु । = एवं विशेषतात्पर्याद् = विधि-निषेधवाक्यार्थयोर्विधेय-निषेध्ययोः सामानाधिकरण्येनाऽन्वये तात्पर्याद् न दोषः = 'न मांसभक्षणे दोष' (मनुस्मृति ५/५६ ) इत्यत्र मांसभक्षणसामान्ये दोषाऽभावबाधलक्षणः । अन्यथा 'ज्योतिष्टोमेन स्वर्गकामो यजेत' ( ) इत्यादावपि स्वर्गादिसामान्ये यागादिकार्यताबाधप्रसङ्गात् । इत्थं च- 'इत्थं जन्मैव दोषोऽत्र न शास्त्राद् बाह्यभक्षणम् । प्रतीत्यैष निषेधश्च न्याय्यो वाक्यान्तराद् गतेः 11' (अष्टक. १८/४ ) इत्यत्र 'ने त्यादौ पूर्वपक्षाभिप्रायेण 'नैवं, यतः शास्त्राद् बाह्यभक्षणं प्रतीत्यैष जन्मलक्षणो दोषो निषेधश्च निरुक्तबलप्रापितः' इति १. मुद्रितप्रतौ ' शास्त्रबाह्योऽस्तु' इति पाठः । २. हस्तादर्शे 'निषेधवि' इति पाठः । ३. हस्तादर्शे ..लक्षणं' इत्यशुद्धः पाठः । ।।११७ ।। Page #123 -------------------------------------------------------------------------- ________________ s - एक पूर्वव्याख्यानमेवाऽऽदृतम्। 'शास्त्राद बाह्यभक्षणं प्रतीत्य सामान्यत इत्यर्थः नैष निषेधः' इति त व्याख्यानं विशेषतात्पर्ये परस्येष्टमेव । विशेषतात्पर्य ग्रहोपायमाह यतः स्मृतम ।।१२।। प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥१३॥ प्रोक्षितमिति । प्रोक्षितं = वैदिकमन्त्राऽभ्युक्षितं भक्षयेत् = अश्नीयाद् मांसं = पिशितं ब्राह्मणानां च काम्यया = इच्छया = द्विजभुक्तावशेषं प्रति तदनुज्ञया विधिः = न्याय यत्र यागश्राद्ध-प्राघूर्णकादौ प्रक्रिया तस्याऽनतिक्रमेण यथाविधि । तत्र यागविधिः “पशुमेधाऽश्वमेधादिशास्त्रसिद्धः । श्राद्धविधिस्तु 'द्वौ मासौ मत्स्यमांसेन' (मनुस्मृति-३/२६८) इत्यादिप्रसिद्धः । प्राघूर्णकविधिस्तु याज्ञवल्क्योक्तोऽयं 'महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेदिति (याज्ञवल्क्यस्मृति अ.१ श्लोक-१७९) । तथा नियुक्तस्तु = गुरुभिर्व्यापारित एव, तथा प्राणानामेव इन्द्रियादीनामेव चात्यये = विनाशे उपस्थिते इति शेषः, आत्मा हि रक्षणीयः। यदाह ‘सर्वत्र एवात्मानं गोपयेत्' १. मुद्रितप्रतौ '...ग्रहणग्रहोपाय...' इति पाठः । २. 'वात्यये' इति अष्टकप्रकरणे (१८-५) ३. हस्तादर्श 'काम्येच्छया' इत्यशुद्धः पाठः । ४. हस्तादर्श 'या' इति पाठः । ५. हस्तादर्श 'पश्वश्व..' इति पाठः । ६. हस्तादर्श '..शयेप..' इत्यशुद्धः पाठः । ७. हस्तादर्श 'गोपाये' इति पाठः । का ७/१३ (1॥११८।। Jain Education Interational Page #124 -------------------------------------------------------------------------- ________________ । ( ) इति ।।१३।। नैतन्निवृत्त्ययोगेन तस्याः प्राप्तिनियन्त्रणात् । प्राप्ते' तस्याः निषेधेन यत एतदुदाहृतम् ॥१४॥ नैतदिति । एतद् = विशेषपरत्वेन विधि-निषेधोभयसमाधानं प्रकृते न युक्तं, निवृत्त्ययोगेन = मांसभक्षणनिवृत्त्यसम्भवेन, तस्याः = निवृत्तेः प्राप्तिनियन्त्रणात् = प्राप्तिनियमनात्, 'प्राप्तमेव प्रतिषिध्यते' इति न्यायात् । 'तर्हि प्रोक्षितादिविधिना प्राप्तमेव निषिध्यताम्', __न, प्राप्ते तस्याः = निवृत्तेः निषेधेन', 'निषिद्धकर्मकरणे पापप्रचयस्यैव सम्भवात्तस्या महाफलत्वाऽनुपपत्तेः । यत एतदुदाहृतं भवद्ग्रन्थे ।।१४।। यथाविधि नियुक्तस्तु यो मांसं नात्ति वै द्विजः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ।।१५।। यथाविधीति । यथाविधि = शास्त्रीयन्यायाऽनतिक्रमेण नियुक्तः = गुरुभिर्व्यापारितः, तुः पुनरर्थः, तस्य चैवं प्रयोगः ‘अविधिना मांसमखादन्निर्दोष एव, यथाविधि नियुक्तः पुनः यो मांसं नात्ति 'वै' इति निपातो वाक्याऽलङ्कारार्थः, द्विजः = विप्रः स प्रेत्य = परलोके पशुतां = तिर्यग्भावं याति सम्भवनानि = सम्भवा = जन्मानि तान् (=सम्भवान्) एक- १. हस्तादर्श 'प्राप्तायास्य' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्राप्तत' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'तस्याः' पदं नास्ति । ४. मुद्रितप्रतौ 'निषेध नि...' इति त्रुटितोऽशुद्धश्च पाठः । ५. हस्तादर्श 'निषिद्धकरण' इति पाठः । ७/१५ ॥११९।। Jain Education Interational For Private & Personal use only Page #125 -------------------------------------------------------------------------- ________________ ।। विंशतिम् ।।१५।। अधिकारपरित्यागात् पारिवाज्येऽस्तु तत्फलम् । इति चेत्तदभावे नाऽदुष्टतेत्यपि सङ्कटम् ।।१६।। अधिकारेति । “अधिकारस्य गृहस्थभावलक्षणस्य परित्यागात् (=अधिकारपरित्यागात्) पारिवाज्ये = मस्करित्वे तत्फलं = मांसभक्षणनिवृत्तिफलं अस्त । अयमभिप्राय:- गृहस्थतायां प्रोक्षितादिविशेषणं मांस भक्षणीयमेव। तस्माच्च पारिव्राज्यप्रतिपत्तिद्वारेण विनिवर्तत इत्येवं प्राप्तिपूर्विका निवृत्तिर्मासंभक्षणस्य स्यात्, सा च 'सफलेति " इति चेत् ? तदभावे = पारिव्राज्याऽभावे न अदुष्टता = प्राप्तिपूर्वकनिवृत्त्या अभावे अभ्यु(? वेनाभ्यु)दयादिफलाऽभावाऽऽपत्तिलक्षणदोषपरिहार इत्यपि सङ्कटं आयुष्मतः । यदाह 'पारिव्राज्यं निवृत्तिश्चेद्यस्तदप्रतिपत्तितः । फलाऽभावः स एवाऽस्य दोषो निर्दोषतैव न ।।' (अष्टक-१८/८) ननु प्राप्तिः प्रमाणपरिच्छेद एव, स चाऽशास्त्रीयमांसभक्षणेऽप्यस्तीति तन्निवत्तेः फलवत्त्वमना-बाधं, अन्यथा 'प्राप्तमेव प्रतिषिध्यते' इति मन्त्रपाठबलाज्जलह्रदे वह्निरपि सिध्येत, तन्निवृत्तेस्तत्र सत्त्वात् । ___वस्तुतो निषिद्धनिवृत्तिर्न धर्मजननी किन्त्वधर्माऽभावप्रयोजिका, निषिद्धप्रवृत्तेरधर्महेतुत्वेन १. हस्तादर्श ‘सा च फला' इति त्रुटितः पाठः । १. हस्तादर्श '...एव परिश्रुताशा...' इति पाठः । ||१२०॥ Jain Education Interational For Privale & Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ ध व्य व स्था द्वा त्रिं शि का ७ / १७ तद भावे तदनुत्पत्तेः । निवृत्तिपदं चाऽत्र पारिव्राज्यपरमेव, सर्वकर्मसन्यासरूपस्य तस्य महाफलत्वोपपत्तेरिति न कोऽप्यत्र दोषः इति चेत् ? न, तथापि 'न मांसभक्षणे दोष:' (मनुस्मृति ५/५६ ) इत्यत्र मांसभक्षणपदस्य शास्त्रीय| मांसभक्षणपरत्वे तददुष्टत्वे साध्ये भूतप्रवृत्तिविषयत्वस्य हेतोरनैकान्तिकत्वात् । प्रवृत्तौ विहितत्वविशेषणप्रक्षेपे च विशेष्यभागस्य वैयर्थ्यात् फलतः पक्षहेत्वोरविशेषाऽऽपत्तेश्च । किञ्चोत्सर्गतो निषिद्धं पुष्टाऽऽलम्बनसमावेशेन क्वचित्कदाचित्कस्यचिद् गुणावहमपि स्वरूपतो ́ दुष्टतां न परित्यजति यथा वैद्यकनिषिद्धं स्वेदकर्म ज्वराऽपनयनाय विधीयमानम् । न चाऽत्र किञ्चिदालम्बनं पश्यामो विनाऽधर्म वृद्धिकुतूहलादिति । अधिकं मत्कृतस्याद्वादकल्पलतायाम् ।।१६।। मद्येऽपि प्रकटो दोषः श्री - हीनाशादिरैहिकः । सन्धानजीवमिश्रत्वान्महानामुष्मिकोऽपि च ।। १७ ।। मद्येऽपीति । मद्येऽपि = मधुन्यपि प्रकटो दोषः, श्रीः = लक्ष्मीः ह्रीः = लज्जाऽऽदिना विवेकादिग्रहस्तन्नाशाद् (? = श्री-ड्रीनाशादिः) ऐहिक: = इहैव विपाकप्रदर्शकः । तथा आमुष्मि१. हस्तादर्शे 'तदभव' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ 'सर्वकर्मन्यास...' इति पाठः । ३. हस्तादर्शे 'फलहेत्वो... इति पाठः । ४. मुद्रितप्रतौ 'स्वरुपतोऽदुष्टतां' इति पाठः । स चाशुद्धः । ५. मुद्रितप्रती ... धर्मप्रवृ...' इति पाठान्तरम् । ६. हस्तादर्शे ...कोऽपि हि' इति पाठान्तरम् । ।।१२१ । Page #127 -------------------------------------------------------------------------- ________________ ।। कोऽपि = परभवे विपाकप्रदर्शकोऽपि' महान् दोषः, सन्धानेन = जलमिश्रितबहुद्रव्यसंस्थापनेन जीवमिश्रत्वात् = जीवसंसक्तिमत्त्वात् (=सन्धानजीवमित्रत्वात्) । ‘सन्धानवत्यप्यारनालादाविव नाऽत्र दोषः' इति चेत् ? न, शास्त्रेणैतद्दुष्टत्वबोधनात् । तदाह- 'मद्यं पुनः प्रमादाङ्गं तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र न दोष इति साहसम् ।।' (अष्टक-१९/१) मद्यस्याऽतिदुष्टत्वं च पुराणकथास्वपि श्रूयते । तथाहिकश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास तस्याऽऽगत्य च तास्तकम् ।। विनयेन समाराध्य वरदाऽभिमुखं स्थितम् । “जगुर्मद्यं तथा हिंसां सेवस्वाऽब्रह्म वेच्छया।। स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ।। मद्यं प्रपद्य तद्भोगान्नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ।। ततश्च भ्रष्टसामर्थ्यः स मृत्वा दुर्गतिं गतः। इत्थं दोषाऽऽकरो मद्यं विज्ञेयं धर्मचारिभिः।। (अष्टक-१९/४-८) इति ।।१७।। नियमेन सरागत्वाद् दुष्टं मैथुनमप्यहो । मूलमेतदधर्मस्य निषिद्धं योगिपुङ्गवैः ॥१८॥ नियमेनेति । नियमेन = निश्चयेन सरागत्वात्, 'न तं विणा रागदोसेहिं' () (१२२ । १. हस्तादर्श 'अपि' नास्ति । २. हस्तादर्श 'मद्यस्य अपि दु..' इति पाठान्तरम् । ३. हस्तादर्श 'तपस्तपे' इत्यशुद्धः पाठः। ४. मुद्रितप्रतौ 'जगम..' इत्यशुद्धः पाठः । Jain Education Interational Page #128 -------------------------------------------------------------------------- ________________ ध कठि र has its r व्य व स्था द्वा त्रिं का ७ /१९ इति वचनात् अहो मैथुनमपि दुष्टम् । एतदधर्मस्य मूलं 'मूलमेयमहम्मस्स' (द.वै.६/१६) इत्याद्यागमात् योगिपुङ्गवैः = भगवद्भिः निषिद्धं भगवत्यां तस्या महाऽसंयमकारित्वप्रतिपादनात् ' । तदुक्तं "मेहुणं भंते! सेवमाणस्स केरिसए असंजमे कज्जति ? • गोयमा ! से जहानामए केइ पुरिसे बूरनलियं वा रूअनलियं वा तत्तेणं अउकणएणं समभिधंसिज्जा, मेहुणं सेवमाणस्स एरिसए असंजमे कज्जइत्ति ← ( व्याख्याप्रज्ञप्ति - २ / ५ / १२९ ) ।।१८।। धर्मार्थं पुत्रकामस्य स्वदारेष्वधिकारिणः । ऋतुकाले न तद्दुष्टं क्षुधादाविव भोजनम् ।। १९ ।। धर्मार्थमिति । धर्मार्थं = धर्मनिमित्तं पुत्रकामस्य = सुतार्थिनः, अपुत्रस्य हि धर्मो न भवति, ‘अपुत्रस्य गतिर्नास्ति' (गरुडपुराण- उत्तरखंड-१९/४, प्रजापतिस्मृति - १८८) इत्यादिवचनात्, स्वदारेषु = स्वकलत्रे, परकलत्रे वेश्यायां च तदधिगमस्याऽनर्थहेतुत्वात्, अधिकारिणः = गृहस्थस्य ऋतुकाले = 'आर्तवसम्भवाऽवसरे, अन्यदा दोषभावात् । यदाहऋतुकाले व्यतिक्रान्ते यस्तु सेवेत मैथुनम् । ब्रह्महत्याफलं तस्य सूतकं च दिने दिने ।। ( धर्मस्मृति - २३) तद् = मैथुनं न दुष्टं भोजनमिव क्षुधादौ । ' उक्तकारणाऽऽश्रितं मैथुन१. मैथुनं भदन्त ! सेवमानस्य (नेन ) कीदृशोऽसंयमः क्रियते ? गौतम ! तद्यथा नाम कश्चित्पुरुषः बूरनलिकां वा रुतनलिकां वा तप्तेनायः कणकेन समभिध्वंसयेत, मैथुनं सेवमानस्य (नेन ) ईदृशोऽसंयमः क्रियते । चिह्नद्वयमध्यवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्श नास्ति । २ हस्तादर्शे 'च' नास्ति । ३. हस्तादर्शे 'आर्तरस...' इत्यशुद्धः पाठ: । ।।१२३।। Page #129 -------------------------------------------------------------------------- ________________ ।। मदुष्टं, गतरागप्रवृत्तित्वात्, वेदनादिकारणाऽऽश्रितभोजनवदिति प्रयोगः ।।१९।। नैवमित्थं स्वरूपेण दुष्टत्वान्निबिडापदि । श्वमांसभक्षणस्येवाऽऽपवादिकनिभत्वतः ।।२०।। नैवमिति । एवं = यथोक्तं प्राक् तद् न, इत्थं = पुत्रोत्पत्तिगुणार्थमाश्रयणे आपवादिकनिभत्वतः = विशेषविध्यर्थप्रायत्वात्, निबिडापदि श्वमांसभक्षणस्येव स्वरूपेण दुष्टत्वात् । अयमभिप्रायः- यद्यप्यपवादेन श्वमांसाद्यासेव्यते तथापि तत्स्वरूपेण निर्दोषं न भवति, किन्तर्हि ? गुणान्तरकारणत्वेन गुणान्तरार्थिना तदाश्रीयते। एवं मैथुनं स्वरूपेण सदोषमप्याकौमाराद्यतित्वपालनाऽसहिष्णुर्गुणान्तराऽपेक्षी समाश्रयते । सर्वथा निर्दोषत्वे त्वाकुमारत्वाद्यतित्वपालनोपदेशोऽनर्थकः स्यात् गार्हस्थ्यत्यागोपदेशश्चेति। धर्मार्थिनोऽपि पुंसो मैथुने मेहनविकारिणः कामोदयस्य तथाविधाऽऽरम्भपरिग्रहयोश्च दोषयोरवश्यम्भावो दृश्यते। न | च कामोद्रेकं विना' मेहनविकारविशेषः सम्भवति भयाद्यवस्थायामिवेति। तदिदमुक्तं 'नाऽऽपवादिककल्पत्वान्नैकान्तेनेत्यसङ्गतम्" (अष्टक-२०/३) ।।२०।। उक्ताऽर्थे मानमाह वेदं ह्यधीत्य स्नायाद्यत्तत्रैवाऽधीत्यसङ्गतः । व्याख्यातस्तदसावर्थो ब्रूते हीनां गृहस्थताम् ॥२१॥ वेदं हीति । यद् = यस्माद् 'वेदं ऋगादिकं हिशब्दो वाक्याऽलङ्कारार्थो अधीत्य १. हस्तादर्श ‘विना न मे...' इत्यधिकोऽशुद्धश्च पाठः । ७/२१ । ।।१२४।। Jain Education Interational Page #130 -------------------------------------------------------------------------- ________________ // = पठित्वा स्नायात् = कलत्रसङ्ग्रहाय स्नानं कुर्यादि'त्यत्र = वेदवाक्ये वेदव्याख्यातृभिः एव' = अध्याहृत एवकारः अधीत्यसङ्गतः = अधीत्यपदसमभिव्याहृतो व्याख्यातः, ''वेदमधीत्यैव स्नायान्न त्वनधीत्ये'त्यवधारणात् । ___ तत् = तस्माद् 'वेदमधीत्य स्नायादेवे'त्यनवधारणाद् असावों 'गृहस्थतां = कलत्रसङ्ग्रहलक्षणां हीनां = औत्सर्गिकमैथुनपरिहाराऽपेक्षया 'जघन्यामापवादिकी ब्रूते । तदुक्तं'वेदं ह्यधीत्य स्नायाद् यदधीत्यैवेति शासितम् । स्नायादेवेति न तु यत्ततो हीनो गृहाश्रमः।। तत्र चैतदिति ।" (अष्टक-२०/३-४) ।।२१।। अदोषकीर्तनादस्य प्रशंसा तदसङ्गता । विध्युक्तेरिष्टसंसिद्धेर्बहुलोकप्रवृत्तितः ॥२२॥ अदोषेति । तत् = तस्माद् अस्य = मैथुनस्य अदोषकीर्तनात् = 'दोषाऽभावप्रतिपादनाद्'न च मैथुने' इति वचनेन प्रशंसाऽसङ्गता = अन्याय्या, विध्युक्तेः = आप्तत्वाऽभिमतकृतप्रशंसया विध्युन्नयनाद् इष्टसंसिद्धेः = इष्टसाधनत्वनिश्चयात् परलोकभयनिवृत्तेर्बहूनां लोकानां तत्र प्रवृत्तितः (=बहुलोकप्रवृत्तितः) ।।२२।। निवृत्तिः किञ्च युक्ता भो सावद्यस्येतरस्य वा । १. हस्तादर्श '...षो' इत्यशुद्धः पाठः । हस्तादर्शान्तरे 'एवोध्या..' इति पाठः । २. मुद्रितप्रती 'वेदान...' इति पाठः । ३. हस्तादर्श 'गृहस्थ...' इति पाठः । ४. 'जघन्यमा...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. हस्तादर्श 'यदेधी..' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'यादे...' इत्यशुद्धः पाठः । ६. हस्तादर्श 'दोषाभावादिप्र...' इति पाठः । ।।१२५।। Jain Education Interational For Private & Personal use only Page #131 -------------------------------------------------------------------------- ________________ ध ठि र तक व्य व स्था त्रिं शि का ७/२४ आद्ये स्याद् दुष्टता तेषामन्त्ये योगाद्यनादरः । । २३॥ निवृत्तिरिति । किञ्च भोः सावद्यस्य कर्मणो निवृत्तिर्युक्ता = धर्मकारिणी इतरस्य अनवद्यस्य वा ? आद्ये पक्षे तेषां मांस-मद्य-मैथुनानां दुष्टता स्यादन्त्ये पक्षे योगादेरनादरः (=योगाद्यनादरः) स्यात् ', अनवद्यस्य तस्य' मांसादेरिव निवृत्तेरिष्टत्वादिति न किञ्चित् ।। २३ । माध्यस्थ्यं केचिदिच्छन्ति गम्याऽगम्याऽविवेकतः । = = तन्नो विपर्ययादेवानर्गलेच्छानिरोधतः ।। २४ । माध्यस्थ्यमिति । केचिद् मण्डलतन्त्रवादिनो गम्यागम्ययोरविवेकतो ( - गम्यागम्याविवेकतः) व्यवस्थानान्माध्यस्थ्यमिच्छन्ति, अन्यथा गम्यायां 'रागेणागम्यायां च द्वेषादिना माध्यस्थ्यभङ्गात्, समप्रवृत्तौ च न सङ्क्लेश इति । तन्नो = नैव युक्तं, विपर्ययादेव गम्यागम्यविवेकादेव अनर्गलाया: = अमर्यादाया इच्छाया मोहविकाररूपाया निरोधत: (= अनर्गलेच्छा निरोधतः) निरुद्धायाश्चेच्छायाः स्वल्पेन्धनाग्नेरिव स्वल्पकालस्थितिकत्वाद् देशनिवृत्तिगर्भत्वेन च माध्यस्थ्यबीजत्वमिति गम्यागम्य-विवेकधर्माऽऽहितशुभाऽऽशयादेव चाऽचिरेण परममाध्यस्थ्यमप्युपपद्यत इति भावः । । २४ || = = १. हस्तादर्शे 'स्यान..' इत्यशुद्धः त्रुटितश्च पाठः । २. मुद्रितप्रतौ 'तस्य' पदं नास्ति । ३. इयं कारिका हस्तादर्शे नास्ति । ४. हस्तादर्शे 'रागस्या' इत्यशुद्धः पाठः । हस्तादर्शान्तरे 'रागस्य गम्या..' इत्यशुद्धः पाठः । ।।१२६।। Page #132 -------------------------------------------------------------------------- ________________ to F oot नाऽऽद्रियन्ते तपः केचिदुःखरूपतयाऽबुधाः । आर्तध्यानादिहेतुत्वात्कर्मोदयसमुद्भवात् ।।२५।। नेति । केचिदबुधास्तपो दुःखरूपतया नाऽऽद्रियन्ते, सर्वेषामेव दुःखिनां तपस्वित्वाऽविशेषापत्तेः', दुःखविशेषेण च तद्विशेषप्रसङ्गात् । तदाह - 'सर्व एव च दुःख्येवं तपस्वी सम्प्रसज्यते । विशिष्टस्तद्विशेषेण सुधनेन धनी यथा ।। महातपस्विनश्चैवं त्वन्नीत्या नारकादयः । शमसौख्यप्रधानत्वाद योगिनस्त्वतपस्विनः' ।। (अष्टक ११/२-३) इति । दुःखरूपत्वं चोपवासादिरूपस्य तपसः कायपीडारूपस्य आर्तध्यानादिहेतुत्वात् । तदाह आहारवर्जिते देहे धातुक्षोभः प्रजायते । तत्र चाऽधिकसत्त्वोऽपि चित्तभ्रंशं समश्नुते ।। (अष्टक ११/४) तथा कर्मोदयात् = असातवेदनीयोदयात् समुद्भवाद् = उत्पत्तेः (=कर्मोदयसमुद्भवात्) ज्वरादिवत् । ततश्चाऽनर्थहेतुत्वात् त्याज्यमेव, न तु लोकरूढ्या कर्तव्यमिति भावः ।।२५।। यथासमाधान' विधेरन्तःसुखनिषेकतः । नैतज्ज्ञानादियोगेन क्षायोपशमिकत्वतः ।।२६।। यथेति । नैतत परोक्तं युक्तं, यथासमाधानं = मन-इन्द्रिय-योगानां समाधानमनतिक्रम्य १. हस्तादर्श 'तपस्वित्वाऽविशेषाद्' इति पाठः । हस्तादर्शान्तरे च ...त्वाविशेष' इति पाठः । १. मुद्रितप्रतौ '...धानविधे' इत्यशुद्धः पाठः । ३. हस्तादर्श 'समाधिम...' इति पाठान्तरम् । ७/२६ ।।१२७।। Jain Education Interational Page #133 -------------------------------------------------------------------------- ________________ ध कचि to ho da व्य व स्था द्वा त्रिं शि का ७/२६ विधेः सो य तवो कायव्वो जेण मणो मंगुलं ण चिंतेइ । जेण ण इंदियहाणी जेण य जोगा ण हायंति ।। ( महानिशीथचूर्णि - २४, पञ्चवस्तुक- २१८) इत्यागमेन विधानात् । अन्तः = मनसि भावाऽऽरोग्यलाभसम्भावनातः 'सुखस्य निषेकतः = निक्षेपात् (= अन्त:सुखनिषेकतः) । इत्थमपि कदाचित् कस्यचिद् भवन्त्या अपि देहपीडाया आर्त्तध्यानाद्यहेतुत्वात् बंहीयसा मानससुखेनाऽल्पीयस्याः कायपीडायाः प्रतिरोधात् । तदुक्तं-मनइन्द्रिययोगानामहानि चोदिता जिनैः । यतोऽत्र तत्कथं त्वस्य युक्त्या (ता) स्याद् दुःखरूपता ।। याऽपि चानशनादिभ्यः कायपीडा मनाक् क्वचित् । व्याधिक्रियासमा सापि नेष्टसिद्ध्याऽत्र' बाधनी ।। दृष्टा चेष्टाऽर्थसंसिद्धौ कायपीडा ह्यदुःखदा । रत्नादिवणिगादीनां " तद्वदत्राऽपि भाव्यताम् ।। ( अष्टक - ११ / ५-६-७ ) इति । तथा ज्ञानादीनां, आदिना शम-संवेग-सुख - ब्रह्मगुप्त्यादिग्रहः, योगेन = सम्बन्धेन (= ज्ञानादियोगेन) क्षायोपशमिकत्वतः = चारित्रमोहनीयकर्मक्षयोपशमसमुद्भवत्वान्न तप औदयिकत्वादनादरणीयम् । तदाह = “विशिष्टज्ञान- संवेग- शमसारमतस्तपः । क्षायोपशमिकं ज्ञेयमव्याबाधसुखात्मकम् ।। (अ. ११/८) " शमादय एव क्षायोपशमिका न तु तप इति चेद् ? न, गुणसमुदायरूपस्य 'तपसों१. तच्च तपः कर्तव्यं येन मनोऽमंगलं न चिन्तयति । येन नेन्द्रियहानिर्येन च योगा न हीयन्ते । २. हस्तादर्शे 'सुखेस्य' इति पाठः । ३. हस्तादर्शे 'नेत्रा..' इत्यशुद्धः पाठः । ४. हस्तादर्शविशेषे 'सिद्ध्याऽर्थबाधनी' इति पाठः । ५. हस्तादर्शे 'तेद्..' इत्यशुद्धः पाठः । ७. मुद्रितप्रती 'तपसोऽश....' इत्यशुद्धः पाठः । ।।१२८ । Page #134 -------------------------------------------------------------------------- ________________ ऽशविवेचनेन पृथक्करणेऽतिप्रसङ्गात्, क्रोधादिदोषविरोधेन शमादीनामिव प्रमादादिदोषविरोधेन . तपसोऽप्यात्मगुणत्वाच्च । क्वचिदार्तध्यानादिदोषसहचरितत्वदर्शनेन तपसस्त्याज्यत्वे च क्वचिदहङ्कारादिसहचरितत्वाज्ज्ञानमपि त्याज्यं स्यात् । विवेकिनां ज्ञानं न तथेति चेद् ? विवेकिनां तपोऽप्येवमिति समानमुत्पश्यामः ।।२६।। दयापि 'लौकिकी नेष्टा षटकायाऽनवबोधतः । ऐकान्तिकी च नाऽज्ञानान्निश्चय-व्यवहारयोः ॥२७ ।। दयापीति । लौकिकी = लोकमात्रप्रसिद्धाऽरण्यवासिनां तापसादीनां दयापि षटकायाऽनवबोधतः = पृथिव्यादिजीवाऽपरिज्ञानाद् नेष्टा = न फलवती, दयाया ज्ञानसाध्यत्वात्, "पढमं नाणं तओ दया' (दशवैकालिक-४/१०) इति वचनात्। निश्चय-व्यवहारयोरज्ञानादैकान्तिकी च स्थूलव्यवहारमात्राऽभिमता लोकोत्तराऽऽभा साऽपि दया नेष्टा, तदभिमताया हिंसाया एवातिप्रसक्तत्वात्, तदभावस्याऽऽभिमानिकत्वात्, तादृशदयासद्भावेऽपि तत्त्वज्ञानाऽभावसद्भावाच्चेति भावः ।।२७।। व्यवहारात्परप्राणरक्षणं यतनावतः । निश्चयान्निर्विकल्पस्वभावप्राणाऽवनं तु सा ।।२८।। १. हस्तादर्श 'सहरित ....' इत्यशुद्धः पाठः । २. हस्तादर्श ‘देया लौकिर्के' इत्यशुद्धः पाठः । ३. हस्तादर्श 'ऐकौतिकी' इत्यशुद्धः पाठः । ४. एवं चिट्ठइ सन्चसंजए । अन्नाणी किं काही किं वा नाहीइ छेअपावगं ।। इति गाथाशेषः । दशवे अध्य.४/१० । ५. मुद्रितप्रती '...मात्राभिमतलोको...' इति पाठः । - - ॥१२९।। Page #135 -------------------------------------------------------------------------- ________________ व्यवहारादिति । यतनावतः = सूत्रोक्तयतनाशालिनः परेषां प्राणानां रक्षणं (=परप्राणरक्षणं) व्यवहारात अहिंसा, लोकसम्मताऽर्थनाहित्वात व्यवहारनयस्य. निश्चयतः परप्राणिसाध्यपरप्राणरक्षणे स्वसाध्यत्वशुभसङ्कल्पाऽनुविद्धत्वाच्च। निश्चयात्' = निश्चयनयात् त्तु निर्विकल्पो = विकल्पपवननिवृत्त्या स्तिमितोदधिदशास्थानीयो यः स्वस्य भावप्राणः तदवनं = तद्रक्षणं = निर्विकल्पस्वभावप्राणाऽवनं) सा दया. परप्राण रक्षणाऽवसरेऽपि तदविनाभाविना शुभसङ्कल्पेनाऽशुभसङ्कल्पादुदधौ निमज्जतो विषमतरण्डलाभेनेव स्वभावप्राणत्राणेनैव निश्चयेन दयाऽभ्युपगमात् । अत एवोक्तमागमे "आया चेव अहिंसा आया हिंसत्ति णिच्छओ एसो । जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो ।।" (ओघनियुक्ति-७५४) नैगमस्य हि जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो भवन्ति- “जीवोऽनेन हिंसितो, घटो-ऽनेन हिंसितः” इति । इत्थं च हिंसाशब्दाऽनुगमाज्जीवेष्वजीवेषु च हिंसेति । एवमहिंसाऽपि । सङ्ग्रह-व्यवहारयोश्च षट्षु जीवनिकायेषु हिंसा । सङ्ग्रहोऽत्र देशग्राही गृह्यते, सामान्यरूपस्य नैगमेऽन्तर्भावात्, व्यवहारश्च स्थूलविशेषग्राही लोकव्यवहरणशीलश्च । लोको हि बाहुल्येन षट्सु जीवनिकायेष्वेव हिंसामिच्छतीति । ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवहिंसां व्यतिरिक्तामिच्छति । १. हस्तादर्श 'शालि परे..' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'निश्चयात्' पदं नास्ति । ३. हस्तादर्श .....पमात्' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'षड्जीव...' इति पाठः । ॥१३०॥ Jain Education Interational Page #136 -------------------------------------------------------------------------- ________________ शब्द-समभिरूढेवम्भूतनयानां चात्मैव हिंसा निजगुणप्रतिपक्षप्रमादपरिणतः, स्वभावपरिणतश्चात्मैवाहिंसेति नयविभागः ।।२८।। विशिष्टव्यवहारविधेर्विशेष्यबाधेऽपि विशेषणोपसङ्कमान्न व्याघात इत्याह यत्नतो जीवरक्षार्था तत्पीडाऽपि न दोषकृत् । अपीडनेऽपि पीडैव भवेदयतनावतः ।।२९।। यत्नत इति । यत्नतः = सूत्रोक्तयतनया जीवरक्षार्था = स्वरसतो जीवरक्षोद्देशप्रवृत्ता तत्पीडापि = जीवपीडापि न दोषकृत् = न साम्परायिककर्मबन्धकृत् । यत उक्तं "अज्झत्थविसोहीए' जीवनिकाएहिं संथडे लोए । देसियमहिंसगत्तं जिणेहिं तेलुक्कदंसीहिं ।।” (ओघनियुक्ति-७४७) तथा "तस्स असंचेयओ संचेयओ अ जाइं सत्ताई । जोगं पप्प विणस्संति णस्थि हिंसाफलं तस्स ।।" (ओघनिर्यक्ति-७५१) अयतनावतो = यतनावर्जितस्य अपीडनेऽपि = दैवात्परप्राणिपीडनाऽभावेऽपि तत्त्वतः | पीडैव भवेत् । तदुक्तं "जे वि ण वाविज्जति णियमा तेसिं पि हिंसगो सो उ । सावज्जो उ पओगेण सव्वभावेण सो जम्हा ।।" (ओघनियुक्ति-७५३) ।।२९।। १. हस्तादर्श ....सोहीण' इति पाठः । २. मुद्रितप्रतौ 'संघडे' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ....देसीहिं..' इति पाठः। ४. मुद्रितप्रतौ 'असंवेयओ संवेयओ' इत्यशुद्धः पाठः । ७/२९ ॥१३१।। Jain Education Interational Page #137 -------------------------------------------------------------------------- ________________ इत्थं च' परिणामप्राधान्यमेव व्यवस्थितमित्याह रहस्यं परमं साधोः समग्रश्रुतधारिणः । परिणामप्रमाणत्वं निश्चयैकाग्रचेतसः ॥३०॥ रहस्यमिति । रहस्यं = तत्त्वं परमं = सर्वोत्कृष्टं साधोः समग्रश्रुतधारिणः = स्वभ्यस्तगणि-पिटकोपनिषदः परिणामस्य = चित्तभावस्य प्रमाणत्वं = फलं प्रति स्वातन्त्र्यलक्षणं (=परिणामप्रमाणत्वं) निश्चये = निश्चयनये एकाग्रं = अव्याक्षिप्तं चेतो यस्य (तस्य = निश्चयैकाग्रचेतसः) ।।३०।। ननु यद्ययं निश्चयस्तदा किं परप्राणरक्षणया लोकमात्रप्रत्ययप्रयोजनयेत्यत आह तिष्ठतो न शुभो भावो ह्यसदायतनेषु च । गन्तव्यं तत्सदाचारभावाऽभ्यन्तरवर्त्मना ।।३१।। ___ तिष्ठत इति । असदायतनेषु प्राणव्यपरोपणादिषु तिष्ठतो हि शुभो भाव एव न ।। भवति, अतः परिणामशुद्ध्यर्थमेव परप्राणरक्षणं साधूनामिति भावः । तदुक्तं७/३१ “जो पुण हिंसायतणेसु वट्टइ तस्स नणु परिणामो । । दुट्ठो न य तं लिंगं होइ विसुद्धस्स जोगस्स ।। तम्हा सया विसुद्धं परिणामं इच्छया सुविहिएणं । । १. मुद्रितप्रती 'च' नास्ति । २. हस्तादर्श 'रक्षणा....' इति पाठः । ३. हस्तादर्श 'विशुद्ध' इत्यशुद्धः पाठः । ||१३२।। Jain Education Interational For Private & Personal use only Page #138 -------------------------------------------------------------------------- ________________ to + हिंसाऽऽययणा सव्वे परिहरियव्वा पयत्तेणं ।।” (ओघनियुक्ति-५८-५९) ॥ ये त्वेकान्तनिश्चयमेवाद्रियन्ते ते निश्चयतो निश्चयमेव न 'जानते, हेतुस्वरूपानुबन्धशुद्धतज्ज्ञानाभावात्। तदाह- "णिच्छयमवलंबंता णिच्छयओ णिच्छयं अयाणंता । ___णासंति चरण-करणं बाहिरकरणाऽऽलसा केई ।।” (ओघनियुक्ति-७६१) तद् = तस्मात् सदाचारः = परिशुद्धबाह्ययतना भावश्च = शुद्धपरिणामः ताभ्यामभ्यन्तरवर्त्मना(= सदाचार-भावाभ्यन्तरवर्त्मना च) गन्तव्यं मुमुक्षुणा, तथैव दयाविशेषसिद्धेरिति हितोपदेशः ।।३१।। विदित्वा लोकमुत्क्षिप्य लोकसंज्ञां च लभ्यते । इत्थं व्यवस्थितो धर्मः परमानन्दकन्दभूः ।।३२॥ विदित्वेति । विदित्वा = ज्ञात्वा लोकं = स्वेच्छाकल्पिताऽऽचारसक्तं जनं उत्क्षिप्य | = निराकृत्य लोकसंज्ञां 'बहुभिर्लोकैराचीर्णमेवाऽस्माकमाचरणीयमि'त्येवंरूपां च लभ्यते = प्राप्यते इत्थं = उक्तरीत्या व्यवस्थितः = प्रमाणप्रसिद्धः धर्मः परमानन्द एव कन्दस्तस्य ७/३२ || भूः = उत्पत्तिस्थानम् (=परमानन्दकन्दभूः) ।।३२।। ।। इति धर्मव्यवस्थाद्वात्रिंशिका ।।७।। |||१३३।। क १. हस्तादर्श '.यमेव ज्ञानहेतु..' इति त्रुटितोऽशुद्धश्च पाठः । २. हस्तादर्श '....णकारणं' इत्यशुद्धः पाठः । ३. __हस्तादर्श 'प्रमाप्रसिद्ध' इति पाठः । Jain Education Interational For Private & Personal use only Page #139 -------------------------------------------------------------------------- ________________ to ho ho to वा द द्वा शि का ८/३ ।। अथ वादद्वात्रिंशिका ॥ ८ ॥ धर्मव्यवस्थातो वादः प्रादुर्भवतीति तत्स्वरूपमिहोच्यतेशुष्कवादो विवादश्च धर्मवादस्तथापरः । कीर्तितस्त्रिविधो वाद इत्येवं तत्त्वदर्शिभिः ॥ १ ॥ शुष्केति । स्पष्टः ॥ १ ॥ पराऽनर्थो लघुत्वं वा विजये च पराजये । ract सह दुष्टेन शुष्कवादः स कीर्तितः ॥ २ ॥ = परेति । यत्र दुष्टेन = अत्यन्तमान- क्रोधोपेतचित्तेन सहोक्तौ सत्यां विजये सति परस्य = प्रतिवादिनः परः = प्रकृष्टो वा अनर्थो' मरण-चित्तनाश-वैरानुबन्ध- संसारपरिभ्रमणरूपः साध्व-तिपातन-शासनोच्छेदादिरूपो वा । पराजये च सति लघुत्वं वा “ जितो जैनः । अतोऽसारं जैनशासनं” इत्येवमवर्णवादलक्षणं भवति, स शुष्कवादो गलतालुशोषमात्रफलत्वात् कीर्तितः ॥२॥ छल-जातिप्रधानोक्तिर्दुः स्थितेनाऽर्थिना सह । विवादोऽत्रापि विजयाऽलाभो वा विघ्नकारिता । । ३ ॥ छति । दुःस्थितेन दरिद्रेण अर्थिना = लाभ- ख्यात्यादिप्रयोजनिना सह छलं १ . हस्तादर्शे ‘विजयेन' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'वानों' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'ख्यावा...' इत्यशुद्धः पाठः । = ।।१३४।। Page #140 -------------------------------------------------------------------------- ________________ to ho ho ta s वा त्रिं शि का ८/५ = अन्याभिप्रायेणोक्तस्य शब्दस्याऽभिप्रायान्तरेण दूषणं, जातिभ्वासदुत्तरं ताभ्यां प्रधानोक्तिः ( = छलजातिप्रधानोक्तिः) विवादो = विरुद्धो वादः । अत्राऽपि = विवादेऽपि विजयाऽलाभः परस्याऽपि च्छल - जात्याद्युद्भावनपरत्वात्, वा = अथवा विघ्नकारिता, अत्यन्ताऽप्रमादितया छलादिपरिहारेऽपि प्रतिवादिनोऽर्थिनः पराभूतस्य लाभख्यात्यादिविघातध्रौव्यात् । बाधते च पराऽपायनिमित्तता तपस्विनः परलोकसाधनमिति नाsatभयथाऽपि फलमिति भावः ||३|| ज्ञातस्वशास्त्रतत्त्वेन' मध्यस्थेनाऽघभीरुणा । कथाबन्धस्तत्त्वधिया धर्मवादः प्रकीर्तितः ॥४॥ = ज्ञातेति । ज्ञातं स्वशास्त्रस्य = अभ्युपगतदर्शनस्य तत्त्वं येन ( तेन ज्ञातस्वशास्त्रतत्त्वेन), एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानीते । मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुरागपरदर्शनद्वेषरहितेन, एवम्भूतस्य हि सुप्रतिपादं तत्त्वं भवति । तथा अघभीरुणा पातकभयशीलेन, एवम्भूतो ह्यसमञ्जसवक्ता न भवतीति, सहेति गम्यते, तत्त्वधिया = तत्त्वबुद्धया यः कथाबन्धः स धर्मवादो धर्मप्रधानो वादः प्रकीर्तितः || ४ || = वादिनो धर्मबोधादि विजयेऽस्य महत्फलम् । आत्मनो मोहनाशश्च प्रकटस्तत्पराजये ॥ ५ ॥ १. हस्तादर्शे 'तत्त्वेनाऽम..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'प्रतिपदं' इति पाठः । ३. हस्तादर्शे ‘विनये' इत्यशुद्धः पाठः । - ।।१३५ ।। Page #141 -------------------------------------------------------------------------- ________________ ___ वादिन इति। वादिनो विजये सति, अस्य = प्रागुक्तविशेषणविशिष्टस्य प्रतिवादिनो धर्मः= श्रुत-चारित्रलक्षणस्तस्य बोधः = प्रतिपत्तिस्तदादि (=धर्मबोधादि)। आदिनाऽद्वेषपक्षपातर्वर्णवादादिग्रहः महत् = उत्कृष्टं फलं भवति, ततः = प्रतिवादिनः सकाशात् पराजये (तत्पराजये) चात्मनोऽधिकृतसाधोः मोहस्याऽतत्त्वादौ तत्त्वाद्यध्यवसायलक्षणस्य नाशश्च (=मोहनाशश्च) प्रकट इत्युभयथापि फलवानयमिति भावः ।।५।। अयमेव विधेयस्तत्तत्त्वज्ञेन तपस्विना । देशाद्यपेक्षयाऽन्योऽपि विज्ञाय गुरु-लाघवम् ।।६।। अयमेवेति । तत् = तस्मात् तत्त्वज्ञेन तपस्विना, अयमेव = धर्मवाद एव विधेयः। अपवादमाह - देशो = नगर-ग्रामजनपदादिः, आदिना काल-राज-सभ्य-प्रतिवाद्यादिग्रहः, तदपेक्षया = तदाश्रयणेन (=देशाद्यपेक्षया) गुरुलाघवं = दोष-गुणयोरल्पबहुत्वं विज्ञाय अन्योऽपि वादः कार्यः ।।६।। अत्र ज्ञातं हि भगवान् यत्स नाऽभाव्यपर्षदि । दिदेश धर्ममुचिते देशेऽन्यत्र दिदेश च ।।७।। अत्रेति । अत्र देशाद्यपेक्षायां ज्ञातं = उदाहरणं हि भगवान् श्रीवर्धमानस्वामी, यत स न अभाव्यपर्षदि = प्रथमसमवसरणेऽयोग्यसदसि धर्म दिदेश । अन्यत्र 'चोचिते १. मुद्रितप्रतौ 'पक्षपातावर्ण' इत्यशुद्धः पाठः । २. 'विवाद' इति मुद्रितप्रतावशुद्धः पाठः । ३. हस्तादर्श 'अभव्य...' इति पाठः । ४. हस्तादर्श 'च त्रचि..' इत्यशुद्धः पाठः । ||१३६।। Jain Education Interational Page #142 -------------------------------------------------------------------------- ________________ Fvsh ।। प्रतिबोध्यजनकलिते देशे धर्म दिदेश ।।७।। ' विषयो धर्मवादस्य धर्मसाधनलक्षणः । स्वतन्त्रसिद्धः प्रकृतोपयुक्तोऽसद्ग्रहव्यये ॥८॥ _ विषय इति । धर्मवादस्य विषयो धर्मसाधनलक्षणः स्वतन्त्रसिद्धः = साङ्ख्यादीनां षष्टितन्त्रादिशास्त्रसिद्धः ।। ___ असद्ग्रहस्य = अशोभनपक्षपातस्य व्यये (=असद्ग्रहव्यये) सति, प्रकृतोपयुक्तः = प्रस्तुतमोक्षसाधकः, धर्मवादेनैवाऽसद्ग्रहनिवृत्त्या मार्गाऽभिमुखभावादिति भावः ।।८।। यथाऽहिंसादयः पञ्च व्रत-धर्म-यमादिभिः । पदैः कुशलधर्माद्यैः कथ्यन्ते स्वस्वदर्शने ॥९॥ यथेति । यथाऽहिंसादयः आदिना सूनृताऽस्तेय-ब्रह्मापरिग्रहपरिग्रहः पञ्च स्वस्वदर्शने व्रतधर्मयमादिभिः, तथा कुशलधर्माद्यैः पदैः कथ्यन्ते । तत्र 'महाव्रत पदेनैतानि जैनैरभिधीयन्ते। 'व्रत'पदेन च भागवतैः यदाहुस्ते “पञ्च व्रतानि पञ्चोपव्रतानि, व्रतानि यमाः । उपव्रतानि नियमाः” ( ) इति । धर्मपदेन तु पाशुपतैः यतस्ते दश धर्मानाहुः - “अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना । ब्रह्मचर्यं तथाऽक्रोधो ह्यार्जवं शौचमेव च ।। ( ) सन्तोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः"( ), साङ्ख्यैः- व्यासमतानुसारिभिश्च यमपदेनाभिधीयन्ते- “पञ्च १. 'परिग्रह' इति पदं मुद्रितप्रतौ नास्ति । गुरुशुश्रूषा ॥१३७॥ Page #143 -------------------------------------------------------------------------- ________________ यमाः पञ्च नियमाः। तत्र यमाः अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमव्यवहारश्चेति; नियमास्तु अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्, अप्रमादश्च" ( ) इति । ___कुशलधर्मपदेन च बौद्धैरभिधीयन्ते, यदाहुस्ते → “दशाकुशलानि, तद्यथा- हिंसास्तेयाऽन्यथाकामं पैशून्यं परुषाऽनृतम् । सम्भिन्नाऽऽलापं व्यापादमभिध्या दृग्विपर्ययम् ।। पापकर्मेति दशधा कायवाङमानसैस्त्यजेत" ()- इति । अत्र चाऽन्यथाकामः = पारदार्य सम्भिन्नाऽऽलापः = असम्बद्धभाषणं, व्यापादः = परपीडाचिन्तनं, 'अभिध्या = धनादिष्वसन्तोषः परिग्रह इति यावत, दृग्विपर्ययो = मिथ्याभिनिवेशः, एतद्विपर्ययाच्च दश कुशलधर्मा भवन्तीति । आदिपदाच्च ब्रह्मादिपदग्रहः, एतान्येव वैदिकादिभिर्ब्रह्मादिपदेनाऽभिधीयन्ते इति ।।९।। मुख्यवृत्त्या क्व 'युज्यन्ते न वैतानि व दर्शने । विचार्यमेतन्निपुणैरव्यग्रेणाऽन्तरात्मना ।।१०।। मुख्येति । एतानि = अहिंसादीनि क्व दर्शने जैनादौ युज्यन्ते क्व वा दर्शने न' युज्यन्ते?' एतन्मुख्यवृत्त्या = अनुपचारेण निपुणैः = धर्मविचारनिष्णातैः(विचार्य=)विचारणीयं नाऽन्यद, वस्त्वन्तरविचारणे धर्मवादाऽभावप्रसङगात, अव्यग्रेण = स्वशास्त्रनीतिप्रणिधानादव्याक्षिप्तेन, अन्तरात्मना = मनसा, शास्त्रान्तरनीत्या ह्येकशास्त्रोक्तप्रकाराणामहिंसादी१. हस्तादर्श 'अधिभिध्या' इत्यशुद्धः पाठः । २. हस्तादर्श 'वेदि...' इति पाठः । ३. मुद्रितप्रतौ 'युज्ययन्ते' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'जैनादौ' पदं नास्ति । ५. हस्तादर्श 'न' पदं नास्ति । ६. हस्तादर्श '..पुणौ' इत्यशुद्धः पाठः। ।।१३८॥ Jain Education Interational Page #144 -------------------------------------------------------------------------- ________________ नामयुज्यमानता' स्फुटमेव प्रतीयत इति स्वतन्त्रनीतिप्रणिधानेनैव विषयव्यवस्था विचार्यमाणा फलवतीति भावः ।।१०।। ननु स्वतन्त्रनीत्यापि धर्मसाधनविचारणे प्रमाण-प्रमेयादिलक्षणप्रणयने परतन्त्रादिविचारण| मप्यावश्यकमिति व्यग्रताऽनुपरमे कदा प्रस्तुतविचाराऽवसर इत्यत आह प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन । तन्निश्चयेऽनवस्थानादन्यथाऽर्थस्थितेर्यतः ।।११।। प्रमाणेति । प्रमाणे प्रत्यक्षादि, तस्य लक्षणं स्व-पराऽऽभासिज्ञानत्वादि तदादेः, आदिना प्रमेयलक्षणादिग्रहः, तस्य (=प्रमाणलक्षणादेः) तु अत्र = धर्मसाधनविषये कश्चनोपयोगो न अस्ति । अयमभिप्रायः- प्रमाणलक्षणेन निश्चितमेव प्रमाणमर्थग्राहकमिति तदुपयोग इति। न चायं युक्तः, यतस्तल्लक्षणं निश्चितमनिश्चितं वा स्यात् ? आद्ये किमधिकृतप्रमाणेन प्रमाणान्तरेण वा ? यदि तेनैव तदेतरेतराश्रयः, अधिकृतप्रमाणाल्लक्षणनिश्चयः, तन्निश्चयाच्चाऽधिकृतप्रमाणनिश्चय इति । यदि च प्रमाणान्तरेण तन्निश्चयस्तदाऽऽह- तन्निश्चये = प्रमाणान्तरेण तल्लक्षणनिश्चये अनवस्थानात = तन्निश्चायकप्रमाणेऽपि प्रमाणान्तराऽपेक्षाऽविरामात् । १. मुद्रितप्रतौ 'अप्रयुज्य....' इत्यशुद्धः पाठः । हस्तादर्शानुसारेणात्र पाठो गृहीतः । २. हस्ताद” 'मान' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ 'स्वतंत्रनित्या' इत्यशुद्धः पाठः । ४. हस्तादर्श 'अन्यता...' इत्यशुद्धः पाठः । ५. 'अत्र इति' पदं मुद्रितप्रतौ नास्ति । ६. हस्तादर्श 'स्यात्' इति पाठः । ७. हस्तादर्श 'अविरहात्' इति पाठः । हस्तादर्शान्तरे च ...विराहामात्' इत्यशुद्धः पाठः । ॥१३९।। For Private & Personal use only Page #145 -------------------------------------------------------------------------- ________________ का यदि च 'प्रमाणान्तरेणाऽनिश्चितमेव लक्षणं प्रमाणनिश्चये उपयुज्यते इतीष्यते तदाहअन्यथा = अन्यतोऽनिश्चितस्य लक्षणस्योपयोगे अर्थस्थितेः = अन्यतोऽनिश्चितेनैव प्रमाणेनाऽर्थसिद्धेः । तदुक्तं हरिभद्राचार्येण"प्रमाणेन विनिश्चित्य तदुच्येत न वा ननु । अलक्षितात्कथं युक्ता न्यायतोऽस्य विनिश्चितिः।। सत्यां चास्यां तदुक्त्या किं तद्वद्विषयनिश्चितेः । तत एवाऽविनिश्चित्य तस्योक्तिया॑न्ध्यमेव हि"।। (अष्टक-१३/६-७) ___इत्यमत्र प्रमाणलक्षणादेरनुपयोगः समर्थितः । इममेव सिद्धसेनसम्मत्या दृढयन्नाह यत ॥ इति यत आह वादी सिद्धसेन इत्यर्थः ।।११।। प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥१२।। प्रसिद्धानीति । प्रसिद्धानि = लोके स्वत एव रूढानि, न तु प्रमाणलक्षणप्रणेतृवचनप्रसाधनीयानि प्रमाणानि प्रत्यक्षादीनि, तथा व्यवहरणं = व्यवहारः = स्नान-पान-दहन-पचनादिका क्रिया, 'च'शब्दः प्रसिद्धत्वसमुच्चयार्थः तत्कृतः = प्रमाणप्रसाध्यः, प्रमाणलक्षणाऽप्रवीणानामपि गोपालबालाऽबलादीनां तथाव्यवहारदर्शनात् । १. हस्तादर्श 'प्रामाण्य...' इत्यशुद्धः पाठः । ८/१२ (१४०।। For Private & Personal use only Page #146 -------------------------------------------------------------------------- ________________ ततश्च प्रमाणलक्षणस्य = 'अविसंवादि ज्ञानं प्रमाणमित्यादेः उक्तौ = प्रतिपादने ज्ञायते = उपलभ्यते न = नैव प्रयोजनं = फलम् । 'वर्तते नेति वक्तव्ये 'ज्ञायते नेति यदुक्तमाचार्येण तदतिवचनपारुष्यपरिहारार्थम् । ____ यस्त्वत्रायं उदयनस्योपालम्भः - “ये तु प्रमाणमेव सर्वस्य व्यवस्थापकं, न तु लक्षणं तदपेक्षायामनवस्थेत्याहुस्तेषां 'निन्दामि च पिबामि चेति न्यायापातः । यतोऽव्याप्त्यतिव्याप्तिपरिहारेण तत्तदर्थव्यवस्थापकं तत्तद्व्यवहारव्यवस्थापकं च प्रमाणमुपाददते, तदेव तु लक्षणम् । 'अनुवादः स' इति चेत् ? अस्माकमप्यनुवाद एव । ___न ह्यलौकिकमिह किञ्चिदुच्यते । न चानवस्था, वैद्यके' रोगादिलक्षणवद् व्याकरणादौ शब्दादिवच्च व्यवस्थोपपत्तेः, तत्रापि सम्मुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति” (किरणावली-पृथिवीवैधर्म्यनिरूपण-पृष्ठ-१२३) ।। ___स त्वत्र न शोभते, यतो वयं प्रमाणस्याऽर्थव्यवस्थापकत्वे व्यवहारव्यवस्थापकत्वे वा लक्षणं न प्रयोजकमिति ब्रूमः, न तु सर्वत्रैव तदप्रयोजकमिति; समानाऽसमानजातीयव्यवच्छेदस्य तदर्थस्य तत्र तत्र व्यवस्थितत्वात् । सामान्यतो व्युत्पन्नस्य तच्छास्त्रादधिकृतविशेषप्रतीतिपर्यवसानेनानवस्थाऽभावात् । १. किरणावल्यां 'वैद्यकादौ' इति पाठो वर्तते । २. हस्ताद” 'व्यवस्थापकत्वे' इति पाठः त्रुटितः । हस्तादर्शान्तरे च 'व्यवहारव्यवस्थापकत्वे' इति पाठो नास्ति । ३. हस्तादर्श 'व्यवस्थित्वात्' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ '...प्रतीत्यप...' इत्यशुद्धः पाठः । 495 ॥१४१।। Jain Education Intemational Page #147 -------------------------------------------------------------------------- ________________ vote 'केवलं केवलव्यतिरेक्येव लक्षणमिति नादरः प्रमेयत्वादेरपि पदार्थलक्षणत्वव्यवस्थितेः इत्यन्यत्र विस्तरः। ___वस्तुतो धर्मवादे लक्षणस्य नोपयोगः, स्वतन्त्रसिद्धाऽहिंसादीनां तादृशधर्मान्तरसंशयजिज्ञासाविचारद्वारकतत्त्वज्ञानेनाऽसद्ग्रहनिवृत्तेः अन्यथैवोपपत्तेः । इतरभिन्नत्वेन ज्ञानस्य तत्साध्यस्याऽत्राऽनुपयोगात्सम्मुग्धधर्मिज्ञानेनैव' कार्यसिद्धे:२ इत्यत्र तात्पर्यम् ।।१२।। ____ नन्वर्थनिश्चयार्थमेव लक्षणोपयोगः, तेन ज्ञानप्रामाण्यसंशयनिवृत्तौ तन्मूलार्थसंशयनिवृत्त्याऽर्थनिश्चयसिद्धेः इत्याशङ्कायामाह न 'चार्थसंशयापत्तिः प्रमाणेऽतत्त्वशङ्कया । तत्राप्येतदविच्छेदाढेत्वभावस्य साम्यतः ।।१३।। ___ न चेति। न च प्रमाणेऽतत्त्वशङ्कया = अप्रामाण्यशङ्कया अर्थसंशयाऽऽपत्तिः लक्षणं विनेति गम्यं, तत्रापि = प्रमाणलक्षणेऽपि एतदविच्छेदाद् = अप्रामाण्यशङ्कायाः स्वरसोत्थापिताया अनुपरमात्, हेत्वभावस्य = शङ्काकारणाऽभावस्य साम्यतः = तुल्यत्वात्, प्रमाणलक्षण इव प्रमाणेऽपि शङ्काकारणाऽभावे शङ्काया अनुत्पत्तेरित्यर्थः ।।१३।। अहिंसादिधर्मसाधनग्राहकं हि प्रमाणं परेषां षष्टितन्त्रादिकं स्वस्वशास्त्रमेव, तत्र चाऽ१. मुद्रितप्रतौ 'संमुग्धज्ञानेनैव' इति त्रुटितः पाठः । २. मुद्रितप्रतौ ...द्धिरि..' इति पाठः । ३. हस्तादर्श 'चार्ध....' इत्यशुद्धः पाठः । ८/१३ (१४२।। Jain Education Interational Page #148 -------------------------------------------------------------------------- ________________ ॥ हिंसादि ग्रहणांशे सर्वतन्त्रप्रसिद्धत्वेन न कदापि संशयस्तद्विशेषांशे तु भवन्नयमनुकूल एव । न चैकांशे शङ्कितप्रामाण्यं ज्ञानमितरांऽशस्याप्यनिश्चायकमिति युक्तं, घट-पटसमूहाऽऽलम्बनात घटांशे 'प्रामाण्यसंशये पटस्याप्यनिश्चयाऽऽपत्तेरित्याशयवानाह अर्थयाथात्म्यशङ्का तु तत्त्वज्ञानोपयोगिनी । शुद्धार्थस्थापकत्वं च तन्त्रं सद्दर्शनग्रहे ।१४।। ___ अर्थेति । अर्थस्य = अहिंसादेर्याथात्म्यस्य = स्वतन्त्रप्रसिद्धनित्याश्रयवृत्तित्वाऽनित्याऽऽश्रयवृत्तित्वादेः शङ्का (=अर्थयाथात्म्यशङ्का) तु विचारप्रवृत्त्या तत्त्वज्ञानोपयोगिनी । ततश्च प्रतीयमानं शुद्धार्थस्य = सर्वथा शुद्धविषयस्य व्यवस्थापकत्वं = प्रमितिजनकत्वं (-शुद्धार्थस्थापकत्वं च) सद्दर्शनस्य = शोभनाऽऽगमस्य ग्रहे = स्वीकारे (सदर्शनग्रहे) तन्त्रं = प्रयोजकम् । तद्ग्रहे च तत एव धर्मसाधनोपलम्भात् किं लक्षणेनेति भावः ।।१४।। तत्राऽऽत्मा नित्य एवेति येषामेकान्तदर्शनम् । हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् ।।१५।। ___ तत्रेति । तत्र = धर्मसाधने विचारणीये, आत्मा नित्य एव इति येषां साङ्ख्यादीनां एकान्तदर्शनं, तेषां हिंसादयः कथं मुख्यवृत्त्या युज्यन्त इति शेषः, कथमपि खण्डितशरीराऽव- ।।१४३ ।। १. हस्तादर्श 'ग्रहांशे' इति पाठान्तरम् । २. हस्तादर्श'..शेषांशेषां तु' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'शंकितप्रामाण्यज्ञा...' इति पाठः । ४. हस्तादर्श ‘प्रामाण्ये' इत्यशुद्धः पाठः । ५. हस्तादर्श 'क्षणमिति' इति पाठोऽशुद्धः प्रतिभाति । ८/१५ Jain Education Interational For Private & Personal use only Page #149 -------------------------------------------------------------------------- ________________ यवैकपरिणामेनाऽपि आत्मनोऽव्ययाद् = अखण्डनात् । ____ न हि बुद्धिगतदुःखोत्पादरूपा हिंसा साङ्ख्यानामात्मनि प्रतिबिम्बोदयेनाऽनुपचरिता सम्भवति । न वा नैयायिकानां स्वभिन्नदुःखरूपगुणरूपा सा आत्मनि समवायेन, प्रतिबिम्बसमवाययोरेव काल्पनिकत्वात । न च कथमपि स्वपर्यायविनाशाऽभावे हिंसाव्यवहारः कल्पनाशतेनाप्युपपादयितुं शक्यत इति। तदिदमाह- "निष्क्रियोऽसौ ततो 'हन्ति हन्यते वा न जातुचित् । कञ्चित्केनचिदित्येवं न हिंसाऽस्योपपद्यते" ।। (अष्टक-१४/२) ।।१५।। मनोयोगविशेषस्य ध्वंसो मरणमात्मनः । हिंसा तच्चेन्न तत्त्वस्य सिद्धेरर्थसमाजतः ।।१६।। मन इति । 'मनोयोगविशेषस्य = स्मृत्यजनकज्ञानजनकमनःसंयोगस्य ध्वंस आत्मनो मरणम्, तद्धिंसा । इयं ह्यात्मनोऽव्ययेऽप्युपपत्स्यते । अतिसान्निध्यादेव हि शरीरखण्डनादात्माऽपि खण्डित इति लोकानामभिमानः, नाऽयं विशेषदर्शिभिरादरणीय' इति चेत् ? __न, तत्त्वस्य = उक्तध्वंसत्वस्य अर्थसमाजतः = अर्थवशादेव सिद्धेः, स्मृतिहेत्वभावादेव स्मृत्यजननाच्चरममनःसंयोगस्याऽपि संयोगान्तरवदेव नाशात् । तथा च नेयं हिंसा केनचित्कृता स्यादिति सुस्थितमेव सकलं जगत्स्यात् ।।१६।। १. हस्तादर्श 'हिन्ति' इत्यशुद्धः पाठः । २. हस्तादर्श ....खेरार्थ...' इति पाठः । ||१४४।। Jain Education Interational For Private & Personal use only Page #150 -------------------------------------------------------------------------- ________________ आत्मन एकान्तनित्यत्वाऽभ्युपगमे दूषणान्तरमाह शरीरेणाऽपि सम्बन्धो नित्यत्वेऽस्य न सम्भवी । विभुत्वेन च संसारः कल्पितः स्यादसंशयम् ।।१७।। शरीरेणाऽपीति । नित्यत्वे सति अस्य = आत्मनः शरीरेणाऽपि समं 'सम्बन्धो न सम्भवी । नित्यस्य हि शरीरसम्बन्धः पूर्वरूपस्य त्यागे वा स्यादत्यागे वा ? आद्ये स्वभावत्यागस्याऽनित्यलक्षणत्वान्नित्यत्वहानिः, अन्त्ये च पूर्वस्वभावविरोधाच्छरीराऽसम्बन्ध एवेति । विभुत्वेन चाभ्युपगम्यमानेन हेतुना संसारोऽसंशयं कल्पितः स्यात् । सर्वगतस्य परलोकगमनरूपमुख्यसंसारपदार्थाऽनुपपत्तेः । अथवा विभुत्वे च संसारो न स्यात् । स्याच्चेद् ? असंशयं कल्पितः स्यादिति योजनीयम् । तदिदमुक्तं "शरीरेणाऽपि सम्बन्धो नाऽत एवाऽस्य सङ्गतः ।। तथा सर्वगतत्वाच्च संसारश्चाप्यकल्पितः ।।" (अष्टक.१४/५) इति ।।१७ ।। परः शङ्कते अदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः । .. इत्थं जन्मोपपत्तिश्चेन्न तद्योगाऽविवेचनात् ।।१८।। १. हस्तादर्श 'सम्बन्धो' नास्ति । हस्तादर्शान्तरे 'संधो' इति त्रुटितः पाठः । २. 'यः' इत्यशुद्धः पाठो मुद्रितप्रतौ। ३. मुद्रितप्रतौ 'श्च न' इति पाठः । ८/१८ ।।१४५।। Jain Education Interational Page #151 -------------------------------------------------------------------------- ________________ First अदृष्टादिति । अदृष्टात् = प्राग्जन्मकृतकर्मणो लब्धवृत्तिकात् देहसंयोगोऽन्यतरकर्मजः स्यात्, आत्मनो विभुत्वेनोभयकर्माऽभावेऽपि देहस्य मूर्तत्वेनाऽन्यतरकर्मसम्भवादिति। इत्थं जन्मनः = संसारस्योपपत्तिः (= जन्मोपपत्तिश्चेत्), ऊर्ध्वलोकादौ शरीरसम्बन्धादेवोर्ध्वलोकगमनादिव्यपदेशोपपत्तेः । इत्थमपि विभुत्वाऽव्ययात् पूर्वशरीरत्यागोत्तरशरीरोपादानैकस्वभावत्वाच्च न नित्यत्वहानिः, एकत्र ज्ञाने नील-पीतोभयाऽऽकारवदेकत्रोक्तैकस्वाभाव्याऽविरोधात्, कार्यक्रमस्य च सामग्र्यायत्तत्वादित्याशयः। सिद्धान्तयति- 'न, तद्योगस्य = शरीरसंयोगस्याऽविवेचनात् (=तद्योगाऽविवेचनात्)। तथाहि- किमयमात्म-शरीरयोर्भिन्नो वा स्यादभिन्नो वा? आद्ये 'तत्सम्बन्धभेदादिकल्पनायामनवस्था । अन्त्ये च धर्मिद्वयाऽतिरिक्तसम्बन्धाऽभावेऽतिप्रसङ्ग इति ।॥१८॥ आत्मक्रियां विना च स्यान्मिताऽणुग्रहणं कथम् । कथं संयोगभेदादिकल्पना चापि युज्यते ? ।।१९।। आत्मेनि। आत्मनो यावत्स्वप्रदेशैरेकक्षेत्राऽवगाढपुद्गलग्रहणव्यापाररूपां क्रियां (=आत्मक्रियां) विना च मिताऽणूनां = नियतशरीराऽऽरम्भकपरमाणूनां ग्रहणं (=मिताऽणुग्रहणं) १. हस्तादर्श ‘स्वभा..' इति पाठः । २. हस्तादर्श 'नः' इति अशुद्धः पाठः । ३. मुद्रितप्रतौ .... स्यादभिन्नो वा' इति पदं नास्ति । ४. हस्तादर्श 'तत्सम्बन्धसम्बन्धभेदा...' इति पाठः । ५. हस्तादर्श 'च' नास्ति । ८/१९ १४६ । Jain Education Interational For Private & Personal use only Page #152 -------------------------------------------------------------------------- ________________ ho ho ho to s वा द द्वा त्रिं शि का ८/२० कथं स्यात्' ? सम्बद्धत्वाऽविशेषे हि लोकस्थाः सर्व एव ते गृह्येरन् न वा केचिदपि, अविशेषात् ‘अदृष्टविशेषान्मिताऽणुग्रहोपपत्तिर्भविष्यती 'ति चेत् ? न, अदृष्टे पुण्य-पापरूपे साङ्कर्याज्जातिरूपस्य विशेषस्याऽसिद्धेः । मिताऽणुग्रहार्थस्य विशेषस्य जातिरूपस्याऽदृष्टे 'कल्पनाऽपेक्षया क्रियावत्त्वरूपस्याऽऽत्मन्येव कल्पयितुं युक्तत्वात् । तत्सङ्कोच-विकोचादिकल्पनागौरवस्योत्तरकालिकत्वेनाऽबाधकत्वात्, शरीराऽवच्छिन्नपरिणामाऽनुभवस्य सार्वजनीनत्वेन प्रामाणिकत्वाच्चेति भावः । तथा (च), आत्मनः क्रियां विना नियतशरीराऽनुप्रवेशाऽनभ्युपगमे सर्वेषां शरीराणां संयोगाऽविशेषेण सर्वभोगाऽवच्छेदकत्वाऽऽपत्तिभिया तदात्मभोगे तदीयाऽदृष्टविशेषप्रयोज्यसंयोगभेदादिकल्पनाऽपि कथं युज्यते ? अनन्तसंयोगभेदादिकल्पने गौरवात् । अवच्छेदकतया तदात्मवृत्तिजन्यगुणत्वाऽवच्छिन्नं प्रति तादात्म्येन तच्छरीरत्वेन हेतुत्वे तु बाल्या-दिभेदेन शरीरभेदाद् व्यभिचारः । अवच्छिन्नत्वसम्बन्धेन तद्व्यक्तिविशिष्टे तद्व्यक्तित्वेन हेतुत्वे तु सुतरां गौरवमिति न किञ्चिदेतद् । अधिकं लतायाम् || १९ ।। अनित्यैकान्तपक्षेsपि हिंसादीनामसम्भवः । नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् ॥ २० ॥ १. हस्तादर्शे 'स्यात्' पदं नास्ति । २. मुद्रितप्रतौ 'अदृष्टक...' इति पाठः । ३. हस्तादर्शे 'तत्त्वेन' इति पाठः । सोऽपि शुद्धः । ।।१४७।। Page #153 -------------------------------------------------------------------------- ________________ अनित्येति । अनित्यैकान्तपक्षेऽपि = क्षणिकज्ञानसन्तानरूपाऽऽत्माऽभ्युपगमेऽपि हिंसादीनामसम्भवो = मुख्यवृत्त्याऽयोगः, नाशहेतोरयोगेन = क्षयकारणस्याऽयुज्यमानत्वेन क्षणिकत्वस्य = क्षणक्षयित्वस्य साधनात् । इयं हि परेषां व्यवस्था- नाशहेतुभिर्घटादेशिस्ततो 'भिन्नोऽभिन्नो वा विधीयेत ? आये घटादेस्तादवस्थ्यम् । अन्त्ये च घटादिरेव कृतः स्यात् इति स्वभावत एवोदयाऽनन्तरं विनाशिनो भावा इति । इत्थं च हिंसा न केनचित्क्रियत इत्यनुपप्लवं जगत्स्यादिति भावः ।।२०।। ननु “जनक एव हिंसकः स्यादतो न दोषः" इत्यत्र जनकः किं सन्तानस्य क्षणस्य वा इति विकल्याऽऽद्ये दोषमाह न च सन्तानभेदस्य जनको हिंसको मतः । सांवृतत्वादजन्यत्वाद् भावत्वनियतं हि तत् ॥२१॥ न चेति । न च सन्तानभेदस्य हिंस्यमा शूकरक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य जनको लुब्धकादिः हिंसको (मतः) भवेत्, तद्विसदृशसन्तानोत्पादकत्वेनैव तद्धिंसकत्व-व्यवहारोपपत्तेरिति वाच्यं, सांवृतत्वात् = काल्पनिकत्वात् सन्तानभेदस्य अजन्यत्वात् = लुब्धकाद्यसाध्यत्वात् । तद्धि = जन्यत्वं हि भावत्वनियतं = सत्त्वव्याप्त, सांवृतं च खरविषाणादिवदसदेवेति भावः ।।२१।। ८/२१ ।।१४८। १. हस्तादर्श 'भिन्नो' नास्ति । २. हस्ताद” 'शूकीय...' इति पाठः । हस्तादर्शान्तरे च 'शूकिण' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #154 -------------------------------------------------------------------------- ________________ द्वितीये त्वाह नरादिक्षणहेतुश्च शूकरादेर्न हिंसकः । शूकराऽन्त्यक्षणेनैव व्यभिचारप्रसङ्गतः ॥२२॥ नरादीति । नरादिक्षणहेतुश्च लुब्धकादिः शूकरादेहिँसको न भवति, 'शूकराऽन्त्यक्षणेनैव व्यभिचारस्य हिंसकत्वाऽतिव्याप्तिलक्षणस्य प्रसङ्गतः (=व्यभिचारप्रसङ्गतः) । म्रियमाणशूकराऽन्त्यक्षणोऽपि ह्युपादानभावेन नरादिक्षणहेतुरिति लुब्धकवत् सोऽपि स्वहिंसकः स्यादिति भावः ।।२२।। इष्टापत्तौ व्यभिचारपरिहारे त्वाह अनन्तरक्षणोत्पादे बुद्ध-लुब्धकयोस्तुला । नैवं तद्विरतिः क्वापि ततः शास्त्राद्यसङ्गतिः ।।२३।। __ अनन्तरेति । अनन्तरक्षणोत्पादे = स्वाऽव्यवहितोत्तरविसदृशक्षणोत्पादे हिंसकत्वप्रयोजकेऽभ्युपगम्यमाने इति गम्यं, बुद्ध-लुब्धकयोः तुला = साम्यमापद्येत, बुद्ध-लुब्धकयोः । अनन्तरक्षणोत्पादकत्वाविशेषात्, एवं = उक्तप्रकारेण तद्विरतिः = हिंसाविरतिः क्वापि न स्यात्, ततः शास्त्रादीनाम् = अहिंसाप्रतिपादकशास्त्रादीनामसङ्गतिः (= शास्त्राद्यसङ्गतिः) स्यात् । न चैतदिष्टं परस्य, “सवे तसंति दंडेन सन्वेसिं जीवितं "पियं, अत्तानं उपमं १. हस्तादर्श ‘शूकार..' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ३. 'सत्त्वेऽस्य संति' इत्यशुद्धः पाठो मुद्रितप्रतौ। हस्तादर्श च 'सच्चे त्र' इत्यशुद्धः पाठः। ४. मुद्रितप्रतौ 'प्रियं' इत्यशुद्धः पाठः । ॥१४९।। ॥ Jain Education Interational Page #155 -------------------------------------------------------------------------- ________________ _vs_d 'कत्ता नेव हन्ने न घातये" ।। ( ) इत्याद्यागमस्य परैरभ्युपगमात् ।।२३।। घटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः । एतस्या वृत्तिभूतानि तानि यद् भगवाजगौ ।।२४।। घटन्त इति । अहिंसां विना सत्यादीन्यपि (तत्त्वतः) न घटन्ते । (यद्) यत एतस्या = अहिंसाया वृत्तिभूतानि तानि = सत्यादीनि भगवान जगौ = सर्वज्ञो गदितवान् । न च सस्यादिपालनीयाऽभावे वृत्तौ विद्वान् यतत इति । ननु 'हन्मी'ति सङ्कल्प एव हिंसा, तद्योगादेव च हिंसकत्वं, तदभावाच्चाऽहिंसायास्ततश्च तद्वत्तिभतसत्यादीनां नाऽनपपत्तिरिति चेत ? न, हन्मीति सङ्कल्पक्षणस्यैव सर्वथाऽनन्वये कालान्तरभाविफलजनकत्वाऽनुपपत्तेः, | कथञ्चिदन्वये चाऽस्मत्सिद्धान्तप्रवेशाऽऽपाताच्च इति । अधिकमन्यत्र ।।२४।। मौनीन्द्रे च प्रवचने युज्यते सर्वमेव हि । नित्याऽनित्ये 'स्फुटं देहाद् भिन्नाऽभिन्ने तथाऽऽत्मनि ।।२५।। मौनीन्द्र इति । मौनीन्द्रे = वीतरागप्रतिपादिते च प्रवचने सर्वमेव हि हिंसाऽहिंसादिकं युज्यते। नित्याऽनित्ये तथा स्फुटं = प्रत्यक्षं देहाद भिन्नाऽभिन्ने आत्मनि सति । तथाहिआत्मत्वेन नित्यत्वमात्मनः प्रतीयते, अन्यथा परलोकाद्यभावप्रसङ्गात्, 'मनुष्यत्वादिना चाऽनित्यत्वं, १. हस्तादर्श स्फट' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ- 'च वचने' इति पाठः । ३. मुद्रितप्रतौ 'मनुष्यादिना' इत्यशुद्धः पाठः । ||१५०॥ Jain Education Interational Page #156 -------------------------------------------------------------------------- ________________ अन्यथा मनुष्यादिभावाऽनुच्छेदप्रसङ्गात् । धर्मिग्राहकमानेन तत्र नित्यत्वसिद्धावनित्यत्वधियः शरीरादिविषयकत्वमेवाऽस्त्विति चेत् ? न, धर्मिग्राहकमानेन त्रैलक्षण्यकलितस्यैव तस्य सिद्धेः, घटाधुपादानस्येव ज्ञानाद्युपादानस्य पूर्वोत्तरपर्यायनाशोत्पादाऽन्वितध्रुवत्वनियतत्वात् । यथा च भ्रान्तत्वाऽभ्रान्तत्वे परमार्थसंव्यवहाराऽपेक्षया परेषां न ज्ञानस्य विरुद्धे, यथा चैकत्र संयोगतदभावौ, तथा द्रव्यतो नित्यत्वं पर्यायतश्चाऽनित्यत्वं नास्माकं विरुद्धम् । अनपेक्षितविशिष्टरूपं हि द्रव्यं, अपेक्षितविशिष्टरूपं च पर्याय इति । तथा शरीरजीवयोर्मूर्ताऽमूर्तत्वाभ्यां भेदः, देहकण्टकादिस्पर्श वेदनोत्पत्तेश्चाऽभेद इति । तदुक्तं - "जीवसरीराणं पि हु भेआऽभेओ तहोवलंभाओ । मुत्ताऽमुत्तत्तणओ छिक्कंमि पवेयणाओ अ ।।"(हरिभद्रसूरिकृत-समरादित्यकथा भव.८/पृ.७९४) न चेदेवं 'ब्राह्मणो नष्टो ब्राह्मणो जानाती'त्यादिव्यवहाराऽनुपपत्तिः विना ब्राह्मण्यस्य व्यासज्यवृत्तित्वमित्यादिकमुपपादितमन्यत्र ।।२५।। 'पीडाकर्तृत्वतो देहव्यापत्त्या दुष्टभावतः । त्रिधा हिंसा 'जिनप्रोक्ता न हीथमपहेतुका ॥२६॥ १. हस्तादर्श 'जीशरी..' इत्यशुद्धः पाठः । २. मुद्रितप्रती '...य वेय...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'ब्राह्मणस्य' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'पीडाकर्तृत्वातो' इत्यशुद्धः पाठः । ५. 'हिंसागमप्रोक्ता' इति पाठः मुद्रितप्रतौ हस्तादर्श च । परं व्याख्यानुसारेणाऽत्र 'हिंसा जिनप्रोक्ता' इति पाठः सम्यक् । । ।।१५१॥ Jain Education Interational For Private & Personal use only Page #157 -------------------------------------------------------------------------- ________________ वा ho has de द द्वा त्रिं शि का ८/२८ विनाशस्तया पीडेति । पीडाकर्तृत्वतः = पीडायां स्वतन्त्रव्यापृतत्वात् देहस्य व्यापत्तिः = 1 (=देहव्यापत्त्या) कथञ्चित्तद्व्यापत्तिसिद्धेरिति भावः, दुष्टभावतः हन्मीति सङ्क्लेशात् त्रिधा जिनप्रोक्ता हिंसा इत्थं = उक्तरूपाऽऽत्माऽभ्युपगमे न ह्यपहेतुका = हेतुरहिता भवति ।। २६ ।। अत्रैव प्रकारान्तरेणाऽसम्भवं दूषयितुमुपन्यस्य हन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि । प्रसक्तिस्तदभावे चाऽन्यत्राऽपीति मुधा वचः ।। २७।। हन्तुः हन्तुरिति । " हिंसनीयस्य कर्मणि = हिंसानिमित्ताऽदृष्टे जाग्रति = लब्धवृत्तिके सति दोषः ? स्वकर्मणैव प्राणिनो हतत्वात्, तत्कर्मप्रेरितस्य च हन्तुरस्वतन्त्रत्वेनादुष्टत्वव्यवहारात् । तदभावे च = हिंसनीयकर्मविपाकाऽभावे च अन्यत्राऽपि = अहिंसनीयेऽपि प्राणिनि प्रसक्तिः हिंसापत्तिः” इति, हिंसाऽसम्भवप्रतिपादकं वचो मुधा = अनर्थकम् ।।२७।। = = हिंस्यकर्मविपाके यद्दुष्टाऽऽशयनिमित्तता । हिंसकत्वं न तेनेदं वैद्यस्य स्याद्रिपोरिव ।। २८ ।। = हिंस्येति । हिंस्यस्य प्राणिनः कर्मविपाके ( = हिंस्यकर्मविपाके) सति यद् यस्मात् दुष्टाशयेन = 'हमी'ति सङ्क्लेशेन निमित्तता प्रधानहेतुकर्मोदयसाध्यां हिंसा प्रति १. मुद्रितप्रती 'सिद्धिरिति ......' पाठः । = ।।१५२। Page #158 -------------------------------------------------------------------------- ________________ ।। निमित्तभावो (= दुष्टाशयनिमित्तता) हिंसकत्वम्। तेन 'कारणेन इदं हिंसकत्वं रिपोरिव वैद्यस्य न स्यात्, तस्य हिंसां प्रति निमित्तभावेऽपि दुष्टाऽऽशयाऽनात्तत्वात् । तदिदमाह "हिंस्यकर्मविपाकेऽपि निमित्तत्वनियोगतः । हिंसकस्य भवेदेषा दुष्टा दुष्टाऽनुबन्धतः"।। (अष्टक-१६/३) परप्रेरितस्याऽपि चाऽभिमरादेरिव दुष्टत्वं व्यपदिश्यत एव । हिंस्यकर्मनिर्जरणसहायत्वेऽपि च तथाविधाऽऽशयाऽभावान्न हिंसकस्य वैयावृत्त्यकरत्वव्यपदेश इति द्रष्टव्यम् ।।२८।। इत्थं सदुपदेशादेस्तन्निवृत्तिरपि स्फुटा । सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः ।।२९।। इत्थमिति । इत्थं = परिणामिन्यात्मनि हिंसोपपत्तौ सतां = ज्ञानगुरूणामुपदेशादेः ८/२९ (=सदुपदेशादेः) आदिनाऽभ्युत्थानादिपरिग्रहः, तदाह → अब्भुट्टाणे विणए परक्कमे साहुसेवणाए य । सम्मइंसणलंभो विरयाविरईइ विरईए ।। - (आ.नि.८४८) ___सोपक्रमस्य = अपवर्तनीयस्य पापस्य = चारित्रमोहनीयस्य नाशात् तन्निवृत्तिरपि = हिंसानिवृत्तिरपि स्फुटा = प्रकटा, स्वाशयस्य = शुभाऽऽशयस्य ‘न कमपि हन्मी'त्याकारस्य वृद्धितः = अनुबन्धात् (=स्वाशयवृद्धितः) ।।२९।। ||१५३॥ १. हस्तादर्श 'कारणत्वे' इत्यशुद्धः पाठः । २. हस्तादर्श 'हिंसकत्वं' पदं नास्ति। ३. हस्ताद” 'दुष्टाशयेना...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'त्वं व्यपदिश्यत' इति पाठान्तरम् । Jain Education Interational Page #159 -------------------------------------------------------------------------- ________________ vote तथारुच्या' प्रवृत्त्या च व्यज्यते कर्म तादृशम् । संशयं जानता ज्ञातः संसार इति हि स्थितिः ॥३०।। तथारुच्येति । तथारुच्या = सदाचारश्रद्धया प्रवृत्त्या च तादृशं = स्वप्रयत्नोपक्रमणीयं कर्म व्यज्यते । 'प्रवृत्तिरेवोपक्रमणीयकर्माऽनिश्चयादुपायसंशये कथं स्याद्' इति चेत् ? अर्थाऽनर्थसंशययोः प्रवृत्ति-निवृत्त्यङ्गत्वाद् इत्याशयवानाह- संशयं अर्थाऽनर्थगतं जानता हेयोपादेयनिवृत्तिप्रवृत्तिभ्यां परमार्थतः संसारो ज्ञात इति हि स्थितिः = प्रेक्षावतां मर्यादा । तथा चाचारसूत्रं- 'संसयं परिजाणतो संसारे परिन्नाते भवति, संसयं अपरिजाणतो संसारे अपरिन्नाते भवतीति (आचा.१/५/१/सू.१४४) ।।३० ।। अपवर्गतरोर्बीजं मुख्याऽहिंसेयमुच्यते । सत्यादीनि व्रतान्यत्र जायन्ते पल्लवा नवाः ॥३१॥ अपवर्गेति । स्पष्टः ।।३१।। विषयो धर्मवादस्य निरस्य मतिकर्दमम् । संशोध्यः स्वाशयादित्थं परमानन्दमिच्छता ॥३२॥ १. 'रुचि' इति मुद्रितप्रतौ हस्तप्रतौ च पाठः । व्याख्यानुसारेण 'रुच्या' इति सम्यगाभाति । २. 'श्रुतिः' इति मुद्रितप्रती हस्तादर्श च पाठः । व्याख्यानुसारेणात्र 'स्थितिः' इति पदेन भाव्यम् । ||१५४।। Jain Education Interational For Privale & Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ विषय इति । मतिकर्दमं आदावेव प्रमाणलक्षणप्रणयनादिप्रपञ्चम् ।।३२।। ।। इति वादद्वात्रिंशिका ।।८।। ।। अथ कथाद्वात्रिंशिका ॥९॥ वादनिरूपणाऽनन्तरं तत्सजातीया कथा निरूप्यते - अर्थ-कामकथा धर्मकथा मिश्रकथा तथा । कथा चतुर्विधा तत्र प्रथमा यत्र वर्ण्यते ॥१॥ ___ अर्थेति । अर्थकथा कामकथा (=अर्थकामकथा) धर्मकथा तथा मिश्रकथा एवं चतुर्विधा || कथा । तत्र प्रथमा = अर्थकथा सा यत्र = यस्यां वर्ण्यते = प्रतिपाद्यते ।।१।। विद्या शिल्पमुपायश्चानिर्वेदश्चापि सञ्चयः। दक्षत्वं साम भेदश्च दण्डो दानं च यत्नतः।।२।। विद्येति । विद्यादयोऽर्थोपाया 'यत्र वर्ण्यन्ते सार्थकथेति भावः ।।२।। रूपं वयश्च वेषश्च दाक्षिण्यं चापि शिक्षितम् । दृष्टं श्रुतं चानुभूतं द्वितीयायां च संस्तवः ।।३।। १. हस्तादर्श 'इति वादद्वात्रिंशिका ||८||' इति नास्ति । २. हस्तादर्श ....जाया' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्श '...द्यतो' इत्यशुद्धः पाठः । ४. हस्तादर्श 'यत्र' पदं नास्ति । ॥१५५।। Jain Education Interational Page #161 -------------------------------------------------------------------------- ________________ रूपमिति । रूपं सुन्दरं, वयश्च = उदग्रं, वेषश्च = उज्ज्वलः, दाक्षिण्यं च = मार्दवं, शिक्षितमपि विषयेषु, दृष्टं 'अद्भुतदर्शनमाश्रित्य, श्रुतं चानुभूतं च, संस्तवश्च = परिचयश्च, द्वितीयायां = कामकथायाम् । रूपादिवर्णनप्रधाना कामकथेत्यर्थः ।।३।। तृतीयाऽऽक्षेपणी चैका तथा विक्षेपणी परा ।। अन्या संवेजनी निजनी चेति चतुर्विधा ॥४॥ तृतीयेति । तृतीया धर्मकथा च एका आक्षेपणी, तथा परा विक्षेपणी, अन्या संवेजनी, च = पुनः निर्वेजनी इति चतुर्विधा ।।४।। आचाराद् व्यवहाराच्च प्रज्ञप्तेदृष्टिवादतः। आद्या चतुर्विधा श्रोतुश्चित्ताऽऽक्षेपस्य कारणम् ।।५।। आचारादिति । आचारं व्यवहारं प्रज्ञप्तिं दृष्टिवादं चाश्रित्य आद्या = आक्षेपणी चतुर्विधा। श्रोतुः चित्ताऽऽक्षेपस्य तत्त्वप्रतिपत्त्याऽऽभिमुख्यलक्षणस्य अपूर्वशमरसवर्णिकास्वादलक्षणस्य वा कारणम् ।।५।। क्रिया दोषव्यपोहश्च सन्दिग्धे साधु बोधनम् । श्रोतुः सूक्ष्मोक्तिराचारादयो ग्रन्थान् परे जगुः ।।६।। १. हस्तादर्श अद्भुट्ठ' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ '...मुखल...' इत्यशुद्धः पाठः । ।।१५६। Jain Education Interational Page #162 -------------------------------------------------------------------------- ________________ क्रियेति । क्रिया लोचाऽस्नानादिका। दोषव्यपोहश्च कथञ्चिदापन्नदोषशुद्ध्यर्थप्रायश्चित्तलक्षणः। सन्दिग्धे संशयाऽऽपन्नेऽर्थे साधु मधुराऽऽलापपूर्व बोधनं = उत्तरप्रदानम् । श्रोतुः सूक्ष्मोक्तिः सूक्ष्मजीवादिभावकथनम् । आचारादयः क्रमेणाऽऽचार-व्यवहार-प्रज्ञप्ति-दृष्टिवादा अभिधीयन्ते । परे आचार्या आचारादीन् ग्रन्थान् जगुः तैराचाराद्यभिधानादिति भावः ।।६।। एतैः प्रज्ञापितः श्रोता चित्रस्थ इव जायते । दिव्यास्त्रवन्न हि क्वापि मोघाः स्युः सुधियां गिरः ।।७।। एतैरिति । व्यक्तः ।।७।। विद्या क्रिया तपो वीर्यं तथा समितिगुप्तयः । आक्षेपणीकल्पवल्ल्या मकरन्द उदाहृतः ।।८।। विद्येति । विद्या ज्ञानमत्यन्ताऽपकारिभावतमोभेदकं क्रिया = चारित्रं तपः अनशनादि वीर्य = कर्मशत्रुविजयानुकूलः पराक्रमः तथा समितय ईर्यासमित्याद्याः गुप्तयो मनोगुप्त्याद्याः (= समिति-गुप्तयः) आक्षेपणीकल्पवल्ल्या मकरन्दो = रस उदाहृतः । विद्यादिबहुमानजननेनैवेयं फलवतीति भावः ।।८।। स्वपरश्रुत मिथ्यान्यवादोक्त्या सङ्क्रमोत्क्रमम् । १. हस्तादर्श 'स्नानादि....' इति पाठः । २. 'श्रुति' इति हस्तादर्श पाठः । ||१५७। Jain Education Interational For Private & Personal use only Page #163 -------------------------------------------------------------------------- ________________ विक्षेपणी चतुर्धा स्यादृजोर्मार्गाऽऽभिमुख्यहृत् ।।९।। स्वेति। स्वपरश्रुते = स्वसमय-परसमयौ, मिथ्यान्यवादौ = मिथ्यावाद-सम्यग्वादौ, तयोः उक्त्या = प्रतिपादनेन ( स्वपरश्रुत-मिथ्याऽन्यवादोक्त्या) । सङ्क्रमोत्क्रम पूर्वानुपूर्वीपश्चानुपूर्वीसहितं यथा स्यात्तथा । चतुर्धा विक्षेपणी स्यात् । तथा च सम्प्रदायः"विक्खेवणी सा चउब्विहा 'पन्नत्ता, तं जहा-ससमयं कहित्ता परसमयं कहेइ, परसमयं कहित्ता ससमयं कहेइ, मिच्छावायं कहित्ता सम्मावायं कहेइ, सम्मावायं कहित्ता मिच्छावायं कहेइ । तत्थ पुब्बिं ससमयं कहित्ता परसमयं कहेइ ससमयगुणे दीवेइ परसमयदोसे उवदंसेति, एसा पढमा विक्खेवणी गता । ____ इदाणिं बितिया भण्णति-पुब्बिं परसमयं कहित्ता तस्सेव दोसे उवदंसेति, पुणो ससमयं कहेति गुणे य से उवदंसेति, एसा बितिया विक्खेवणी गया । इदाणिं ततिया-परसमयं कहित्ता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असन्ता चेव विअप्पिया ते पु कहित्ता दोसा तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरमिव कहवि सोभणा भणिआ ते कहेति। अहवा मिच्छावादो णत्थित्तं भण्णति, सम्मावादो अत्थित्तं भण्ण ति । तत्थ पुब्बिं णाहियवादीणं दिट्ठीओ (१५८।। १. हस्तादर्श ‘पन्नत्ता, तं जहा' इति पाठो लुप्तः । २. हस्ताद” 'जहा' पदं नास्ति । ३. हस्तादर्श 'वियप्पिया' इति पाठान्तरम् । ४. मुद्रितप्रतौ 'भणति' इति पाठः । Jain Education Interational Page #164 -------------------------------------------------------------------------- ________________ कहित्ता पच्छा अत्थित्तपक्खवादीणं दिट्ठीओ कहेइ, एसा ततिआ विक्खेवणी गया । ___ इदाणं चउत्था विक्खेवणी सा वि एवं चेव, णवरं पुब्बिं सोभणे कहेइ पच्छा इतरेत्ति' । एवं विक्खिवइ सोयारं" (दशवैकालिक वृद्धविवरण अध्य.३)। इयं च ऋजोः = मुग्धस्य मार्गाऽऽभिमुख्यहृत् = स्वरूपतो मार्गरुचिहर्जी ।।९।। अतिप्रसिद्धसिद्धान्तशून्या लोकादिगा हि सा । ___ ततो दोषदृशाशङ्का स्याद्वा मुग्धस्य तत्त्वधीः ।।१०।। अतिप्रसिद्धेति । हि = यतः सा विक्षेपणी । अतिप्रसिद्ध आचारादिवत्साम्प्रतमपि प्रसिद्धो यः सिद्धान्तस्तच्छून्या (=अतिप्रसिद्धसिद्धान्तशून्या), अन्यथा हि विधि-प्रतिषेधद्वारेण विश्वव्यापकत्वात् स्वसिद्धान्तस्य तच्छून्यकथाया एवाऽप्रसिद्धिः । लोकपदार्थो रामायणादिः, आदिना वेदसाङ्ख्य-शाक्यसिद्धान्तादिग्रहः, तेषु गच्छतीति लोकादिगा । तत = उक्तहेतोर्ऋजुमते रामायणादिकथायां श्रूयमाणायां कथकदत्तया दोषदृशा “अहो मत्सरिण एते" इत्येवंरूपा शङ्का स्याद् (मुग्धस्य =) एकेन्द्रियप्रायस्य । स्याद्वा तत्र शोभनाऽर्थश्रवणाद् ‘इयमपि प्रमाणमेवेति तत्त्वधीः अचिरेण सिद्धान्तप्रामाण्यधीविरोधिनी ।।१०।।। अस्या अकथने प्राप्ते विधिमाह - १. हस्तादर्श ‘इतरेति' इति पाठः । २. 'दृगा' इति मुद्रितप्रतौ पाठः । ३. हस्तादर्श '...माणां' इति पाठः । स चाशुद्धः । हस्तादर्शान्तरे च '..यमा' इति त्रुटितः पाठः । ||१५९।। Jain Education Intemational Page #165 -------------------------------------------------------------------------- ________________ F क्षिप्त्वा दोषान्तरं दद्यात्स्वश्रुतार्थं परश्रुते । व्याक्षेपे 'वोच्यमानेऽस्मिन्मार्गाप्तौ दूषयेददः ।।११।। क्षिप्त्वेति । स्वश्रुतार्थं परश्रुते क्षिप्त्वा तत्र दोषान्तरं दद्यात् यथा स्वश्रुतस्य दाढयं भवति परश्रुतस्य चाप्रतिपत्तिरिति । तथाहि- यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामप्येवम्, 'हिंसा' नाम भवेद्धर्मो न भूतो न भविष्यति' ( ) इत्यादिवचनात् । किं त्वसावपरिणामिन्यात्मनि न युज्यते, एकान्तनित्यानित्ययोर्हिसाया अभावादिति । वा = अथवा अस्मिन् = परश्रुते उच्यमाने शोभनोह' शालिनः श्रोतुः व्याक्षेपे मार्गाभिमुख्यलक्षणे जाते (मार्गाऽऽप्ते) अदः = परश्रुतं दूषयेत्। इत्थं हि दूषणार्थं केवलस्याऽपि तस्य कथनं प्राप्तम् । तदिदमुक्तं- “जा 'ससमएण पुब्बिं अक्खाया तं छुभेज्ज परसमए । परसासणवक्खेवा परस्स समयं परिकहेइ ।।" (दशवकालिक नियुक्ति-३।१९८) ।।११।। श्रोतुः परसमयदूषणे माध्यस्थ्यं ज्ञात्वैव विक्षेपणी कथनीयेति फलितमाह कटुकौषधपानाभा कारयित्वा रुचिं सता । इयं देयान्यथा सिद्धिर्न स्यादिति विदुर्बुधाः ।।१२।। १. मुद्रितप्रतौ 'चोच्यमाने' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्येवं हिंसा नाम' इति नास्ति । ३. मुद्रितप्रतौ 'शोभनोऽहं शालिन' इत्यशुद्धः पाठः । ४. हस्तादर्श 'जा सम...' इत्यशुद्धः त्रुटित: पाठः । ५. सर्वमुद्रितप्रतौ 'कटुकौषधपानाभां' इत्यशुद्धः पाठः । केवलं पाटण-ज्ञानभाण्डागरीयहस्तप्रतौ प्रकृतः शुद्धः पाठो वर्तते । अन्यहस्तादर्श च 'कटुपकौष...' इत्यशुद्धः पाठो वर्तते । ९/१२ १६०। Jain Education Interational Page #166 -------------------------------------------------------------------------- ________________ ts 5 ho to क था त्रिं शि का ९/१३ कटुकेति । स्पष्टः ।। १२ ।। मता संवेजनी स्वान्यदेहेहप्रेत्यगोचरा । यया संवेज्यते श्रोता विपाकविरसत्वतः ।।१३।। = मतेति । यया कथया विपाकविरसत्वतः = विपाकवैरस्यात् प्रदर्शितात् श्रोता संवेज्यते : संवेगं ग्राह्यते सा संवेजनी । स्वान्यदेहेहप्रेत्यगोचरा स्वशरीर-परशरीरेहलोक-परलोकविषया चतुर्विधा मता । अत्राऽयं सम्प्रदायः- “संवेअणी कहा चउब्विहा पन्नत्ता, तं जहाआयसरीरसंवेअणी, परसरीरसंवेअणी, इहलोअसंवेअणी, परलोअसंवेअणी । तत्थ ( १ ) आयसरीरसंवेयणी, जहा- 'जमेयं अम्हच्चयं सरीरं एयं सुक्क - सोणिय - मंस - वसा - मेद-मज्जट्ठि-ण्हारु-चम्म-केस- रोम-णह-दंत - अन्नादिसंघातनिष्पण्णत्तणेण मुत्त-पुरीसभायणत्तणेण असुइत्ति' कहेमाणो सोयारस्स संवेदं उप्पाएत्ति, एसा अत्तसरीरसंवेअणी । (२) एवं परसरीरसंवेदणी' वि ‘परसरीरं एरिसं चेव असुई" । अहवा परस्स सरीरं वण्णेमाणो सोआरस्स संवेदमुप्पाएति", परसरीरसंवेदणी गता । (३) इदाणीं इहलोअसंवेयणी, जहा- 'सव्वमेव माणुसत्तणं असारमऽधुवं कदलीथंभसमाणं' एरिसं कहं कहेमाणो धम्मकही सोतारस्स संवेदमुप्पाएति, इहलोअसंवेयणी गया । १. हस्तादर्श 'देहप्रे.....' इति त्रुटितः पाठः । २. 'जहा' पदं हस्तादर्शे नास्ति । ३. हस्तादर्शे 'मुत्ततरीस....' इति पाठः । ४. मुद्रितप्रतौ .मुपाएति' इति पाठः । ५. मुद्रितप्रतौ 'संवेअणी' इति पाठान्तरम् । ६. मुद्रितप्रतौ 'असुइ' इति पाठः । ७. मुद्रितप्रती 'मुपाएति' इति पाठः । ।।१६१। Page #167 -------------------------------------------------------------------------- ________________ (४) इयाणिं परलोगसंवेयणी, जहा- 'देवा वि इस्सा-विसाय-मय-कोह-लोहाइएहिं दुक्खेहिं अभिभूया किमंग पुण तिरिय-नारया' एयारिसं कहं कहेमाणो धम्मकही सोआरस्स संवेदमुप्पाए त्ति, एसा परलोअसंवेयणी गता” (दशवैका वृ.वि.अ.३) इति ।।१३।। वैक्रियादयो ज्ञानतपश्चरणसम्पदः । __ शुभाऽशुभोदयध्वंसफलमस्या रसः स्मृतः ।।१४।। वैक्रियेति । वैक्रियादयो गुणा इति गम्यं । तत्र वैक्रियढिक्रियनिर्माणलक्षणा। आदिना जङ्घाचारणादिलब्धिग्रहः । तथा ज्ञानतपश्चरणसम्पदः तत्र ज्ञानसम्पच्चतुर्दशपूर्विण एकस्माद् घटादेः घटादिसहस्रनिर्माणलक्षणा । तपःसम्पच्च “जं अन्नाणी कम्मं खवेइ" (बृ.क.भा.११७०) इत्यादिलक्षणा । चरणसम्पच्च सकलफलसिद्धिरूपा। एते गुणाः सम्पदश्च । शुभोदयस्याऽशुभध्वंसस्य च फलं (=शुभाशुभोदयध्वंसफल) अस्याः = संवेजन्या रसः स्मृतः।।१४। चतुर्भंगी समाश्रित्य प्रेत्येहफलसंश्रयाम् । पापकर्मविपाकं या ब्रूते निर्वेजनी तु सा ।।१५।। चतुर्भङ्गीमिति । या कथा पापकर्मविपाकं प्रेत्येहफलसंश्रयां = इहलोकपरलोकभोगाऽऽश्रितां चतुर्भगीं समाश्रित्य ब्रूते सा तु निर्वेजनी चतुर्भिरेव भङ्गः ।।१६२। । प्रतिपाद्यमानैश्चतुर्विधेति भावः । अत्रायं सम्प्रदायः- "इदाणिं निव्वेदणी-सा चउबिहा पन्नत्ता। १. हस्तादर्श ‘पन्नत्ता' पदं नास्ति । Jain Education Interational Page #168 -------------------------------------------------------------------------- ________________ क 5 ho to f था द्वा (३) इयाणि तति निव्वेदणी - परलोए दुच्चिन्ना कम्मा इहलोए दुहविवागसंजुत्ता भवंति । कहं ? जहा- बालप्पभितिमेव अंतकुलेसु उप्पन्ना' खय- कोढाइएहिं रोगेहिं दारिद्देण य अभिभूयादीसंति, एसा ततिया निव्वेदणी । ( ४ ) इदाणिं चउत्था निव्वेदणी - परलोए दुच्चिन्ना कम्मा परलो दुहविवागसंजुत्ता भवंति । कहं ? जहा - पुब्बिं दुच्चिन्नेहिं कम्मे हिं का जीवा संडासतुंडेहिं पक्खीहिं उववज्जंति तउ ते नरयप्पा ओग्गाणि कम्माणि असं पुन्नाण ता जातीए पूरिंति, पूरिऊण नरयभवे वेदिंति, एसा चउत्था निव्वेयणीगया । एवं इहलोगो परलोगो य पण्णवयं पडुच्च भवति । तत्थ पन्नवयस्स मणुस्सभवो इहलोगो, सेसा उ तिणि वि गईउ परलोगो " ( दशवैकालिक वृद्ध विवरण अध्य. ३ ) । । १५ ।। स्तोकस्यापि प्रमादस्य परिणामोऽतिदारुणः । ९/१६ त्रिं शि तं जहा ' - इहलोए 'दुच्चिन्नाई कम्माई इहलोए दुहविवागसंजुत्ताइ भवंति । (१) तं जहाचोराणं पारदारियाणं एवमादी एसा पढमा निव्वेदणी । (२) इदाणिं बितिया निव्वेदणी इहलोए 'दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति, तं जहा-नेरइयाणं अन्नंमि भवे कयं कम्मं निरयभावफलं देइ, एसा बितिया निव्वेयणी । वर्ण्यमानः प्रबन्धेन निर्वेजन्या रसः स्मृतः ।। १६ ।। १. हस्तादर्शे 'जहा' पदं नास्ति । २. मुद्रितप्रतौ 'दुचिन्ना' इति अशुद्धः पाठः । हस्तादर्शविशेषे तु 'दुच्चिन्नाई कम्माई' नास्ति । ३. हस्तादर्शे 'जहा' पदं नास्ति । ४. मुद्रितप्रतौ 'दुचि...' इत्यशुद्धः पाठः । ५. मुद्रितप्रती 'उत्पन्ना' इति अशुद्धः पाठः । ६. मुद्रितप्रती '...प्पाउग्गा...' इति पाठः । ७. हस्तादर्शे 'परलोगो' इतिपदं नास्ति । ।।१६३।। Page #169 -------------------------------------------------------------------------- ________________ स्तोकस्याऽपीति । स्पष्टः ।।१६।। आदावाक्षेपणीं दद्याच्छिष्यस्य धनसन्निभाम् । विक्षेपणी गृहीतेऽर्थे वृद्ध्युपायमिवादिशेत् ।।१७।। आदाविति । स्पष्टः ।।१७।। आक्षेपण्या किलाऽऽक्षिप्ता जीवाः सम्यक्त्वभागिनः । विक्षेपण्यास्तु भजना मिथ्यात्वं वाऽतिदारुणम् ॥१८॥ आक्षेपण्येति । आक्षेपण्याक्षिप्ता आवर्जिताः किल जीवाः सम्यक्त्वभागिनो 'नियोगेन सम्यक्त्वलाभवन्तोऽसति प्रतिबन्धे, तथाऽऽवर्जनेन मिथ्यात्वमोहनीयकर्मक्षयोपशमोपपत्तेः । विक्षेपण्यास्तु सकाशात् फलप्राप्तौ भजना कदाचित्ततः सम्यक्त्वं लभन्ते कदाचिन्नेति, तच्छ्रवणात्तथाविधपरिणामाऽनियमात् । अतिदारुणं = महाभयङ्करं मिथ्यात्वं वा ततः स्यात् जडमतीनामभिनिविष्टानाम् । तदुक्तं__“अक्खेवणिअक्खित्ता जे जीवा ते लहन्ति सम्मत्तम । विक्खेवणीइ भज्जं गाढयरागं व मिच्छत्तं ।।" (दशवैकालिक नियुक्ति ३/२०५)।।१८।। १. हस्तादर्श'...यमुपादिशेत्' इति पाठः । स चाऽशुद्धः । २. मुद्रितप्रतौ 'योगेन' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अभिनिविष्टानां' नास्ति । ४. मुद्रितप्रतौ '...वणिव...' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'च' इत्यशुद्धः पाठः । १६४ Jain Education Interational Page #170 -------------------------------------------------------------------------- ________________ विक्षेपण्याः परिकर्मिताया एव गुणाऽऽवहत्वं नान्यथेति समर्थयन्नाह आद्या यथा शुभं भावं सूते नाऽन्या कथा तथा । यादृग्गुणः स्यात्पीयूषात्तादृशो न विषादपि ।।१९।। आद्येति । पीयूषवन्नेयं स्वरूपतो गुणाऽऽवहा, किं तु वच्छनागवत्परिकर्मितैवेति तात्पर्यम् ।।१९।। धर्मार्थकामाः कथ्यन्ते सूत्रे काव्ये च यत्र सा । मिश्राख्या विकथा तु स्याद् भक्त-स्त्री'-देश-रा'ड्गता ।।२०।। ___धर्मेति । यत्र सूत्रे काव्ये च धर्माऽर्थ-कामा मिलिताः कथ्यन्ते सा मिश्राख्या कथा, सङ्कीर्णपुरुषार्थाऽभिधानात् । विकथा कथालक्षणविरहिता तु स्यात् भक्त-स्त्री-देश-राड्गता भक्तादिविषया । यदाह"इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा य । नड-नट्ट-जल्ल-मुट्टिय कहा उ एसा भवे विकहा ।।” (दशवैकालिक नियुक्ति-३/२०५)।।२०।। प्रज्ञापकं समाश्रित्य कथा एता अपि क्रमात् । अकथा विकथा वा स्युः कथा वा भावभेदतः ।।२१।। १. हस्तादर्श 'राड्देशे कथा' इति पाठः । २. 'राङ्गता' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. मुद्रितप्रती 'राङ्गता...' इत्यशुद्धः पाठः । ४. 'मुट्टिया...' इति हस्तादर्श पाठः । ||१६५ For Privale & Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ ts 15 ho to f क था द्वा त्रिं शि का ९/२२ प्रज्ञापकमिति । प्रज्ञापकं वक्तृपुरुषविशेषं समाश्रित्य एता उक्तलक्षणाः कथा अपि (क्रमात्) 'अकथा विकथाः कथा वा स्युः, भावभेदतः = आशयवैचित्र्यात् सम्यक्श्रुतादिवत् । तत एव पुरुषार्थप्रतिपत्त्यभाव-तद्विरोध- तत्प्रतिपत्तिफलभेदात् । तदुक्तं- " एया चेव कहाओ पन्नवगपरूवगं समासज्ज । अकहा कहा य विकहा हविज्ज पुरिसंतरं पप्प || ” ( दशवैकालिक निर्युक्ति- ३ / २०८ ) अत्र प्रज्ञापकप्ररूपकमित्यत्र कर्मधारयाऽऽश्रयणादवबोधकप्ररूपको व्याख्यातो घरट्टभ्रमणकल्पश्च व्यवच्छिन्नः । द्वन्द्वाऽऽश्रयणे तु द्वित्वे बहुवचनाऽऽपत्तिरित्यवधेयम् ।। २१ ।। मिथ्यात्वं वेदयन् ब्रूते लिङ्गस्थो वा गृहस्थितः । यत्साऽकथाशयोद्भूतेः श्रोतुर्वक्त्रनुसारतः ।।२२।। मिथ्यात्वमिति । मिथ्यात्वं वेदयन् = विपाकेनाऽनुभवन् लिङ्गस्थो द्रव्यप्रव्रजितः अङ्गारमर्दकादिप्रायो, गृहस्थितो वा कश्चिद् यद् ब्रूते साsकथा । श्रोतुर्वक्त्रनुसारतो वक्त्राशयाऽऽनुगुण्येनैव आशयोद्भूतेः = भावोत्पत्तेः प्रतिविशिष्टफलाऽभावात् । तदिदमुक्तं"मिच्छत्तं वेयंतो जं अन्नाणी कहं परिकहेइ । लिंगत्थो व गिही वा सा अकहा देसिआ समए ।। " ( दशवैकालिक नियुक्ति-३/२०९) । ।२२।। ज्ञानक्रियातपोयुक्ताः सद्भावं " कथयन्ति यत् । १. हस्तादर्शे 'अथा' इत्यशुद्धः पाठः । २. हस्तादर्शे 'कहाउ' इति पाठः । ३. हस्तादर्शे 'धर्मधार....' इत्यशुद्धः पाठ: । ४. हस्तादर्शे 'भावादिद....' इति त्रुटितः पाठः । ५. 'थयंति' इत्यशुद्धः पाठो हस्तादर्शे । ।।१६६ । Page #172 -------------------------------------------------------------------------- ________________ जगज्जीवहितं सेयं कथा धीरैरुदाहृता ।।२३।। ज्ञानेति । ज्ञान-क्रिया-तपोभियुक्ताः (=ज्ञान-क्रिया-तपोयुक्ताः) सद्भावं = परमार्थं यत् कथयन्ति जगज्जीवहितं सेयं धीरैः कथोदाहृता, निर्जराऽऽख्यफलसाधनात्, वक्तुः श्रोतुश्च कुशलपरिणामोत्पा-दनात्, अन्यथा तु तत्र भजनाऽपि स्यादिति । तदिदमुक्तं"तवसंजमगुणधारी जं चरणरया 'कहंति सब्भावं । सव्वजगज्जीवहिअंसा उ कहा देसिआ समये ।।" (दशवैकालिक नियुक्ति-३/२१०)।।२३।। यः संयतः प्रमत्तस्तु ब्रूते सा विकथा मता । कर्तृश्रोत्राशये तु स्याद् भजना भेदमञ्चति ।।२४।। य इति । यः संयतः प्रमत्तः कषायादिवशगः तु ब्रूते सा विकथा मता, तथाविधपरिणामनिबन्धनत्वात् । तदुक्तं- “जो संजओ पमत्तो रागद्दोसवसगो परिकहेइ । सा उ विकहा पवयणे पन्नत्ता धीरपुरिसेहिं ।।” (दशवैकालिक नियुक्ति-३/२११) । कर्तृश्रोत्राशये तु भेदमञ्चति सति भजना स्यात्, तं प्रति कथान्तराऽऽपत्तेः ।।२४।। "सन्धुक्षयन्ती मदनं शृङ्गारोक्तैरुदर्चिषम् । कथनीया कथा नैव साधुना 'सिद्धिमिच्छता ।।२५।। १. हस्तादर्श 'कहिंति' इति पाठः । २. 'देसिआ धम्मे' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्श ‘य ति' इत्यशुद्धः पाठः । ४. 'सन्धुक्षयन्ति' इत्येवमशुद्धः पाठो मुद्रितादर्श । ५. हस्ताद” 'सिद्धमि..' इत्यशुद्धः पाठः। ६. इत आरभ्य अष्टश्लोकी हस्तादर्श नास्ति । ९/२५ ।।१६७॥ Page #173 -------------------------------------------------------------------------- ________________ तपोनियमसारा तु कथनीया विपश्चिता । संवेगं वापि निर्वेदं यां श्रुत्वा मनुजो व्रजेत् ।।२६।। महार्थापि कथाऽकथ्या परिक्लेशेन धीमता । अर्थं हन्ति प्रपञ्चो हि पीठक्ष्मामिव पादपः ॥२७ ।। प्रपञ्चितज्ञशिष्यस्याऽनुरोधे सोऽप्यदोषकृत् । सूत्राऽर्थादिक्रमेणाऽतोऽनुयोगस्त्रिविधः स्मृतः ।।२८।। 'विध्युद्यमभयोत्सर्गाऽपवादोभयवर्णकैः । कथयन्न पटुः सूत्रमपरिच्छिद्य केवलम् ।।२९।। एवं ह्येकान्तबुद्धिः स्यात्सा च सम्यक्त्वघातिनी । विभज्यवादिनो युक्ता कथायामधिकारिता ॥३०॥ विधिना कथयन् धर्मं हीनोऽपि श्रुतदीपनात् । वरं न तु क्रियास्थोऽपि मूढो धर्माऽध्वतस्करः ॥३१॥ इत्थं 'व्युत्पत्तिमान्याय्यां कथयन पण्डितः कथाम् । १. मुद्रितप्रतौ 'संवेदं' इत्यशुद्धः पाठः । २. हस्तादर्श 'विध्युद्यमोभय...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'व्युत्पत्तिमात्रायां' इत्यशुद्धः पाठः । ||१६८। Jain Education Interational Page #174 -------------------------------------------------------------------------- ________________ स्वसामर्थ्याऽनुसारेण परमानन्दमश्नुते ।।३२।। सन्धुक्षयन्तीत्याद्यारभ्याष्टश्लोकी प्रायः सुगमा विधिसूत्रादिविवेकश्चान्यत्र प्रपञ्चित इति ||३२।। ।। इति कथाद्वात्रिंशिका ।।९।। FE ।। अथ योगलक्षणद्वात्रिंशिका ।।१०।। कथानिरूपणाऽनन्तरं तत्फलभूतस्य योगस्य लक्षणं निरूप्यते - मोक्षेण योजनादेव योगो ह्यत्र निरुच्यते । लक्षणं तेन तन्मुख्यहेतुव्यापारताऽस्य तु ।।१।। ___ मोक्षेणेति । योगो हि = योगशब्दो हि अत्र = लोके प्रवचने वा मोक्षेण योजनादेव निरुच्यते = व्युत्पाद्यते । तेन अस्य = योगस्य तु तन्मुख्यहेतुव्यापारता लक्षणं निरुक्ताऽर्थस्याऽप्यनतिप्रसक्तस्य लक्षणत्वाऽनपायात् ।।१।। मुख्यत्वं चान्तरङ्गत्वात् फलाऽऽक्षेपाच्च दर्शितम् । चरमे पुद्गलावर्ते यत' एतस्य सम्भवः ।।२।। मुख्यत्वं चेति । मुख्यत्वं च अन्तरङ्गत्वात् = मोक्षं प्रत्युपादानत्वात् फलाऽऽक्षेपात् १. हस्तादर्श 'तय' इत्यशुद्धः पाठः । का १०/२ ।।१६९ Page #175 -------------------------------------------------------------------------- ________________ कहरु 5 ho ja ण द्वा त्रिं शि का १०/५ = फलजननं प्रत्यविलम्बात् च दर्शितं प्रवचने, यतो यस्मात् चरमे पुद्गलाऽऽवर्ते एतस्य योगस्य सम्भवः । इत्थं ह्यभव्य-दूरभव्यक्रियाव्यवच्छेदः कृतो भवति, एकस्या मोक्षाऽनुपादानत्वादन्यस्याश्च फलविलम्बादिति ध्येयम् ।।२।। न सन्मार्गाऽऽभिमुख्यं स्यादावर्तेषु परेषु तु 1 मिथ्यात्वच्छन्नबुद्धीनां दिङ्मूढानामिवाऽङ्गिनाम् ॥३॥ नेति । स्पष्टः ||३॥ तदा भवाभिनन्दी स्यात्सञ्ज्ञाविष्कम्भणं विना । धर्मकृत् कश्चिदेवाङ्गी लोकपङ्क्तौ कृताऽऽदरः ।।४।। तदेति । तदा = अचरमेष्वावर्तेषु अङ्गी = प्राणी ( भवाभिनन्दी स्यात् । अत एव तदा) सञ्ज्ञाविष्कम्भणं = आहारादिसञ्ज्ञोदयवचनलक्षणं विना कश्चिदेव धर्मकृत् लौकिक- लोकोत्तर प्रव्रज्यादिधर्मकारी | लोकपङ्क्तौ = लोकसदृशभावसम्पादनरूपायां कृताऽऽरः = कृतयत्नः स्यात् ।।४।। क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ॥ ५ ॥ १. मुद्रितप्रतौ '...बत्वात्' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ 'एकस्य' इत्यशुद्धः पाठः । मुद्रितप्रत्यन्तरे 'एक' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ '... दन्यस्य च' इत्यशुद्धः पाठः । ४. 'पंक्ति' इति मुद्रितप्रतौ । = ।।१७० । Page #176 -------------------------------------------------------------------------- ________________ 5 F F क्षुद्र इति । क्षुद्रः = कृपणः । लोभरतिः = याञ्चाशीलः । दीनः = सदैवाऽदृष्टकल्याणः। ॥ मत्सरी = परकल्याणदुःस्थितः । भयवान् = नित्यभीतः । शठो = मायावी । अज्ञो = मूर्खः। भवाभिनन्दी = “असारोऽप्येष संसारः सारवानिव लक्ष्यते । दधि-दुग्धाऽम्बुताम्बूल-पण्य-पण्याङ्गनादिभिः ।।" ( ) इत्यादिवचनैः संसाराऽभिनन्दनशीलः स्याद् = भवेत्, निष्फलाऽऽरम्भसङ्गतः सर्वत्राऽतत्त्वाऽभिनिवेशाद्वन्ध्यक्रियासम्पन्नः ।।५।। लोकाऽऽराधनहेतोर्या मलिनेनान्तरात्मना । 'क्रियते सक्रिया सा च लोकपङ्क्तिरुदाहृता ॥६॥ लोकेति । लोकाऽऽराधनहेतोः = लोकचित्ताऽऽवर्जननिमित्तं या मलिनेन = कीर्तिस्पहादिमालिन्यवता अन्तरात्मना चित्तरूपेण क्रियते सत्क्रिया शिष्टसमाचाररूपा सा च योगनिरूपणायां लोक-पङ्क्तिरुदाहृता योगशास्त्रज्ञैः ।।६।। महत्यल्पत्वबोधेन विपरीतफलाऽऽवहा । भवाभिनन्दिनो लोकपङ्क्त्या धर्मक्रिया मता ।।७।। महतीति । महति अधरीकृतकल्पद्रु-चिन्तामणि-कामधेनौ धर्मे अल्पत्वबोधेन अतितुच्छकीर्त्यादिमात्रहेतुत्वज्ञानेन विपरीतफलाऽऽवहा = दुरन्तसंसाराऽनुबन्धिनी भवाभिनन्दिनो १. हस्तादर्श '...व' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'लक्ष्यन्ते' इत्यशुद्धः पाठः । ३. हस्तादर्श 'पुण्य-पण्या...' इति पाठः । ४. 'वोयते' इत्यशुद्धः पाठो हस्तादर्श । ५. मुद्रितप्रतौ 'क्रियने' इत्यशुद्धः पाठः । . १७१।। Jain Education Interational For Private & Personal use only Page #177 -------------------------------------------------------------------------- ________________ , 외 = जीवस्य लोकपङ्क्त्या धर्मक्रिया मता । नाऽत्र केवलमफलत्वमेव किं तु विपरीतफलत्वमिति भावः ।।७।। धर्मार्थं सा शुभायाऽपि धर्मस्तु न तदर्थिनः ।। क्लेशोऽपीष्टो धनार्थं हि क्लेशार्थं जातु नो धनम् ।।८।। धर्मार्थमिति । धर्मार्थं = सम्यग्दर्शनादिमोक्षबीजाऽऽधाननिमित्तं सा = लोकपङ्क्तिः दान-सन्मानोचितसम्भाषणादिभिश्चित्रैरुपायैः शुभाय = कुशलाऽनुबन्धाय अपि । धर्मस्तु तदर्थिनो = लोकपत्यर्थिनो न शुभाय, हि = यतो धनार्थं क्लेशोऽपीष्टो धनार्थिनां राजसेवादी प्रवृत्तिदर्शनात् । क्लेशार्थं जातु = कदाचित् धनं न इष्टम् । न हि "धनान्मे क्लेशो भवतु” इति कोऽपीच्छति प्रेक्षावान् । तदिदमुक्तं “धर्मार्थं लोकपङ्क्तिः स्यात् कल्याणाङ्गं महामतेः । तदर्थं तु पुनर्धर्मः पापायाल्पधियामलम् ।।" (योगबिन्दु-९०) तथा “युक्तं' जनप्रियत्वं शुद्धं सद्धर्मसिद्धिफलदमलं । 'सद्धर्मप्रशंसनादेर्बीजाधानादिभावेन ।।" (षोडशक-४/७) इति ।।८।। अनाभोगवतः साऽपि धर्माऽहानिकृतो वरम् । शुभा तत्त्वेन नैकाऽपि प्रणिधानाद्यभावतः ॥९॥ १. हस्तादर्श ‘युक्तं' पदं नास्ति । किन्तु षोडशकानुसारेणापेक्षितत्वादस्माभिरिह तदुपात्तम् । २. हस्तादर्श 'धर्म...' इत्यादिः पाठः । षोडशकानुसारेणाऽपेक्षितः पाठोऽत्राऽस्माभिः योजितः । 파 이의 ||१७२।। Jain Education Intemational Page #178 -------------------------------------------------------------------------- ________________ ' छिर अनाभोगवत इति । अनाभोगवतः = सम्मूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः साऽपि = लोकपङ्क्त्या धर्मक्रियाऽपि धर्माऽहानिकृतो = धर्मे महत्त्वस्यैव यथास्थितस्याऽज्ञानाद् भवोत्कटेच्छाया अभावेन महत्यल्पत्वाऽप्रतिपत्तेर्धर्महान्यकारिणो वरं = अन्याऽपेक्षया मनाक् सुन्दरा | तत्त्वेन = तत्त्वतः पुनः नैकापि प्रणिधानाद्यभावतो नैकापि (शुभा) वरं, प्रणिधानादीनां क्रियाशुद्धिहेतुत्वात् ।।९।। तानेवाह प्रणिधानं प्रवृत्तिश्च तथा विघ्नजयस्त्रिधा । सिद्धिश्च विनियोगश्च एते' कर्मशुभाऽऽशयाः ।।१०।। प्रणिधानमिति । कर्मणि = क्रियायां शुभाशयाः = स्वपुष्टि-शुद्ध्यनुबन्धहेतवः शुभपरिणामाः (=कर्मशुभाशयाः)। पुष्टिरुपचयः, शुद्धिश्च ज्ञानादिगुणविघातिघातिकर्मह्रासोत्थनिर्मलतेत्यवधेयम् ।।१०।। प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपाऽनुगम् । परोपकारसारं च चित्तं पापविवर्जितम् ।।११।। प्रणिधानमिति । प्रणिधानं क्रियानिष्ठं अधिकृतधर्मस्थानादविचलितस्वभावम् । अधो- (१७३ । वृत्तिषु = स्वप्रतिपन्नधर्मस्थानादधस्ताद्वर्तमानेषु प्राणिषु कृपाऽनुगं = करुणाऽन्वितं १. हस्तादर्श 'नंत' इत्यशुद्धः पाठः । अन्यहस्तप्रतौ च 'पंथ' इत्यशुद्धः पाठः । १०/११ Jain Education Interational For Private & Personal use only Page #179 -------------------------------------------------------------------------- ________________ ।। (अधोवृत्तिकृपानुगम), न तु हीनगुणत्वेन तेषु द्वेषसमन्वितम् । परोपकारसारं च = परार्थनिष्पत्तिप्रधानं च चित्तं पापविवर्जितं = सावद्यपरिहारेण निरवद्यवस्तुविषयम् ।।११।। प्रवृत्तिः प्रकृतस्थाने यत्नाऽतिशयसम्भवा । अन्याऽभिलाषरहिता चेतःपरिणतिः स्थिरा ।।१२।। प्रवृत्तिरिति । प्रवृत्तिः प्रकृतस्थाने = अधिकृतधर्मविषये यत्नाऽतिशयसम्भवा = पूर्वप्रयत्नाऽधिकोत्तरप्रयत्नजनिता अन्याऽभिलाषेण अधिकृतेतरकार्याऽभिलाषेण रहिता (=अन्याऽभिलाषरहिता) चेतसः = अन्तरात्मनः परिणतिः (=चेतःपरिणतिः) स्थिरा = एकाग्रा, स्वविषय एव यत्नाऽतिशयाज्जाता तत्रैव च तज्जननीत्यर्थः ।।१२।। बाह्याऽन्तर्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः । कण्टक-ज्वर-मोहानां जयैर्विघ्नजयः समः ।।१३।। बाह्येति । बाह्यव्याधयः शीतोष्णादयः, अन्तर्व्याधयश्च ज्वरादयः, मिथ्यात्वं = भग वद्वचनाऽश्रद्धानम्, तेषां जयः = तत्कृतवैक्लव्यनिराकरणं तद्व्यङ्ग्याऽऽशयात्मकः (=बाह्यान्त१०/१३ र्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः) कण्ट्रक-ज्वर-मोहानां जयैः समो विघ्नजयः । इत्थं च हीनमध्यमोत्कृष्टत्वेनाऽस्य त्रिविधत्वं प्रागुक्तं व्यक्तीकृतम् । यथाहि- (१) कस्यचित्पुंसः कण्टकाऽऽकीर्णमार्गाऽवतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुः । तद्रहिते तु पथि १. हस्तादर्श 'प्रकृतिश्चायं' इत्यशुद्धः पाठः । २. हस्तादर्श 'बाह्यया...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'तथाहि' इति पाठः । ||१७४। Jain Education Interational Page #180 -------------------------------------------------------------------------- ________________ ग ल क्ष 5 hos da ण द्वा त्रिं शि का १०/१४ प्रवृत्तस्य निराकुलं गमनं सञ्जायते । एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः । ( २ ) तथा तस्यैव ज्वरवेदनाऽभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि तत्कर्तुमशक्नुवतः कण्टकविघ्नादभ्यधिको ज्वरविघ्नः । तज्जयस्तु निराकुलप्रवृत्तिहेतुः । एवं ज्वरविघ्नजयसमो द्वितीयो विघ्नजयः । ( ३ ) तस्यैव चाऽध्वनि जिगमिषोर्दिङ्मोहकल्पो मोहविघ्नः तेनाऽभिभूतस्य प्रेर्यमाणस्याऽप्यध्वनीनैर्न गमनोत्साहः कथञ्चित्प्रादुर्भवति । तज्जयस्तु स्वरसतो मार्गगमनप्रवृत्तिहेतुः, एवमिह मोहविघ्नजयसमस्तृतीयो विघ्नजयः इति । फलैकोन्नेयाः खल्वेते ।।१३।। सिद्धिस्तात्त्विकधर्माप्तिः साक्षादनुभवात्मिका । कृपोपकारविनयान्विता हीनादिषु क्रमात् ।।१४।। सिद्धिरिति । सिद्धि: तात्त्विकस्य अभ्यासशुद्धस्य न त्वाभ्यासिकमात्रस्य धर्मस्य अहिंसादेः आप्तिः उपलब्धिः (= तात्त्विकधर्माऽऽप्तिः) | साक्षाद् = अनुपचारेण अनुभवात्मिका = आत्मन आत्मना आत्मनि संवित्तिरूपा ज्ञान-दर्शन- चारित्रैकमूर्तिका । हीनादिषु क्रमात् कृपोपकारविनयाऽन्विता = हीने कृपान्विता, मध्यमे उपकारान्विता, अधिके च विनययुता || १४ || = = = १. हस्तादर्शे 'समः प्रथमो विघ्नजयः' इति नास्ति । २. मुद्रितप्रतौ 'दप्यधिको' इति पाठः । ३. हस्तादर्शे 'दिङ्मोहविघ्नः तेना...' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'दिङ्मोल्पो' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'भवात्मका' इति पाठः । ५. मुद्रितप्रतौ 'आत्मनि' इति पाठो नास्ति । ६. 'विनययुक्ता' इति मुद्रितप्रतौ पाठान्तरम् । ।। १७५।। Page #181 -------------------------------------------------------------------------- ________________ यो ग ल क्ष ण द्वा त्रिं शि का १०/१६ अन्यस्य योजनं धर्मे विनियोगस्तदुत्तरम् । कार्यमन्वयसम्पत्त्या तदवन्ध्यफलं मतम् ।। १५ ।। अन्यस्येति । अन्यस्य स्वव्यतिरिक्तस्य योजनं धर्मे अहिंसादौ विनियोगः । तदुत्तरं सिद्ध्युत्तरं कार्यं तद् अन्वयसम्पत्त्या = अविच्छेदसिद्ध्या अवन्ध्यफलं = अव्यभिचारिफलं मतम्, स्वपरोपकारबुद्धिलक्षणस्याऽनेकजन्मान्तरसन्ततोद्बोधेन प्रकृष्टधर्मस्थानाऽवाप्तिहेतुत्वात् 118411 = एतैराशययोगैस्तु विना धर्माय न क्रिया । प्रत्युत प्रत्यपायाय लोभ - क्रोधक्रिया यथा ।।१६ ॥ एतैरिति । एतैः प्रणिधानादिभिः आशययोगैस्तु विना धर्माय न क्रिया बाह्यकायव्यापाररूपा प्रत्युत अन्तर्मालिन्यसद्भावात् प्रत्यपायाय = इष्यमाणप्रतिपक्षविघ्नाय यथा लोभक्रोधक्रिया कूटतुलादि-सङ्ग्रामादिलक्षणा । तदुक्तं " तत्त्वेन तु पुनर्नैकाऽप्यत्र धर्मक्रिया मता । तत्प्रवृत्त्यादिवैगुण्याल्लोभ-क्रोधक्रिया यथा ।। " ( योगबिन्दु ९२ ) ।। १६ ।। तस्मादचरमावर्तेष्वयोगो योगवर्त्मनः । १. मुद्रितप्रतौ 'प्रतिक्ष' इति अशुद्धः पाठः । २ हस्तादर्शादौ प्रकृत्या' इति पाठः, योगबिन्दी 'प्रवृत्त्या' इति पाठात्स एवाऽत्राऽऽदृतः । ।।१७६ । Page #182 -------------------------------------------------------------------------- ________________ FF छ कि योग्यत्वेऽपि तृणादीनां घृतत्वादेस्तदा यथा ॥१७॥ तस्मादिति । तस्मात् = प्रणिधानाद्यभावात् अचरमावर्तेषु योगवर्त्मनो = योगमार्गस्य अयोगः = असम्भवः, योग्यत्वेऽपि = योगस्वरूपयोग्यत्वेऽपि तृणादीनां तदा = तृणादिकाले यथा घृतत्वादे-रयोगः । तृणादिपरिणामकाले तृणादेघृतादि परिणामतथा स्वरूपयोग्यत्वेऽपि घृतादिपरिणाम-सहकारियोग्यताऽभावाद्यथा न घृतादिपरिणामस्तथा प्रकृतेऽपि भावनीयम् । ____ अत एव सहकारियोग्यताऽभाववति तत्र काले कार्याऽनुपधानं तद्योग्यताऽभाववत्त्वेनैव साधयितुमभिप्रेत्याह हरिभद्रसूरिः “तस्मादचरमावर्तेष्वध्यात्मं नैव युज्यते । कायस्थितितरोर्यद्वत्तज्जन्मस्वामरं सुखम् ।। (योगबिन्दु-९३) तैजसानां च जीवानां भव्यानामपि नो तदा । 'यथा चारित्रमित्येवं नान्यदा योगसम्भवः ।।" (योगबिन्दु-९४) इति ।।१७।। 'नवनीतादिकल्पस्तच्चरमावर्त इष्यते । अत्रैव विमलो भावो गोपेन्द्रोऽपि यदभ्यधात् ॥१८॥ नवनीतादीति । नवनीतादिकल्पो = घृतपरिणामनिबन्धननवनीतदधिदुग्धादितुल्यः तत् १०/१८ ।।।।१७७।। १. 'तापिद' इत्यशुद्धः पाठः मुद्रितप्रतौ । २. मुद्रितप्रतो तथा' पदं नास्ति । ३. हस्तादर्श 'घृणा...' इत्यशुद्धः पाठः। ४. हस्तादर्श 'घृतादिपरिणाम' नास्ति । ५. हस्तादर्श 'योग्यता...' इति पाठः । ६. मुद्रितप्रतौ 'तथा' इति पाठः । ७. हस्तादर्श 'नवनीतानि' इत्यशुद्धः पाठः । Page #183 -------------------------------------------------------------------------- ________________ ग ल क्ष ण द्वा त्रिं शि का १०/२० = तस्मात् चरमावर्त इष्यते योगपरिणामनिबन्धनम् । अत्रैव चरमावर्त एव विमलो भावो भवाऽभिष्वङ्गाऽभावाद् भवति । यद् गोपेन्द्रोऽपि अभ्यधाद् भङ्ग्यन्तरेण । । १८ ।। अनिवृत्ताऽधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासाऽपि प्रवर्तते ।। १९ ।। अनिवृत्तेति । अनिवृत्तः प्रतिलोमशक्त्याऽन्तरलीनोऽधिकारः पुरुषाऽभिभवनरूपो यस्यास्तस्यां *( = अनिवृत्ताधिकारायां) प्रकृतौ सर्वथैव हि = सर्वैरेव प्रकारैः, अपुनर्बन्धस्थानस्याप्यप्राप्तावित्यर्थः, न = नैव पुंसः तत्त्वमार्गेऽस्मिन् वक्तुमुपक्रान्ते जिज्ञासाऽपि पुनस्तदभ्यास इत्यपिशब्दार्थः, प्रवर्तते सञ्जायते ।। १९ ।। साधिकारप्रकृतिमत्यावर्ते हि नियोगतः । ज्ञातुमिच्छाऽपि, किं पथ्येच्छेव न जिज्ञासा क्षेत्ररोगोदये भवेत् ॥ २० ॥ साधिकारेति । साधिकारा पुरुषाभिभवप्रवृत्ता या 'प्रकृतिस्तद्वति (=साधिकारप्रकृतिमति ) आवर्ते हि नियोगतो = निश्चयतः जिज्ञासा = तत्त्वमार्गपरिज्ञानेच्छा न भवेत्, क्षेत्ररोगोदय इव पथ्येच्छा । क्षेत्ररोगो नाम रोगान्तराऽऽधारभूतः कुष्ठादिरोगः । ततो यथा पथ्यापथ्यधीविपर्यासस्तथा प्रकृतेऽपि ।। २० ।। पुरुषाऽभिभवः कश्चित्तस्यामपि हि हीयते । १. 'भिभप्र' इति मुद्रितप्रतावशुद्धः पाठः । २ हस्तादर्शादी 'प्रवृत्ति रित्यशुद्धः पाठः । = = = ।।१७८ । Page #184 -------------------------------------------------------------------------- ________________ है कि युक्तं तेनैतदधिकमुपरिष्टाद् भणिष्यते ।।२१।। पुरुषेति। तस्यामपि हि = जिज्ञासायामपि हि सत्यां कश्चित् पुरुषाऽभिभवः प्रकृतेः हीयते = निवर्तते। न ह्येकान्तेनाऽक्षीणपापस्य विमलो भावः सम्भवति । तेनैतद् गोपेन्द्रोक्तं युक्तम् । अधिकं = अपरिणाम्यात्मपक्षे तदभिभव-तन्निवृत्त्याद्यनुपपत्तिलक्षणं उपरिष्टाद् = अग्रिमद्वात्रिंशिकायां भणिष्यते ।।२१।। भावस्य 'मुख्यहेतुत्वं तेन मोक्षे व्यवस्थितम् । तस्यैव चरमावर्ते क्रियाया अपि योगतः ॥२२॥ भावस्येति । तेन भावस्य = अन्तःपरिणामस्य मोक्षे मुख्यहेतुत्वं व्यवस्थितम् । तेन स एव योग इत्युक्तं भवति । तस्यैव योगतश्चरमावर्ते क्रियाया अपि मोक्षे मुख्यहेतुत्वं, अतस्तस्या अपि योगत्वमिति भावः ।।२२।। रसाऽनुवेधात्ताम्रस्य हेमत्वं जायते यथा । क्रियाया अपि सम्यक्त्वं तथा भावाऽनुवेधतः ।।२३।। रसानुवेधादिति । ताम्रस्य रसाऽनुवेधात् = सिद्धरससम्पर्कात् यथा हेमत्वं जायते। तथा क्रियाया अपि भावानुवेधतः सम्यक्त्वं = मोक्षसम्पादनशक्तिरूपम् ।।२३।। १. मुद्रितप्रतौ 'प्रकृते' इति अशुद्धः पाठः । २. 'मोक्षहेतुत्वं' इति मुद्रितप्रतौ हस्तादर्श च पाठः । ३. मुद्रितप्रतौ 'भावः' पदं नास्ति । १०/२३ ।।।१७९। Jain Education Interational Page #185 -------------------------------------------------------------------------- ________________ FF छळ भावसात्म्येऽत एवाऽस्या भङ्गेऽपि व्यक्तमन्वयः । सुवर्णघटतुल्यां तां ब्रुवते सौगता अपि ।।२४।। भावेति । अत एवाऽस्याः क्रियाया भावसात्म्ये स्वजननशक्त्या भावव्याप्तिलक्षणे सति भङ्गेऽपि = तथाविधकषायोदयान्नाशेऽपि व्यक्तं = प्रकटं अन्वयो भावाऽनुवृत्तिलक्षणः, तद्व्यक्त्यभावेऽपि तच्छक्त्यनपगमात्। अत एव तां भावशुद्धां' क्रियां सौगता अपि सुवर्णघटतुल्यां ब्रुवते । यथा हि सुवर्णघटो भिद्यमानोऽपि न सुवर्णानुबन्धं मुञ्चति एवं शुभक्रिया तथाविधकषायोदयाद् भग्नाऽपि शुभफलैवेति । तदिदमुक्तं- “भाववृद्धिरतोऽवश्यं सानुबन्धं शुभोदयम् । गीयतेऽन्यैरपि ह्येतत्सुवर्णघटसन्निभम्।।” (यो.बि.३५१) इति ।।२४।। शिरोदकसमो भावः क्रिया च खननोपमा । ___भावपूर्वादनुष्ठानाद् भाववृद्धिरतो ध्रुवा ।।२५।। ___शिरेति । शिरोदकसमः = तथाविधकूपे सहजप्रवृत्त शिराजलतुल्यो भावः । क्रिया १०/२५ || च खननोपमा शिराऽऽश्रयकूपादिखननसदृशी । अतो भावपूर्वादनुष्ठानाद् भाववृद्धिर्बुवा, १. हस्तादर्श 'शुद्ध' इत्यशुद्धः पाठः । अन्यस्मिन् हस्तादर्श च 'भावशुद्धिक्रियां' इति पाठः । हस्तादर्शविशेषे च 'भावशुद्धक्रियां' इति पाठान्तरम् । २. 'विद्यमानो' इति मुद्रितप्रतावशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्वर्णा...' इति पाठान्तरम् । ४. हस्तादर्श 'प्रवृत्ति...' इत्यशुद्धः पाठः । के ॥।॥१८० Jain Education Interational Page #186 -------------------------------------------------------------------------- ________________ 'F छ // जलवृद्धौ कूपखननस्येव भाववृद्धौ क्रियाया हेतुत्वात् । भावस्य दलत्वेऽपि बहुदलमेलनरूपाया । || वृद्धेस्तदन्वयव्यतिरेकाऽनुविधानात् ।।२५।। मण्डूकचूर्णसदृशः क्लेशध्वंसः क्रियाकृतः । तद्भस्मसदृशस्तु स्याद् भावपूर्वक्रियाकृतः ।।२६।। मण्डूकेति । क्रियाकृतः = केवलक्रियाजनितः क्लेशध्वंसो = रागादिपरिक्षयः मण्डूकचूर्णसदृशः, पुनरुत्पत्तिशक्त्यन्वितत्वात् । भावपूर्वक्रियाकृतस्तु तद्भस्मसदृशः = मण्डूकभस्मसदृशः स्यात्, पुनरुत्पत्तिशक्त्यभावात् । एवं च क्लेशध्वंसविशेषजनकः शक्तिविशेष एव क्रियायां भाववृद्ध्यनुकूल इति फलितम् ।।२६।। तथा च विचित्रभावद्वारा तत् क्रिया हेतुः शिवं प्रति । अस्या व्यञ्जकताप्येषा परा ज्ञाननयोचिता ।।२७।। विचित्रेति । (तत् = तस्मात्) विचित्रो भावोऽध्यात्मादिरूपः, तद्द्वारा (=विचित्र भावद्वारा) क्रिया शिवं प्रति हेतुः, दण्ड इव चक्रभ्रमिद्वारा घटे । 'कारणता च तस्याः १०/२७|| शक्तिविशेषेण न तु भावपूर्वकत्वेनैव, भावस्याऽन्यथासिद्धिप्रसङ्गात् । ___ अस्याः क्रियाया व्यञ्जकताप्येषा हेतुताविशेषरूपा परा । 'सत एव भावस्य ज्ञापकत्व१. हस्तादर्श ...चूर्णेन...' इति पाठान्तरम् । २. हस्तादर्श '...शक्यभावात्' इति त्रुटितः पाठः । ३. हस्तादर्श 'करण...' इति पाठः । ४. मुद्रितप्रती 'अत' इत्यशुद्धः पाठः । ॥१८१ Jain Education Interational For Private & Personal use only Page #187 -------------------------------------------------------------------------- ________________ FFE 5 ।। रूपाऽभिव्यञ्जकता' ज्ञाननयोचिता = ज्ञाननयप्राधान्योपयुक्ता, न तु व्यवहारतो वास्तवी, | अन्यथा सत्कार्यवादप्रसङ्गात् इति भावः ।।२७।। व्यापारश्चिद्विवर्तत्वाद्वीर्योल्लासाच्च स स्मृतः । विविच्यमाना भिद्यन्ते परिणामा हि वस्तुनः ।।२८।। व्यापार इति । स योगः चिद्विवर्तत्वात् = ज्ञानपरिणामात् वीर्योल्लासाद् = आत्मशक्तिस्फोरणात च व्यापारः स्मृतः, क्रमवतः प्रवृत्तिविषयस्य व्यापारत्वात । एतेन द्रव्यादेर्व्यवच्छेदः । हि = यतः विविच्यमानाः = भेदनयेन गृह्यमाणा वस्तुनः परिणामा भिद्यन्ते । तथा च न व्यापाराऽऽश्रयस्याऽपि व्यापारत्वमिति भावः ।।२८।। एतदेवाह जीवस्थानानि सर्वाणि गुणस्थानानि मार्गणाः । परिणामा विवर्तन्ते जीवस्तु न कदाचन ॥२९ ।। ___जीवस्थानानीति । सर्वाणि = चतुर्दशाऽपि जीवस्थानानि, 'गुणस्थानानि तावन्त्येव, १०/२९ मार्गणाः = गतीन्द्रियाद्याः परिणामा विवर्तन्ते = दशाविशेष भजन्ते । ___ जीवस्तु कदाचन न विवर्तते, तस्य शुद्धज्ञायकभावस्यैकस्वभावत्वात् ।।२९।। १. हस्तादर्श ...कवा' इत्यशुद्धः पाठः । २. हस्तादर्श 'माण्या' इत्यशुद्धः पाठः । ३. हस्तादर्श 'गुणस्थानानि' पदं नास्ति । के १८२। Jain Education Interational For Private & Personal use only Page #188 -------------------------------------------------------------------------- ________________ उपाधिः कर्मणैव स्यादाचारादौ श्रुतं ह्यदः। विभावाऽनित्यभावेऽपि ततो 'नित्यः स्वभाववान् ।।३०।। उपाधिरिति । आचारादौ हि' अदः श्रुतं-यदुत उपाधिः कर्मणैव स्यात् “कम्मुणा उवाही जायइ ति" (आचा.१/३/१/सू.११०) वचनात्। ___ ततो विभावानां = मिथ्यात्वगुणस्थानादारभ्याऽयोगिगुणस्थानं यावत् प्रवर्तमानानामौपाधिकभावानां अनित्यभावेऽपि (=विभावाऽनित्यभावेऽपि) स्वभाववान् = आत्मा नित्यः, तस्योपाध्यजनितत्वात्। _ "उपाधिनिमित्तका अप्यात्मनो भावास्तद्रूपा' एव युज्यन्ते” इति चेत् ? सत्यम्, शुद्धनयदृष्ट्याऽऽत्म-पुद्गलयोः स्वस्वशुद्धभावजननचरितार्थत्वे 'संयोगजभावस्य भित्तौ खटिकाश्चेतिम्न इव विविच्यमानस्यैकत्राप्यनन्त भवन मिथ्यात्वात् ।।३०।। द्रव्यादेः स्यादभेदेऽपि शुद्धभेदनयादिना । इत्थं व्युत्पादनं युक्तं नयसारा हि देशना ॥३१॥ ___ द्रव्यादेरिति। द्रव्यादेः परिणामेभ्यः स्यात् = कथञ्चिद् अभेदेऽपि शुद्धः सः केवलो १. 'नित्यस्व...' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'भाववत्' इति अशुद्धः पाठः । ३. मुद्रितप्रतौ 'हि' पदं नास्ति । ४. हस्ताद” 'जायति' इति पाठः । ५. मुद्रितप्रतौ 'द्रुपा' इत्यशुद्धः पाठः । ६. हस्तादर्श 'संयोगस्य भा...' इत्यशुद्धः पाठः । ७. ...नन्तभावेन' इत्यशुद्धः पाठो मुद्रितप्रतौ । ८. मुद्रितप्रतौ 'स' इति पदं नास्ति । हस्तादर्शान्तरे च 'से' इत्यशुद्धः पाठः । १०/३१ ॥१८३।। Jain Education Interational Page #189 -------------------------------------------------------------------------- ________________ 외의 । यो भेदनयस्तदादिना (=शुद्धभेदनयादिना) । इत्थं = उक्तरीत्या व्युत्पादनं युक्तम् । नयसारा = नयप्रधाना हि देशना शास्त्रे प्रवर्तते । अन्यथा तु 'योगपरिणत आत्माऽपि योग इतीष्यत एव, चरणाऽऽत्मनोऽपि भगवत्यां प्रतिपादनादिति भावः ।।३१।। योगलक्षणमित्येवं जानानो जिनशासने । परोक्तानि परीक्षेत परमानन्दबद्धधीः२ ।।३२॥ योगलक्षणमिति । स्पष्टः ।।३२।। ।। इति योगलक्षणद्वात्रिंशिका ।।१०।। 괴 ॥ अथ पातञ्जलयोगलक्षणद्वात्रिंशिका ।।११।। स्वकीयं योगलक्षणमन्यदीययोगलक्षणे विचारिते सति स्थिरीभवतीति तदर्थमय मारम्भः चित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः । द्रष्टुः स्वरूपावस्थानं यत्र स्यादविकारिणि ।।१।। चित्तेति । पतञ्जलिस्त चित्तवृत्तिनिरोधं योगमाह । तथा च सूत्रं -"योगश्चित्तवृत्तिनिरोध 적 파 ॥१८४। का ११/१ पागाश्चत्तवृत्तिनिरोध १. मुद्रितप्रतौ 'अन्यथाऽनुयोग...' इत्यशुद्धः पाठः । २. हस्तादर्श 'बुद्धधीः' इत्यशुद्धः पाठः । ३. हस्तादर्श'...न्यचीय...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'यस्मात्' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #190 -------------------------------------------------------------------------- ________________ (योगसूत्र १-२)” इति । तत्र चित्तपदार्थं व्याचष्टे- द्रष्टुः पुरुषस्य स्वरूपे = चिन्मात्ररूपतायां अवस्थानं (=स्वरूपावस्थानं) यत्र = यस्मिन् स्यात् अविकारिणि = व्युत्पन्नविवेकख्यातेश्चित्सङ्कमाभावात् कर्तृत्वाभिमाननिवृत्तौ 'प्रोन्मुक्तपरिणामे । तथा च सूत्रं- “तदा द्रष्टुः स्वरूपा(पेऽ)वस्थानमिति” (योगसूत्र १-३) ।।१।। आपन्ने विषयाकारं यत्र चेन्द्रियवृत्तितः । पुमान् भाति तथा चन्द्रश्चलन्नीरे चलन् यथा ॥२॥ ___ 'आपन्न' इति । यत्र चेन्द्रियवृत्तितः = इन्द्रियवृत्तिद्वारा विषयाकारमापन्ने = विषयाकारपरिणते सति पुमान् = पुरुषः तथा भाति यथा चलन्नीरे चलन चन्द्रः स्वगतधर्माऽध्यारोपाऽधिष्ठानत्वेन प्रतीयत इत्यर्थः । तथा च सूत्रं- "वृत्तिसारूप्यमितरत्रेति" (योगसूत्र १-४) ।।२।। तच्चित्तं वृत्तयस्तस्य पञ्चतय्यः प्रकीर्तिताः । मानं भ्रमो विकल्पश्च निद्रा च स्मृतिरेव च ।।३।। 'तदिति । तच्चित्तम् । तस्य वृत्तिसमुदायलक्षणस्य अवयविनोऽवयवभूताः पञ्चतय्यो वृत्तयः प्रकीर्तिताः। तदुक्तं- “वृत्तयः पञ्चतय्यः 'क्लिष्टाक्लिष्टाः" (योगसूत्र १-५ साङ्ख्य- १. मुद्रितप्रतौ 'प्रोन्मुक्तपरिणामेन' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'द्वरा' इत्यशुद्धः पाठः । ३. हस्तादर्श ...तय्यः क्लिष्टाः' इति त्रुटितः पाठः । हस्तादर्शविशेषे च 'क्लिष्टाक्लिष्टाः' पदं नास्ति । १८५। ११/३ Jain Education Interational For Private & Personal use only Page #191 -------------------------------------------------------------------------- ________________ । सूत्र २।३३)। क्लिष्टाः = क्लेशाऽऽक्रान्ता तद्विपरीता अपि तावत्य एव । ता एवोद्दिशति मानं = प्रमाणं, भ्रमो, विकल्पः (च), निद्रा च स्मृतिरेव च । तदाह- "प्रमाण'विपर्यय-विकल्प-निद्रा-स्मृतयः” (योगसूत्र १-६) ।।३।। आसां क्रमेण लक्षणमाह - मानं ज्ञानं यथार्थं स्यादतस्मिंस्तन्मतिभ्रमः । पुंसश्चैतन्यमित्यादौ विकल्पोऽवस्तुशाब्दधीः ॥४॥ ___ मानमिति । मानं यथार्थं = तद्वति तदवगाहि ज्ञानं स्यात् । तदाह- "अविसंवादि ज्ञानं प्रमाणमिति" (राजमार्तण्ड १/७) । भ्रमोऽतस्मिन = तदभाववति तन्मतिः. यदाह"विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठं (योगसूत्र १-८)"। संशयोऽपि 'स्थाणुर्वा पुरुषो वे'त्यतद्रूपप्रतिष्ठत्वादत्रैवान्तर्भवति। पुंसश्चैतन्यमित्यादौ [अवस्तुशाब्दधीः =] अवस्तुविषया शाब्दधीः = विकल्पः। अत्र हि 'देवदत्तस्य कम्बल' इतिवच्छब्दजनिते ज्ञाने षष्ठ्यर्थो' भेदोऽध्यवसीयते, तमिहाविद्यमानमपि समारोप्य प्रवर्ततेऽध्यवसाय: । वस्तुतस्तु चैतन्यमेव पुरुष इति । तदाह- "शब्दज्ञानाऽनुपाती' वस्तुशून्यो विकल्पः (योगसूत्र १-९)” इति । भ्रमविशेष एवायमस्त्विति चेत् ? न, तथाविधशब्दजन्यजनकभावेनाऽस्य विलक्षणत्वात्, विषयाऽभावज्ञानेऽपि प्रवृत्तेश्च । यद् भोजः-“वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स ११/४ ॥ १. मुद्रितप्रतौ 'प्रामाण...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'निद्राः स्मृ...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'हि' नास्ति । ४. हस्तादर्श 'षष्ठ्या' इति पाठः । ५. हस्तादर्श '...पाप्ती' इत्यशुद्धः पाठः । F EFFEF ॥१८६। Jain Education Interational For Private & Personal use only Page #192 -------------------------------------------------------------------------- ________________ 4 4 43 44 11 विकल्प इत्युच्यते” (योगसूत्र १/९ राजमार्तण्ड) इति ।।४।। निद्रा च वासनाऽभावप्रत्ययाऽऽलम्बना स्मृता । सुखादिविषया वृत्तिर्जागरे स्मृतिदर्शनात् ।।५।। ___ निद्रा चेति । अभावप्रत्ययाऽऽलम्बना = 'भावप्रत्ययालम्बनविरहिता वासना च निद्रा स्मृता, सन्ततमुद्रिक्तत्वात्तमसः । समस्तविषयपरित्यागेन या प्रवर्तत इत्यर्थः । तदाह"अभावप्रत्ययालम्बना वृत्तिर्निद्रा” (योगसूत्र १-१०) । इयं च जागरे = जाग्रदवस्थायां स्मृतिदर्शनात् = 'सुखमहमस्वाप्सं' इति स्मृत्यालोचनात् सुखादिविषया वृत्तिः, स्वापकाले सुखाऽननुभवे तदा तत्स्मृत्यनुपपत्तेः ।।५।। तथानुभूतविषयाऽसम्प्रमोषः स्मृतिः स्मृता'। आसां निरोधः शक्त्याऽन्तःस्थितिहेतौ बहिर्हतिः ।।६।। तथेति । तथाऽनुभूतविषयस्य = प्रमाण-विपर्यय-विकल्प-निद्रानुभूतार्थस्य असम्प्रमोषः = संस्कारद्वारेण बुद्धावुपारोहः (=तथाऽनुभूतविषयाऽसम्प्रमोषः) स्मृतिः स्मृता । तदाह"अनुभूतविषयासम्प्रमोषः स्मृतिरिति” (योगसूत्र १-११)। आसां = उक्तानां पञ्चानामपि वृत्तीनां हेतौ = स्वकारणे शक्त्या = शक्तिरूपतया अन्तः = बाह्याऽभिनिवेशनि- १. हस्तादर्श 'भावप्रत्यया' नास्ति । २. हस्तादर्श 'स्मृता' पदं नास्ति । ३. हस्तादर्श 'वैक..' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'निदा' इत्यशुद्धः पाठः । ५. हस्तादर्श'...कारणै' इत्यशुद्धः पाठः । ६. हस्तादर्श 'तयां' इत्यशुद्धः पाठः । १८७।। Jain Education Intemational For Private & Personal use only Page #193 -------------------------------------------------------------------------- ________________ ।। वृत्त्या' अन्तर्मुखतया स्थितिः = अवस्थानं बहिर्हतिः = प्रकाश-प्रवृत्ति-नियमरूपविघातः । एतदुभयं निरोध उच्यते ।।६।। स चाभ्यासाच्च वैराग्यात्तत्राऽभ्यासः स्थितौ श्रमः । __ दृढभूमिः स च चिरं नैरन्तर्याऽऽदराऽऽश्रितः ।।७।। ___ ‘स चेति । स च = उक्तलक्षणो निरोधश्च अभ्यासाद् वैराग्याच्च भवति। तदुक्तं“अभ्यासवैराग्याभ्यां तन्निरोध इति” (योगसूत्र १-१२) । तत्राभ्यासः स्थितौ = वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठे परिणाम श्रमः = यत्नः पुनः पुनस्तथात्वेन चेतसि 'निवेशनरूपः । तदाह- "तत्र स्थितौ यत्नोऽभ्यास इति” (योगसूत्र १-१३)। स च चिरं = चिरकालं नैरन्तर्येण आदरेण चाश्रितो (=नैरन्तर्यादराश्रितः) दृढभूमिः = स्थिरो भवति । तदाह‘स तु दीर्घकाल-नैरन्तर्यसत्काराऽऽसेवितो दृढभूमि रिति (योगसूत्र १-१४) ।।७।। “या वशीकारसंज्ञा स्याद् दृष्टाऽऽनुश्रविकाऽर्थयोः । वितृष्णस्याऽपरं तत् स्याद्वैराग्यमनधीनता ॥८॥ येति । दृष्टः = इहैवोपलभ्यमानः शब्दादिः। आनुश्रविकश्च अर्थो = देवलोकादिः, । अनुश्रूयते गुरुमुखादित्यनुश्रवः = वेदः, ततः प्रतीयमान आनुश्रविक इति व्युत्पत्तेः । तयोः १. हस्तादर्श 'निवृत्त्यां' इत्यशुद्धः पाठः। २. मुद्रितप्रतौ 'बहिहतिः' इत्यशुद्धः पाठः। ३. हस्तादर्श '...विद्यात' इत्यशुद्धः पाठः । ४. हस्तादर्श 'निवेशेन...' इति पाठः । ५. हस्तादर्श 'यो' इत्यशुद्धः पाठः । ।।१८८ ११/८ Jain Education Interational For Private & Personal use only Page #194 -------------------------------------------------------------------------- ________________ 2 94 4 4 424 ।। (=दृष्टानुश्रवि-कार्थयोः) परिणामविरसत्वदर्शनात् वितृष्णस्य = विगतगर्द्धस्य या वशीकारसंज्ञा = “ममैवैते' वश्या नाऽहमेतेषां वश्यः” इत्येवं विमर्शात्मिका (स्यात्) तत् अपरं = वक्ष्यमाणपरवैराग्यात्पाश्चात्यं वैराग्यं स्यात् अनधीनता = फलतः पराधीनताऽभावरूपं । ____ तदाह- “दृष्टानुश्रविकविषयवितृष्ण्यस्य' वशीकारसंज्ञा वैराग्यमिति” (योगसूत्र १-१५) ।।८।। तत्परं जातपुंख्यातेर्गुणवैतृष्ण्यसंज्ञकम् । बहि:मुख्यमुत्पाद्य वैराग्यमुपयुज्यते ॥९॥ ___'तदिति । जातपुंख्यातेः = उत्पन्नगुणपुरुषविवेकख्यातेः । गुणवैतृष्ण्यसंज्ञकं = गुणेष्वपि तृष्णाऽभावलक्षणं यथार्थाऽभिधानं परं = प्रकृष्टं तत् = वैराग्यम् । तदाह“तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमिति (योगसूत्र १-१६)"। प्रथमं हि विषयविषयं, द्वितीयं च गुणविषयमिति भेदः । बहिः = बाह्यविषये वैमुख्यं = दोषदर्शनजत्वात् प्रवृत्त्यभावलक्षणं उत्पाद्य वैराग्यमुपयुज्यते = उपकाराऽऽधायकं भवति ॥९॥ निरोधे पुनरभ्यासो जनयन स्थिरतां दृढाम् । परमानन्दनिष्यन्दशान्तश्रोतःप्रदर्शनात् ॥१०॥ १. हस्तादशैं 'ममैव' इति त्रुटितः पाठः । २. मुद्रितप्रतौ 'वैतृष्ण्यस्य' इति पाठः । ३. हस्तादर्श ....ख्यतेः' इति त्रुटितः पाठः । का ।।।।१८९। ११/१० Page #195 -------------------------------------------------------------------------- ________________ पा त ञ्ज 35 ho do ल ग ल क्ष ण द्वा त्रिं शि का ११/११ 'निरोध' इति । निरोधे चित्तवृत्तिनिरोधे अभ्यासः पुनर्दृढां = अतिशयितां स्थिरतां = `अवस्थितिलक्षणां जनयन् परमानन्दनिष्यन्दस्य = अतिशयितसुखार्णवनिर्झरभूतस्य शान्तश्रोतसः = शान्तरसप्रवाहस्य प्रदर्शनात् (= परमानन्दनिष्यन्दशान्तश्रोतः प्रदर्शनात् ) उपयुज्यते इत्यन्वयः, तत्रैव सुखमग्नस्य मनसोऽन्यत्र गमनाऽयोगात् । इत्थं च चित्तवृत्तिनिरोध इति योगलक्षणं सोपपत्तिकं व्याख्यातम् ।।१०।। अथैतद्दूषयन्नाह - = = न चैतद्युज्यते किञ्चिदात्मन्यपरिणामिनि । कूटस्थे स्यादसंसारोऽमोक्षो वा तत्र हि ध्रुवम् ।।११।। 'न चे 'ति । न चैतत् = पूर्वोक्तं किञ्चित् अपरिणामिनि आत्मनि युज्यते । आत्मनि हि कूटस्थे= " एकान्तैकस्वभावे सति । असंसारः = संसाराभाव एव स्यात्, पुष्करपत्रवन्निर्लेपस्य तस्याऽविचलितस्वभावत्वात् । तत्र = = अमोक्षः प्रकृतितद्विकारोपहितस्वभावे च तस्मिन् संसारदशायामभ्युपगम्यमाने ध्रुवं निश्चितं मोक्षाभावो वा स्यात्, मुक्तिदशायां पूर्वस्वभावस्य त्यागे कौटस्थ्यहानिप्रसङ्गात् ।। ११ ।। १. मुद्रितप्रतौ 'निरोधचि..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'अवस्थित ' इति पाठः । ३. मुद्रितप्रतौ 'श्रान्त..' इति अशुद्धः पाठः । ४. मुद्रितप्रती 'अथत.' इति त्रुटितः पाठः । ५. मुद्रितप्रतौ 'एकान्तिक ....' इति पाठः । ।।१९० ।। Page #196 -------------------------------------------------------------------------- ________________ F BEF 'प्रकृतेरपि चैकत्वे मुक्तिः सर्वस्य नैव वा । जडायाश्च पुमर्थस्य कर्तव्यत्वमयुक्तिमत् ।।१२।। प्रकृतेरिति । प्रकृतेरपि चैकत्वेऽभ्युपगम्यमाने सर्वस्य मुक्तिः स्यात्, नैव वा कस्यचित् स्यात् । एकं प्रति विलीनोपधानायास्तस्याः सर्वान्प्रति तथात्वात्, एकं प्रत्यतादृश्याश्च सर्वान् प्रत्यतथात्वात् । अन्यथा स्वभावभेदे प्रकृतिभेदप्रसङ्गात् । किं चात्मनोऽव्याप्रियमाणस्य भोगसम्पादनार्थमेव प्रकृतिः प्रवर्तत इति भवतामभ्युपगमः । तदुक्तं- “द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः (योगसूत्र २-२०) । तदर्थ एव दृश्यस्यात्मेति" (यो.सू.२-२१) । जडायाश्च तस्याः पुमर्थस्य कर्तव्यत्वमयुक्तिमत् । “पुरुषार्थो मया कर्तव्य" इत्येवंविधाऽध्यवसायो हि पुरुषार्थकर्तव्यता, तत्स्वभावे च 'प्रकृतेर्जडत्वव्याघात इति ।।१२।। अत्र स्वसिद्धान्ताऽऽशयं प्रकटयन् पूर्वपक्षी शङ्कते ननु चित्तस्य वृत्तीनां सदा ज्ञाननिबन्धनात् । चिच्छायासंक्रमाद्धेतोरात्मनोऽपरिणामिता ।।१३।। नन्विति । ननु चित्तस्य वृत्तीनां प्रमाणादिरूपाणां सदा = सर्वकालमेव । ज्ञाननिबन्धनात् = 'परिच्छेदहेतोः चिच्छायासक्रमाद् हेतोः = लिङ्गात् आत्मनोऽपरिणामिताऽनुमीयते । १. मुद्रितप्रतौ 'प्रकृरतेरपि' इत्यशुद्धः पाठः । २. हस्तादर्श 'तत्सद्भावे' इति पाठान्तरम् । ३. हस्तादर्श 'प्रकृतिज...' इति पाठः । ४. मुद्रितप्रतौ 'परि...' इत्यशुद्धः पाठः । ॥१९ ॥ ११/१३ || Page #197 -------------------------------------------------------------------------- ________________ 외 외 역외 इदमुक्तं भवति-पुरुषस्य चिद्रूपस्य सदैवाऽधिष्ठातृत्वेन सिद्धस्य यदन्तरङ्गं निर्मलं ज्ञेयं सत्त्वं तस्याऽपि सदैव व्यवस्थितत्वात्तद्येनाऽर्थेनोपरक्तं भवति तथाविधस्य दृश्यस्य चिच्छायासंक्रान्तिसद्भावात् सदा ज्ञातृत्वं सिद्धं भवति । परिणामित्वे त्वात्मनश्चिच्छायासङ्क्रमस्याऽसार्वदिकत्वात् सदा ज्ञातृत्वं न स्यादिति । तदि-दमुक्तं- “सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्याऽपरिणामित्वादिति” (योगसूत्र ४१८)।।१३।। ननु चित्तमेव सत्त्वोत्कर्षाद्यदि प्रकाशकं तदा तस्य 'स्व-परप्रकाशरूपत्वादर्थस्येवाऽऽत्मनोऽपि प्रकाशकत्वेन व्यवहारोपपत्तौ किं ग्रहीवन्तरेणेत्यत आह स्वाभासं खलु नो चित्तं दृश्यत्वेन घटादिवत् । तदन्यदृश्यतायां चानवस्था-स्मृतिसङ्करौ ।।१४।। स्वाभासमिति । चित्तं खलु नो = नैव स्वाभासं = स्वप्रकाश्यं, किं तु द्रष्टुवेद्यं, दृश्यत्वेन = दृग्विषयत्वेन घटादिवत, यद्यद् दृश्यं तत्तद् द्रष्ट्रवेद्यमिति व्याप्तेः । तदिदमुक्तं “न तत्स्वाभासं दृश्यत्वात् (योगसूत्र ४-१९)"। ___ 'अन्तर्बहिर्मुखव्यापारद्वयविरोधात्, तन्निष्पाद्यफलद्वयस्याऽसंवेदनाच्च बहिर्मुखतयैवाऽर्थनिष्ठत्वेन चित्तस्य संवेदनादर्थनिष्ठमेव तत्फलं न स्वनिष्ठमिति (यो.सू.४/१९ रा.मा.) राजमार्तण्डः। १. मुद्रितप्रतौ 'स्वप्रकाश...' इत्यशुद्धः पाठः । २. हस्तादर्श 'तस्वा...' इत्यशुद्धः पाठः । 파 का ।।१९२। ११/१४ Jain Education Interational For Private & Personal use only Page #198 -------------------------------------------------------------------------- ________________ पा 의회색의 요괴의석 외 외식 त ञ्ज त्रिं शि का ११/१५ | तथापि चित्तान्तरदृश्यं चित्तमस्त्वित्यत आह- *तदन्यदृश्यतायां च = चित्तान्तरदृश्यतायां च चित्तस्याऽभ्युपगम्यमानायां अनवस्था-स्मृतिसङ्करौ स्याताम् । तथाहि - यदि बुद्धिर्बुद्ध्यन्तरेण वेद्येत तदा साऽपि बुद्धिः 'स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्ध्यन्तरं कल्पनीयं, तस्याऽप्यन्यदित्यनवस्थानात् पुरुषायुषः सहस्रेणाऽपि अर्थप्रतीतिर्न स्यात् । न हि प्रतीतावप्रतीतायामर्थः प्रतीतो भवति । तथा स्मृतिसङ्करोऽपि स्यात्, एकस्मिन् रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनामुत्पत्तेः २ तज्जनितसंस्कारैर्युगपद् बह्वीषु स्मृतिषूत्पन्नासु 'कस्मिन्नर्थे स्मृतिरियमुत्पन्ना ?' इति ज्ञातुमशक्यत्वात् । तदाह - “एकसमये चोभयाऽनवधारणं ( योगसूत्र ४-२०) । चित्तान्तरदृश्ये' बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्चेति" ( योगसूत्र ४ - २१) ।।१४।। नन्वेवं कथं विषयव्यवहारः ? इत्यत्राऽऽह अङ्गाऽङ्गिभावचाराभ्यां चितिरप्रतिसङ्क्रमा । द्रष्टृ-दृश्योपरक्तं तच्चित्तं सर्वाऽर्थगोचरम् ।। १५ ।। ‘अङ्गे'ति। चितिः = पुरुषरूपा चिच्छक्तिः अङ्गाऽङ्गिभावचाराभ्यां = परिणामपरिणामिभावगमनाभ्यां अप्रतिसङ्क्रमा = अन्येनाऽसङ्कीर्णा । यथा हि गुणाः स्वबुद्धिगमनलक्षणे • ... . इति चिह्नद्वयान्तर्गतः पाठो मुद्रितप्रतौ नास्ति । अस्माभिस्तु हस्तादर्शानुसारेणावश्यकत्वात्स पाठो गृहीतः । १. मुद्रितप्रती 'स्वयं बुद्धया' इत्यशुद्धः पाठः । २ हस्तादर्शे 'स्वजनित..' इति पाठः । ३. हस्तादर्शे '... नवधारणा' इत्यशुद्धः पाठः । ४. 'चित्तान्तराऽदृश्ये' इत्यशुद्धः पाठो मुद्रितप्रतौ । For Private Personal Use Only ।।१९३। Page #199 -------------------------------------------------------------------------- ________________ F BEF 5 परिणामेऽङ्गिनमुपसङ्क्रामन्ति = 'तद्रूपतामिवाऽऽपद्यन्ते, यथा चा(वा)ऽऽलोकपरमाणवः प्रसरन्तो विषयं व्याप्नुवन्ति, नैवं चितिशक्तिः, तस्याः सर्वदैकरूपतया स्वप्रतिष्ठितत्वेन व्यवस्थितत्वादित्यर्थः। तत = तस्मात चित्सन्निधाने बद्धेस्तदाकारताऽऽपत्तौ चेतनायामिवोपजायमानायां बद्धिवत्ति प्रतिसङ्क्रान्तायाश्च चिच्छक्तेर्बुद्ध्यविशिष्टतया सम्पत्तौ स्वसम्बुद्ध्युपपत्तेरित्यर्थः । द्रष्ट-दृश्योपरक्तं =) द्रष्ट-दश्याभ्यामपरक्तं = द्रष्ट्ररूपतामिवाऽऽपन्नं गृहीतविषयाऽऽकारपरिणामं च चित्तं सर्वाऽर्थगोचरं = सर्वविषयग्रहणसमर्थं भवति । तदुक्तं- "चितेरप्रतिसङ्कमायास्तदाकाराऽऽपत्तौ स्वबुद्धिसंवेदनं (योगसूत्र ४-२२) द्रष्टु-दृश्योपरक्तं चित्तं सर्वार्थं (योगसूत्र ४-२३)"। यथा हि निर्मलं स्फटिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थं एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणसमर्थं, न पुनरशुद्धत्वाद्रजस्तमसी । ततो न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादाऽऽमोक्षप्राप्तेरवतिष्ठते । यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति, एवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याऽ-भिव्यङ्ग्यमभिव्यज्यते चैतन्यमिति ।।१५।। इत्थं च द्विविधा चिच्छक्तिरित्याह - नित्योदिता त्वभिव्यङ्ग्या चिच्छक्तिर्द्विविधा हि नः । १. हस्तादर्श 'दूप...' इति त्रुटितः पाठः । २. हस्तादर्श 'सर्वदैवेक...' इत्यशुद्धः पाठः । ३. हस्तादर्श '....कारपत्तौ' इत्यशुद्धः पाठः । ||१९४| ११/१५ Jain Education Interational Page #200 -------------------------------------------------------------------------- ________________ जभA AA आद्या पुमान् द्वितीया तु सत्त्वे तत्सन्निधानतः।।१६।। "नित्येति । नित्योदिता, तु = पुनः अभिव्यङ्ग्या । द्विविधा हि नः = अस्माकं चिच्छक्तिः। आद्या = नित्योदिता पुमान् = पुरुष एव । द्वितीया = अभिव्यङ्ग्या तु तत्सन्निधानतः = पुंसः सामीप्यात् सत्त्वे = सत्त्वनिष्ठा । यद् भोजः- “अत एवाऽस्मिन् दर्शने द्वे चिच्छक्ती' नित्योदिता अभिव्यङ्ग्या च । नित्योदिता चिच्छक्तिः पुरुषः, तत्सन्निधानाऽभिव्यक्त्या अभिव्यङ्यचैतन्यं सत्त्वं = अभिव्यङग्या चिच्छक्तिरिति” (राजमार्तण्ड ४/२३) ।।१६।। इत्थं च भोगोपपत्तिमप्याह सत्त्वे पुंस्थितचिच्छायासमाऽन्या' तदुपस्थितिः । प्रतिबिम्बात्मको भोगः पुंसि ५भेदाग्रहादयम् ॥१७॥ सत्त्व इति । सत्त्वे = बुद्धेः सात्त्विकपरिणामे पुंस्थिता या चिच्छाया तत्समा (=पुंस्थितचिच्छायासमा) या अन्या सा 'स्वकीयचिच्छाया (तदुपस्थितिः=) तस्या उपस्थितिः = अभिव्यक्तिः प्रतिबिम्बात्मको भोगः । अन्यत्राऽपि हि प्रतिबिम्बे (आदर्श) प्रतिबिम्ब्यमानच्छायासदृशच्छायान्तरोद्भव एव प्रतिबिम्बशब्देनोच्यते । पुंसि पुनः अयं = भोगो भेदाऽग्रहात = अत्यन्तसान्निध्येन विवेकाऽग्रहणाद व्यपदिश्यते । १. मुद्रितप्रती 'चिच्क्ती' इत्यशुद्धः पाठः । २. ....भिष्वंगं चैतन्यमि'त्यशुद्धः पाठो मुद्रितप्रती । ३. हस्तादर्श 'सामान्य' इत्यशुद्धः पाठः । ४. हस्तादर्श '...त्मगो' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भदाग्रहोदयां' इत्यशुद्धः पाठः । ६. हस्तादर्श 'स्वकीकय...' इत्यशुद्धः पाठः । (।।१९५।। १/१७|| Page #201 -------------------------------------------------------------------------- ________________ ____ यत्तु “व्यापकस्याऽतिनिर्मलस्य चाऽऽत्मनः कथं सत्त्वे प्रतिबिम्बनमिति” तन्न, व्यापक स्याप्याकाशस्य दर्पणादावपकृष्टनैर्मल्यवति च जलादावादित्यादीनां प्रतिबिम्बदर्शनात्, स्वस्थितचिच्छायासदृशचिच्छायाऽभिव्यक्तिरूपस्य प्रतिबिम्बस्य प्रतिबिम्बान्तरवैलक्षण्याच्चेति (राजमार्तण्ड-४/२३) भोजः ।।१७।। इत्थं प्रत्यात्मनियतं बुद्धितत्त्वं हि शक्तिमत् । निर्वाहे लोकयात्रायास्ततः क्वाऽतिप्रसञ्जनम् ।।१८।। ___'इत्थमिति । इत्थं = उक्तप्रकारेण प्रत्यात्मनियतं = आत्मानमात्मानं प्रति नियतफलसम्पादकं बुद्धितत्त्वं हि लोकयात्रायाः = लोकव्यवहारस्य निर्वाहे = व्यवस्थापने शक्तिमत् = समर्थम् । ततः क्वाऽतिप्रसञ्जनं = योगादेकस्य मुक्तावन्यस्याऽपि मुक्त्यापत्तिरूपम् ? प्रकृतेः सर्वत्रैकत्वेऽपि बुद्धिव्यापारभेदेन भेदोपपत्तेः । तथा च सूत्रं-“कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति” (योगसूत्र २-२२) ।।१८।। __यच्चोक्तं 'जडायाश्च पुमर्थस्ये'त्यादि तत्राऽऽह कर्तव्यत्वं पुमर्थस्याऽऽनुलोम्य-प्रातिलोम्यतः। प्रकृतौ परिणामानां शक्ती स्वाभाविके उभे ॥१९॥ कर्तव्यत्वमिति । पुमर्थस्य कर्तव्यत्वं = प्रकृतौ परिणामानां महदादीनां आनुलोम्य१. मुद्रितप्रतौ 'सदृशचिच्छाया' पदं नास्ति । १९६। ११/१९|| Jain Education Intemational Page #202 -------------------------------------------------------------------------- ________________ F BEFFER । प्रातिलोम्यत उभे शक्ती• स्वाभाविके' = तत्त्वतः स्वभावसिद्धे, पुमर्थे सतीति शेषः । ॥ न त्वन्यत् । ___ महदादि-महाभूतपर्यन्तः खल्वस्या बहिर्मुखतयाऽनुलोमः परिणामः, पुनः स्वकारणाऽनुप्रवेश| द्वारेणाऽस्मितान्तः प्रतिलोमः परिणामः । ___इत्थं च पुरुषस्य भोगपरिसमाप्तेः सहजशक्तिद्वयक्षयात् कृतार्था प्रकृतिः, न पुनः परिणाममारभते । एवंविधायां च पुरुषार्थकर्तव्यतायां प्रकृतेर्जडत्वेन कर्तव्याऽध्यवसायाऽभावेऽपि न काचिदनुपपत्तिरिति ।।१९।।। ननु यदि प्रतिलोमशक्तिरपि सहजैव प्रधानस्याऽस्ति तत्किमर्थं योगिभिर्मोक्षार्थं यत्नः | क्रियते ? मोक्षस्य चाऽनर्थनीयत्वे तदुपदेशकशास्त्रस्याऽऽनर्थक्यमित्यत आह - न चैवं मोक्षशास्त्रस्य वैयर्थं प्रकृतेर्यतः । ततो दुःखनिवृत्त्यर्थं कर्तृत्वस्मयवर्जनम् ।।२०।। ____न चेति । न चैवं = मुक्तौ प्रकृतेरेव सामर्थ्ये मोक्षशास्त्रस्य वैयर्थ्यं = आनर्थक्यं, यतः = यस्मात् ततः = मोक्षशास्त्राद् दुःखनिवृत्त्यर्थं = दुःखनाशाय प्रकृतेः = प्रधानस्य कर्तृत्वस्मयस्य = कर्तृत्वाऽभिमानस्य वर्जनं = निवृत्तिर्भवति (=कर्तृत्वस्मयवर्जन) । अनादिरेव ।।१९७ ... चिह्नद्वयमध्यगतः पाठो हस्तादर्श नास्ति । १. हस्तादर्शविशषे 'स्वाभाविके' इति पदं नास्ति । २. हस्तादर्श '...स्वस्या....' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अन...' इत्यशुद्धः पाठः । ११/२० Jain Education Interational For Private & Personal use only Page #203 -------------------------------------------------------------------------- ________________ हि प्रकृतिपुरुषयोर्भोक्तृ-भोग्यभावलक्षणः सम्बन्धः । तस्मिन् सति व्यक्तमचेतनायाः प्रकृतेः कर्तृत्वाऽभिमानाद् दुःखाऽनुभवे सति ‘कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाऽध्यवसायः। अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशाऽपेक्षाऽप्यस्य युक्तिमतीति ।।२०।। व्यक्तं कैवल्यपादेऽदः सर्वं साध्विति चेन्न तत् । इत्थं हि प्रकृतेर्मोक्षो न पुंसस्तददो' वृथा ।।२१।। _ 'व्यक्तमिति । कैवल्यपादे = योगानुशासनचतुर्थपादे अदः = 'एतत् व्यक्तं = प्रकटं सर्वं = अखिलं साधु = निर्दोषमिति । समाधत्ते- इति चेत् ? न तत् यत् प्राक् प्रपञ्चितम् । (इत्थं) हि = यत एवमुक्तरीत्या प्रकृतेर्मोक्षः स्यात्, तस्या एव कर्तृत्वाभिमाननिवृत्त्या दुःखनिवृत्त्युपपत्तेः, न पुंसस्तस्याऽबद्धत्वेन मुक्त्ययोगात्, मुचेर्बन्धनविश्लेषाऽर्थत्वात् । तत् = तस्माद् अदः = वक्ष्यमाणं भवद्ग्रन्थोक्तं वृथा कण्ठशोषमात्रफलम् ।।२१।। पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ॥२२॥ पञ्चविंशतीति । अत्र हि पञ्चविंशतितत्त्वज्ञानात् पुरुषस्यैव मुक्तिरुक्ता सा च न ११/२२॥ १. हस्तादर्श .....ददोधा' इत्यशुद्धः पाठः । २. हस्तादर्श 'तत्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'रीत्या' पदं नास्ति । ४. हस्तादर्श 'त्युपपात्र' इत्यशुद्धः पाठः । १९८। Jain Education Interational Page #204 -------------------------------------------------------------------------- ________________ 역 외의 외 외 । सम्भवतीति । न च भोगव्यपदेशवन्मुक्तिव्यपदेशोऽप्युपचारादेव पुंसि सम्भवतीति वाच्यम्, एवं हि तत्र चैतन्यस्याप्युपचारेण सुवचत्वाऽऽपत्तेः । 'बाधकाऽभावान्न तत्र तस्योपचार' इति चेत् ? तत्र कृत्यादिसामानाधिकरण्यस्याऽप्यनुभूयमानस्य किं बाधकम् ? येन तेषां भिन्नाऽऽश्रयत्वं कल्प्यते । 'आत्मनः परिणामित्वाऽऽपत्तिर्बाधिके'ति चेत् ? न, तत्परिणामित्वेऽप्यन्वयाऽनपायात् । अन्यथा चित्तस्याऽपि तदनापत्तेः, प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेः । ___ 'अतीताऽनागतं स्वरूपतोऽस्त्यध्वभेदो धर्माणां (यो.सू. ४-१२) ते व्यक्तसूक्ष्मा गुणात्मानः (यो.सू. ४-१३) परिणामैकत्वाद्वस्तुतत्त्वमिति (यो.सू. ४-१४) सूत्रपर्यालोचनाद् धर्मभेदेऽपि तेषामङ्गाऽङ्गिभावपरिणामैकत्वान्न चित्ताऽनन्वय इति चेत् ? तदेतदात्मन्येव पर्यालोच्यमानं शोभते । कूटस्थत्वश्रुतेः शरीरादिभेदपरत्वेनाप्युपपत्तेरिति सम्यग्विभावनीयम् ।।२२।। किं च - बुद्ध्या सर्वोपपत्तौ च मानमात्मनि मृग्यते । संहत्यकारिता मानं पारार्थ्यनियता च न ॥२३॥ बुद्ध्येति । बुद्ध्या = महत्तत्त्वेन सर्वोपपत्तौ = सकललोकयात्रानिर्वाहे च सति ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ 'व्यक्तसूक्ष्मगुणात्मन' इति पाठः । २. हस्तादर्श ११/२३|| '..भावपरिणामपरिणामैक..' इत्यधिकः पाठः । ३. हस्ताद” 'नानन्वय' इति पाठः । ४. हस्ताद” 'नियातानि च' इत्यशुद्धः पाठः । 교 | .. ||१९९। का Jain Education Interational Page #205 -------------------------------------------------------------------------- ________________ पा त ञ्ज 35 hos da ल ग ल क्ष ण द्वा त्रिं शि का ११/२४| आत्मनि मानं = प्रमाणं मृग्यते । कृत्याद्याश्रयव्यतिरिक्ते आत्मनि प्रमाणमन्वेषणीयमित्यर्थः । न च पारार्थ्यनियता = परार्थकत्वव्याप्या संहत्यकारिता = सम्भूयमिलिताऽर्थक्रियाकारिता मानं = अतिरिक्तात्मनि प्रमाणम् । यत्संहत्याऽर्थक्रियाकारि तत्परार्थं द्रष्टं यथा शय्याशयनाऽऽसनाद्यर्थाः। सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि । अतः परार्थानि । यश्च परः स पुरुष इति । तदुक्तं - “ तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वादिति” ( योगसूत्र ४ - २४ ) ।। २३ ।। कुत इत्याह 1 सत्त्वादीनामपि स्वाङ्गिन्युपकारोपपत्तितः । बुद्धिर्नामैव पुंस्तत् स्याच्च तत्त्वान्तरव्ययः । । २४ ॥ = " सत्त्वादीनामिति । सत्त्वादीनां धर्माणां स्वाङ्गिन्यपि स्वाऽऽश्रयेऽपि । उपकारोपपत्तितः : = फलाऽऽधानसम्भवाद्, उक्तनियमे मानाभावात्, सत्त्वादौ संहत्यकारित्वस्य विलक्षणत्वात् । अन्यथा असंहतरूपपराऽसिद्धेः, धर्माणां साश्रयत्वव्याप्तेश्च बुद्ध्यैव सफलत्वात् नैवमात्मा कश्चिदतिरिक्तः सिध्येदिति भावः । तत् | = तस्माद् बुद्धिः पुंसः = पुरुषस्य एव नाम स्यात् । च = पुनः तत्त्वाऽन्तरव्ययः १. मुद्रितप्रतौ 'चित्तमपि' इत्यशुद्धः पाठः । २ हस्तादर्शे 'बुद्धिनेर्मैव' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'पुंसि' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'सत्त्वादीनामिति' इति पदं नास्ति । ५. मुद्रितप्रतौ 'स्वांगिन्पपि' इत्यशुद्धः पाठः । ६. 'च'शब्दो मुद्रितप्रतौ नास्ति परं मूलादर्शे विद्यते, आवश्यकश्चेत्यस्माभिः गृहीतः । ।।२०० Page #206 -------------------------------------------------------------------------- ________________ F BEF [ = अहंकारादितत्त्वोच्छेदः स्यात् ।।२४।। तथाहि - व्यापारभेदादेकस्य वायोः पञ्चविधत्ववत् । अहङ्कारादिसंज्ञानोपपत्तिसुकरत्वतः ।।२५।। व्यापारेति । एकस्य वायोापारभेदाद् = ऊर्ध्वगमनादिव्यापारभेदात् 'पञ्चविधत्ववत् = ‘पञ्च वायवः प्राणाऽपानादिभेदादिति व्यपदेशवत् (अहङ्कारादिसंज्ञानोपपत्तिसुकरत्वतः=) अहङ्कारादिसंज्ञानानामुपपत्तेः सुकरत्वतः = सौकर्यात् । तथाहि- बुद्धिरेवाहङ्कारव्यापारं 'जनयन्ती अहङ्कार इत्युच्यताम् । सैव च प्रसुप्तस्वभावा साधिकारा प्रकृतिरिति व्यपदिश्यताम् । किमन्तर्गडुतत्त्वान्तरपरिकल्पनयेति ।।२५।। पुंसश्च व्यञ्जकत्वेऽपि कूटस्थत्वमयुक्तिमत् । अधिष्ठानत्वमेतच्चेत्तदेत्यादि निरर्थकम् ॥२६॥ "पुंसश्चेति । पुंसः = पुरुषस्य च व्यञ्जकत्वेऽपि अभ्युपगम्यमाने कूटस्थत्वं अयुक्तिमद् = असङ्गतम् । अभिव्यञ्जकत्वं ह्यभिव्यक्तिजनकत्वम् । तथा च “अकारणमकार्य ||२०१ १. हस्तादर्श 'तत्त्वव्यवच्छेद' इति पाठः । २. हस्तादर्श 'तथात्' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ |२४||' इत्यशुद्धा सङ्ख्या मुद्रिता । ४. 'पंवि...' इत्यशुद्धः पाठो हस्तादर्श । ५. हस्तादर्श 'जयन्ती' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'पुंत' इत्यशुद्धः पाठः । ७. 'अपि' शब्दो मुद्रितप्रतौ नास्ति । ८. हस्तादर्श ..स्थलं' इत्यशुद्धः ११/२६॥ पाठः । Jain Education Interational Page #207 -------------------------------------------------------------------------- ________________ पा त ञ्ज 35 has da ल यो ल क्ष ण द्वा त्रिं शि का ११/२७ च पुरुष" ( ) इति वचनं व्याहन्येतेति भावः । 'अधिष्ठानत्वं = अभिव्यक्तिदेशाऽऽश्रयत्वं 'एतद् = व्यञ्जकत्वं पुरुषस्तु सदैकरूप' इति चेत् ? तर्हि तदेत्यादि “ तदा द्रष्टुः स्वरूपावस्थानमिति” ( योगसूत्र १ - ३) सूत्रं निरर्थकं तदेत्यस्य व्यवच्छेद्याऽभावात् । काल्पनिकत्वे चैतद्विषयस्य घटादिव्यवहारविषयस्याऽपि तथात्वाऽऽपत्तौ शून्यवादिमतप्रवेश इति भावः ||२६|| निमित्तत्वेऽपि कौटस्थ्यमथास्यापरिणामतः । स्याद् भेदो धर्मभेदेन तथापि भवमोक्षयोः ।। २७।। = 'निमित्तत्वे 'ति । अथ अस्य = आत्मनो निमित्तत्वेऽपि सत्त्वनिष्ठामभिव्यङ्ग्यां चिच्छक्तिं प्रति अपरिणामतः परिणामाऽभावात् कौटस्थ्यम् । 'अकारणमित्यस्यानुपादानकारणमित्यर्थात् उपादानकारणस्यैव परिणामित्वात् परिणामस्य चावस्थान्तरगमनलक्षणत्वादिति भावः । तथापि भवमोक्षयोः = संसाराऽपवर्गयोः धर्मभेदेन = भोगनिमित्ताऽनिमित्तत्व धर्मभेदेन कथञ्चिद् भेद आवश्यकः । = मोक्षेऽपि पूर्वस्वभावसत्त्वे कारणान्तराभावान्न भोग इति को भेद इति चेत् ? सौम्य ! कथं तर्हि न भवमोक्षोभयस्वभावे विरोध: ? । उभयैकस्वभावत्वान्नाऽयमिति १. हस्तादर्शे ‘अतद्’ इत्यशुद्धः पाठः । २. हस्तादर्शे 'तद्रा' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'पनि' इत्यशुद्धः पाठ: । ४. हस्तादर्श 'निमित्वध...' इत्यशुद्धः पाठः । स्यात् ।।२०२। Page #208 -------------------------------------------------------------------------- ________________ 외 최 외 역 외 ।। चेद्? भङ्ग्यन्तरेणाऽयमेव स्याद्वाद इति किं वृथा खिद्यसे? ।।२७।। प्रसङ्गतादवस्थ्यं च बुद्धर्भेदेऽपि तत्त्वतः । प्रकृत्यन्ते लये मुक्तेन चेदव्याप्यवृत्तिता ।।२८।। । प्रसङ्गेति । बुद्धे देऽपि = प्रत्यात्मनियतत्वेऽप्यभ्युपगम्यमाने (च) तत्त्वतः = परमार्थतः प्रकृत्यन्ते = प्रकृतिविश्रान्ते लये = दुःखध्वंसे सति प्रसङ्गतादवस्थ्यं = एकस्य मुक्तावन्यस्याऽपि तदापत्तिरित्यस्याऽपरिहार एव, प्रकृतेरेव मुक्तेरभ्युपगम्यमानत्वात्, तस्याश्च मुक्तत्वाऽमुक्तत्वोभयविरोधात् ।। ___एकत्र वृक्षे संयोग-तदभावयोरिव प्रकृतौ विभिन्नबुद्ध्यवच्छेदेन न मुक्तत्वाऽमुक्तत्वयोर्विरोध इत्यत आह- चेद् = यदि मुक्तेरव्याप्यवृत्तिता न 'अभ्युपगम्यत' इति शेषः । तदभ्युपगमे च मुक्तेऽप्यमुक्तत्वव्यवहाराऽऽपत्तिरेव दूषणम् । किं चैवं मुक्तस्याप्यात्मनो भवस्थशरीराऽवच्छेदेन भोगाऽऽपत्तिरिति तत्प्रकृतिनिवृत्तिरवश्यमभ्युपेयेति द्रष्टव्यम् ।।२८।। प्रधानभेदे चैतत्स्यात् कर्म 'बुद्धिगुणः पुमान् । स्याटुवश्चाऽध्रुवश्चेति जयताज्जैनदर्शनम् ॥२९॥ 'प्रधाने'ति । उक्तदोषभिया प्रधानभेदे चाऽभ्युपगम्यमाने आत्मभोगाऽपवर्गनिर्वाहकं ११/२९|| १. हस्ताद” ...दवस्थ्या' इत्यशुद्धः पाठः । २. हस्तादर्श 'स्याक...' इति त्रुटितः पाठः । ३. हस्तादर्श 'बुद्धिः गु..' इत्यशुद्धः पाठः । 화 का ॥२०३।। Jain Education Interational For Private & Personal use only Page #209 -------------------------------------------------------------------------- ________________ पा त ञ्ज ल 3 ho ग ल क्ष ण द्वा त्रिं शि का ११/३१ तत् कर्म स्यात् । = पुमान् = पुरुषः बुद्धिगुणः स्यात्, बुद्ध्युप लब्धि - ज्ञानानामनर्थान्तरत्वात् । स्यात् = कथञ्चित् ध्रुवश्च द्रव्यतः, अध्रुवश्च पर्यायत इति एवं जैनदर्शनं जयतात्, दोषलवस्याऽप्यस्पर्शात् । ननु च पुंसो विषयग्रहणसमर्थत्वेनैव चिद्रूपत्वं व्यवतिष्ठत इति विकल्पात्मकबुद्धिगुणत्वं न युक्तं, अन्तर्बहिर्मुखव्यापारद्वयविरोधादिति चेत् ? न, अनुभूयमानक्रमिकैकोपयोगस्वभावत्वेन तदविरोधादिति ।। २९ ।। तथा च कायरोधादावव्याप्तं प्रोक्तलक्षणम् । एकाग्रतावधौ रोधे वाच्ये च प्राचि चेतसि ।। ३० ।। तथा चेति । तथा च = जैनदर्शनजयसिद्धौ च प्रोक्तलक्षणं = पतञ्जल्युक्तयोगलक्षणं कायरोधादावव्याप्तं, आदिना वाग्निरोधादिग्रहः । एकाग्रतावधौ = एकाग्रतानिरोधमात्रसाधारणे च रोधे वाच्ये प्राचि = एकाग्रतायाः पृष्ठभाविनि चेतसि = अध्यात्मादिशुद्धे अव्याप्तम् 113011 योगारम्भोऽथ विक्षिप्ते व्युत्थानं क्षिप्त- मूढयोः । एकाग्रे च निरुद्धे च समाधिरिति चेन्न तत् ।। ३१ ।। 'योगे'ति । अथ विक्षिप्ते चित्ते योगाऽऽरम्भः क्षिप्तमूढयोः चित्तयोः व्युत्थानं । १. मुद्रितप्रती 'बुद्धिलब्धि' इति पाठः । २ हस्तादर्शे 'व्यव्याप्तं' इत्यशुद्धः पाठः । ||२०४ | Page #210 -------------------------------------------------------------------------- ________________ 육 외 ᄏ 역 외의 4 । एकाग्रे च निरुद्धे च चित्ते समाधिरिति एकाग्रतापृष्ठभाविनश्चित्तस्याऽलक्ष्यत्वादेव न तत्राऽव्याप्तिः । क्षिप्तं हि रजस उद्रेकादस्थिरं बहिर्मुखतया सुख-दुःखादिविषयेषु' कल्पितेषु सन्निहितेषु वा रजसा प्रेरितम् । तच्च सदैव दैत्य-दानवादीनाम् । मूढं = तमस उद्रेकात् कृत्याऽकृत्यविभागाऽसङ्गतं क्रोधादिभिर्विरुद्धकृत्येष्वेव नियमितम् । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकात् परिहृतदुःखसाधनेष्वेव शब्दादिषु प्रवृत्तम् । तच्च सदैव देवानाम् । एतास्तिस्रश्चित्तावस्था न समाधावुपयोगिन्यः । एकाग्रता-निरुद्धरूपे द्वे एव सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वाच्च समाधावुपयोगं भजेते इति चेत् ? न तत् ।।३१।। योगारम्भेऽपि योगस्य निश्चयेनोपपादनात् ।। मदुक्तं लक्षणं तस्मात्परमानन्दकृत् सताम् ।।३२॥ 'योगे'ति । योगाऽऽरम्भेऽपि = योगप्रारम्भकालेऽपि निश्चयेन = निश्चयनयेन योगस्योपपादनाद् = व्यवस्थापनात्, ‘क्रियमाणं कृतमिति तदभ्युपगमात् । आद्यसमये तदनुत्पत्तावग्रिमसमयेष्वपि तदनुत्पत्त्यापत्तेः। वस्तुतो योगविशेषप्रारम्भकालेऽपि कर्मक्षयरूपफलाऽन्यथाऽनुपपत्त्या व्यवहारेणाऽपि योग- सामान्यसद्भावोऽवश्याभ्युपेय इति प्रागुक्ताव्याप्तिर्वज्रलेपायितैव । १. हस्तादर्श 'विधये' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रागुक्तातिव्या...' इत्यशुद्धः पाठः । 쩍 का २०५ ११/३२|| Jain Education Interational For Private & Personal use only Page #211 -------------------------------------------------------------------------- ________________ तस्मान्मदुक्तं लक्षणं 'मोक्षमुख्यहेतुव्यापार' इत्येवं रूपं सतां = व्युत्पन्नानां अदुष्टत्वप्रतिपत्तिद्वारा परमानन्दकृत् ।।३२ ।। ।। इति पातञ्जलयोगलक्षणविचारद्वात्रिंशिका ।।११।। ॥ अथ पूर्वसेवाद्वात्रिंशिका ।।१२।। इत्थं विचारितलक्षणस्य योगस्य प्रथमोपायभूतां पूर्वसेवामाह → 'पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिता' ।।१।। पूर्वसेवा त्विति । 'स्पष्टः ।।१।। माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ।।२।। 'माते'ति । वृद्धाः श्रुत-वयोवृद्धलक्षणाः । गुरुवर्गः = 'गौरव्यलोकसमुदायः ।।२।। पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाऽश्रवणं नामश्लाघोत्थानाऽऽसनाऽर्पणे ।।३।। १. हस्तादर्श 'पूर्वस्यै' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ .र्तिताः' इति पाठः । ३. हस्तादर्श 'स्पष्टः' इति पदं नास्ति। ४. मुद्रितप्रतौ ‘गौरववल्लो...' इत्यशुद्धः पाठः । ||२०६ Jain Education Interational Page #212 -------------------------------------------------------------------------- ________________ पूजनमिति । नमनं, कदाचिद् द्रव्यतः तदभावेऽपि भावतो मनस्यारोपणेन । नाम्नः श्लाघा स्थानाऽस्थानग्रहणाऽग्रहणाभ्यां । उत्थानाऽऽसनाऽर्पणे = अभ्युत्थानाऽऽसनप्रदाने आगतस्येति गम्यम् ।।३।। सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्थमनाबाध्य साराणां च निवेदनम् ।।४।। सर्वदेति । स्वपुमर्थ = धर्मादिकं अनाबाध्य = अनतिक्रम्य । यदि च तदनिष्टेभ्यो निवृत्तौ तदिष्टेषु च प्रवृत्तौ• धर्मादयः पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम् । किं तु पुरुषाऽर्थाऽऽराधनपरेण, अतिदुर्लभत्वात् पुरुषार्थाऽऽराधनकालस्येत्यर्थः । साराणां = उत्कृष्टानामलङ्कारादीनां निवेदनं = समर्पणम् ।।४।। तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेर्भिया । तदासनाद्यभोगश्च तबिम्बस्थापनाऽर्चने ।।५।। ___तद्वित्तेति । तद्वित्तस्य गुरुवर्गाऽलङ्काराऽऽदिद्रव्यस्य योजनं = नियोगः (=तद्वित्तयोजन) तीर्थे देवताऽऽयतनादौ, तन्मृत्यनुमतेः तन्मरणाऽनुमोदनाद् भिया = भयेन' (=तन्मृत्यनुमतिभिया)। तत्सङ्ग्रहे तन्मरणाऽनुमतिप्रसङ्गात् । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ 'बाधन्ते' इत्यशुद्धः पाठः । २. हस्तादर्श 'भये' इति त्रुटितः पाठः । ।।।२०७।। Jain Education Interational For Private & Personal use only Page #213 -------------------------------------------------------------------------- ________________ 44, oh q 2 तस्य आसनादीनां = आसन-शयन-भोजन-पात्रादीनां अभोगः = अपरिभोगः (=तदासनाद्य| भोगः च) । (तबिम्बस्थापनार्चने=) तबिम्बस्य स्थापनाऽर्चने = विन्यासपूजे ।।५।। देवानां पूजनं ज्ञेयं शौच-श्रद्धादिपूर्वकम् । पुष्पैर्विलेपनैधूपैर्नैवेद्यैः शोभनैः स्तवैः ।।६।। 'देवानामिति- व्यक्तः ।।६।। अधिमुक्तिवशान्मान्या अविशेषेण वा सदा । अनिर्णीतविशेषाणां सर्वे देवा महात्मनाम् ॥७॥ अधिमुक्तीति । अनिर्णीतः कुतोऽपि मतिमोहादनिश्चितो विशेषः = इतरदेवताऽपेक्षोऽतिशयो यैस्तेषां (=अनिर्णीतविशेषाणां) महात्मनां = परलोकसाधनप्रधानतया प्रशस्तात्मनां गृहिणां सर्वे देवाः सदाऽविशेषेण पारगत-हरि-हर-हिरण्यगर्भादिसाधारणवृत्त्या मान्याः वा = अथवा अधिमुक्तिवशात् = अतिशयितश्रद्धाऽनुसारेण ।।७।। सर्वान् देवान्नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा 'दुर्गाण्यतितरन्ति ते ॥८॥ 'सर्वानि'ति । सर्वान् देवान् नमस्यन्ति = नमस्कुर्वते । नैकं कञ्चन देवं समाश्रिताः १. हस्तादर्श 'दुर्गाण्यतितेत..' इत्यशुद्धः पाठः । २. हस्तादर्श 'कुर्वतो' इत्यशुद्धः पाठः । ३. हस्तादर्श '...श्रितः' इत्यशुद्धः पाठः। १२/८ ।।२०८ Jain Education Interational Page #214 -------------------------------------------------------------------------- ________________ ' = स्वमत्यभिनिवेशेन प्रतिपन्नवन्तः । जितेन्द्रिया = निगृहीतहृषीकाः, जितक्रोधाः = अभिभूतकोपाः दुर्गाणि = नरकपातादीनि व्यसनानि अतितरन्ति = अतिक्रामन्ति ते = सर्वदेवनमस्कर्तारः ।।८।। ननु सर्वेऽपि न मुक्तिप्रदायिन इति कथमविशेषेण नमस्करणीयाः ? इत्यत आह चारिसञ्जीविनीचारन्यायादेवं फलोदयः । मार्गप्रवेशरूपः स्याद्विशेषेणाऽऽदिकर्मणाम् ।।९।। 'चारी'ति । चारिसज्जीविनीचारन्यायात् = प्रागुपदर्शितात् एवं = सर्वदेवनमस्कारेऽनुषङ्गत इष्टप्राप्तौ, तत एव शुभाऽध्यवसायविशेषात् मार्गप्रवेशरूपः शुद्धदेवभक्त्यादिलक्षणः फलोदयः स्यात् । विशेषेण = अनुषगप्राप्तवीतरागगुणाऽऽधिक्यपरिज्ञानेन आदिकर्मणां = प्रथममेवाऽऽरब्धस्थूलधर्माचाराणाम् । ते ह्यत्यन्तमुग्धतया कञ्चन देवताविशेषमजानाना विशेषवृत्तेरद्याऽपि न योग्याः, किं तु सामान्यरूपाया एवेति ।।९।। अधिज्ञातविशेषाणां विशेषेऽप्येतदिष्यते । स्वस्य वृत्तविशेषेऽपि परेषु द्वेषवर्जनात् ॥१०॥ 'अधी'ति । अधिज्ञातो विशेषो = गुणाधिक्यं यैस्तेषां (=अधिज्ञातविशेषाणां) विशेषेऽपि अर्हदादौ एतत् पूजनं इष्यते । 'परेषु = पूज्यमानव्यतिरिक्तेषु । द्वेषस्य = मत्सरस्य वर्जनात् १. हस्ताद” 'पदेषु' इत्यशुद्धः पाठः । १२/१० ॥२०९। Jain Education Interational Page #215 -------------------------------------------------------------------------- ________________ (=द्वेषवर्जनात्), स्वस्य = आत्मनः वृत्तविशेषेऽपि = आचाराऽऽधिक्येऽपि सति देवतान्तराणि प्रतीत्य ।।१०।। नाऽऽतुराऽपथ्यतुल्यं यद्दानं तदपि चेष्यते । पात्रे दीनादिवर्गे च पोष्यवर्गाऽविरोधतः ॥११॥ 'नेति । यद् आतुराऽपथ्यतुल्यं = ज्वरादिरोगविधुरस्य घृतादिदानसदृशं मुशलादिदानं दायक-ग्राहकयोरपकारि न भवति तद्दानमपि चेष्यते पात्रे दीनादिवर्गे च = पोष्यवर्गस्य मातापित्रादिपोषणीयलोकस्य अविरोधतो = वृत्तेरनुच्छेदात् (=पोष्यवर्गाऽविरोधतः) ।।११।। लिङगिनः पात्रमपचा विशिष्य स्वक्रियाकतः। दीनाऽन्ध-कृपणादीनां वर्गः कार्याऽन्तराऽक्षमः ।।१२।। लिङ्गिन इति । लिङ्गिनो = व्रतसूचकतथाविधनेपथ्यवन्तः सामान्यतः पात्रं आदिधार्मिकस्य । विशिष्य = विशेषतः अपचाः स्वयमपाचकाः, उपलक्षणात् परैरपाचयितारः पच्यमानाऽननुमन्तारश्च । स्वक्रियाकृतः = स्वशास्त्रोक्ताऽनुष्ठानाऽप्रमत्ताः । तदुक्तं- “व्रतस्था लिङ्गिनः पात्रम पचास्तु विशेषतः । स्वसिद्धान्ताऽविरोधेन वर्तन्ते ये सदैव हि।।” (योगबिन्दु १२२) दीनाऽन्ध-कृपणादीनां वर्गः = समुदायः कार्यान्तराऽक्षमो = भिक्षाऽतिरिक्तनिर्वाहहेतुव्यापाराऽसमर्थः । यत उक्तं- “दीनान्धकृपणा ये तु व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियान्तराऽशक्ता १. मुद्रितप्रतौ 'लिंगन...' इत्यशुद्धः पाठः । २. हस्ताद” 'पचासु' इत्यशुद्धः पाठः । ३. हस्तादर्श ...षस्तु' इति पाठः । १२/१२ २१० Jain Education Interational For Private & Personal use only Page #216 -------------------------------------------------------------------------- ________________ Fort एतद्वर्गो हि मीलकः ।।” (योगबिन्दु १२३) इति । दीनाः = क्षीणसकलपुरुषार्थशक्तयः। अन्धाः = नयनरहिताः कृपणाः = स्वभावत एव सतां कृपास्थानम् । व्याधिग्रस्ताः = कुष्ठ्याद्यभिभूताः । निःस्वाः = निर्धनाः ।।१२।। सुदाक्षिण्यं दयालुत्वं दीनोद्धारः कृतज्ञता । जनाऽपवादभीरुत्वं सदाचाराः प्रकीर्तिताः ।।१३।। 'सुदाक्षिण्यमि'ति । सुदाक्षिण्यं = गम्भीर-धीरचेतसः प्रकृत्यैव परकृत्याऽभियोगपरता। दयालुत्वं = निरुपधिपरदुःखप्रहाणेच्छा । दीनोद्धारः = दीनोपकारयत्नः । कृतज्ञता = परकृतोपकारपरिज्ञानम् । (जनापवादभीरुत्वं=) जनापवादान्मरणान्निर्विशिष्यमाणाद्भीरुत्वं = भीतभावः (= सदाचाराः प्रकीर्तिताः) ।।१३।। रागो गुणिनि सर्वत्र, निन्दात्यागस्तथाऽऽपदि । अदैन्यं, सत्प्रतिज्ञत्वं सम्पत्तावपि नम्रता ।।१४।। राग इति । गुणिनि = गुणवति पुंसि रागः । सर्वत्र जघन्यमध्यमोत्तमेषु निन्दात्यागः = परिवादाऽपनोदः। तथा आपदि = विपत्तौ अदैन्यं = अदीनभावः । सत्प्रतिज्ञत्वं = प्रतिपन्नक्रियानिर्वाहणम् । सम्पत्तावपि = विभवसमागमेऽपि नम्रता = औचित्येन नमनशीलता ।।१४।। १. 'मीलकाः' इत्यशुद्धः पाठो मुद्रितप्रतौ । १२/१४|| २११।। Jain Education Interational For Private & Personal use only Page #217 -------------------------------------------------------------------------- ________________ bo 4 अविरुद्धकुलाऽऽचारपालनं मितभाषिता । अपि कण्ठगतैः प्राणैरप्रवृत्तिश्च गर्हिते ।।१५।। अविरुद्रेति । अविरुद्धस्य = धर्माद्यप्रतिपन्थिनः कुलाऽऽचारस्य पालनं = अनुवर्तनं (= अविरुद्धकुलाचारपालन) । मितभाषिता = प्रस्ताव स्तोक-हितजल्पनशीलता । कण्ठगतैरपि प्राणैर्गर्हिते = लोकनिन्दिते कर्मणि अप्रवृत्तिश्च ।।१५।। प्रधानकार्यनिर्बन्धः सद्व्ययोऽसद्व्ययोज्झनम् । लोकानुवृत्तिरुचिता प्रमादस्य च वर्जनम् ।।१६।। _ 'प्रधानेति । प्रधानकार्ये = विशिष्टफलदायिनि प्रयोजने निर्बन्धः = आग्रहः (=प्रधानकार्यनिर्बन्धः) । सद्व्ययः पुरुषार्थोपयोगी वित्तविनियोगः । (असद्व्ययोज्झन=) असद्व्ययस्य = तद्विपरीतस्य उज्झनं = त्यागः । लोकानुवृत्तिः = लोकचित्ताऽऽराधना उचिता = धर्माऽविरुद्धा। प्रमादस्य = मद्यपानादिरूपस्य च वर्जनम् ।।१६।। तपश्चान्द्रायणं कृच्छं मृत्युघ्नं पापसूदनम् । आदिधार्मिकयोग्यं स्यादपि लौकिकमुत्तमम् ।।१७।। तप इति । लौकिकमपि = लोकसिद्धमपि, अपिर्लोकोत्तरं समुच्चिनोति, उत्तम = स्वभूमिकोचितशुभाध्यवसायपोषकम् ।।१७।। १. हस्तादर्श 'अविरुद्धसदाचार..' इत्यशुद्धः पाठः । २. मुद्रितप्रती 'संचिनो...' इति पाठः । की ॥२१२ । Jain Education Interational For Private & Personal use only Page #218 -------------------------------------------------------------------------- ________________ boto hd 5 वा द्वा त्रिं शि का १२/१९ एकैकं वर्धयेद् ग्रासं 'शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्यायामेष चान्द्रायणो विधिः । । १८ ।। 'एकैकमिति । एकैकं वर्धयेद् ग्रासं = कवलं शुक्ले पक्षे प्रतिपत्तिथेरारभ्य यावत् पौर्णमास्यां पञ्चदश कवलाः । कृष्णे च पक्षे हापयेत् = हीनं कुर्यात् एकैकं कवलम् । ततो भुञ्जीत न अमावास्यायां तस्यां सकलकवलक्षयात् । एष चान्द्रायणः चन्द्रेण वृद्धिभाजा क्षयभाजा च सह इयते = गम्यते यत्तच्चन्द्रायणं तस्याऽयं ( = चान्द्रायणः ) विधिः = करणप्रकार इति ।। १८ ।। 1 सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ।। १९ । सन्तापनादीति । सन्तापनादिभेदेन कृच्छ्रं कृच्छ्रनामकं तपः अनेकधोक्तम्' | 'आदिना पादसम्पूर्णकृच्छ्रग्रहः । तत्र सन्तापनकृच्छ्रं यथा-" त्र्यहमुष्णं पिबेदम्बु 'त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः || ” ( ) इति । पादकृच्छ्रं त्वेतत्- “ एकभक्तेन नक्तेन तथैवाऽयाचितेन च । उपवासेन चैकेन पादकृच्छ्रं विधीयते ।। " ( ) इति । १. 'शुल्के' इत्यशुद्धः पाठो मुद्रितप्रतौ । २ हस्तादर्शे 'वर्धययेद्' इत्यधिकः पाठः । ३. मुद्रितप्रतौ 'अमावस्यां' इति त्रुटितः पाठः । ४. हस्तादर्शविशेषे 'अनेकधोक्तं' नास्ति । अन्यस्मिन् हस्तादर्शे 'अनेकाधोक्तं' इति अधिकः पाठः । ५. हस्तादर्शे आदिना पाद- सम्पूर्णकृच्छ्रग्रह:' इति नास्ति । ६. 'अह..' इत्यशुद्धः पाठः । ।।२१३ । Page #219 -------------------------------------------------------------------------- ________________ books वा द्वा शि का १२/२१ सम्पूर्णकृच्छ्रं पुनरेतदेव चतुर्गुणितमिति । अकृच्छ्राद् = अकष्टात् अतिकृच्छ्रेषु = नरकादिपातफलेषु अपराधेषु हन्त इति प्रत्यवधारणे, सन्तारणं सन्तरणहेतुः परं = प्रकृष्टं प्राणिनाम् ।।१९।। मासोपवासमित्याहुर्मृत्युघ्नं तु तपोधनाः । मृत्युञ्जय पोपेतं परिशुद्धं विधानतः ।। २० ।। मासेति । मासं यावदुपवासो यत्र तत्तथा ( मासोपवासं) इति = एतत् आहुः मृत्युघ्नं तु = मृत्युघ्ननामकं तु तपोधनाः तपः प्रधाना मुनयः । ( मृत्युञ्जयञ्जपोपेतं =) मृत्युञ्जयजपेन परमेष्ठिनमस्कारेण उपेतं = सहितं परिशुद्धं इहलोकाऽऽशंसादिपरिहारेण विधानतः कषायनिरोध-ब्रह्मचर्य-देवपूजादिरूपाद्विधानात् ॥ २० ॥ पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ।। २१ ।। 'पापे 'ति । पापसूदनमप्येवं परिशुद्धं विधानतश्च ज्ञेयं । तत्तच्चित्ररूपं यत्पापादि साधुद्रोहादि तदपेक्षया ( = तत्तत्पापाद्यपेक्षया) । 'यमुनमुनिराजस्याऽङ्गीकृतप्रव्रज्यस्य साधुवधस्मरणे तद्दिनप्रतिपन्नाऽभोजनाऽभिग्रहस्य षण्मासान् यावज्जातव्रतपर्यायस्य सम्यक्सम्पन्नाऽऽराधनस्य किल न क्वचिद्दिने भोजनमजनीति । = = १. हस्तादर्शे '...जपः प्रायं' इति पाठः । २. हस्तादर्शे 'यत्पापं' इति पाठः । मूलानुसारेण च सोऽशुद्धः प्रतिभाति । ३. 'यथार्य (र्जुन) मुनिराजस्य इत्यशुद्धः पाठो मुद्रितप्रतौ । ।।२१४ Page #220 -------------------------------------------------------------------------- ________________ चित्रो = नानाविधः “१ॐ ह्रीं असिआउसा नम” इत्यादिमन्त्रस्मरणरूपो मन्त्रजपः प्रायो = बहुलो यत्र तत् (=चित्रमन्त्रजपप्राय) प्रत्यापत्तिः = तत्तदपराधस्थानान्महता संवेगेन प्रतिक्रान्तिस्तया विशोधितं = विशुद्धिमानीतम् (=प्रत्यायत्तिविशोधितम्) ।।२१।। मोक्षः कर्मक्षयो नाम भोगसंक्लेशवर्जितः । तत्र द्वेषो दृढाऽज्ञानार्दनिष्टप्रतिपत्तितः ।।२२।। 'मोक्ष' इति । दृढाऽज्ञानात् = अबाध्यमिथ्याज्ञानात् भवाऽभिष्वङ्गाऽभावेनाऽनिष्टाऽननुबन्धिन्यपि मोक्षेऽनिष्टाऽनुबन्धित्वेन अनिष्टप्रतिपत्तेः ।।२२।। भवाभिनन्दिनां सा च भवशर्मोत्कटेच्छया । श्रूयन्ते चैतदालापा लोके शास्त्रेऽप्यसुन्दराः ॥२३॥ भवेति । सा च = मोक्षेऽनिष्टप्रतिपत्तिश्च भवाभिनन्दिनां उक्तलक्षणानां भवशर्मणो | विषयसुखस्य उत्कटेच्छया (=भवशर्मोत्कटेच्छया) भवति, द्वयोरेकदोषजन्यत्वात् ।।२३।। "मदिराक्षी न यत्राऽस्ति तारुण्यमदविह्वला । “जडस्तं मोक्षमाचष्टे प्रिया स 'इति नो मतम् ।।२४।। १. 'ॐ' इति पदं मुद्रितप्रतौ नास्ति । २. हस्तादर्श ...दनिष्टः प्र..' इत्यशुद्धः पाठः । हस्तादर्शान्तरे '..दृढोज्ञाना..' इत्यशुद्धः पाठः । ३. हस्तादर्श . ज्ञानी' इत्यशुद्धः पाठः । ४. हस्तादर्श 'ज्ञानीद्र' इत्यशुद्धः पाठः । ५. हस्तादर्श '...टेछया..' इति त्रुटितः पाठः । ६. मुद्रितप्रतौ ‘भवाभिननिन्दि..' इत्यशुद्धः पाठः । ७. हस्तादर्श 'मदिराग्नि' । इति पाठः । ८. हस्तादर्श 'जर्गस्तं' इत्यशुद्धः पाठः । ९. हस्तादर्श 'इंति' इत्यशुद्धः पाठः । १२/२४ ।।२१५।। Jain Education Interational For Private & Personal use only Page #221 -------------------------------------------------------------------------- ________________ ___bo to ' 'मदिराक्षी'ति । लोकाऽऽलापोऽयम् ।।२४।। वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाऽविषयो मोक्षः कदाचिदपि गौतम !।।२५।। 'वरमि'ति । 'गौतम !' इति गालवस्य शिष्याऽऽमन्त्रणम् । ऋषिवचनमिदमिति शास्त्राऽऽलापोऽयम् ।।२५।। द्वेषोऽयमत्यनर्थाय तदभावस्तु देहिनाम् । भवाऽनुत्कटरागेण सहजाऽल्पमलत्वतः ।।२६।। ___'द्वेष' इति । अयं = मुक्तिविषयो द्वेष: अत्यनाय = बहुलसंसारवृद्धये । तदभावस्तु = मुक्तिद्वेषाऽभावः पुनः देहिनां = प्राणिनां भवानुत्कटरागेण = भवोत्कटेच्छाभावेन सहजं = स्वाभाविकं यदल्पमलत्वं ततः (=सहजाल्पमलत्वतः) । मोक्षरागजनकगुणाऽभावेन | तदभावेऽपि गाढतरमिथ्यात्वदोषाऽभावेन तद्वेषाभावो भवतीत्यर्थः ।।२६।। १२/२७ मलस्तु योग्यता योग-कषायाख्याऽऽत्मनो मता । अन्यथाऽतिप्रसङ्गः स्याज्जीवत्वस्याऽविशेषतः।।२७।। १.हस्तादर्श 'वांछिता' इत्यशुद्धः पाठः । २. हस्तादर्श ...विषयान्' इत्यशुद्धः पाठः। ३. हस्तादर्श 'सहजामलवता' इत्यशुद्धः पाठः । ४. हस्तादर्श ...ल्पमनत्वं' इत्यशुद्धः पाठः । ५. हस्तादर्श 'योग्यतायोग्य..' इत्यशुद्धः पाठः । ६. हस्तादर्श 'स्याज्जीवतस्या' इत्यशुद्धः पाठः । ॥२१६। Jain Education Interational Page #222 -------------------------------------------------------------------------- ________________ botos से वा द्वा त्रिं शि का १२/२९ 'मस्त्विति । मलस्तु योगकषायाख्या आत्मनो योग्यता मता । तस्या एव बहुत्वाऽल्पत्वाभ्यां दोषोत्कर्षाऽपकर्षोपपत्तेः । अन्यथा जीवत्वस्याऽविशेषतः सर्वत्र साधारणत्वात् अतिप्रसङ्गः मुक्तेष्वपि बन्धाऽऽपत्तिलक्षणः स्यात् ।। २७ ।। प्रागबन्धान्न 'बन्धचेत् किं तत्रैव नियामकम् । 'प्राणि'ति । प्राक् = पूर्वं अबन्धाद् योग्यतां तु फलोन्नेयां बाधते दूषणं न तत् ।।२८।। बन्धाऽभावात् 'जीवत्वरूपाऽविशेषेऽपि न बन्धी मुक्तस्य चेत् ? किं तत्रैव = प्रागबन्धे एव नियामकं ? योग्यताक्षयं विना । योग्यतां तु फलोन्नेयां = फलबलकल्पनीयां तदूषणं न बाधते 'तत्र कुतो न योग्यता ?' इत्यत्र फलाऽभावस्यैवोत्तरत्वात् । युक्तं चैतत् बन्धस्य बध्यमानयोग्यताऽपेक्षत्वनियमाद्वस्त्रादीनां मञ्जिष्ठादिरागरूपबन्धने तथा-दर्शनात्, तद्वैचित्र्येण फलभेदोपपत्तेः, तस्या अन्तरङ्गत्वात् । तत्परिपाकार्थमेव हेत्वन्तराऽपेक्षणादित्याचार्याः ||२८|| = = दिदृक्षा भवबीजं चाऽविद्या चाऽनादिवासना । भङ्ग्येषैवाश्रिता सांख्य- शैव- वेदान्ति-सौगतैः ।।२९।। १. हस्तादर्शे 'बंधयोह्यतत्' इत्यशुद्धः पाठः । २ हस्तादर्शे 'नियामक:' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'जीवत्वरूपवि...' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'जीवत्वख्या विशेषऽपि ...' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'भंग्यै...' इत्यशुद्धः पाठः । ।।२१७। Page #223 -------------------------------------------------------------------------- ________________ 'दिदृक्षेति । पुरुषस्य प्रकृतिविकारान् द्रष्टुमिच्छा दिदृक्षा 'सैवेयमिति साङ्ख्याः । भवबीजम् इति शैवाः । अविद्या इति वेदान्तिकाः अनादिवासना इति सौगताः ।।२९।। प्रत्यावर्तं व्ययोऽप्यस्यास्तदल्पत्वेऽस्य सम्भवः । अतोऽपि श्रेयसां श्रेणी किं पुनर्मुक्तिरागतः ॥३०॥ प्रत्यावर्तमिति । प्रत्यावर्तं = प्रतिपुद्गलावर्तं व्ययोऽपि = अपगमोऽपि अस्याः = योग्यतायाः, दोषाणां क्रमहासं विना भव्यस्य मुक्तिगमनाद्यनुपपत्तेः । ___तदल्पत्वे = योग्यताऽल्पत्वे अस्य = मुक्त्यद्वेषस्य सम्भवः = उपपत्तिः । तदुक्तं"एवं चाऽपगमोऽप्यस्याः प्रत्यावर्तं सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धि रपि ध्रुवा ।।" (योगबिन्दु १७०) अतोऽपि = मुक्त्यद्वेषादपि श्रेयसां श्रेणी = कुशलानुबन्धसन्ततिः । किं पुनः वाच्यं मुक्तिरागतः तदुपपत्तौ ।।३०।। न चायमेव रागः स्यान्मृदुमध्याधिकत्वतः । तत्रोपाये च नवधा योगिभेदप्रदर्शनात् ॥३१॥ ___न चेति । न चायमेव = मुक्त्यद्वेष एव रागः स्यात् = मुक्तिरागो भवेदिति वाच्यम् । मृदुमध्याधिकत्वतः = जघन्यमध्यमोत्कृष्टभावात् । तत्र = मुक्तिरागे उपाये १. हस्तादर्श 'सैवैय...' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रत्यावर्ते' इत्यशुद्धः पाठः । ३. 'योग्यतालप...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. 'शुदिरपि' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. हस्तादर्श 'रागतः' इत्यशुद्धः पाठः । १२/३१ ॥२ Jain Education Interational Page #224 -------------------------------------------------------------------------- ________________ Ho Ho ( च = मुक्त्युपाये च नवधा = नवभिः प्रकारैर्योगिभेदस्य प्रदर्शनादुपवर्णनात् ( योगिभेदप्रदर्शनात्)। तथाहि- (१) मृदूपायो मृदुसंवेगः, (२) मध्योपायो मृदुसंवेगः, (३) अध्युपायो मृदुसंवेगः, (४) मृदूपायो मध्यसंवेगः, (५) मध्योपायो मध्यसंवेगः, (६) अध्युपायो मध्यसंवेगः, (७) मृदूपायो अधिसंवेगः, (८) मध्योपायोऽधिसंवेगः, (९) अध्युपायोऽधिसंवेगश्चेति नवधा योगिन इति योगाचार्याः ।।३१।। द्वेषस्याऽभावरूपत्वादद्वेषश्चैक' एव हि । ततः क्षिप्रं क्रमाच्चाऽतः परमानन्दसम्भवः ।।३२॥ _'द्वेषस्य'ति । अद्वेषश्च द्वेषस्याऽभावरूपत्वादेक एव हि । अतो न तेन योगिभेदोपपत्तिरित्यर्थः। फलभेदेनाऽपि भेदमुपपादयति- ततो = मुक्तिरागात् क्षिप्रं = अनतिव्यवधानेन, अतो = मुक्त्यद्वेषात्” (= क्रमात् च) क्रमेण = मुक्तिरागाऽपेक्षया बहुद्वारपरम्परालक्षणेन परमानन्दस्य = निर्वाणसुखस्य सम्भवः (= परमानन्दसम्भवः) ।।३२।। ।। इति पूर्वसेवाद्वात्रिंशिका ।।१२।। क १२/३२ ।।।२१९।। १. मुद्रितप्रती 'मुक्त्युपाये च' इति नास्ति । २. हस्ताद” 'श्चेष' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ हस्तादर्श च 'रागात्' इति पाठः । परं व्याख्यानुसारेण 'ततः' इति भवितव्यम् । हस्तादर्शान्तरे च 'अत्रोपिच क्रमेणस्या' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'मक्यद्वेषाक्रमेण' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #225 -------------------------------------------------------------------------- ________________ में 244 434 ॥ अथ मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका ।।१३।। उक्तेषु पूर्वसेवाभेदेषु मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाह उक्तभेदेषु योगीन्द्रर्मुक्त्यद्वेषः प्रशस्यते । मुक्त्युपायेषु नो चेष्टा 'मलनायैव यत्ततः ॥१॥ उक्तभेदेष्विति । मलनायैव = विनाशनिमित्तमेव । तद्धि भवोपायोत्कटेच्छया स्यात् । सा च न मुक्त्यद्वेष इति मुक्त्युपायमलनाऽभावप्रयोजकोऽयम् ।।१।। विषाऽन्नतृप्तिसदृशं तद्यतो व्रतदुर्ग्रहः ।। उक्तः शास्त्रेषु शस्त्राऽग्नि-व्यालदुर्ग्रहसन्निभः ॥२॥ विषेति । तद् = मुक्त्युपायमलनं विषाऽन्नतृप्तिसदृशं, आपाततः सुखाऽऽभासहेतुत्वेऽपि बहुतरदुःखाऽनुबन्धित्वात् । ___ यद् (?यतः) = यस्माद् व्रतानां दुर्ग्रहोऽसम्यगङ्गीकारः (=व्रतदुर्ग्रहः) उक्तः शास्त्रेषु = योगस्वरूपनिरूपकग्रन्थेषु (शस्त्राऽग्नि-व्यालदुर्ग्रहसन्निभः=) शस्त्राऽग्नि-व्यालानां यो दुर्ग्रहो = "दुर्गृहीतत्वं तेन सन्निभः = सदृशः, असुन्दरपरिणामत्वात् ।।२।। ननु “दुर्गृहीतादपि श्रामण्यात्सुरलोकलाभः केषांचिद् भवतीति कथमत्राऽसुन्दरतेत्यत्राह१. हस्तादर्श 'मलिना...' इत्यशुद्धः पाठः । २. हस्तादर्श 'विषान्नतृप्त...' इति पाठः । ३. हस्तादर्श 'शस्त्रग्ने' इत्यशुद्धः पाठः । ४-५. 'दुर्ग्रही' इति मुद्रितप्रतौ । |||२२०। १३/२ Jain Education Interational Page #226 -------------------------------------------------------------------------- ________________ F iss 5 ग्रैवेयकाऽऽप्तिरप्यस्माद्विपाकविरसाऽहिता । मुक्त्यद्वेषश्च तत्राऽपि कारणं न क्रियैव हि ।।३।। ___ ग्रैवेयकाप्तिरिति । अस्माद् = व्रतदुर्ग्रहात् ग्रैवेयकाऽऽप्तिरपि = शुद्धसमाचारवत्सु साधुषु चक्रवर्त्यादिभिः पूज्यमानेषु दृष्टेषु सम्पन्नतत्पूजास्पृहाणां तथाविधाऽन्यकारणवतां च केषाञ्चिद् व्यापन्नदर्शनानामपि प्राणिनां नवमवेयकप्राप्तिरपि विपाकविरसा = बहुतरदुःखाऽनुबन्धबीजत्वेन परिणतिविरसा अहिता = अनिष्टा तत्त्वतः, चौर्याऽर्जितबहुविभूतिवदिति द्रष्टव्यम् । तत्राऽपि = नवमग्रैवेयकप्राप्तावपि च मुक्त्यद्वेषः कारणं, न केवला क्रियैव हि = अखण्डद्रव्यश्रामण्यपरिपालनलक्षणा । ___तदुक्तं- “अनेनाऽपि प्रकारेण द्वेषाऽभावोऽत्र तत्त्वतः । हितस्तु यत्तदेतेऽपि तथाकल्याणभागिनः ।।” (योगबिन्दु १४६) इति ।।३।। लाभाद्यर्थितयोपाये फले चाऽप्रतिपत्तितः । व्यापन्नदर्शनानां हि न द्वेषो द्रव्यलिङ्गिनाम् ॥४॥ लाभेति । व्यापन्नदर्शनानां हि द्रव्यलिङ्गिनां उपाये = चारित्रक्रियादौ लाभाद्यर्थितया ॥२२१ । १३/४ || एव न द्वेषो, रागसामग्र्यां द्वेषाऽनवकाशात् । फले च मोक्षरूपे अप्रतिपत्तित एव न ) || द्वेषः । न हि ते मोक्षं स्वर्गादिसुखाद् भिन्नं प्रतियन्ति यत्र द्वेषाऽवकाशः स्यात् । ॥ र Jain Education Intemational Page #227 -------------------------------------------------------------------------- ________________ ___ ।। स्वर्गादिसुखाऽभिन्नत्वेन प्रतीयमाने तु तत्र तेषां राग एव । वस्तुतो भिन्नस्य तस्य प्रतीतावपि स्वेष्टविघातशङ्कया तत्र द्वेषो न स्यादिति द्रष्टव्यम् ||४|| मुक्तौ च मुक्त्युपाये च मुक्त्यर्थं प्रस्थिते पुनः । यस्य द्वषो न तस्यैव 'न्याय्यं गुर्वादिपूजनम् ।।५।। मुक्तौ चेति । स्पष्टः ।।५।। गुरुदोषवतः स्वल्पा सक्रियापि गुणाय न । भौतहन्तुर्यथा तस्य पदस्पर्शनिषेधनम् ।।६।। गुर्विति । गुरुदोषवतः = अधिकदोषवतः स्वल्पा = स्तोका सक्रियाऽपि = सच्चेष्टापि गुणाय न भवति। यथा भौतहन्तुः = भस्मव्रतिघातकस्य तस्य = भौतस्य पदस्पर्शनस्य = चरणसङ्घट्टनस्य निषेधनं (=पदस्पर्शनिषेधनम्) । कस्यचित् खलु शबरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यत' इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदाऽसौ निपुणमन्वेषमाणो न लेभे, तदा श्रुतमनेन त(?य)था भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चिल्लेभे। १३/६ ततोऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि, पादेन स्पर्शं च परिहृतवान् । यथाऽस्य | १. हस्ताद” 'पुच' इत्यशुद्धः पाठः । २. हस्तादर्श 'नाय्यं' इत्यशुद्धः पाठः । ३. हस्तादर्श 'तावन्नि..' इति पाठः। hob F5 र ||२२२। Jain Education Interational For Private & Personal use only Page #228 -------------------------------------------------------------------------- ________________ ॥ FFhs. ।। पादस्पर्शपरिहारो गुणोऽपि शस्त्रव्यापारेणोपहतत्वान्न गुणः, किं तु दोष एव । एवं मुक्तिद्वेषिणां गुरुदेवादिपूजनं योजनीयम् ।।६।। मुक्त्यद्वेषान्महापापनिवृत्त्या यादृशो गुणः । गुर्वादिपूजनात्तादृक् केवलान्न भवेत्क्वचित् ।।७।। मुक्त्यद्वेषादिति । स्पष्टः ।।७।। एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते ।। सरुजेतरभेदेन भोजनाऽऽदिगतं यथा ॥८॥ एकमेवेति । एकमेव 'ह्यनुष्ठानं देवतापूजनादि कर्तृभेदेन = चरमाऽचरमाऽऽवर्तग|| तजन्तुकर्तृक तया भिद्यते' = विशिष्यते । सरुजेतरयोः सरोग-नीरोगयोः ५भोक्त्रोर्भेदेन । भोजनादिगतं = भोजन-पान-शयनादिगतं यथा अनुष्ठानं, एकस्य , अन्यस्य बलोपचायकत्वादिति । ___'सहकारिभेद एवाऽयं न तु वस्तुभेद' इति चेत् ? न, इतरसहकारिसमवहितत्वेन फलव्याप्यताऽपेक्षया तदवच्छेदक कारणभेदस्यैव कल्पनौ ॥२२३।। १३/८ १. 'अनु...' इति हस्तादर्श पाठः । २. हस्तादर्श ...वर्तगजन्तु' इति पाठः । ३. ...कर्तृकम्' इति हस्तप्रती पाठः । ४. हस्तादर्श 'भिद्यत वि.' इत्यशुद्धः पाठः । ५. 'वत्रो' इति मुद्रितप्रतावशुद्धः पाठः । ६. ....छेदककका...' इति हस्तादर्श पाठः । प्राचीन- मुद्रितप्रतौ च 'कं कारणं भेद...' इत्यशुद्धः पाठः । Page #229 -------------------------------------------------------------------------- ________________ 9244444 चिंत्यात्, तथैवाऽनुभवादिति कल्पलतायां विपञ्चितत्वात् ।।८।। भवाभिष्वङ्गतस्तेनाऽनाभोगाच्च विषादिषु । अनुष्ठानत्रयं मिथ्या द्वयं सत्यं विपर्ययात् ॥९॥ भवेति । तेन कर्तृभेदादनुष्ठानभेदेन 'भेदनं भवाभिष्वङ्गतः = संसारसुखाभिलाषात् (अनाभोगात् =) अनाभोगतः सन्मूर्छनजप्रवृत्तितुल्यतया च विषादिषु अनुष्ठानेषु मध्ये अनुष्ठानत्रयं आदिमं मिथ्या निष्फलम् । द्वयं उत्तरं च सत्यं = सफलं, विपर्ययात् = भवाभिष्वङ्गाऽनाभोगाऽभावात् ।।९।। इहाऽमुत्र फलाऽपेक्षा भवाऽभिष्वङ्ग उच्यते । क्रियोचितस्य भावस्याऽनाभोगस्त्वतिलङ्घनम् ।।१०।। इहेति । प्रागेव शब्दार्थकथनाद् गतार्थोऽयम् ।।१०।। विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजाऽनुष्ठानमिति पञ्चविधं जगुः ।।११।। विषमिति । पञ्चानामनुष्ठानानामयमुद्देशः ।।११।। विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तनाशनात् । १. हस्तादर्श 'भेदनं' पदं नास्ति । २. मुद्रितप्रतौ 'सत्यं' पदं नास्ति । ३. हस्तादर्श 'भावः स्या' इत्यशुद्धः । पाठः । ४. हस्तादर्श 'स्मृतम्' इति पाठान्तरम् । ५. मुद्रितप्रतौ 'मारणात्' इति पाठः । व्याख्यानुसारतः सोऽशुद्धः। ||२२४। ॥ Jain Education Interational For Private & Personal use only Page #230 -------------------------------------------------------------------------- ________________ दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् ।।१२।। विषमिति । लब्ध्याद्यपेक्षातः = लब्धि-कीर्त्यादिस्पृहातो यदनुष्ठानं तत् विषं उच्यते । क्षणात् तत्कालं सच्चित्तस्य = शुभान्तःकरणपरिणामस्य नाशनात् (=सच्चित्तनाशनात्), तदाऽऽत्तभोगेनैव तदुपक्षयात । अन्यदपि हि स्थावर-जङगमभेदभिन्नं विषं तदानीमेव नाशयति । दिव्यभोगस्याऽभिलाषः = ऐहिकभोगनिरपेक्षस्य सतः स्वर्गसुखवाञ्छालक्षणस्तेन (= दिव्यभोगाभिलाषेण) अनुष्ठानं गर उच्यते । कालान्तरे = भवान्तरलक्षणे क्षयाद् भोगात्पुण्यनाशेनानर्थसम्पादनात् । गरो हि कुद्रव्यसंयोगजो विषविशेषः, तस्य च कालान्तरे विषमविकारः प्रादुर्भवतीति । 'उभयाऽपेक्षाजनितमतिरिच्यते'. ? न, उभयाऽपेक्षायामप्यधिकस्य बलवत्त्वादिति सम्भावयामः ।।१२।। सम्मोहादननुष्ठानं सदनुष्ठानरागतः । तद्धतुरमृतं तु स्याच्छ्रद्धया जैनवर्त्मनः ।।१३।। सम्मोहादिति । संमोहात् सन्निपातोपहतस्येव सर्वतोऽनध्यवसायात् अननुष्ठानं उच्यते, अनुष्ठानमेव न भवतीति कृत्वा । १. हस्तादर्श 'गलः' इति पाठः । २. 'चित्तस्य' इति मुद्रितप्रतौ । ३. 'विषविकार' इति मुद्रितप्रतौ । ....... चिह्नद्वयगतः पाठो हस्तादर्श नास्ति । का ॥ ।।२२५। १३/१३ Jain Education Interational Page #231 -------------------------------------------------------------------------- ________________ (b) tus bb 5 5 he has to f मु क्त्य ष प्रा धा न्य शि का १३/१५ = सदनुष्ठानरागतः तात्त्विकदेवपूजाद्याचारभावबहुमानादऽऽदिधार्मिककालभाविदेवपूजाद्यनुष्ठानं तद्धेतुः उच्यते, मुक्त्यद्वेषेण मनाग् मुक्त्यनुरागेण वा शुभभावलेशसङ्गमादस्य सदनुष्ठानहेतुत्वात् । जैनवर्त्मनो जिनोदितमार्गस्य श्रद्धया 'इदमेव तत्त्वमित्यध्यवसायलक्षणया तु अनुष्ठानं अमृतं स्यात्, अमरणहेतुत्वात् । तदुक्तं- “जिनोदितमिति त्वाहुर्भावसारमदः पुनः I संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः || ” ( योगबिन्दु १६० ) ।।१३।। चरमे पुद्गलाऽऽवर्ते तदेवं कर्तृभेदतः । सिद्धमन्यादृशं सर्वं गुरुदेवादिपूजनम् ।।१४।। चरम इति । निगमनं स्पष्टम् ||१४|| सामान्ययोग्यतैव प्राक् पुंसः प्रववृते किल । तदा समुचिता सा तु सम्पन्नेति विभाव्यताम् ।।१५।। सामान्येति । सामान्ययोग्यता मुक्त्युपायस्वरूपयोग्यता । समुचितयोग्यता तत्सहकारियोग्यतेति विशेषः । पूर्वं ह्येकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत्, चरमावर्ते = १. मुद्रितप्रती ...नादि धा... इत्यशुद्धः पाठः । २. हस्तादर्शे ...दितेमिति' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'समुदिता' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः । ४. मुद्रितप्रतौ 'योग्यस्यैव' इत्यशुद्धः पाठः । हस्तप्रतौ 'अयोग्यस्यैव' इति पाठः । योगबिन्दुवृत्तौ 'योगायोग्यस्यैव' इति पाठः । ।।२२६ । Page #232 -------------------------------------------------------------------------- ________________ 4 4 ।। तु समुचितयोग्यभावस्येति चरमावर्तदेवादिपूजनस्याऽन्यावर्तदेवादिपूजनादन्यादृशत्वमिति ॥ || योगबिन्दुवृत्तिकारः (गा. १६२) ।।१५।। चतुर्थं चरमावर्ते प्रायोऽनुष्ठानमिष्यते । अनाभोगादिभावे तु जातु 'स्यादन्यथापि हि ॥१६॥ चतुर्थमिति। चरमावर्ते प्रायो = बाहुल्येन चतुर्थं तद्धेतुनामकं अनुष्ठानमिष्यते। अनाभोगादिभावे तु जातु = कदाचित् अन्यथाऽपि स्यात् इति प्रायोग्रहणफलम् ।।१६।। शङ्कते नन्वद्वेषोऽथवा रागो मोक्षे त तुतोचितः । आद्ये तत्' स्यादभव्यानामन्त्ये न स्यात्तदद्विषाम् ।।१७।। नन्विति । मुक्त्यद्वेषप्रयुक्ताऽनुष्ठानस्य तद्धेतुत्वेऽभव्याऽनुष्ठानविशेषेऽतिव्याप्तिः, नवमग्रैवेयकप्राप्तेर्मुक्त्यद्वेषप्रयुक्तत्वप्रदर्शनात् । मुक्तिरागप्रयुक्ताऽनुष्ठानस्य तत्त्वे तु मनाग्रागप्राक्कालीनमुक्त्यद्वेषप्रयुक्ताऽनुष्ठानेऽव्याप्तिरित्यर्थः ।।१७।। न चाद्वेषे विशेषस्तु कोऽपीति प्राग निदर्शितम् । | ||२२७॥ ईषद्रागाद्विशेषश्चेदद्वेषोपक्षयस्ततः ।।१८।। १. हस्तादर्श 'स्यादस्य' इति अशुद्धः पाठः । २. हस्तादर्श 'स्यादतत्यानामंत्यन' इत्यशुद्धः पाठः । ३. हस्तादर्श । 'न वा दोष' इत्यशुद्धः पाठः । ४. हस्तादर्श 'निदर्शितः' इति पाठः । 4 2 का Page #233 -------------------------------------------------------------------------- ________________ 여 न चेति । अद्वेषे विशेषस्तु न च कोऽपि अस्ति, अभावत्वात् इति प्राक् = पूर्वद्वात्रिंशिकायां निदर्शितम् । ईषद्रागाच्चेद्विशेषः ? तर्हि तत एवाऽद्वेषस्योपक्षयः (=अद्वेषोपक्षयः), विशेषणेनैव कार्यसिद्धौ विशेष्यवैयर्थ्यात् । इत्थं च “मुक्त्यद्वेषेण मनाग मुक्त्यनुरागेण वा तद्धेतुत्वम्” (योगबिन्दुवृत्ति१५९) इति वचनव्याघात इति भावः ।।१८।। उत्कटानुत्कटत्वाभ्यां प्रतियोगिकृतोऽस्त्वयम् । नैवं सत्यामुपेक्षायां द्वेषमात्रवियोगतः ।।१९।। उत्कटेति । अभव्यानां मुक्तौ उत्कटद्वेषाऽभावेऽप्यनुत्कटद्वेषो भविष्यति । अन्येषां तु द्वेषमात्राभावादेवाऽनुष्ठानं तहेतुः स्यादिति पूर्वार्धाऽर्थः । . नैवं, उपेक्षायां सत्यां द्वेषमात्रस्य वियोगतः, (=द्वेषमात्रवियोगतः) अन्यथा स्वेष्टसांसारिकसुखविरोधित्वेनोत्कटोऽपि द्वेषस्तेषां मुक्तौ स्यादित्युत्तरार्धाऽर्थः ।।१९।। समाधत्ते सत्यं बीजं हि तद्धेतोरेतदन्यतराऽर्जितः । क्रियारागो न तेनाऽतिप्रसङ्गः कोऽपि दृश्यते ।।२०।। सत्यमिति। (सत्यम्,) तद्धेतोः अनुष्ठानस्य हि बीजं (एतदन्यतरार्जितः=) एतयोः १. हस्ताद” 'तदर्जिन्य' इत्यशुद्धः पाठः । २. हस्तादर्श 'मुक्तिद्वेषो न' इत्यशुद्धः पाठः । व्याख्यानुसारेणाऽस्माभिरपेक्षितः शुद्धः पाठो गृहीतः । ३. हस्तादर्श 'दृश्य' इति त्रुटितः पाठः । 의 २२८। १३/२० Jain Education Interational For Private & Personal use only Page #234 -------------------------------------------------------------------------- ________________ 4 4 4 = मुक्त्यद्वेष-रागयोरन्यतरेण अर्जितो = जनितः क्रियारागः = सदनुष्ठानरागः । तेनाऽतिप्रसङ्गः कोऽपि न दृश्यते। ___ अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्त्यद्वेषसत्त्वेऽपि तस्य सदनुष्ठानरागाऽप्रयोजकत्वाद्, बाध्य| फलाऽपेक्षासहकृतस्य 'तस्य मोक्षार्थसदनुष्ठानरागाऽनुबन्धित्वात् ।।२०।। अपि बाध्या फलाऽपेक्षा सदनुष्ठानरागकृत् । सा च प्रज्ञापनाऽधीना मुक्त्यद्वेषमपेक्षते ।।२१।। अपीति । बाध्या = बाधनीयस्वभावा फलापेक्षाऽपि = सौभाग्यादिफलवांछाऽपि (सदनुष्ठानरागकृत-) सदनुष्ठाने रागकृत् = रागकारिणी । सा च = बाध्यफलाऽपेक्षा च प्रज्ञापनाधीना = उपदेशाऽऽयत्ता मुक्त्यद्वेषमपेक्षते कारणत्वेन ।।२१।। यतः अबाध्या सा हि मोक्षाऽर्थशास्त्रश्रवणघातिनी । मुक्त्यद्वेषे तदन्यस्यां बुद्धिर्मागानुसारिणी ।।२२।। अबाध्येति। अबाध्या हि सा फलाऽपेक्षा मोक्षार्थशास्त्रश्रवणघातिनी तत्र विरुद्धत्वबुद्ध्याधानाद् व्यापन्नदर्शनानां च तच्छ्रवणं न स्वारसिकमिति भावः । तत् = तस्मात् मुक्त्यद्वेषे सति अन्यस्यां = बाध्यायां फलापेक्षायां समुचितयोग्यतावशेन मोक्षार्थ- १. मुद्रितप्रतौ 'तस्य मोक्षार्थ' इति पदे न स्तः । परं हस्तादर्श वर्तते । २. हस्तादर्श 'मुपेक्ष्यत' इत्यशुद्धः पाठः। ३. हस्तादर्श '...द्वेष तद' इत्यशुद्धः पाठः । 4 2 का ॥२२९ १३/२२ Jain Education Interational Page #235 -------------------------------------------------------------------------- ________________ hub F5 शास्त्रश्रवणस्वारस्योत्पन्नायां बुद्धिमार्गानुसारिणी मोक्षपथाऽऽभिमुख्यशालिनी भवतीति भवति तेषां तीव्रपापक्षयात् सदनुष्ठानरागः ।।२२।।। तत्तत्फलार्थिनां तत्तत्तपस्तन्त्रे' प्रदर्शितम् । मुग्धमार्गप्रवेशाय दीयतेऽप्यत एव च ।।२३॥ तत्तदिति । तत्तत्फलार्थिनां = सौभाग्यादिफलकाक्षिणां तत्तत्तपो रोहिण्यादितपोरूपं अत एव तन्त्रे प्रदर्शितम् । अत एव च मुग्धानां मार्गप्रवेशाय (=मुग्धमार्गप्रवेशाय) दीयतेऽपि गीतार्थैः । यदाह- "मुद्धाण हियट्ठया सम्मं” (पंचाशक-३/४९) । ___न ह्येवमत्र विषादित्वप्रसङ्गो, न वा तद्धेतुत्वभङ्गः, फलाऽपेक्षाया बाध्यत्वात् । इत्थमेव मार्गाऽनुसरणोपपत्तेः ।।२३।। इत्थं च 'वसुपालस्य भवभ्रान्तौ न "बाधकः । गुणाऽद्वेषो न यत्तस्य क्रियारागप्रयोजकः ।।२४।। ___ इत्थं चेति । इत्थं च = मुक्त्यद्वेषविशेषोक्तौ च 'वसुपालस्य पूर्वभवे साधुदर्शनेऽप्युपेक्षयाऽजा ततद्गुणरागस्य चौरस्य भवभ्रान्तौ = दीर्घसंसारभ्रमणे न बाधकः, यद् = यस्मात् १. हस्तादर्श 'तपस्तत्रे' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'च' नास्ति । ३. मुद्रितप्रतौ 'वस्तुपालस्य' इत्यशुद्धः पाठः । ४. 'बाधकम्' इति मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'वस्तुपाल...' इत्यशुद्धः पाठः। ६. 'ज्ञात' इति मुद्रितप्रतावशुद्धः पाठः । ।।२३०॥ Jain Education Interational For Private & Personal use only Page #236 -------------------------------------------------------------------------- ________________ मु 5) hes b 5 5 ho to do s क्त्य ष प्रा न्य द्वा त्रिं शि का १३/२९ तस्य गुणाऽद्वेषः क्रियारागप्रयोजको न अभूत् । इष्यते च तादृश एवाऽयं तद्धेत्वनुष्ठानोचितत्वेन संसारहासकारणमिति ।।२४।। 'जीवातुः कर्मणां मुक्त्यद्वेषस्तदयमीदृशः । गुणरागस्य बीजत्वमस्यैवाऽव्यवधानतः ।। २५ ।। धारालग्नः शुभो भाव एतस्मादेव जायते । अन्तस्तत्त्वविशुद्ध्या च विनिवृत्ताऽऽग्रहत्वतः । । २६॥ अस्मिन् सत्साधकस्येव नास्ति काचिद् बिभीषिका । `सिद्धेरासन्नभावेन प्रमोदस्यान्तरोदयात् ।।२७।। चरमावर्तिनो जन्तोः सिद्धेरासन्नता ध्रुवम् । भूयांसोऽमी व्यतिक्रान्तास्तेष्वेको बिन्दुरम्बुधौ ॥। २८ ।। मानोरथिकमित्थं च सुखमास्वादयन् भृशम् । पीड्यते क्रियया नैव बाढं तत्राऽनुरज्यते ।। २९ ।। १. हस्तादर्शे इत आरभ्य, अष्टश्लोकी नास्ति । २. हस्तादर्शे 'सिधरसेन्न...' इत्यशुद्धः पाठः । ३. हस्तादर्शे ‘मानौरथि...' इत्यशुद्धः पाठः । मुद्रितप्रतौ 'मनो.' इत्यशुद्धः पाठः । अन्यत्र हस्तादर्शे शुद्धः पाठः । ४. 'नव' इति मुद्रितप्रतावशुद्धः पाठः । हस्तादर्शान्तरे च 'नेव' इत्यशुद्धः पाठः । ।।२३१।। Page #237 -------------------------------------------------------------------------- ________________ 외 역 외 64 प्रसन्नं क्रियते चेतः श्रद्धयोत्पन्नया ततः । मलोज्झितं हि कतकक्षोदेन सलिलं यथा ।।३०।। वीर्योल्लासस्ततश्च' स्यात्ततः स्मृतिरनुत्तरा । ततः समाहितं चेतः स्थैर्यमप्यवलम्बते ।।३१।। अधिकारित्वमित्थं चाऽपुनर्बन्धकतादिना । मुक्त्यद्वेषक्रमेण स्यात् परमानन्दकारणम् ।।३२।। जीवातुरित्याद्यारभ्याऽष्टश्लोकी सुगमा ।।३२।। ।। इति मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका ।।१३।। 와 ।। अथापुनर्बन्धकद्वात्रिंशिका' ।।१४।। मुक्त्यद्वेषक्रमेणाऽधिकारित्वप्राप्तिर्भवतीति प्रागुक्तं तत्र पूर्वमपुनर्बन्धकमेव धर्माधिकारिणमाह शुक्लपक्षेन्दुवत्प्रायो वर्धमानगुणः स्मृतः । भवाभिनन्दिदोषाणामपुनर्बन्धको व्यये ॥१॥ शुक्लेति । शुक्लपक्षेन्दुवद् = उज्ज्वलपक्षचन्द्रवत् प्रायो = बाहुल्येन वर्धमानाः = १. हस्तादर्श '..सतस्तस्य' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'अथापुनर्बन्धद्वा....' इति पाठः । 의 ||२३२। १४/१ । Jain Education Interational Page #238 -------------------------------------------------------------------------- ________________ अ था 1559 15 to s has to a to पु अस्यावस्थान्तरं मार्गपतिताऽभिमुखौ पुनः ॥ २ ॥ = अस्यैवेति । अस्यैव अपुनर्बन्धकस्यैव उक्ता गुर्वादिपूजालक्षणा पूर्वसेवा मुख्या कल्याणाऽऽशययोगेन निरुपचरिता । अन्यस्य = अपुनर्बन्धकातिरिक्तस्य सकृद्बन्धकादेः पुनः उपचारतः सा, तथाविधभववैराग्याऽभावात् । मार्गपतित-मार्गाभिमुखौ ( =मार्गपतिताभिमुखौ) पुनरस्य = अपुनर्बन्धकस्य अवस्थान्तरं दशाविशेषरूपौ । मार्गों हि चेतसोऽवक्रगमनं भुजङ्गमनलिकायान तुल्यो विशिष्टगुणस्थानाऽवाप्तिप्रगुणः स्वरसवाही क क्षयोपशमविशेषः । तत्र प्रविष्टो = मार्गपतितः । न न्ध द्वा त्रिं शि का १४/३ प्रतिकलमुल्लसन्तो 'गुणा औदार्य - दाक्षिण्यादयो यस्य ( स = वर्धमानगुणः) भवाऽभिनन्दिदोषाणां प्रागुक्तानां क्षुद्रत्वादीनां व्यये अपगमे सति अपुनर्बन्धकः स्मृतः ||१|| अस्यैव पूर्वसेवोक्ता मुख्याऽन्यस्योपचारतः । = = मार्गप्रवेशयोग्यभावाऽऽपन्नच मार्गाभिमुख इति । न ह्येतावपुनर्बन्धकाऽवस्थायाः परतराऽवस्थाभाजौ, भगवदाज्ञाऽवगमयोग्यतया पञ्चसूत्रकवृत्तावनयोरुक्तत्वात् ।। २ ।। योग्यत्वेऽपि व्यवहितौ परे त्वेतौ पृथग् जगुः । अन्यत्राप्युपचारस्तु सामीप्ये बह्वभेदतः । । ३ ॥ १. हस्तादर्शे 'गुणा' पदं नास्ति । २. 'यामतु' इति मुद्रितप्रतौ पाठः । ३. हस्तादर्शे 'ह्येवमेता...' इति पाठः । For Private Personal Use Only ।।२३३ । Page #239 -------------------------------------------------------------------------- ________________ योग्यत्वेऽपीति । परे त्वेतौ = मार्गपतित-मार्गाभिमुखौ योग्यत्वेऽपि व्यवहितौ = अपुनर्बन्धकाऽपेक्षया दूरस्थाविति पृथग् = अपुनर्बन्धकाद् भिन्नौ' जगुः । अन्यत्राऽपि = सकृद्बन्धकादावपि उपचारस्तु पूर्वसेवायाः सामीप्ये अपुनर्बन्धकसन्निधानलक्षणे सति बबभेदतः = अतिभेदाऽभावात् ।।३।। परिणामिनि कार्याद्धि सर्वथा नास्ति भिन्नता । "अनालोचनगर्भत्वाद् अन्यत्रैनां परे जगुः ।।४।। परिणामिनीति । कार्यात् हि परिणामिनि सर्वथा भिन्नता नास्ति, यथा घटादेर्मुत्पिण्डादौ । एवमपुनर्बन्धकादेरपि सकृद्बन्धकादौ न सर्वथा भिन्नतेति भावनीयम् । तदुक्तं- “कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः । 'नाऽऽसन्नोऽप्यस्य बाहुल्या दन्यथेति प्रदर्शकः ।।"(योगबिन्दु १८०)। परे पुनः अन्यत्र सकृबन्धकादौ अनालोचनगर्भत्वाद् = भवस्वरूपनिर्णायकोहापोहाद्यभावसङ्गतत्वाद् एनां = उपचरितां पूर्वसेवां जगुः = प्राहुः । प्राचि पक्षे कारणे कार्योपचारः, अत्र त्वनालोचनद्वाराऽमुख्यत्वरूप उपचार इति विशेषः ।।४।। १. 'भिन्नो' इति मुद्रितप्रतौ पाठोऽशुद्धः । २. 'उपचारतस्तु' इति मुद्रितप्रतौ पाठोऽशुद्धः । ३. हस्तादर्श ‘पूर्वसेवया' (1२३४। इत्यशुद्धः पाठः । ४. मुद्रितप्रतिषु सर्वत्र 'तत्प्रकृत्या विनाप्यूह' इत्यशुद्धः पाठः । ५. हस्तादर्श 'विप....' इत्यशुद्धः पाठः । ६. हस्तादर्श 'आस...' इत्यशुद्धः पाठः । ७. 'ल्यान्ना' इत्यशुद्धः पाठो मुद्रितप्रती हस्तादर्श च वर्तते। अस्माभिस्तु योगबिन्दुगतः पाठ आदृतः । १४/४ Jain Education Interational Page #240 -------------------------------------------------------------------------- ________________ प्रजभ भ म 14 युक्तं चैतन्मले तीब्रे भवासङ्गो न हीयते । सङ्क्लेशाऽयोगतो मुख्या साऽन्यथा नेति हि स्थितिः ।।५।। युक्तमिति । एतच्च = एतदपि युक्तं, तीव्र = अत्यन्तमुत्कटे 'मले = कर्मबन्धलक्षणे भवाऽऽसङ्गः = 'संसारप्रतिबन्धः न हीयते शेषजन्तोः । मनागपि हि तन्निवृत्तौ तस्याऽपुनर्बन्धकत्वमेव स्यादिति । सङ्क्लेशायोगतः = पुनरतितीव्रसङ्क्लेशाऽप्राप्तौ सा = पूर्वसेवा मुख्या, उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावात् । अन्यथा नेति हि स्थितिः शास्त्रमर्यादा ।।५।। एष्यद्भद्रां समाश्रित्य पुंसः प्रकृतिमीदृशीम् । व्यवहारः स्थितः शास्त्रे युक्तमुक्तं ततो ह्यदः ॥६॥ एष्यद्भद्रामिति । ईदृशीं = सङ्क्लेशाऽयोगविशिष्टां एष्यद्भद्रां = कल्याणाऽनुबन्धिनी ॥ पुंसः "प्रकृतिं समाश्रित्य व्यवहारः पूर्वसेवादिरूपः स्थितः = प्रसिद्धः शास्त्रे = योगग्रन्थे ततो हि अदः = एतद् युक्तमुक्तं, यदुताऽन्यत्रोपचारत एव पूर्वसेवेति ।।६।। शान्तोदात्तस्तयैव स्यादाश्रयः शुभचेतसः । धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान् युवा ।।७।। १. 'दले' इत्यशुद्धः पाठो हस्तादर्श । २. 'संतार' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्श 'युक्तमेतं' इत्यशुद्धः | पाठः । ४. मुद्रितप्रतौ 'प्रकृति' पदं नास्ति पर हस्तादर्शे वर्तते । ५. हस्तादर्श 'सुखस्येवं' इत्यशुद्धः पाठः । ।।२३५॥ १४/७ Jain Education Interational For Private & Personal use only Page #241 -------------------------------------------------------------------------- ________________ शान्तोदात्त इति । तयैव = अपुनर्बन्धकोचितैष्यद्भद्रप्रकृत्यैव शान्तोदात्तः स्यात् । शान्त = तथाविधेन्द्रियकषायविकारविकलः । उदात्तः = उच्चोच्चतराद्याचरणबद्धचित्तः । ततः कर्मधारयः। तथा शुभचेतसः = 'शुद्धचित्तपरिणामस्य आश्रयः = स्थानम् । धन्यः = सौभाग्याऽऽदेयतादिना धनार्हः भोगसुखस्येव = शब्द-रूप-रस-गन् स्पर्शसेवालक्षणस्य यथा आश्रयः, वित्ताऽऽढ्यो = विभवनायकः, रूपवान = शुभशरीरसंस्थान युवा = तरुणः पुमान् ।।७।। अङ्गाभावे त(?य)था भोगोऽतात्त्विको मानहानितः । शान्तोदात्तत्वविरहे क्रियाप्येवं विकल्पजा ॥८॥ अगाभाव इति । (यथा) अङ्गानां = भोगाऽङ्गानां रूप-वयो-वित्ताऽऽढ्यत्वादीनां वात्स्यायनोक्तानामभावे (=अङ्गाऽभावे) सति भोगोऽतात्त्विकः = अपारमार्थिकः, मानहानितः = “अहं सुखी" इत्येवंविधप्रतिपत्तिलक्षणमानाऽपगमादपूर्यमाणेच्छत्वेन तदनुत्थानाच्च । ___शान्तोदात्तत्वविरहे सति एवं क्रियाऽपि = गुर्वादिपूजनारूपा विकल्पजा = विपर्यासजनिता न तु तात्त्विकी, अन्तःसुखप्रवाहाऽनुत्थानात् । तदुक्तं- "मिथ्याविकल्परूपं तु द्वयोर्द्वयमपि स्थितम । स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः ।। (योगबिन्दु १८९) ।।८।। १४/८|| ।। १. मुद्रितप्रतौ 'शुद्धशि...' इत्यशुद्धः पाठः । २. हस्तादर्श 'धनः' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'धन्य' " इति नास्ति । ३. हस्तादर्श ...तात्त्विका' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ....नाच्चा' इत्यशुद्धः पाठः । ॥२३६। Jain Education Interational For Private & Personal use only Page #242 -------------------------------------------------------------------------- ________________ क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । बीजं रूपं फलं चाऽयमूहते भवगोचरम् ॥९॥ 'क्रोधादीति । पूर्वार्धं गतार्थम् । अयं च शान्तोदात्तः भवगोचरं = संसारविषयं | बीजं = कारणं रूपं = स्वरूपं फलं च = कार्यं ऊहते = विचारयति ।।९।। तथाहि भेदे हि प्रकृतेर्नैक्यमभेदे च न भिन्नता । आत्मनां स्यात्स्वभावस्याऽप्येवं शबलतोचिता ॥१०॥ भेदे हीति । भेदे हि एकान्ततोऽभ्युपगम्यमाने प्रकृतेः = सत्त्वरजस्तमोलक्षणाया ज्ञानावरणादिकर्मरूपाया वा नैक्यं आत्मनां संसारिणां स्यात् । तथा चैकजातीयसंसारफलोपलम्भबाध इति भावः । ____ अभेदे च = एकान्ताभेदे च न भिन्नता स्यात् तेषां । तथा च नरक-तिर्यग्मनुष्य देवादिभेदोपलम्भबाध इति भावः। स्वभावस्याऽपि अन्तरङ्गहेतुभूतस्य भेदाऽभेदयोरेकान्तयोरेतदेव दूषणम् । एवं = एकान्तपक्षे उभयतः पाशारज्जुसद्भावात् शबलता = कथंचिद्भेदाऽभेदरूपा उचिता = न्याय्येति, तयैव सकलव्यवहारोपपत्तेः । हेतूहनमेतत् ।।१०।। १४/१०॥ १. 'क्रोधादिति' इत्येवं मुद्रितप्रतावशुद्धः पाठः । २. मुद्रितप्रती 'नृ-ति...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'मानुष्क..' इति पाठः । ४. मुद्रितप्रतौ 'पाशरज्जु...' इत्यशुद्धः पाठः । का ||२३७ Jain Education Interational Page #243 -------------------------------------------------------------------------- ________________ ल 5 59 15 to t क था न न्ध क द्वा त्रिं शि का १४/१२ भवोऽयं दुःखगहनो जन्म-मृत्यु-जरामयः । अनादिरप्युपायेन पृथग्भवितुमर्हति ।। ११ ।। भवोऽयमिति । अयं = प्रत्यक्षोपलभ्यमानो भवः = संसारः दुःखगहनः = शारीरमानसाऽनेकदुःखशतैराच्छन्नः । जन्म = मातृकुक्षिनिष्क्रमणलक्षणं, मरणं = प्रतिनियताऽऽयुःकर्मक्षयः, जरा = वयोहानिलक्षणा, तन्मयः = तत्प्राचुर्यवान् (=जन्म-मृत्यु-जरामयः) । अनादिरपि उपायेन ज्ञानदर्शनचारित्ररूपेण पृथग् भवितुमर्हति काञ्चनमलवदिति । स्वरूपोहनमेतत् ।।११। फलं भवस्य विपुलः क्लेश एव विजृम्भते । न्यग्भाव्याऽऽत्मस्वभावं हि पयो निम्बरसो यथा ।। १२ ।। फलमिति । भवस्य = "संसारस्य फलं = कार्यं विपुलः = अनुबन्धसन्तत्या विस्तीर्णः क्लेश एव विजृम्भते । नात्र सुखलवोऽप्यस्तीत्येवकारार्थः । आत्मन्येव सुखस्वभावे सति कथं क्लेशो विजृम्भते ? इत्यत आह- आत्मस्वभावं (हि) न्यग्भाव्य = तिरोभाव्य । यथा पयः तिरोभाव्य निम्बरसो विजृम्भते । भवति महता प्रतिपन्थिनाऽल्पस्याऽभिभव इति । यदा त्वात्मस्वभाव एव भूयान् भवति तदा १. हस्तादर्शे '...जृम्भंते' इत्यशुद्धः पाठः । २. हस्तादर्शे 'निग्राप्या...' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'निविरसो' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'संसारफ....' इत्यशुद्धः पाठः । ।।२३८ । Page #244 -------------------------------------------------------------------------- ________________ ।। तेनाऽपि क्लेशाऽभिभवः कर्तुं शक्यत इति न संसारदशायां क्लेशेनाऽऽत्माऽभिभवाऽनुपपत्तिरिति भावः। फलोहनमेतत् ।।१२।। तद्वियोगाश्रयोऽप्येवं सम्यगृहोऽस्य जायते । तत्तत्तन्त्रनयज्ञाने विशेषाऽपेक्षयोज्ज्वलः ।।१३।। तदिति । तद्वियोगाऽऽश्रयो = भववियोगाऽऽश्रयः अप्येवं = हेतु-स्वरूप-फलद्वारेण सम्यगृहः = समीचीनविचारः अस्य = शान्तोदात्तस्य जायते । तेषां तेषां तन्त्राणां षष्टितन्त्रादीनां नयानां ज्ञाने (= तत्तत्तन्त्रनयज्ञाने) सति विशेषाऽपेक्षया = इतरांऽशजिज्ञासालक्षणया उज्ज्वलः = शुद्धनिश्चयानुसारी ।।१३।। योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताऽधिकारायां प्रकृतौ लेशतो ध्रुवः ॥१४॥ योजनादिति । योजनात् = 'घटनात् मोक्षेण इति = अस्माद्धेतोः मुनिसत्तमैः = ऋषिपूङगवैः योग उक्तः । स निवृत्ताऽधिकारायां = व्यावृत्तपूरुषाऽभिभवायां प्रकृती सत्यां लेशतः = किञ्चिद्वत्त्या ध्रवो = निश्चितः ||१४|| गोपेन्द्रवचनादस्मादेवं लक्षणशालिनः । १४/१५ परैरस्येष्यते योगः प्रतिश्रोतोऽनुगत्वतः ।।१५।। १. हस्तादर्श 'घनात्' इत्यशुद्धः पाठः । २. हस्तादर्श '...दक्षण...' इत्यशुद्धः पाठः । ।।२३९। Jain Education Intemational Page #245 -------------------------------------------------------------------------- ________________ भभ भभभ 444 गोपेन्द्रेति । अस्माद् गोपेन्द्रवचनात् एवंलक्षणशालिनः = शान्तोदात्तत्वादिगुणयुक्तस्य (अस्य=) अपुनर्बन्धकस्य परैः = तीर्थान्तरीयैः योग (इष्यते=) उच्यते । प्रतिश्रोतोऽनुगच्छति यः स प्रतिश्रोतोऽनुगस्तद्भावस्तत्त्वं ततः (=प्रतिश्रोतोऽनुगत्वतः) । इन्द्रिय-कषायाऽनुकूला हि वृत्तिरनुश्रोतः। तत्प्रतिकूला तु प्रतिश्रोत इति। ___इत्थं हि प्रत्यहं शुभपरिणामवृद्धिः, सा च योगफलमित्यस्य योगौचित्यम् । तदाह“वेलावलनवन्नद्यास्तदाऽऽपूरोपसंहृतेः । प्रतिश्रोतोऽनुगत्वेन प्रत्यहं वृद्धिसंयुतः।।” (योगबिन्दु २०२) इति ।।१५।। तक्रियायोगहेतुत्वाद्योग इत्युचितं वचः । मोक्षेऽतिदृढचित्तस्य भिन्नग्रन्थेस्तु भावतः ।।१६।। -तदिति । तद्वचः क्रियायोगस्य सदाचारलक्षणस्य हेतुत्वात् (=क्रियायोगहेतुत्वात्) योग इति = एवं उचितं, अस्य द्रव्ययोगवत्त्वात् । ___मोक्षे = निर्वाणे अतिदृढचित्तस्य = एकधारालग्नहृदयस्य भिन्नग्रन्थः = विदारिताऽतितीव्रराग-द्वेषपरिणामस्य तु भावतो योगः सम्भवति। सम्यग्दृष्टेर्हि मोक्षाऽऽकाक्षाऽक्षणिकचित्तस्य या या चेष्टा सा सा मोक्षप्राप्तिपर्यवसानफलिकेति तस्यैव भावतोऽयम् । अपुनर्बन्धकस्य तु न सार्वदिकस्तथापरिणाम इति द्रव्यत एवेति । तदुक्तं- "भिन्नग्रन्थेस्तु १. हस्तादर्श '...गत्वात्' इति पाठः । ॥२४०। १४/१६ Jain Education Interational Page #246 -------------------------------------------------------------------------- ________________ यत्प्रायो मोक्षे चित्तं भवे 'तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः ।।” (योगबिन्दु २०३) इति ।।१६।। अन्यसक्तस्त्रियो भर्तृयोगोऽप्यश्रेयसे यथा । तथाऽमुष्य'कुटुम्बादिव्यापारोऽपि न बन्धकृत् ।।१७।। अन्येति । अन्यस्मिन् = स्वभर्तृव्यतिरिक्त पुंसि सक्ताया अनुपरतरिरंसायाः स्त्रियो = योषितः (=अन्यसक्तस्त्रियः) भर्तृयोगोऽपि = पतिशुश्रूषणादिव्यापारोऽपि यथाऽश्रेयसे = पापकर्मबन्धाय तथाऽमुष्य = भिन्नग्रन्थेः कुटुम्बादिव्यापारोऽपि न बन्धकृत् । पुण्ययोगेऽपि पापपरिणामेन पापस्यैव बन्धवदशुभकुटुम्बचिन्तनादियोगेऽपि शुद्धपरिणामेन सदनुबन्धस्यैवोपपत्तेः । तदुक्तं- “नार्या यथाऽन्यसक्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ।। न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्याऽपि तत्र चित्तं न जायते ।।" (योगबिन्दु २०४-२०५) ।।१७।। निजाऽऽशयविशुद्धौ हि बाह्यो हेतुर कारणम् । शुश्रूषादिक्रियाऽप्यस्य शुद्धा श्रद्धानुसारिणी ।।१८।। १. मुद्रितप्रतौ 'तनु' इति विसर्गशून्यः पाठः । २. 'तथा मुख्यकु' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च 'मुखामुकूटादि' इत्यशुद्धः पाठः । ३. 'पापस्येव' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. 'हेतुका' इत्यशुद्धः पाठो मुद्रितप्रतौ। ॥२४१। १४/१८|| For Private & Personal use only Page #247 -------------------------------------------------------------------------- ________________ ल by t ____निजेति । निजाशयविशुद्धौ हि सत्यां बाह्यो हेतुः कुटुम्बचिन्तनादिव्यापारः अकारणं कर्मबन्धं प्रति, भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन' परिणमनात् “जे जत्तिया य हेऊ भवस्स ते तत्तिआ य मुक्खस्स” (ओघनियुक्ति-५३) इति वचनप्रामाण्यात् । ___ ननु किमेकेन शुभपरिणामेन ? क्रियाया अपि मोक्षकारणत्वात्तदभावे तस्याऽकिञ्चित्करत्वादित्यत आह- शुश्रूषादिक्रियाऽपि अस्य = सम्यग्दृशः 'शुद्धा श्रद्धानुसारिणी = जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी । ___ परिशुद्धोहापोहयोगस्य हि प्रकृतेरप्रवृत्ति-विरोधि प्रवृत्तियोगाभ्यां 'सम्यगनुष्ठानाऽवन्ध्यकारणत्वात्तेनैव तदाक्षिप्यत इति भावः । तदुक्तं'चारु 'चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः "शुद्धाऽनुष्ठानभाक् स यत्।। प्रकृतेरा यतश्चैव नाऽप्रवृत्त्यादिधर्मताम् । तथा विहाय घटते ऊहोऽस्य विमलं मनः ।। सति चाऽस्मिन् स्फुरद्रत्नकल्पे “सत्त्वोल्बणत्वतः । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि ।।' (योगबिन्दु २०६-७-८) । ___ननु सम्यग्दृष्टिपर्यन्तमन्यत्र द्रव्ययोग एवोच्यते इति कथमत्र भावतोऽयमुक्त इति चेत् ? १. हस्तादर्श हेतुत्वे' इति पाठः । २. हस्तादर्श 'जेत्तिया' इत्यशुद्धः पाठः । ३. 'शुद्धश्र' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. मुद्रितप्रती '...प्रकृति...' इति पाठः । ५. हस्तादर्श 'सम्यगनुष्ठाव....' इत्यशुद्धः पाठः । मुद्रितप्रती च 'सम्यगनुष्ठानव.....' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'वैत...' इत्यशुद्धः पाठः । ७. हस्तादर्श 'श्रद्धा....' इत्यशुद्धः पाठः । ८. हस्तादर्श 'सल्व....' इत्यशुद्धः पाठः। ९. मुद्रितप्रतौ 'इति' पदं नास्ति परं हस्तादर्श वर्तते । ||२४२॥ १४/१८|| Jain Education Interational Page #248 -------------------------------------------------------------------------- ________________ । चारित्रप्रतिपन्थिनामनन्ताऽनुबन्धिनामपगमे तद्गुणप्रादुर्भावनियम इति निश्चयाऽऽश्रयणात् । अल्पतदविवक्षापरेण व्यवहारेण त्वत्राऽयं नेष्यत एव । "एतच्च योगहेतुत्वाद्योग इत्युचितं वचः । मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् ।।" (योगबिन्दु २०९) इत्यनेनाऽपुनर्बन्धकाऽतिशयाभिधानं तु सम्यग्दृशो नैगमनयशुद्धिप्रकर्षकाष्ठाऽपेक्षमिति न कश्चिद्विरोध इति विभावनीयं सुधीभिः ।।१८।। एतन्निश्चयवृत्त्यैव यद्योगः शास्त्रसंज्ञिनः । त्रिधा शुद्धादनुष्ठानात् सम्यक्प्रत्ययवृत्तितः ।।१९।। एतदिति । एतद् = यदुक्तं भिन्नग्रन्थेरेव भावतो योग इति निश्चयवृत्त्यैव = परमार्थवृत्त्यैव, न तु कल्पनया, यद् = यस्माच्छास्त्रेणैव संज्ञी तद्विना त्वसंज्ञिवत् क्वाप्यर्थेऽप्रवर्तमानो यस्तस्य (=शास्त्रसंजिनः) त्रिधा = वक्ष्यमाणैस्त्रिभिः प्रकारैः शुद्धाद् = निरवद्यात् अनुष्ठानाद् = आचारात् सम्यक्प्रत्ययेन = आत्म-गुरु-लिङ्गशुद्धया स्वकृतिसाध्यताद्यभ्रान्तविश्वासेन वृत्तिः = प्रवृत्तिस्ततः (=सम्यक्प्रत्ययवृत्तितः) भवतीति ।।१९।। शास्त्रमासन्नभव्यस्य मानमामुष्मिके विधौ । सेव्यं यद्विचिकित्सायाः समाधेः प्रतिकूलता ।।२०।। १. 'संज्ञितः' इति मुद्रितप्रतौ पाठः। २. हस्ताद” 'एतदिति' इति पदं नास्ति। ३. '...थे प्रव..' इति मुद्रितप्रतौ । पाठः । ४. हस्तादर्श 'समाधिप्रति....' इति पाठान्तरम् । ||२४३।। १४/२०॥ Jain Education Interational Page #249 -------------------------------------------------------------------------- ________________ शास्त्रमिति । आसन्नभव्यस्य = अदूरवर्तिमोक्षलाभस्य प्राणिनः आमुष्मिके विधौ = पारलौकिके कर्मणि शास्त्रं मानम्, धर्माऽधर्मयोरतीन्द्रियत्वेन तदुपायत्वबोधने प्रमाणान्तराऽसामर्थ्यात् । अतः सेव्यं = सर्वत्र प्रवृत्तौ पुरस्करणीयं, न तु क्वचिदप्यंशेऽनादरणीयम्। ___ यद् = यस्मात् विचिकित्सायाः = युक्त्या समुपपन्नेऽपि मतिव्यामोहोत्पन्नचित्तविप्लुतिरूपायाः समाधेः = चित्तस्वास्थ्यरूपस्य ज्ञान-दर्शन-चारित्रात्मकस्य वा प्रतिकूलता = विरोधिताऽस्ति । अर्थो हि विविधः सुखाऽधिगमो दुरधिगमोऽनधिगमश्चेति श्रोतारं प्रति भिद्यते । आद्यो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः२ । द्वितीयः सैवाऽनिपुणस्य । तृतीयस्त्वन्धस्येति । तत्र प्रथम-चरमयो स्त्येव विचिकित्सा, निश्चयादसिद्धेश्च । द्वितीये तु देश-काल-स्वभावविप्रकृष्टे धर्माऽधर्मादौ भवन्ती सा महाऽनर्थकारिणी । यदागम:"वितिगिच्छसमावन्नेणं अप्पाणेणं णो लहति समाहिं" (आचाराड्ग ५/५/१६१)। अतश्चित्तशुद्ध्यर्थं शास्त्रमेवाऽऽदरणीयमिति भावः । ____यत उक्तं- “मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः ।।" (योगबिन्दु २२९) ।।२०।। विषयाऽऽत्माऽनुबन्धैस्तु त्रिधा शुद्धं यथोत्तरम् । १. मुद्रितप्रतौ 'प्रवृत्ता' इत्यशुद्धः पाठः । २. 'रूपसि' इत्यशुद्धः पाठो हस्तप्रतो । ३. 'पुण्यस्य' इति मुद्रितप्रतावशुद्ध: पाठः । ४. मुद्रितप्रतौ 'वितिगिछं समा...' इत्यशुद्धः पाठः । ||२४४। १४/२०॥ Jain Education Interational For Private & Personal use only Page #250 -------------------------------------------------------------------------- ________________ ल 1559 15 पर था पु न र्ब न्ध क has द्वा त्रिं शि का १४/२२ प्रधानं कर्म तत्राऽऽद्यं मुक्त्यर्थं पतनाद्यपि । । २१ ।। विषयेति । विषयेण = गोचरेण, आत्मना = 'स्वरूपेण, अनुबन्धेन तु उत्तरत्राऽनुवृत्तिलक्षणेन ( = विषयात्मानुबन्धैः) शुद्धं त्रिधा त्रिविधं कर्म अनुष्ठानम् । यथोत्तरं प्रधानं, यद्यत उत्तरं तत्तदपेक्षया प्रधानमित्यर्थः । तत्राऽऽद्यं विषयशुद्धं कर्म मुक्त्यर्थं 'मोक्षो ममाऽतो भूयादि तीच्छया जनितं पतनाद्यपि भृगुपाताद्यपि । आदिना शस्त्रपाटन - गृध्रपृष्ठार्पणादिः स्वघातोपायः परिगृह्यते किं पुनः शेषं स्वाऽहिंसकमित्यपिशब्दार्थः ।। २१ ।। स्वरूपतोऽपि सावद्यमादेयाऽऽशयलेशतः । = = = 121 = शुभमेतद् द्वितीयं तु लोकदृष्ट्या यमादिकम् ।। २२ ।। = स्वरूपत इति । स्वरूपतः = आत्मना सावद्यमपि = पापबहुलमपि आदेयाऽऽशयस्य उपादेयमुक्तिभावस्य लेशतः = सूक्ष्ममात्रालक्षणात् ( = आदेयाऽऽशयलेशतः) शुभं शोभनं एतत् । यदाह- “ तदेतदप्युपादेयलेशभावाच्छुभं मतम् " ( योगबिन्दु २१२ ) । द्वितीयं तु = स्वरूपशुद्धं तु लोकदृष्ट्या = स्थूलव्यवहारिणो लोकस्य मतेन यमादिकं `यमनियमादिरूपम्, यथा जीवादितत्त्वमजानानानां पूरणादीनां प्रथमगुणस्थानवर्तिनाम् ।। २२ ।। = १. हस्तादर्श 'स्वरूपणा...' इत्यशुद्धः पाठः । २. 'यम-नियमादियमादिरूपं' इति मुद्रितप्रतावशुद्धः पाठः । ३. 'जानानां' इति मुद्रितप्रतावशुद्धः पाठः । ।। २४५ । Page #251 -------------------------------------------------------------------------- ________________ तृतीयं शान्तवृत्त्यादस्तत्त्वसंवेदनाऽनुगम् । दोषहानिस्तमोभूम्ना नाऽऽद्याज्जन्मोचितं परे ।।२३।। तृतीयमिति । शान्तवृत्त्या = कषायादिविकारनिरोधरूपया तत्त्वसंवेदनाऽनुगं = जीवादितत्त्वसम्यक्परिज्ञानाऽनुगतं अदो = यमाद्येव तृतीयं = अनुबन्धशुद्धं कर्म । आद्याद् = विषयशुद्धानुष्ठानात् तमोभूम्ना आत्मघातादिनिबन्धनाऽज्ञानबाहुल्येन दोषहानिः' = मोक्षलाभबाधकपरिहाणिः न भवति । यत आह- “आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः" (योगबिन्दु २१५) इति । परे पुनराचार्याः प्रचक्षते उचितं = दोषविगमाऽनुकूलजात्यादि-कुलादिगुणयुक्तं जन्म ततो भवति । एकान्तनिरवद्ये मोक्षे स्वरूपतोऽतीव सावद्यस्य कर्मणस्तस्याऽहेतुत्वेऽपि मुक्तीच्छायाः कथञ्चित् सारूप्येण तद्धेतुत्वात् । तद्द्वारतया प्रकृतोपयोगादिति ह्यमीषामाशयः । तदाह"तद्योग्यजन्मसन्धानमत एके प्रचक्षते ।। (योगबिन्दु २१५) मुक्ताविच्छाऽपि यच्छलाघ्या तमःक्षयकरी मता | तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः ।।" (योग ) इति ।।२३।। उक्ताशयमेवाऽऽह ॥२४६। १४/२३ ॥ १. हस्तादर्श 'दोषाऽहानिः' इत्यशुद्धः पाठः । For Private & Personal use only Page #252 -------------------------------------------------------------------------- ________________ भ 4 4 मुक्तीच्छापि सतां श्लाघ्या न मुक्तिसदृशं त्वदः । द्वितीयात्सानुवृत्तिश्च सा स्याइर्दुरचूर्णवत् ॥२४॥ ___ मुक्तीच्छापीति । द्वितीयात् = स्वरूपशुद्धानुष्ठानात्' सानुवृत्तिश्च = उत्तरत्राऽप्यनुवृत्तिमती | च सा = दोषहानिः स्यात् दर्दुरचूर्णवद् = मण्डूकक्षोदवत् । निरनुवृत्तिदोषविगमे हि गुरुलाघवचिन्ता-दृढप्रवृत्त्यादिकं हेतुस्तदभावाच्चात्र सानुवृत्तिरेव दोषविगम इति भावः । तदुक्तं- “द्वितीयाद् दोषविगमो न त्वेकान्तानुबन्धवान् । गुरुलाघवचिन्तादि न यत्तत्र नियोगतः ।।” (योगबिन्दु २१७) ।।२४।। कुराजवप्रप्रायं तन्निर्विवेकमदः स्मृतम् । तृतीयात्सानुबन्धा सा गुरुलाघवचिन्तया ॥२५।। कुराजेति । तत् = तस्मात्सानुवृत्तिदोषविगमात् अदो = द्वितीयमनुष्ठानं निर्विवेकं = विवेकरहितं कुराजवप्रप्रायं = कुत्सितराज़ाऽधिष्ठितनगरप्राकारतुल्यं (स्मृतम्) । तत्र लुण्टाकोपद्रवस्येवाऽत्राऽज्ञानदोषोपघातस्य 'दुर्निवारत्वादिति भावः । तृतीयाद् = अनुबन्धशुद्धानुष्ठानात् सा = दोषहानिः सानुबन्धा = उत्तरोत्तरदोषाऽपगमाऽऽवहा । अत एव १. ...नुष्ठात्' इति मुद्रितप्रतावशुद्धः पाठः । २. हस्ताप्रतौ ...नुवृत्तिवती' इति पाठः । ३. हस्तादर्श 'सानुबन्ध' इति पाठः । ४. '...कमिदं' इति सर्वत्र प्रतौ पाठः । परं व्याख्यानुसारेण 'कमदः' इति पाठः सम्यक् । अधुना हस्तादर्शेऽप्यंपाठो लब्धः । हस्तादर्शान्तरे च ....विवेदमिदः' इत्यशुद्धः पाठः । ५. हस्तादर्श 'दुर्वारत्वा...' इति पाठान्तरम् । भख ||२४७॥ १४/२५ Jain Education Interational For Private & Personal use only Page #253 -------------------------------------------------------------------------- ________________ । दोषाऽननुवृत्तिमती । तदुक्तं- "तृतीयाद्दोषविगमः सानुबन्धो नियोगतः” (योगबिन्दु २९९)। 'गुरुलाघवचिन्तया' इत्युपलक्षणमेषा दृढप्रवृत्त्यादेः ।।२५।। गृहाद्यभूमिकाकल्पमतस्तत् कैश्चिदुच्यते । उदग्रफलदत्वेन मतमस्माकमप्यदः ॥२६॥ गृहेति । अतः = सानुबन्धदोषहानिकरत्वात् तत् = तृतीयमनुष्ठानं कैश्चित् = तीर्थान्तरीयैः गृहस्याऽऽद्यभूमिका दृढपीठबन्धरूपा तत्कल्पं = तत्तुल्यं (=गृहाद्यभूमिकाकल्पं उच्यते), उदग्रफलदत्वेन = उदारफलदायित्वेन तस्य । अदः = एतदुक्तं अस्माकमपि मतम् । यथा हि गृहाऽऽद्यभूमिकाप्रारम्भदाय नोपरितनगृहभङ्गफलं सम्पद्यते, किं तु तदनुबन्धप्रधानं, एवं तत्त्वसंवेदनाऽनुगतमनुष्ठानमुत्तरोत्तरदोषविगमाऽऽवहमेव भवति, न || तु कदाचनाऽप्यन्यथारूपमिति ।।२६ ।। आत्मनेष्टं गुरुइँते लिङ्गान्यपि वदन्ति तत् ।। त्रिधाऽयं प्रत्ययः प्रोक्तः सम्पूर्ण सिद्धिसाधनम् ।।२७।। ___ आत्मनेति । आत्मनेष्टं सदनुष्ठानं गुरुः = धर्मोपदेष्टा ब्रूते कर्तव्यत्वेन । लिङ्गान्यपि | सिद्धि-सूचकानि नन्दीतूरादीनि सूत्रसिद्धानि तद् = गुरूक्तमेव वदन्ति। अयं त्रिधा = १४/२७|| त्रिप्रकारः प्रत्ययो = विश्वासः प्रोक्तः सम्पूर्ण = अव्यभिचारि सिद्धिसाधनं = इष्टकारणम्, । यत उक्तं- “आत्मा तदभिलाषी स्याद् गुरुराह तदेव तु। तल्लिङ्गोपनिपातश्च सम्पूर्ण लbytes का २४८।। Jain Education Interational For Private & Personal use only Page #254 -------------------------------------------------------------------------- ________________ // सिद्धिसाधनम् ।।” (योगबिन्दु २३२) ।।२७।। सिद्धिः सिङ्यनुबद्धैव न पातमनुबघ्नती । हाठिकानामपि ह्येषा नाऽऽत्मादिप्रत्ययं विना ।।२८।। सिद्धिरिति । सिद्ध्यनुबबैव = उत्तरसिद्ध्यवन्ध्यबीजमेव सिद्धिः भवति तात्त्विकी। 'न पुनः पातं = भ्रंशं अनुबध्नती इति' प्राक्कालव्याप्त्यावष्टभ्नती' । __शल्योपहतप्रासादादिरचनाया इवाऽन्यस्या मिथ्याभिनिवेशादिपातशक्त्यनुवेधेनासिद्धित्वात् । तदुक्तं- “सिद्ध्यन्तरं न सन्धत्ते या सावश्यं पतत्यतः' । तच्छक्त्याप्यनुविद्वैव पातोऽसौ तत्त्वतो मतः ।।" (योगबिन्दु २३४) इति । इत्थं च सिद्ध्यन्तराऽङ्गसंयोगादाऽऽत्मादिप्रत्ययवतामेव सिद्धिः सिद्धा भवति । हाठिकानामपि = बलात्कारचारिणामपि एषा हि सिद्धिः आत्मादिप्रत्ययं विना न भवति । न हि मृत्पिण्डाद्युपायान्तरकार्यं घटादि बलात्कारसहस्रेणाप्युपायान्तरतः साधयितुं शक्यत इति ।।२८।। सद्योगाऽऽरम्भकस्त्वेनं शास्त्रसिद्धमपेक्षते । 'सदा भेदः परेभ्यो हि तस्य जात्यमयूरवत् ।।२९॥ १. हस्तादर्श 'न' पदं नास्ति । २. मुद्रितप्रतो 'इति' पदं नास्ति । ३. ' व्याप्त्यवष्टभ्नाति..' इत्यशुद्धः पाठो १४/२९|| मुद्रितप्रतौ । ४. हस्तादर्श ...नुवेद्धित्वात्' इति त्रुटितोऽशुद्धश्च पाठः । ५. मुद्रितप्रतौ ...त्यधः' इत्यशुद्धः पाठः। । ६. हस्तादर्श 'भेदाभेदः' इत्यशुद्धः पाठः । ||२४९। Jain Education Interational Page #255 -------------------------------------------------------------------------- ________________ भी कभम 444 सदिति । सद्योगाऽऽरम्भकस्त = सानुबन्धयोगाऽऽरम्भक एव एनं = आत्मादिप्रत्ययं शास्त्रसिद्धं = अतीन्द्रियाऽर्थ'सार्थसमर्थनसमर्थाऽऽगमप्रतिष्ठितं अपेक्षते = अवलम्बते। परेभ्यो हि = असद्योगाऽऽरम्भकेभ्यो हि तस्य = सद्योगाऽऽरम्भकस्य सदा भेदो = वैलक्षण्यं जात्यमयूरवत् = सर्वोपाधिविशुद्धमयूरवत् । यथा हि जात्यमयूरोऽजात्यमयूरात्सदैव भिन्नस्तथा सद्योगाऽऽरम्भकोऽप्यन्यस्मादिति भावना । तदुक्तं- “न च सद्योगभव्यस्य वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान् यज्जात्यः सन् भजते शिखी ।।' (योगबिन्दु २४१) ।।२९।। यथा शक्तिस्तदण्डादौ विचित्रा तद्वदस्य हि । गर्भयोगेऽपि 'मातृणां श्रूयतेऽत्युचिता क्रिया ॥३०॥ यथेति । यथा तदण्डादौ = जात्यमयूराण्डचञ्चु-चरणाद्यवयवेषु शक्तिः विचित्रा = अजात्यमयूराऽवयवशक्तिविलक्षणा । तद्वदस्य हि = सद्योगाऽऽरम्भकस्याऽऽदित एवाऽऽरभ्येतरेभ्यो विलक्षणा शक्तिरित्यर्थः । यत उक्तं- “यश्चाऽत्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः ।।” (योगबिन्दु. २४५) इति । अत एव सद्योगाऽऽरम्भकस्येति गम्यं मातृणां = जननीनां गर्भयोगेऽपि, किं ॥२५०। १४/३०॥ १. मुद्रितप्रतौ 'सार्थ' पदं नास्ति । २. हस्तादर्श '..रववत्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'सर्वोपाधिविशुद्धमयूरवत्' इति पदं नास्ति । ४. मुद्रितप्रतौ 'मातृणामि 'त्यशुद्धः पाठः। ५. हस्तादर्श '...तरभ्यो' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #256 -------------------------------------------------------------------------- ________________ ल 26 to पुनरुत्तरकाल इत्यपिशब्दार्थः, श्रूयते = निशम्यते शास्त्रेषु अत्युचिता = लोकानामतिश्लाघनीया क्रिया प्रशस्तमाहात्म्यलाभलक्षणा । यत एवं पठ्यते- “जणणी सव्वत्थवि णिच्छएसु सुमइत्ति तेण सुमई जिणो" (आवश्यक नियुक्ति १०९३)। तथा- “गब्भगए जं जणणी जाय सुधम्मे तेण धम्मजिणो" (आवश्यक नियुक्ति १०९९)। तथा- “जाया जणणी जं सुव्वयत्ति मुणिसुव्वओ तम्हा" (आवश्यक नियुक्ति ११०३) इत्यादि । इदं गर्भावस्थायामुक्तम् । उत्तरकालेऽप्यत्युचितैव तेषां क्रिया। यत उक्तं- “औचित्याऽऽरम्भिणोऽक्षुद्राः प्रेक्षावन्तः शुभाऽऽशयाः। अवन्ध्यचेष्टाः कालज्ञा 'योगधर्माऽधिकारिणः ।।" (योगबिन्दु २४४) इति । तदेवंसिद्धः सद्योगाऽऽरम्भक इतरेभ्यो विलक्षणः। स चाऽऽत्मादिप्रत्ययमपेक्षत एवेति ।।३०।। अथ विषय-स्वरूपाऽनुबन्धशुद्धिप्रधानेषु किं कस्य सम्भवतीत्याह सर्वोत्तमं यदेतेषु भिन्नग्रन्थेस्तदिष्यते । फलवद्रुमसद्बीजप्ररोहोद्भेदसन्निभम् ॥३१॥ ___ सर्वोत्तममिति । यदेतेषु = उक्ताऽनुष्ठानेषु सर्वोत्तमं = अव्यभिचारिफलं तद् | भिन्नग्रन्थेरिष्यते। फलवतः = फलप्राग्भारभाजो द्रुमस्य न्यग्रोधादेः सद् = अवन्ध्यं यद् बीजं तस्य प्ररोहोभेदः = अङ्कुरोद्गमः तत्सन्निभं (=फलवद्रुमसद्बीजप्ररोहोभेद। १. मुद्रितप्रतौ 'योगमार्गा...' इत्यशुद्धः पाठः । योगबिन्दुग्रन्थानुसारेणाऽस्माभिः शुद्धः पाठो योजितः । ||२५१ ।। Jain Education Intemational For Private & Personal use only Page #257 -------------------------------------------------------------------------- ________________ भभ भभक 4444 ।। सन्निभम्), शुभाऽनुबन्धसारत्वात् ।।३१।। तत्तत्तन्त्रोक्तमखिलमपुनर्बन्धकस्य तु । अवस्थाभेदतो न्याय्यं परमानन्दकारणम् ।।३२। तत्तदिति । तत्तत्तन्त्रोक्तं = कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं अखिलं = समस्तं अपुनर्बन्धकस्य तु अवस्थाभेदतो = दशावैचित्र्यात् न्याय्यं = युक्तम्, निवृत्ताऽसद्ग्रहत्वेन सद्ग्रहप्रवृत्तत्वेन च परमानन्दस्य = प्रशमसुखस्य कारणं (= परमानन्दकारणम्)। ___अनेकस्वरूपाऽभ्युपगमे ह्यपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायां प्रशान्तवाहितां सम्पादयतीति । तदुक्तं- “अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ।।” (योगबिंदु.२५१) इति ।।३२।। ।। इति अपुनर्बन्धकद्वात्रिंशिका ।।१४।। ।।२५२ १४/३२ १. 'च' इति मूलादर्श मुद्रितप्रतौ च । परं व्याख्यानुसारेणात्र 'तु' इति पाठो युक्तः । हस्तादर्शेऽपि लभ्यते तथैव । For Privale & Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ ॥ अथ सम्यग्दृष्टिद्वात्रिंशिका ॥१५॥ अपुनर्बन्धकोत्तरं सम्यग्दृष्टिर्भवतीति तत्स्वरूपमाह लक्ष्यते ग्रन्थिभेदेन सम्यग्दृष्टिः स्वतन्त्रतः । शुश्रूषा-धर्मरागाभ्यां गुरुदेवादिपूजया ॥१॥ लक्ष्यत इति । ग्रन्थिभेदेन = अतितीव्रराग-द्वेषपरिणामविदारणेन स्वतन्त्रतः = सिद्धान्तनीत्या सम्यग्दृष्टिः लक्ष्यते = सम्यग्दर्शनपरिणामाऽऽत्मनाऽप्रत्यक्षोऽप्यनुमीयते । शुश्रूषा-धर्मरागाभ्यां तथा गुरुदेवादिपूजया त्रिभिरेतैर्लिंगैः । यदाह- "शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् | यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः।।” (योगबिन्दु २५३)।।१।। भोगिकिन्नरगेयादिविषयाऽऽधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेशकथाऽर्थविषयोपमा ॥२॥ ___ भोगीति । भोगिनो = यौवन-वैदग्ध्य-कान्तासन्निधानवतः कामिनः किन्नरादीनां गायकविशेषाणां गेयादौ = गीतवर्णपरिवर्ताऽभ्यासकथाकथनादौ विषयः = श्रवणरसस्तस्मादाधिक्यं = अतिशयं (=भोगिकिन्नरगेयादिविषयाऽऽधिक्यं) ईयुषी = प्राप्तवती, किन्नरगेयादिजिनोक्त्योर्हेत्वोस्तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात्, अस्य = सम्यग्दृष्टेः शुश्रूषा भवति। न परं सुप्तेशस्य = सुप्तनृपस्य कथार्थविषयः सम्मुग्धकथार्थश्रवणाऽभिप्रायलक्षणः तदुपमा १. हस्तादर्श ...दारेणेन' इत्यशुद्धः पाठः । २. हस्तादर्श '..लक्षः' इति पाठः । १५/२ २५३। Jain Education Interational For Private & Personal use only Page #259 -------------------------------------------------------------------------- ________________ 44 छ 2 = तत्सदृशी (=सुप्तेशकथार्थविषयोपमा) असम्बद्धतत्तज्ज्ञानलवफलायास्तस्या 'दौर्विदग्ध्य। बीजत्वात् ।।२।। अप्राप्ते भगवद्वाक्ये धावत्यस्य मनो यथा । विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा ॥३॥ अप्राप्त इति । अस्य = 'सम्यग्दृशः अप्राप्ते = पूर्वमश्रुते भगवद्वाक्ये = वीतरागवचने यथा मनो धावति = श्रोतुमनुपरतेच्छं भवति तथा विशेषदर्शिनः सतः प्राप्तपूर्वेषु अर्थेषु = धन-कुटुम्बादिषु न धावति विशेषदर्शनेनाऽपूर्वत्वभ्रमस्य दोषस्य चोच्छेदात् ।।३।। धर्मरागोऽधिको भावाद् भोगिनः स्त्र्यादिरागतः । प्रवृत्तिस्त्वन्यथापि स्यात्कर्मणो बलवत्तया ।।४।। ___धर्मराग इति । धर्मराग = चारित्रधर्मस्पृहारूपः अधिकः = प्रकर्षवान् भावात् = अन्तःकरणपरिणत्याः भोगिनो = भोगशालिनः स्त्र्यादिरागतो = भामिन्याद्यभिलाषात्। प्रवृत्तिस्तु = कायचेष्टा तु अन्यथाऽपि = चारित्रधर्मप्रातिकूल्येनाऽपि व्यापारादिना स्यात्, कर्मणः = चारित्रमोहनीयस्य बलवत्तया = नियतप्रबलविपाकतया ।।४।। तदलाभेऽपि तद्रागबलवत्त्वं न दुर्वचम् । १. 'दौर्वेद' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'सदृश' इति पाठान्तरम् । ३. हस्तादर्श 'सप्तितः' इत्यशुद्धः पाठः । ४. 'भावतो' इति मूलानुसारेणाऽशुद्धः पाठो मुद्रितप्रतो । ई २५४। Jain Education Interational For Private & Personal use only Page #260 -------------------------------------------------------------------------- ________________ पूयिकाद्यपि यद् भुङ्क्ते घृतपूर्णप्रियो द्विजः ।।५।। तदिति । तदलाभेऽपि = कथञ्चिदन्यथाप्रवृत्त्या चारित्राऽप्राप्तावपि तद्रागबलवत्त्वं = चारित्रेच्छाप्राबल्यं स्वहेतुसिद्धं न = नैव दुर्वचं = दुरभिधानं, यद् = यस्मात्तथाविधविषमप्रघट्टकवशात्, पूयिकाद्यपि पूयं नाम कुथितो रसस्तदस्यास्तीति पूयिकं, आदिशब्दाद्रूक्षं पर्युषितं च वल्लचनकादि, किं पुनरितरदित्यपिशब्दार्थः, घृतपूर्णाः प्रियाः = वल्लभा यस्य स तथा (=घृतपूर्णप्रियो) द्विजो = ब्राह्मणो भुंक्ते = अश्नाति । यदव द्विजग्रहणं कृतं तदस्य जातिप्रत्ययादेव अन्यत्र भोक्तुमिच्छाया अभावादिति । अन्येच्छाकालेऽपि प्रबलेच्छाया वासनात्मना न नाश इति तात्पर्यम् ।।५।। गुरुदेवादिपूजाऽस्य त्यागात्कार्यान्तरस्य च । भावसारा विनिर्दिष्टा निजशक्त्यनतिक्रमात् ।।६।। ___ गुर्विति । अस्य = सम्यग्दृशः गुरुदेवादिपूजा च कार्यान्तरस्य = त्याग-भोगादिकरणीयस्य त्यागात् = परिहारात्, (निजशक्त्यनतिक्रमात=) निजशक्तेः स्वसामर्थ्यस्यानतिक्रमात् अनिगूहनात् भावसारा = भोक्तुः स्त्रीरत्नगोचरगौरवादनन्तगुणेन बहुमानेन प्रधाना विनिर्दिष्टा = प्ररूपिता परमपुरुषैः ।।६।। १. हस्तादर्श 'तरला...' इत्यशुद्धः पाठः । २. हस्तादर्श ...पूर्णा प्रि...' इत्यशुद्धः पाठः । ३. 'अनतिलंघनात्' इति हस्तादर्शादौ पाठः । परं मूलानुसारेणात्र 'अनतिक्रमात्' इति पाठः सम्यक् । १५/६ (1॥२५५।। Jain Education Interational For Private & Personal use only Page #261 -------------------------------------------------------------------------- ________________ स 开可百分何而 म्य दृ ष्टि द्वा त्रिं शि का १५/९ स्यादीदृक्करणे चाऽन्त्ये सत्त्वानां परिणामतः । त्रिधा यथाप्रवृत्तं तदपूर्वं चानिवर्ति च ॥ ७ ॥ स्यादिति । ईदृग् = उपदर्शितलक्षणं सम्यक्त्वं चाऽन्त्ये करणे " जाते सतीति गम्यं स्याद् = भवेत् । तत् करणं सत्त्वानां = प्राणिनां परिणामतः त्रिधा = त्रिप्रकारं ( १ ) यथावृत्तं ( २ ) अपूर्वं च ' (३) अनिवर्ति चेति ।।७।। ग्रन्थिं यावद् भवेदाद्यं द्वितीयं तदतिक्रमे । भिन्नग्रन्थेस्तृतीयं तु योगिनाथैः प्रदर्शितम् ।।८ ।। ग्रन्थिमिति । आद्यं = यथाप्रवृत्तकरणं ग्रन्थिं यावद् भवेत् । द्वितीयं = अपूर्वकरणं तदतिक्रमे = ग्रन्थ्युल्लङ्घने क्रियमाणे । तृतीयं तु अनिवर्तिकरणं भिन्नग्रन्थेः कृतग्रन्थिभेदस्य योगिनाथैः = तीर्थकरैः प्रदर्शितम् ||८|| = पतितस्याऽपि नाऽमुष्य ग्रन्थिमुल्लङ्घ्य बन्धनम् । स्वाशयो बन्धभेदेन सतो मिथ्यादृशोऽपि तत् ।। ९॥ = पतितस्यापीति । अमुष्य = भिन्नग्रन्थेः पतितस्याऽपि तथाविधसङ्क्लेशात् सम्यक्त्वात् परिभ्रष्टस्याऽपि न = नैव ग्रन्थिं = ग्रन्थिभेदकालभाविनीं कर्मस्थितिं उल्लङ्घ्य = अतिक्रम्य सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया बन्धनं ज्ञानावरणादिपुद्गलग्रहणम् । तत् = तस्माद् मिथ्यादृशोऽपि सतो भिन्नग्रन्थेः बन्धभेदेन = अल्पस्थित्या कर्मबन्धविशेषेण स्वाशयः = १. मुद्रितप्रतौ 'च' नास्ति । २. 'याघ' इत्यशुद्धः पाठो मुद्रितप्रतौ । शोभनः = ।।२५६। Page #262 -------------------------------------------------------------------------- ________________ R परिणामः । बाह्याऽसदनुष्ठानस्य प्रायः साम्येऽपि बन्धाऽल्पत्वस्य सुन्दरपरिणामनिबन्धनत्वादिति भावः । तदुक्तं"भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि न । पतितस्याप्यतो बन्धो ग्रन्थिमुल्लङ्घ्य देशितः।। एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ।। सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धोऽयं न त्वेकाऽपीतरस्य तु ।। तदत्र परिणामस्य भेदकत्वं नियोगतः । बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ।।" (योगबिन्दु २६६-७-८-९) “बंधेण न वोलइ कयाई"(श्रावकप्रज्ञप्ति-३३) इत्यादिवचनानुसारिणां सैद्धान्तिकानां मतमेतत्। कार्मग्रन्थिकाः पुनरस्य मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमपीच्छन्ति, तेषामपि मते तथाविधरसाऽभावात्तस्य शोभनपरिणामत्वे न विप्रतिपत्तिरिति ध्येयम् ।।९।। - एवं च यत्परैरुक्तं बोधिसत्त्वस्य लक्षणम् । विचार्यमाणं सन्नीत्या तदप्यत्रोपपद्यते ।।१०।। एवं चेति । एवं च - भिन्नग्रन्थेमिथ्यात्वदशायामपि शोभनपरिणामत्वे च यत परै = सौगतैः बोधिसत्त्वस्य लक्षणमक्तं तदपि सन्नीत्या = मध्यस्थवृत्त्या विचार्यमाणं अत्र सम्यग्दृष्टौ उपपद्यते ।।१०।। तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि । १. मुद्रिते योगबिन्दुग्रन्थे '...बन्धो यद्...' इति पाठः । २. मुद्रितप्रतौ 'त्वेको...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'बंधेणं' इति पाठः। १५/१० ।।२५७। Jain Education Interational For Private & Personal use only Page #263 -------------------------------------------------------------------------- ________________ 开可ㄛ従百分肏和 स म्य ष्टि द्वा शि का १५/१३ | इत्युक्तेः कायपात्येव चित्तपाती न स स्मृतः ॥ ११ ॥ तप्तेति- ‘तप्तलोहे यः पदन्यासस्तत्तुल्या (तप्तलोहपदन्यासतुल्या), अतिसकम्पत्वात्, | वृत्तिः = कायचेष्टा क्वचिद् गृहारम्भादौ । 'यदि परं' इत्युक्तेः = इत्थंवचनात् कायपात्येव सम्यग्दृष्टिः, न चित्तपाती स्मृतः । इत्थं च कायपातिन एव बोधिसत्त्वा इति लक्षणमत्रोपपन्नं भवति । तदुक्तं - " कायपातिन एवेह ' बोधिसत्त्वाः परोदितम् । न चित्तपातिनस्तावदेतदत्राऽपि युक्तिमत् ।। " ( योगबिन्दु २७१) ।। ११ ।। परार्थरसिको धीमान् मार्गगामी महाऽऽशयः । गुणरागी तथेत्यादि सर्वं तुल्यं द्वयोरपि ।। १२ ।। = परार्थेति । परार्थरसिकः परोपकारबेद्धचित्तः, धीमान् = बुद्धयनुगतः, मार्गगामी कल्याणप्रापकपथयायी, महाशयः = स्फीतचित्तः, गुणरागी = गुणानुरागवान्, तथा इति बोधिसत्त्वगुणान्तरसमुच्चयार्थः, इत्यादि शास्त्रान्तरोक्तं सर्वं तुल्यं = समं द्वयोरपि सम्यग्दृष्टिबोधिसत्त्वयोः ।। १२ ।। अन्वर्थतोऽपि तुल्यतां दर्शयति बोधिप्रधानः सत्त्वो वा सद्द्बोधिर्भावितीर्थकृत् । तथाभव्यत्वतो बोधिसत्त्वो हन्त सतां मतः स = = = ।। १३ ।। * .. १. मुद्रितप्रतौ 'एवेव' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'बद्ध' इति नास्ति । हस्तादर्शे नास्ति । • चिह्नद्वयमध्यवर्ती पाठो ।।२५८। Page #264 -------------------------------------------------------------------------- ________________ म 2 बोधीति । बोधिः = सम्यग्दर्शनं तेन प्रधानः (बोधिप्रधानः) सत्त्वो वा सतां = साधूनां हन्त इत्यामन्त्रणे बोधिसत्त्वो मतः = इष्टः । यदुक्तं- “यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः। सत्त्वोऽस्तु बोधिसत्त्व'स्तद्धन्तैषोऽन्वर्थतोऽपि हि ।।” (योगबिन्दु २७३) वा = अथवा सद्बोधिः = तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः तथाभव्यत्वतो भावितीर्थकृद् = यः तीर्थकृद् भविष्यति स बोधिसत्त्वः । तदुक्तं “वरबोधिसमेतो वा तीर्थकृद् यो भविष्यति। तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः ।।” (योगबिन्दु २७४) भव्यत्वं नाम सिद्धिगम नयोग्यत्वं अनादिपारिणामिको भावः । तथाभव्यत्वं चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नं । एतभेद एव च बीजसिद्ध्यादिफलभेदोपपत्तिः। अन्यथा तुल्यायां योग्यतायां सहकारिणोऽपि तुल्या एव भवेयुः तुल्ययोग्यतासामर्थ्याऽऽक्षिप्तत्वातेषामिति सद्बोधेर्योग्यताभेद एव पारम्पर्येण तीर्थकरत्वनिबन्धनमिति भावनीयम् ।।१३।। तत्तत्कल्याणयोगेन कुर्वन सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं कल्याणसाधनम् ।।१४।। तत्तदिति । तस्य तस्य कल्याणस्य परिशुद्धप्रवचनाधिगमाऽतिशायिधर्मकथाऽविसंवादिनिमित्तादिलक्षणस्य योगेन = व्यापारेण (तत्तत्कल्याणयोगेन) कुर्वन = विदधानः सत्त्वार्थमेव १. 'तस्माद्धन्तेति पूर्ववत्' इति पाठो मुद्रितप्रती हस्तादर्श च वर्तते । परमस्माभिः योगबिन्दुश्लोकानुसारेणात्र पाठो योजितः। २. हस्तादर्श 'तथाभव्यतो' इति पाठः । ३. हस्तादर्श ‘भावितीर्थकृद्' इति पदं नास्ति । ४. 'गयन' इति मुद्रितप्रतावशुद्धः पाठः । ५. हस्तादर्श 'व्यापारस्य' इत्यशुद्धः पाठः । का १५/१४ ॥२५९।। Jain Education Interational Page #265 -------------------------------------------------------------------------- ________________ स म्य ग्दृ ष्टि has द्वा त्रिं शि का १५/१५ मोक्ष-बीजाऽऽधानादिरूपं, न त्वात्मम्भरिरपि, स = 'वरबोधिमान् तीर्थकृत्त्वं अवाप्नोति = लभते परं = प्रकृष्टं कल्याणसाधनं भव्यसत्त्वशुभप्रयोजनकारि । स्वजनादिभवोद्दि-धीर्षया सद्बोधिप्रवृत्तिस्तु गणधरपदसाधनं भवतीति द्रष्टव्यम् । यत उक्तं-" चिन्तयत्येवमेवैतत्स्वजनादिगतं तु यः । तथाऽनुष्ठानतः सोऽपि धीमान् गणधरो भवेत् ।। " ( योगबिन्दु २८९ ) ।।१४।। संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ।। १५ ।। संविग्न इति | संविग्नः " = "तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः || ” ( योगबिन्दु - २९० श्लोकवृत्तौ उद्धृतः) इतिकाव्योक्तलक्षणसंवेगभाक् भवनिर्वेदात् = संसारवैरस्यात् आत्मनिःसरणं तु जरा-मरणादिदारुणदहनात्स्वनिष्कासनं पुनः यः 'चिन्तयती 'ति गम्यते । = = आत्मार्थसम्प्रवृत्तः = स्वप्रयोजनमात्रप्रतिबद्धचित्तः असौ सदा = निरन्तरं स्याद् भवेत् मुण्डकेवली द्रव्य-भावमुण्डनप्रधानस्तथाविधबाह्याऽतिशयशून्यः केवली पीठ१. मुद्रितप्रतौ 'सद्बोधिमान्' इति पाठान्तरम् । २. मुद्रितप्रतौ र्षणया' इति पाठ: । ३. हस्तादर्शे 'निस्मरणं' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'यत्' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'संविग्नः धर्मे' इति त्रुटितः पाठः । ६. मुद्रितप्रतौ 'भवनैर्गुण्यात्' इति पाठः । परं मूलानुसारेण यः पाठः शब्दतोऽप्युचितः सोऽस्माभिर्योजितोऽत्र । ७. मुद्रितप्रतौ प्रवत्त' इत्यशुद्धः पाठः । ८ मुद्रितप्रतौ 'भवेत' इत्यशुद्धः पाठः । = ।।२६० । Page #266 -------------------------------------------------------------------------- ________________ ।। महापीठवत् ।।१५।। अंशतः क्षीणदोषत्वाच्छिष्टत्वमपि युक्तिमत् । अत्रैव हि परोक्तं तु तल्लक्षणमसङ्गतम् ।।१६।। अंशत इति । अंशतो = देशतः क्षीणदोषत्वाद् = दोषक्षयवत्त्वात् शिष्टत्वमपि अत्रैव = सम्यग्दृष्टावेव युक्तिमत् = न्यायोपेतं, "क्षीणदोषः पुरुषः शिष्टः" इतिलक्षणस्य निर्बाधत्वात् । सर्वदोषक्षयेण सर्वथा शिष्टत्वस्य सिद्धे केवलिनि वा विश्रान्तत्वेऽपि सम्यग्दृष्टेरारभ्य देशतो विचित्रस्य शिष्टत्वस्याऽन्यत्राऽपि' अनपायत्वात् । न चैवं शिष्टत्वस्याऽतीन्द्रियत्वेन दुर्ग्रहत्वाच्छिष्टाचारेण प्रवृत्त्यनापत्तिरिति शङ्कनीयं, प्रशम-संवेगादिलिङ्गस्तस्य सुग्रहत्वात् । ___ 'दोषा रागादय एव तेषां च दिव्यज्ञानादर्वाक् न क्षयमुपलभामहे ।। ___ न वा तेषु निरवयवेष्वंशोऽस्ति, येनांऽशतः तत्क्षयो वक्तुं शक्यतेति' चेत् ? न, अत्यु चितप्रवृत्ति-संवेगादिलिङ्गकप्रबलतदुपक्षयस्यैवांऽशतो दोषक्षयाऽर्थत्वात्, आत्माऽनुग्रहोप१५/१६ घातकारित्वेन चयापचयवतः सावयवस्य कर्मरूपदोषस्य प्रसिद्धत्वाच्च इत्यन्यत्र विस्तरः । हि निश्चितं परोक्तं तु = द्विजन्मोद्भावितं तु तस्य = शिष्टस्य लक्षणं (तल्लक्षणं) असङ्गतं = अयुक्तम् ।।१६।। तथाहि - १. मुद्रितप्रतिषु 'अपि' नास्ति । २. मुद्रितप्रतौ 'चपोचय...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'सावयस्य' इत्यशुद्धः पाठः । (॥२६१। Jain Education Interational For Private & Personal use only Page #267 -------------------------------------------------------------------------- ________________ में 24 वेदप्रामाण्यमन्तृत्वं बौद्धे ब्राह्मणताडिते । अतिव्याप्तं द्विजेऽव्याप्तं स्वापे स्वारसिकं च तत् ॥१७॥ वेदेति । “वेदप्रामाण्यमन्तृत्वं” एतावदेव शिष्टलक्षणं ब्राह्मणताडिते बौद्धेऽतिव्याप्तं, तेनाऽपि "वेदाः प्रमाणं" इत्यभ्युपगमात् । स्वारसिकं च तत् = वेदप्रामाण्यमन्तृत्वं द्विजे = ब्राह्मणे (स्वापे) अव्याप्तम् । __ अयं भावः-स्वारसिकत्वविशेषणेन बौद्धेऽतिव्याप्तिनिरासेऽपि 'स्वारसिकवेदप्रामाण्यमन्तृत्वं' यदाकदाचिद्वाच्यं सर्वदा वा ? आद्ये बौद्धे एवातिव्याप्तितादवस्थ्यं, तस्याऽपि जन्मान्तरे वेदप्रामाण्याऽभ्युपगम ध्रौव्यात् । अन्त्ये च शयनादिदशायां वेदप्रामाण्याऽभ्युपगमाऽभाववति ब्राह्मणेऽव्याप्तिरिति ।।१७।। तदभ्युपगमाद्यावन्न तद्व्यत्ययमन्तृता । तावच्छिष्टत्वमिति चेत्तदप्रामाण्यमन्तरि ॥१८॥ तदिति । तस्य = वेदप्रामाण्यस्य अभ्युपगमात् ( तदभ्युपगमात्) यावन्न तद्व्यत्ययस्य = वेदाऽप्रामाण्यस्य मन्तृता = अभ्युपगमः (=तद्व्यत्ययमन्तृता) तावच्छिष्टत्वम् । शयनादिदशायां च वेदाऽप्रामाण्याऽनभ्युपगमा ब्राह्मणे नाऽव्याप्तिरिति भावः । १. हस्तादर्श .प्रामाणम...' इत्यशुद्धः पाठः । २. हस्तादर्श'...भ्युपगम्यध्रौ..' इत्यशुद्धः पाठः । ३. हस्ताद” 'अन्ते' इति पाठः । ४. हस्तादर्श मंत्रितं' इत्यशुद्धः पाठः । ५. हस्तादर्श 'शिष्टस्यं' इत्यशुद्धः पाठः । ६. ...भ्युपमाद्' इत्यशुद्धः पाठो हस्तादर्श । १५/१८ ।।२६२। Jain Education Interational Page #268 -------------------------------------------------------------------------- ________________ अप्रामाण्यमननस्याऽपि स्वारसिकस्य ग्रहणाद् बौद्धताडिते ब्राह्मणे वेदाऽप्रामाण्याऽभ्युपगन्तरि नाऽव्याप्तिः । 'अप्रमाकरणत्व-प्रमाकरणत्वाऽभावयोश्च द्वयोरपि प्रामाण्यविरोधित्वेन सङ्ग्रहाद् नैकग्रहेऽन्याऽभ्युपगन्तर्यतिव्याप्तिः । अत्राऽऽह- इति चेत् ? तदप्रामाण्यमन्तरि = वेदाऽप्रामाण्याऽभ्युपगन्तरि ।।१८।। अजानति च वेदत्वमव्याप्तं चेद्विवक्ष्यते । वेदत्वेनाऽभ्युपगमस्तथापि स्याददः२ किल ।।१९।। 'अजानति चेति । वेदत्वं च वेदे अजानति ब्राह्मणे अव्याप्तं लक्षणमेतत्, तेन वेदाऽप्रामाण्याऽभ्युपगमात् ।। ___अथ चेद् = यदि वेदत्वेनाऽभ्युपगमो विवक्ष्यते, वेद एव वेदत्वमजानतश्च न वेदत्वेनाऽप्रामाण्याऽभ्युपगमः किन्तु ‘इदमप्रमाणमिति इदंत्वादिनैवेति नाऽव्याप्तिः । तथापि (स्याद्) अदः = एतल्लक्षणं किल ।।१९।। ब्राह्मणः पातकाप्राप्तः काकभावं तदापि हि । व्याप्नोतीशं च नोत्कृष्टज्ञानावच्छेदिका तनुः ।।२०।। ब्राह्मण इति । यदा ब्राह्मणः पातकात् = काकजन्मनिबन्धनाद् दुरितात् काकभावं ।।।।२६३ ।। १. मुद्रितप्रतौ 'अप्रमाकरणत्वाभावयोः' इति त्रुटितोऽशुद्धश्च पाठः । २. हस्तादर्श 'स्यादिदः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अज्ञानति' इत्यशुद्धः पाठः । का १५/२० Jain Education Interational Page #269 -------------------------------------------------------------------------- ________________ E प्राप्तः तदापि हि स्यात्, ब्राह्मण्यदशायां 'वेदप्रामाण्याऽभ्युपगन्तृत्वात् काकदशायां च वेदाऽप्रामाण्याऽनभ्युपगन्तृत्वात् । ___ उत्कृष्टज्ञानावच्छेदिका च तनुः ईशं = भवानीपतिं न व्याप्नोति । तथा च काकेऽतिव्याप्तिवारणार्थमुत्कृष्टज्ञानाऽवच्छेदकशरीरवत्त्वे सतीति विशेषणदाने ईश्वरेऽव्याप्तिरित्यर्थः ।।२०।। अन्याऽङ्गरहितत्वं च तस्य काकभवोत्तरम् । देहान्तराऽग्रहदशामाश्रित्याऽतिप्रसक्तिमत् ।।२१।। अन्येति । अन्याऽङ्गरहितत्वं च = अपकृष्टज्ञानावच्छेदकशरीरराहित्यं च तस्य = ब्राह्मणभवाऽनन्तरप्राप्तकाकभवस्य काकभवोत्तरं देहान्तराऽग्रहदशां = शरीरान्तराऽनुपादानाऽवस्थां आश्रियं अतिप्रसक्तिमद् = ५अतिव्याप्तं तदानीमपकृष्टज्ञानाऽवच्छेदकशरीरराहित्यात् ।।२१।। अवच्छेदकदेहानामपकृष्टधियामथ ।। सम्बन्धविरहो यावान् प्रामाण्योपगमे सति ।।२२।। १. हस्तादर्श 'वेदब्राह्मण्य....' इत्यशुद्धः पाठः । २. हस्तादर्श 'भवनी...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'ग्रहदिशा...' इत्यशुद्धः पाठः । ४. हस्तादर्श ....शरीराहित्यं' इति त्रुटितः पाठः । ५. हस्तादर्श 'अव्याप्तं' इत्यशुद्धः पाठः । ६. हस्तादर्श 'थावन्' इत्यशुद्धः पाठः । का १५/२२॥ ॥२६४ Jain Education Interational Page #270 -------------------------------------------------------------------------- ________________ अप्रामाण्याऽनुपगमस्तावत्कालीन एव हि। शिष्टत्वं काकदेहस्य' प्रागभावस्तदा च न।।२३।। अवच्छेदकेति । अथ प्रामाण्योपगमे सति वेदप्रामाण्याऽभ्युपगमकाले यावान् अप| कृष्टधियां अवच्छेदकदेहानां' = अपकृष्टज्ञानाऽवच्छेदकशरीराणां सम्बन्धविरहः = सम्बन्धाऽभावः ।।२२।। ____ अप्रामाण्येति । तावत्कालीन एव हि = सकलतत्समानकालीन एव अप्रामाण्याऽनुपगमः = वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वम् । काकदेहस्य प्रागभावो वेदप्रामाण्याऽभ्युपगमसमानकालीनः तदा च = काकस्य मरणाऽनन्तरं शरीरान्तराऽग्रहदशायां न अस्तीति नाऽतिव्याप्तिः । इत्थं च यावन्तं कालं वेदत्वेन वेदाऽप्रामाण्याभ्युपगमस्य विरहो वेदप्रामाण्याऽभ्युपगमसमानकालीनयावदप कृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावसमानकालीनस्तावन्तं कालं स शिष्ट: । ब्राह्मणोऽपि बौद्धो जातो वेदाऽप्रामाण्यं यावन्नाऽभ्युपगतवान् तावच्छिष्ट एव । बौद्धोऽपि ब्राह्मणो जातो वेदप्रामाण्यं यावन्नाऽङ्गीकृतवांस्तावदशिष्ट एवेति फलितमाह पद्मनाभः । ___ अत्र च वेदप्रामाण्याऽभ्युपगमसमानकालीनत्वव त्तत्सामानाधिकरण्यमपि वाच्यम् । १५/२३ ॥२६५। १. हस्तादर्श शिष्टत्वे' इत्यशुद्धः पाठः । २. हस्तादर्श'...देहस्याप्राग...' इत्यशुद्धः पाठः । ३. '...देहनां' इत्यशुद्धः पाठो हस्तप्रतौ । ४. '...दप्रकृ...' इति मुद्रितप्रतौ पाठः । ५. हस्तादर्श 'लीनत्वं वत्त...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #271 -------------------------------------------------------------------------- ________________ ___ अन्यथोत्तरकालं तत्कालीन यत्किंचिद्व्यधिकरणाऽपकृष्टज्ञानाऽवच्छेदकशरीरसम्बन्धप्रागभावनाशेनाऽव्याप्त्यापत्तेः ।।२३।। नैवं तदुत्तरे विप्रेऽव्याप्तेः प्राक्प्रतिपत्तितः । प्रामाण्योपगमात्तन्न प्राक् तत्रेति न सेति चेत् ।।२४।। नैवमिति । नैवं = यथा विवक्षितं प्राक्, तदुत्तरे विप्रे = काकभवोत्तरमवाप्तब्राह्मणभवे प्राक्प्रतिपत्तितः = प्राग्भवीयवेदप्रामाण्यग्रहमाश्रित्य अव्याप्तेः । तदानीं तदीयवेदाप्रामाण्याऽभ्युपगमविरहस्य प्राक्तनब्राह्मणभवीयवेदप्रामाण्याऽभ्युपगमसमानकालीनयावदपकृष्टज्ञाना-वच्छेदकशरीरसम्बन्धविरहाउसमानकालीनत्वाद्, आन्तरालिककाकभव एव काकशरीरसम्बन्धप्रागभावनाशात् । ___प्रामाण्योपगमाद् = वेदप्रामाण्याऽभ्युपगमात् प्राक् तत्र काकभवोत्तरब्राह्मणे तत् = शिष्टत्वं न इति हेतोरलक्ष्यत्वादेव न सा = अव्याप्तिः। वेदप्रामाण्याऽभ्युपगमे तु लक्षणसम्पत्त्यैवेति भावः। इति चेत् ? नन्वेवं यत्किंचिद्वेदप्रामाण्याऽभ्युपगम एव ग्राह्यः ।।२४।। तथा च - यत्किञ्चित्तद्ग्रहे पश्चात् प्राक् च काकस्य जन्मनः । विप्रजन्माऽन्तराले स्यात्सा ध्वंसप्रागभावतः।।२५।। १. '...लीनंय...' इति मुद्रितप्रतावशुद्धः पाठः । १५/२५ 1॥२६६।। Jain Education Interational Page #272 -------------------------------------------------------------------------- ________________ यत्किंञ्चिदिति । यत्किञ्चित्तद्ग्रहे = यत्किञ्चिद्वेदप्रामाण्याऽभ्युपगमस्य लक्षणमध्यनिवेशे काकस्य' जन्मनः पश्चात् प्राक् च (विप्रजन्माऽन्तराले=) विप्रजन्मनोरन्तराले = अप्राप्तिविश्लेषाभ्यां मध्यभावे ध्वंस-प्रागभावतः = काकशरीरसम्बन्धध्वंसप्रागभावावाश्रित्य सा प्रसिद्धाऽतिव्याप्तिः स्यात् । अयं भावः- यो ब्राह्मणः काको जातस्तदनन्तरं च ब्राह्मणो भविष्यति तस्य मरणाऽनन्तरं ब्राह्मणशरीराऽग्रहदशायामुत्तरब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरध्वंसेनैव लक्षणसाम्राज्यादतिव्याप्तिः । प्राक्तनकाकशरीरसम्बन्धप्रागभावस्तु न तत्समानकालीन एवेति । तस्यैव च ब्राह्मणभवत्यागाऽनन्तरं काकशरीराऽग्रहदशायां प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरसम्बन्धप्रागभावेनाऽतिव्याप्तिरिति । किं च यो ब्राह्मणः प्राग् बौद्धो वृत्तस्तस्य स्वापादिदशायां वेदाऽप्रामाण्याऽभ्युपगमविरहस्याऽग्रिमब्राह्मणभवीयनिरुक्तयावच्छरीरसम्बन्धाभावसमानकालीनत्वात्तत्रातिव्याप्तिरिति बोध्यम् ।।२५।। जीववृत्तिविशिष्टाङ्गाऽभावाऽभावग्रहोऽप्यसन् । उत्कर्षश्चाऽपकर्षश्चाऽव्यवस्थो यदपेक्षया ॥२६॥ १. हस्तादर्श 'काकजन्म' इति मूलकारिकानुसारेणाऽशुद्धः पाठः । २. हस्तादर्श'..दव्याप्तिः' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'च' नास्ति । ४. हस्तादर्श'...वेनाव्याप्ति...' इत्यशुद्धः पाठः । ५. हस्तादर्श'...याच्छ...' इत्यशुद्धः पाठः। १५/२६|| ||२६७॥ Page #273 -------------------------------------------------------------------------- ________________ भी 2 बम जीवेति । जीववृत्तिविशिष्टः = क्षेत्रज्ञवृत्तित्वविशिष्टो योऽङ्गाऽभावः = उत्कृष्टज्ञानाऽवच्छेदकशरीराऽभावस्तदभावग्रहोऽपि = तदभावनिवेशोऽपि (=जीववृत्तिविशिष्टाङ्गाभावाभावग्रहोऽपि) काकेश्वरयोरतिव्याप्त्यव्याप्तिवारणार्थं असन् = न दुष्टलक्षणसमाधानसमर्थः । यद् = यस्माद् उत्कर्षश्चाऽपकर्षश्च अपेक्षयाऽव्यवस्थः । कीटिकादिज्ञानाऽपेक्षयोत्कृष्टत्वात् काकादिज्ञानस्य, ब्राह्मणादिज्ञानस्य च देवादिज्ञानाऽपेक्षयाऽपकृष्टत्वात् । इत्थं च तदवस्थे' एवाऽतिव्याप्त्यव्याप्ती । न च काकादिज्ञानव्यावृत्तं मनुष्यादिज्ञानसाधारणमुत्कर्षं नाम जातिविशेषमाद्रियन्ते भवन्तः, अन्यथा कार्यमात्रवृत्तिजातेः कार्यताऽवच्छेदकत्वनियमेन तदवच्छिन्नेऽनुगतकारणकल्पनाऽऽपत्तिः । ___ 'ईश्वरज्ञानसाधारण्यान्न तस्य कार्यमात्रवृत्तित्वमिति' चेत् ? तथापि देवदत्तादिजन्यताऽवच्छेदिकयाऽपकर्षविशेषेण च साकर्यान्न जातित्वं । तत्तज्ज्ञानाऽवच्छेदकशरीरसम्बन्धाऽभावकूटस्तु दुर्ग्रह इति न किञ्चिदेतत् ।।२६।। ननु एकजन्मावच्छेदेन स्वसमानाधिकरणस्वोत्तरवेदाऽप्रामाण्याऽभ्युपग मध्वंसाऽनाधार१. मुद्रितप्रतौ ...रतिव्याप्तिवारणा..' इति त्रुटितोऽशुद्धश्च पाठः । २. हस्तादर्श ...धानासमर्थ' इत्यशुद्धः पाठः । ३. 'अपेक्षया व्यवस्थित' इति पाठो मुद्रितप्रतौ । मूलग्रन्थानुसारेण शुद्धोऽपेक्षितः पाठोऽस्माभिरत्र योजितः । ४. हस्तादर्श ...वस्थ एव.' इति पाठः । ५. हस्तादर्श ‘वत्कू...' इत्यशुद्धः पाठः । ६. 'वेदप्रामा...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ७. हस्तादर्श '...पमध्वं...' इत्यशुद्धः पाठः । १५/२६ ||२६८। Jain Education Interational For Private & Personal use only Page #274 -------------------------------------------------------------------------- ________________ स म्य ष्टि द्वा ho to शि का १५/२८ वेदप्रामाण्याऽभ्युपगमोत्तरकालवृत्तित्वविशिष्ट-वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वमिति निर्वचने न कोऽपि दोषो भविष्यतीत्यत आह अपि चाऽव्याप्त्यतिव्याप्ती कार्य- देशविकल्पतः । आद्यग्रहे स्वतात्पर्यान्न दोष इति चेन्मतिः । । २७।। अपि चेति। अपि च' कार्त्य- देशविकल्पतः = कृत्स्नवेदप्रामाण्याऽभ्युपगमो विवक्षित देशतदभ्युपगमो वा ? इति विवेचने अव्याप्त्यतिव्याप्ती । कृत्स्नवेदप्रामाण्याऽभ्युपगमस्य ब्राह्मणेष्वप्यभावात्। न हि वेदान्तिनो नैयायिकाद्यभिमतां श्रुतिं प्रमाणयन्ति, नैयायिकादयो वा वेदान्त्यभिमताम् । यत्किञ्चिद्वेदप्रामाण्यं च बौद्धादयोऽप्यभ्युपगच्छन्ति “न हिंस्यात् सर्वभूतानि ” ( छान्दोग्योपनिषत् - अ. ८), "अग्निर्हिमस्य भेषजम्" (यजुर्वेद - २३/१०) इत्यादिवचनानां तेषामपि सम्मतत्वादिति । “स्वतात्पर्यात् = स्वाऽभिप्रायमपेक्ष्य आद्यग्रहे = यावद्वेदप्रामाण्याभ्युपगमनिवेशे' न दोषः, 'स्व-स्वतात्पर्ये प्रमाणं श्रुतिरिति हि सर्वेषां नैयायिकादीनामभ्युपगमः" इति चेन्मतिः = कल्पना भवदीया ? ।। २७ ।। नैवं विशिष्य तात्पर्याग्रहे तन्मानताऽग्रहात् । सामान्यतः स्वतात्पर्ये प्रामाण्यं नोऽपि सम्मतम् ।। २८ ।। १. हस्तादर्शे 'च' नास्ति । २. मुद्रितप्रती ...णेष्वभा...' इति पाठः । ३. हस्तादर्शे '...पगमे निवेशे' इति अशुद्धः पाठः । ।।२६९ । Page #275 -------------------------------------------------------------------------- ________________ स म्य ष्टि ho to s द्वा शि का १५/२९ नैवमिति । एवं मतिः न युक्ता, कस्याश्चिद्दुरवबोधायाः श्रुतेः विशिष्य स्वकल्पिताऽर्थाऽनुसारेण तात्पर्याग्रहे तन्मानतायाः = तत्प्रमाणताया अग्रहात् (= तन्मानताऽग्रहात्), स्वतात्पर्ये सर्ववेदप्रामाण्याऽभ्युपगमस्य दुःशकत्वात् । ‘अनाकलिततात्पर्यायामपि श्रुतौ प्रमोपहितत्वाऽग्रहेऽपि प्रमाकरणत्वस्य सुग्रहत्वान्न 'दोष' इत्यत आह- सामान्यतो नयरूपत्वेन स्वतात्पर्ये = स्वाऽभिप्राये प्रामाण्यं = वेदप्रामाण्यं नः = अस्माकं जैनानां अपि सम्मतम् । ' यावन्तो हि परसमयास्तावन्त एव नया' इति श्रुतपरिकर्मितमतेः सर्वमेव शब्दं प्रमाणीकुर्वतः सकलवेदप्रामाण्याऽभ्युपगमोऽनपाय एवेति ।। २८ ।। एतदेवाऽऽह - = मिथ्यादृष्टिगृहीतं हि मिथ्या सम्यगपि श्रुतम् । सम्यग्दृष्टिगृहीतं तु सम्यग्मिथ्येति नः स्थितिः ।। २९ ।। मिथ्यादृष्टीति । मिथ्यादृष्टिगृहीतं हि सम्यगपि श्रुतं आचारादिकं मिथ्या भवति, तं प्रति तस्य विपरीतबोधनिमित्तत्वात् । सम्यग्दृष्टिगृहीतं तु मिथ्या अपि श्रुतं वेदपुराणादिकं सम्यक् तं प्रति तस्य यथाऽर्थबोधनिमित्तत्वात् । इति नः = अस्माकं स्थिति: सिद्धान्तमर्यादा । १. ‘मतिनिर्युक्ता' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. 'तप्रमा'... इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्शे '... यप्रामाण्यं' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'स्वाऽभिप्रायप्रामाण्ये' इत्यशुद्धः पाठः । ४ हस्तादर्शे 'वेदः पु...' इति पाठः । ५. हस्तादर्शे 'मर्यादात्' इत्यशुद्धः पाठः । 112901 Page #276 -------------------------------------------------------------------------- ________________ प्रमानिमित्तत्वमात्रमेतदभ्युपगतं न तु प्रमाकरणत्वमिति चेत् ? न, त्वदुक्तं प्रमाकरणत्वमेव' प्रमाणत्वमिति सर्वेषां प्रमातॄणामनभ्युपगमात् ।।२९।। तात्पर्य वः स्वसिद्धान्तोपजीव्यमिति चेन्मतिः । ननु युक्त्युपजीव्यत्वं द्वयोरप्यविशेषतः ॥३०॥ ___ तात्पर्यमिति । वो = युष्माकं स्वसिद्धान्तोपजीव्यं = स्वसिद्धान्तपुरस्कारि तात्पर्यम्। तथा चाऽन्याऽऽगमाऽनुपजीव्यतात्पर्ये सकलवेदप्रामाण्याऽभ्युपगमनिवेशान्न दोष इति चेद् = यदि तव मतिः, ननु तदा द्वयोरपि आवयोः अविशेषतो युक्त्युपजीव्यत्वम्। अयं भावःअन्याऽऽगमाऽनुपजीव्यत्वं ह्यन्याऽऽगमाऽसंवादित्वं चेत ? तत्संवादिनि स्वाऽभिप्रायेऽव्याप्तिः । अयौक्तिकतदसंवादित्वं चेद ? अस्माकमपि तात्पर्यमयौक्तिकाऽऽगमाऽसंवाद्येव, सर्वस्यैव भगवद्वचनस्य युक्तिप्रतिष्ठितत्वात्, मिथ्याश्रुततात्पर्यस्याऽपि स्याद्वादसङ्गतयुक्त्यैव गृह्यमाणत्वात् ।।३०।। यतः उद्भावनमनिग्राह्यं युक्तेरेव' हि यौक्तिके । प्रामाण्ये च न वेदत्वं सत्यत्वं तु प्रयोजकम् ॥३१।। उद्भावनमिति । यौक्तिके हि अर्थे युक्तेरेवोद्भावनं अनिग्राह्यं अनिग्रहस्थानं, १. हस्ताद” 'प्रमाकरत्वमेव' इति त्रुटितः पाठः । २. हस्तादर्श 'युक्तिरेव' इति पाठः । ३. अत्र 'सम्यक्त्वं' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च ...त्वं मु' इत्यशुद्धः पाठः । १५/३१ २७१।। Page #277 -------------------------------------------------------------------------- ________________ । अन्यथा' निग्रहाभिधानात् । यद् वादी- “जो हेउवायपखंमि हेउओ आगमे अ आगमिओ। सो समयपन्नवओ सिद्धंतविराहगो अन्नो ।।" (सं.त.३/४५) इति । अथ वेदत्वमेव प्रामाण्यप्रयोजकमित्यभ्युपगमो' यावद्वेदप्रामाण्याऽभ्युपगमः स्यादित्यत आह- प्रामाण्ये च वेदत्वं न प्रयोजकं किं तु सत्यत्वं एव, लोकशब्दस्याप्यविसंवादिनः प्रमाणत्वादिति श्रद्धामात्रमेतदिति न किञ्चिदेतत् ।।३१ ।। शिष्टत्वमुक्तमत्रैव भेदेन प्रतियोगिनः । तमानुभविकं बिभ्रत् परमानन्दवत्यतः ॥३२॥ शिष्टत्वमिति । अतः = परोक्तशिष्टलक्षणनिरासात् । अत्रैव = सम्यग्दृष्टावेव उक्तं अंशतः क्षीणदोषत्वं शिष्टत्वं परमानन्दवति = दुर्भेदमिथ्यात्वमोहनीयभेदसमुत्थनिरतिशयाऽऽनन्दभाजने । शिष्टत्वलिङ्गाभिधानमेतत् । प्रतियोगिनो दोषस्य क्षीयमाणस्य भेदेन तं = भेदं आनुभविकं = *सकलजनाऽनुभवसिद्धं • बिभ्रत् । भवति हि 'अयमस्मात् १५/३२ शिष्टतरोऽयमस्माच्छिष्टतम' इति सार्वजनीनो व्यवहारः । स चाऽधिकृताऽपेक्षयाऽधिकतराऽधिकतमदोषक्षयविषयतया उपपद्यते ।। ___परेषां तु न कथञ्चित, सर्वेषां वेदप्रामाण्याऽभ्युपगमादौ विशेषाऽभावात । १. हस्तादर्श 'अन्यनिग्र...' इति पाठः । स चाशुद्धः प्रतिभाति । २. अत्र मुद्रितप्रतौ ....गमे' इत्यशुद्धः पाठः । ३. हस्तादर्श'...मात्रैव' इत्यशुद्धः पाठः । ४. हस्तादर्श'...नंदकारणम्' इत्यशुद्धः पाठः । ........ चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । का ॥२७२। Jain Education Interational Page #278 -------------------------------------------------------------------------- ________________ एतेन वेदविहिताऽर्थाऽनुष्ठातृत्वं शिष्टत्वमित्यपि निरस्तम् । यावत्तदेकदेशविकल्पाभ्यामसम्भवाऽतिव्याप्त्योः प्रसङ्गाच्च । यत्त्वदृष्टसाधनताविषयकमिथ्याज्ञानाऽभाववत्त्वं शिष्टलक्षणमुच्यते तत्त्वस्मदुक्तशिष्टत्वव्यञ्जकमेव युक्तमाभाति, न तु परनीत्या 'स्वतन्त्रलक्षणमेव । ____ गङ्गाजले कूपजलत्वाऽऽरोपाऽनन्तरं 'इदं कूपजलं नाऽदृष्टसाधनमिति भ्रमवतः, कूपजल एव गङ्गाजलत्वाऽऽरोपाऽनन्तरं 'इदं गङ्गाजलमदृष्टसाधनमि'ति भ्रमवतो गङ्गाजले उच्छिष्टत्वाऽऽरोपाऽनन्तरं 'नाऽदृष्टसाधनमि'ति भ्रमवतश्च अशिष्टत्ववारणायाऽदृष्टसाधनताऽवच्छेदक रूपा(प?)पुरस्कारेण निषेधमुखेनाऽदृष्टसाधनताविरोधिरूपाऽपुरस्कारेण चाऽदृष्टसाधनताविषयकत्वविवक्षायामपि स्वापादिदशायां बौद्धादावतिव्याप्तेः । एतावदग्रहेऽपि सर्वत्र शमादिलिङगेन शिष्टत्वव्यवहाराच्चेति किमनया कुसृष्ट्या ? | ||३२॥ ।। इति सम्यग्दृष्टिद्वात्रिंशिका ।।१५।। १५/३२ ॥२७३। १. हस्तादर्श 'स्वतन्त्रलक्षण' इति पाठो नास्ति । २. ...करूपपु...' इति अशुद्धः पाठः मुद्रितप्रतौ । Jain Education Interational For Private & Personal use only Page #279 -------------------------------------------------------------------------- ________________ ॥ अथेशानुग्रहविचारद्वात्रिंशिका ॥१६॥ सम्यग्दृष्टिनिरूपणाऽनन्तरं तन्निर्वाहकमीशाऽनुग्रहं विचारयति महेशाऽनुग्रहात्केचिद्योगसिद्धिं प्रचक्षते । क्लेशाद्यैरपरामृष्टः पुंविशेषः स चेष्यते ॥१॥ ___ महेशेति । केचित् = पातञ्जलाः महेशाऽनुग्रहात् योगस्योक्तलक्षणस्य सिद्धिं' = योगक्षेमलक्षणां (योगसिद्धिं) प्रचक्षते = प्रकथयन्ति । स च महेशः पुंविशेषः = पुरुषविशेष इष्यते । कीदृश इत्याह-क्लेशाद्यैः = क्लेश-कर्म-विपाकाऽऽशयैः अपरामृष्टः = अस्पृष्टः त्रिष्वपि कालेषु । तथा च सूत्रं- “क्लेशकर्मविपाकाशयैः अपरामृष्टः पुरुषविशेष ईश्वरः” (योगसूत्र १-२४) इति । ___ अत्र क्लेशा अविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशा "वक्ष्यमाणलक्षणाः । ‘क्लेशमूलः कर्माऽऽशयो दृष्टाऽदृष्टजन्मवेदनीयः', अस्मिन्नेव जन्मन्यनुभवनीयो दृष्टजन्मवेदनीयः, जन्मान्त राऽनुभवनीयस्त्वदृष्टजन्मवेदनीयः । तीव्रसंवेगेन हि 'कृतानि पुण्यानि देवताऽऽराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराऽऽराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । न चैतदनुपपत्तिः, १. हस्तादर्श 'सिद्धं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'कथ...' इति पाठः । ३. मुद्रितप्रतौ 'अस्पृष्टः' इति पदं नास्ति । ४. हस्तादर्श 'भक्ष्य...' इत्यशुद्धः पाठः । ५. हस्तादर्श 'हि तानि' इति पाठः । ॥२७४।। १६/१ Jain Education Interational Page #280 -------------------------------------------------------------------------- ________________ FF he photo सदनुष्ठानेन प्रतिबन्धकाऽपनयने केदारान्तरे जलाऽऽपूरणवत्पाश्चात्त्यप्रकृत्यापूरणेनैव सिद्धिविशेषोपपत्तेः । तदुक्तं- "जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' (योगसूत्र ४/१)। सिद्धिश्चोत्कर्षविशेषः कार्यकारणस्य। 'जात्यन्तरपरिणामः प्रकृत्याऽऽपूरात्' (योगसूत्र ४/२) निमित्तमप्रयोजकं प्रकृतीनां 'वरणभेदस्तु ततः क्षेत्रिकवदिति (योगसूत्र ४/३) । “सति मूले तद्विपाको जात्यायु गाः” (योगसूत्र २-१३) । सति मूले = क्लेशरूपबीजे तेषां कुशलाऽकुशलकर्मणां विपाकः = २फलं जात्यायु गा भवन्ति । जातिर्मनुष्यादिः, आयुः = चिरकालं शरीरसम्बन्धः, भोगाः = विषयाः, इन्द्रियाणि, सुखदुःखसंविच्च, कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य । ___इदमत्र तात्पर्यं- चित्तं हि द्विविधं साशयमनाशयं च । तत्र योगिनामनाशयम् । तदाह-“तत्र ध्यानजमनाशयं" (योगसूत्र ४-६)। अत एव तेषामशुक्लाऽकृष्णं कर्म। तदाह"कर्माऽशुक्लाकृष्णं योगिनः, त्रिविधमितरेषां” (योगसूत्र ४-७) । शुभफलदं कर्म यागादि शुक्लं, अशुभफलदं ब्रह्महत्यादि कृष्णं, उभयसङ्कीर्णं शुक्लकृष्णं । तत्र शुक्लं दान-तपःस्वाध्यायादिमतां पुरुषाणां, कृष्णं नारकाणां, शुक्लकृष्णं मनुष्याणां, योगिनां तु विलक्षणमिति । १. मुद्रितप्रतौ 'चरण...' इत्यशुद्धः पाठः । २. 'जलं' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. मुद्रितप्रतौ 'भोभा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'तत्र' पदं नास्ति । ५. मुद्रितप्रतौ ‘कर्माऽशुक्लकृष्णमित्यशुद्धः पाठः । ...... चिह्न द्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ६. हस्तादर्श 'शुक्लं मनु...' इत्यशुद्धः पाठः । 1॥२७५।। १६/१ Jain Education Interational For Private & Personal use only Page #281 -------------------------------------------------------------------------- ________________ साशयं चित्तमयोगिनां । तत्र फलत्यागाऽनुसन्धानाऽभावात्फलजनकः कर्माशयः । 'ततस्तद्विपाकाऽनुगुणानामेवाऽभिव्यक्तिर्वासनानां' । (योगसूत्र ४/८) द्विविधा हि कर्मवासनाः स्मतिमात्रफला जात्याय गफलाश्च । तत्राऽऽद्या येन कर्मणा यादृक् शरीरमारब्धं देव-मानुष-तिर्यगादिभेदेन जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्याऽऽरम्भे तदनु-रूपामेव स्मृतिं जनयन्ति, अन्यादृशीं च न्यग्भावयन्ति, देवादिभवे नारकादिशरीरोपभोगस्मृतिवत्। ___न चाऽतिव्यवहितयोः स्मृति-संस्कारयोर्जन्यजनकभावानुपपत्तिः, दूराऽनुभूतस्याऽप्यविचलितचित्ते वासनात्मना स्थितस्योद्बोधविशेषसहकारेण स्मृतिविशेषपरिणामे व्यवधानाऽभावात् । तदुक्तं- “जाति-देश-कालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्" (योगसूत्र ४-९)। ताश्च सुखसाधनाऽवियोगाऽध्यवसायसङ्कल्पस्य मोहलक्षणस्य बीजस्याऽनादित्वादादिरहिताः । तदुक्तं- “तासामनादित्वं, आशिषो नित्यत्वात्" (योगसूत्र ४-१०) । द्वितीया अपि चित्तभूमावेवानादिकालं संचिता यथा यथा पाकमुपयान्ति तथा तथा गणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं कार्यमारभन्त इति । तदेतत्कर्माऽऽशयफलं जात्यादिविपाक इति । यद्यपि सर्वेषामात्मनां क्लेशादिपरामर्शो नास्ति, तथापि ते चित्तगतास्तेषां व्यपदिश्यन्ते, यथा योधगतौ जयाऽजयो स्वामिनः । अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो १. हस्तादर्श 'द्वितीयाया' इत्यशुद्धः पाठः । २. हस्तादर्श '...दिस्पर्शो' इत्यशुद्धः पाठः । ॥२७६ Jain Education Intemational Page #282 -------------------------------------------------------------------------- ________________ भy 449 । नास्तीति विलक्षणोऽयमन्येभ्यः ।।१।। ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥२॥ ज्ञानमिति । ज्ञानादयो ह्यत्रा प्रतिपक्षाः सहजाश्च शुद्धसत्त्वस्याऽनादिसम्बन्धात् । यथा हीतरेषां सुख-दुःख-मोहतया विपरिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये प्रतिसङ्क्रान्तं चिच्छाया सङ्क्रान्तान्तःसंवेद्यं भवति, नैवमिश्वरस्य, किं तु तस्य केवल एव सात्त्विकः परिणामो भोग्यतया व्यवस्थित इति । किं च प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणाऽनुपपत्तेरनादिज्ञानादिमत्त्वमस्य सिद्धम् ।।२।। सात्त्विकः परिणामोऽत्र काष्ठाप्राप्ततयेष्यते । नाऽक्षप्रणालिकाप्राप्त इति सर्वज्ञतास्थितिः ।।३।। सात्त्विक इति । अत्र = ईश्वरे सात्त्विकः परिणामः काष्ठाप्राप्ततया = अत्यन्तोत्कृष्टत्वेन इष्यते । तारतम्यवतां सातिशयानां धर्माणां परमाणावल्पत्वस्येवाऽऽकाशे परममहत्त्वस्येव काष्ठाप्राप्तिदर्शनात् ज्ञानादीनामपि चित्तधर्माणां तारतम्येन परिदृश्यमाणानां क्वचिन्निरतिशयत्वसिद्धेः । न पुनः अक्षप्रणालिकया = इन्द्रियद्वारा प्राप्तः = उपनीतः इति हेतोः सर्वविषयत्वादेतच्चित्तस्य (सर्वज्ञतास्थितिः=) सर्वज्ञतायाः स्थितिः = प्रसिद्धिः । तदुक्तं१. हस्तादर्श 'संक्रान्तः सं....' इति पाठः । २. हस्तादर्श 'प्राप्ता...' इत्यशुद्धः पाठः । का |||२७७। Jain Education Interational For Private & Personal use only Page #283 -------------------------------------------------------------------------- ________________ ल 19 he top bhosda थे शा नु ग्र वि चा र द्वा नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि । । ५ । । नैतदिति । एतद् = ईश्वराऽनुग्रहजन्यत्वं योगस्य न युक्तं अनुग्राह्ये तत्स्वभावत्वं अनुग्राह्यस्वभावत्वं अन्तरा = विना, यतो ( देवतानुग्रहादपि = ) देवताया अनुग्रहादपि शि - 'अणुरात्मा भवतु' इतीच्छालक्षणात् कदाचिदपि अणुरात्मा न स्यात्, स्वभावाऽपरावृत्तेः = का 11411 १६/५ त्रिं “तत्र निरतिशयं सर्वज्ञबीजम् " ( योगसूत्र १ - २५ ) ।। ३॥ ऋषीणां कपिलादीनामप्ययं परमो गुरुः । तदिच्छया जगत्सर्वं यथाकर्म विवर्तते ॥ ४॥ ऋषीणामिति । अयं = ईश्वरः कपिलादीनामपि ऋषीणां परमः = उत्कृष्टो गुरुः । तदुक्तं- “स पूर्वेषामपि गुरुः कालेनानऽवच्छेदादिति" ( योगसूत्र १- २६ ) । तस्य = ईश्वरस्य इच्छया (=तदिच्छया) सर्वं जगत् यथाकर्म कर्माऽनतिक्रम्य विवर्तते उच्चावचफलभाग् भवति । न च कर्मणैवाऽन्यथासिद्धिः', एककारकेण कारकान्तराऽनुपक्षयादिति भावः || ४ || एतद् दूषयति = नैतद्युक्तमनुग्राह्ये' तत्स्वभावत्वमन्तरा । = = १. 'सिद्ध:' इति मुद्रितप्रतौ । २. हस्तादर्शे ग्राह्यत...' इति पाठः । हस्तादर्शान्तरे च 'मनुग्राह्यत...' इत्यशुद्धः पाठः । ।।२७८ । Page #284 -------------------------------------------------------------------------- ________________ उभयोस्तत्स्वभावत्वभेदे च परिणामिता । अत्युत्कर्षश्च धर्माणामन्यत्रातिप्रसञ्जकः ।।६।। __उभयोरिति । उभयोः = ईश्वराऽऽत्मनोः तत्स्वभावत्वभेदे च = व्यक्ति-कालफलादिभेदेन विचित्राऽनुग्राह्याऽनुग्राहकस्वभावभाजनत्वे च परिणामिता स्यात्, स्वभावभेदस्यैव परिणामभेदाऽर्थत्वात् । तथा चाऽपसिद्धान्तः । ___ज्ञानादिधर्माणामत्युत्कर्षेणेश्वरसिद्धिरित्यपि च नास्ति । यतो धर्माणामत्युत्कर्षः(च) साध्यमानो ज्ञानादाविवा अन्यत्र = अज्ञानादौ अतिप्रसञ्जकः = अनिष्टसिद्धिकृत्, अत्युत्कृष्टज्ञानादिमत्तयेश्वरस्येव तादृशाज्ञानादिमत्तया तत्प्रतिपक्षस्याऽपि सिद्ध्यापत्तेः । _____ इत्थं च 'ज्ञानत्वमुत्कर्षाऽपकर्षाऽनाश्रयवृत्ति, उत्कर्षाऽपकर्षाऽऽश्रयवृत्तित्वात्, महत्त्ववद्' इत्यत्र 'ज्ञानत्वं न तथा, चित्त धर्ममात्रवृत्तित्वात्, अज्ञानवदिति प्रतिरोधो द्रष्टव्यः । प्रकृति-पुरुषसंयोग-वियोगौ च यदि तात्त्विको तदाऽऽत्मनोऽपरिणामित्वं न स्यात, तयोढेिष्ठत्वेन तस्य जन्यधर्माऽनाश्रयत्वक्षतेः । नो चेत् ? कयोः कारणमीश्वरेच्छा ? ___किं च प्रयोजनाऽभावादपि नेश्वरो जगत् कुरुते । न च परमकारुणिकत्वाद् भूताऽनुग्रह एवाऽस्य प्रयोजनमिति भोजस्य वचनं साम्प्रतम, इत्थं हि सर्वस्याऽयमिष्टमेव सम्पादयेदित्यधिकं शास्त्रवार्तासमुच्चयविवरणे ।।६।। १. हस्तादर्श'....दिधर्ममामाव' इत्यशुद्धः पाठः। ....... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति। २. हस्तादर्श 'शस्त्रवा...' इत्यशुद्धः पाठः। ||२७९।। १६/६ For Private & Personal use only Page #285 -------------------------------------------------------------------------- ________________ 후 화 आर्थं व्यापारमाश्रित्य 'तदाज्ञापालनात्मकम् । युज्यते परमीशस्याऽनुग्रहस्तन्त्रनीतितः ।।७।। ___ आर्थमिति । आर्थं = ततः सामर्थ्यप्राप्तं, न तु प्रसह्य तेनैव कृतं, तदाज्ञापालनात्मकं व्यापारमाश्रित्य परं = केवलं तन्त्रनीतितः = अस्मत्सिद्धान्तनीत्या ईशस्याऽनुग्रहो युज्यते। तदुक्तं- “आर्थं व्यापारमाश्रित्य न च दोषोऽपि विद्यते” (योगबिन्दु २९८) इति ।।७।। एवं च प्रणवेनैतज्जपात् प्रत्यूहसङ्क्षयः । प्रत्यक्चैतन्यलाभश्चेत्युक्तं युक्तं पतञ्जलेः ।।८।। एवं चेति । एवं च = आर्थव्यापारेणेशाऽनुग्रहाऽऽदरे च प्रणवेन = ॐकारेण एतस्य = ईश्वरस्य जपात् (=एतज्जपात्) प्रत्यूहानां = विघ्नानां सङ्क्षयः(=प्रत्यूहसङ्क्षयः)। विषयप्रातिकूल्येनाऽन्तः-करणाऽभिमुखमञ्चति यत्तत् प्रत्यक्चैतन्यं = ज्ञानं, तस्य लाभश्च (=प्रत्यक्चैतन्यलाभश्च) इति पतञ्जलेरुक्तं युक्तम् ।। 'तस्य वाचकः प्रणवः, तज्जपस्तदर्थभावनं, ततः प्रत्यक्चेतनाऽधिगमोऽप्यन्तरायाऽभावश्च' (योगसूत्र १/२७-२८-२९) इति प्रसिद्धेः, गुणविशेषवतः पुरुषस्य प्रणिधानस्य महाफलत्वात् ।।८।। १. हस्तादर्श 'तदानापाल' इत्यशुद्धः पाठः । २. मुद्रितप्रती '...गमोऽन्त...' इति पाठः । परं योगसूत्रानुसारेणाऽत्राऽपेक्षितः पाठोऽस्माभिः योजितः । 서 적 파 ||२८०। 의 १६/८ Jain Education Interational For Private & Personal use only Page #286 -------------------------------------------------------------------------- ________________ FRhodha प्रत्यूहा व्याधयः 'स्त्यानं प्रमादाऽऽलस्य-'विम्भ्रमाः । सन्देहाऽविरती भूम्यलाभश्चाप्यनवस्थितिः ।।९।। प्रत्यूहा इति । 'व्याधि स्त्यान-संशय-प्रमादाऽऽलस्याऽविरति-भ्रान्तिदर्शनाऽलब्धभूमिकत्वा| ऽनवस्थितत्वानि चित्तविक्षेपाः तेऽन्तरायाः' (योगसूत्र १-३०) इति सूत्रम् ।।९।। धातुवैषम्यजो व्याधिः स्त्यानं चाऽकर्मनिष्ठता । प्रमादोऽयत्न आलस्यमौदासीन्यं च हेतुषु ॥१०॥ धात्विति । धातुवैषम्यजो = धातूद्रेकादिजनितः व्याधिः ज्वराऽतिसारादिः । 'स्त्यानं चाऽकर्मनिष्ठता = आदित एव कर्माऽप्रारम्भः । प्रमादोऽयत्नः = आरब्धेऽप्यनुत्थानशीलता। आलस्यं च हेतुषु = समाधिसाधनेषु औदासीन्यं = माध्यस्थ्यं, न तु पक्षपातः ।।१०।। विभ्रमो व्यत्ययज्ञानं सन्देहः स्यान्न वेत्ययम् । अखेदो विषयाऽऽवेशाद् भवेदविरतिः किल ॥११॥ विभ्रम इति । विभ्रमो = व्यत्ययज्ञानं, रजते रङ्गबुद्धिवत् इष्टसाधनेऽपि योगेऽनिष्टसाधनत्वनिश्चयः । सन्देहः = 'अयं योगः स्याद्वा न वे'ति आयाकारः । १. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थानमिति पाठः । अस्माभिः योगसूत्रानुसारेण पाठो गृहीतः । २. मुद्रितप्रती 'सम्भ्रमा' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थानमिति पाठः । अस्माभिः योगसूत्रानुसारेण पाठो गृहीतः । ४. हस्तादर्श 'करिंभ' इत्यशुद्धः पाठः । (१।२८१। Jain Education Interational Page #287 -------------------------------------------------------------------------- ________________ विषयाऽऽवेशाद् = बाह्येन्द्रियाऽर्थव्याक्षेपलक्षणात् अखेदः = अनुपरमलक्षणः किलाऽविरति| भवेत् ।।११।। भूम्यलाभः समाधीनां भुवोऽप्राप्तिः 'कुतोऽपि हि । लाभेऽपि तत्र चित्तस्याऽप्रतिष्ठा त्वनवस्थितिः ।।१२।। भूम्यलाभ इति । कुतोऽपि हेतोः (हि) समाधीनां भुवः = स्थानस्य अप्राप्तिः = भूम्यलाभः । लाभेऽपि = समाधिभूप्राप्तावपि तत्र = समाधिभुवि चित्तस्याऽप्रतिष्ठा = अनिवेशः त्वनवस्थितिः ।।१२।। रजस्तमोमयादोषाद्विक्षेपाश्चेतसो ह्यमी । सोपक्रमा जपान्नाशं यान्ति शक्तिहतिं परे ।।१३।। रज इति । अमी हि रजस्तमोमयादोषाच्चेतसो विक्षेपाः = एकाग्रताविरोधिनः परिणामाः। सोपक्रमाः = अपवर्तनीयकर्मजनिताः सन्तः जपाद = भगवति प्रणिधानाद नाशं यान्ति । परे = निरुपक्रमाः शक्तिहतिं = दोषाऽनुबन्धशक्तिभङ्गं । उभयथाऽपि योगप्रतिबन्ध सामर्थ्यमेषामपगच्छतीति भावः ।।१३।। १६/१३ प्रत्यक्चैतन्यमण्यस्मादन्तर्योतिःप्रथामयम् । १. मुद्रितप्रतौ 'कथंचन' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'प्रत्यक्च्चै...' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'प्रत्येक' इत्यशुद्धः पाठः। ||२८२। Jain Education Interational For Private & Personal use only Page #288 -------------------------------------------------------------------------- ________________ ल ल 5 te bhedo phus its s शा ग्र ह वि चा र द्वा त्रिं शि का १६/१६ बहिर्व्यापाररोधेन जायमानं मतं हि नः ।।१४।। प्रत्यगिति । अस्माद् = भगवज्जपात्' बहिर्व्यापाररोधेन = शब्दादिबहिरर्थग्रहत्यागेन अन्तर्ज्योतिःप्रथा = ज्ञानादिविशुद्धिविस्तारः तन्मयं ( = अन्तर्ज्योतिः प्रथामयं ) प्रत्यक्चैतन्यमपि हि जायमानं मतं नः = अस्माकं, तथैव भक्ति - श्रद्धाद्यतिशयोपपत्तेः ।। १४ ।। योगाऽतिशयतश्चाऽयं स्तोत्रकोटिगुणः स्मृतः । योगदृष्ट्या बुधैर्दृष्टो ध्यानविश्रामभूमिका ।। १५ ।। = जपः योगेति । योगाऽतिशयतश्च आत्माऽभ्यन्तरपरिणामोत्कर्षाच्च । अयं स्तोत्रकोटिगुणः स्मृतः चिरन्तनाऽऽचार्यैः, वाग्योगाऽपेक्षया मनोयोगस्याऽधिकत्वात् । अ एव मौनविशेषेणैव जपः प्रशस्यते । तथा बुधैः = विशारदैः योगदृष्ट्या = योगजप्रातिभज्ञानेन' ध्यानस्य विश्रामभूमिका ( = ध्यानविश्रामभूमिका) = पुनरारोहस्थानं दृष्टः ।। १५ ।। ननु परैर्यादृश ईश्वरोऽभ्युपगतस्तादृशस्य भवद्भिरनभ्युपगमात् कथमार्थव्यापारेणाऽपि तदनुग्रहसिद्धि-रित्याशङ्कायां विषयविशेषपक्षपातेनैव समाधानाऽभिप्रायवानाहमाध्यस्थ्यमवलम्ब्यैव देवताऽतिशयस्य च । = सेवा सर्वेर्बुधैरिष्टा' कालातीतोऽपि यज्जगौ । । १६ ॥ १. हस्तादर्शे ‘...ज्जापात्' इति पाठः । २. हस्तादर्शे ...भज्ञाने' इत्यशुद्धः पाठः । ३. 'र्दृष्टा' इति हस्तादर्शादौ पाठ: । परं व्याख्यानुसारेणात्र 'रिष्टा' इति पाठः सम्यक् । ।। २८३ ।। Page #289 -------------------------------------------------------------------------- ________________ अ थे शा ग्र ho do has its s ह वि चा र द्वा त्रिं शि का १६/१८ माध्यस्थ्यमिति । माध्यस्थ्यं = अनिर्णीतविशेषकलहाऽभिनिवेशाऽभावलक्षणं अवलम्ब्यैव देवतातिशयस्य च = विशिष्टदेवताऽऽख्यस्य च सेवा स्तवन- ध्यान- पूजनादिरूपा सर्वैर्बुधैः इष्टा = तन्निमित्तकफलाऽर्थत्वेनाऽभिमता । स्तवनादिक्रियायाः २ स्वकर्तृकायाः फलदानसमर्थत्वेऽपि स्तवनीयाद्यालम्बनत्वेन तस्याः स्तोत्रादेः फललाभस्य स्तोतव्यादिनिमित्तकत्वव्यवहारात् । यद् यस्मात् कालातीतोऽपि शास्त्रकृद्विशेषो जगौ । । १६ ।। अन्येषामप्ययं मार्गो मुक्ताऽविद्यादिवादिनाम् । अभिधानादिभेदेऽपि तत्त्वनीत्या व्यवस्थितः ।। १७ ।। - = अन्येषामिति । अन्येषामपि तीर्थान्तरीयाणां किं पुनरस्माकं, अयं अस्मदुक्तो मार्गो देवतादिगोचरः । मुक्तादिवादिनां अविद्यादिवादिनां च ( = मुक्ताविद्यादिवादिनां ) मतेन । अभिधानादीनां = नामविशेषणादीनां भेदेऽपि ( = अभिधानादिभेदेऽपि ) तत्त्वनीत्या परमार्थत एकविषयतया व्यवस्थितः = प्रतिष्ठितः || १७ ।। दैश्वर्येण समन्वितः । बुद्धोऽन्वाऽपि तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् ॥ १८ ॥ परब्रह्मवादिनां, बुद्धो बौद्धानां, अर्हन् जैनानां वाऽपीति समुच्चये, १. हस्तादर्श' ... लम्ब्यै दे' इत्युशुद्धः पाठः । २ मुद्रितप्रती 'क्रियाः' इत्यशुद्धः पाठः । ३. हस्तादर्शेषु '...दिभेदेन' इति पाठः । वृत्त्यनुसारेण च सोऽशुद्धः प्रतिभाति । ४. हस्तादर्श परमब्रह्म....' इति पाठान्तरम् । मुक्तइति । मुक्तः = ।।२८४। Page #290 -------------------------------------------------------------------------- ________________ अ 5) he to phs its f शा नु ग्र ह वि चा र द्वा त्रिं शि का १६/२० 1 यद् = यस्मात् ऐश्वर्येण ज्ञानाद्यतिशयलक्षणेन समन्वितो = युक्तो वर्तते, तत् = तस्माद् ईश्वरः अस्मदुक्तः स एव मुक्तादिः स्यात् । संज्ञाभेदो = नामनानात्वम् अत्र = मुक्तादिप्रज्ञापनायां केवलम् ।। १८ ।। परकल्पितविशेषनिराकरणायाऽऽहअनादिशुद्ध इत्यादिर्यो भेदो यस्य कल्प्यते । = तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः । । १९ ॥ अनादीति । अनादिशुद्ध इति एवंरूप आदिर्यस्य स तथा ( = इत्यादिः) | तत्राऽनादिशुद्धः सर्वगतश्च शैवानाम् । सोऽर्हन्नसर्वगतश्च जैनानाम् । स एव प्रतिक्षणं भङ्गुरः सौगतानाम् । यः पुनः भेदो विशेषो यस्य = ईश्वरस्य कल्प्यते तस्य तस्य तन्त्रस्य = दर्शनस्य अनुसारेण = अनुवृत्त्या ( = तत्तत्तन्त्रानुसारेण ), मन्ये = प्रतिपद्ये सो विशेषः, किं पुनः प्रागभिहितः संज्ञाभेद इत्यपिशब्दार्थः, निरर्थको निष्प्रयोजनः । । १९ ।। कुत इत्याह = = २ विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः ।।२०।। विशेषस्येति । विशेषस्य मुक्ता दिदेवताविशेषगतस्य अपरिज्ञानाद् अर्वाग्दर्शिप्रत्यक्षेण, १. हस्तादर्शे '...क्षणभं...' इति पाठान्तरम् । २ हस्तादर्शे 'विशेत्तस्यापिपरि' इत्यशुद्धः पाठः । ३. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र 'मुक्तादेर्देव...' इत्यशुद्धः पाठः । योगबिन्दुवृत्त्यनुसारेणात्र शुद्धः पाठो गृहीतोऽस्माभिः । ४. 'दर्शितप्र' इति मुद्रितप्रतौ पाठोऽशुद्धः । ।।२८५ Page #291 -------------------------------------------------------------------------- ________________ अ थे शा नु ग्र he top has de ह वि चा र द्वा ततः प्रधानमेवैतत् संज्ञाभेदमुपागतम् ।।२१।। अविद्येति । अविद्या वेदान्तिनां, क्लेशः साङ्ख्यानां, कर्म जैनानां, आदिशब्दाद्वासना सौगतानां, पाशः शैवानां (= अविद्या-क्लेश-कर्मादि) यतो यस्मात्, चकारो वक्तव्यान्तरसूचनार्थः, त्रिं भवकारणं = संसारहेतुः, ततः = तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधानमेवैतद् अस्मदभ्युपगतं भवकारणं सत् संज्ञाभेदं = नामनानात्वं उपागतम् ।। २१ ।। अत्रापि परपरिकल्पितविशेषनिराकरणायाऽऽह शि का १६/२१ तथा युक्तीनां = अनुमानरूपाणां जातिवादतः = असिद्ध्यादिहेतुदोषोपघातेनाऽनुमानाऽऽभासत्वात्, प्रायो = बाहुल्येन विरोधतश्चैव वेदान्तिबौद्धादियुक्तीनाम् । एकेषां हि नित्य एवाऽऽत्मा प्रपञ्चाऽधिष्ठानत्वात्, अपरेषां चाऽर्थक्रियाकारित्वस्य स्वभावभेदनियतत्वेनाऽनित्य एवेति । (फलाभेदाद्=) `फलस्य = क्लेशक्षयलक्षणस्य गुणप्रकर्षविशेषवत्पुरुषाऽऽराधनसाध्यस्य क्वचिन्नित्याऽनित्यत्वादौ विशेषे आराध्यगते सत्यपि अभेदाद् अविशेषात् च भावतः = = परमार्थतः । गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात्तस्य सर्वत्र मुक्तादावविशेषादिति ॥ २० ॥ अविद्या -क्लेश- कर्मादि यतश्च भवकारणम् । = १. '...भावभेदे नियत ....' इति मुद्रितप्रतौ पाठः । २. 'परस्य' इत्यशुद्धः पाठो हस्तादर्शे । ३. हस्तादर्शे 'सयश' इत्यशुद्धः पाठः । ।।२८६ । Page #292 -------------------------------------------------------------------------- ________________ ल FRhodo Fod अस्याऽपि योऽपरो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां' सोऽप्यपार्थकः ॥२२॥ ___ अस्याऽपीति । अस्याऽपि = प्रधानस्याऽपि योऽपरो = भवकारणत्वात् सर्वाऽभ्युपगतादन्यो | भेदो = विशेषः चित्रोपाधिः नानारूपमूर्तत्वादिलक्षणः । तथा तथा = तत्तद्दर्शनभेदेन गीयते = वर्ण्यते, अतीतहेतुभ्यः = अनन्तरमेव “विशेषस्याऽपरिज्ञानात्" (द्वा द्वा.१६/ २०,पृ.२८५) इत्यादिश्लोकोक्तेभ्यः धीमतां = बुद्धिमतां सोऽपि, किं पुनर्देवतागत इत्यपिशब्दार्थः, अपार्थकः = अपगतपरमार्थप्रयोजनः; सर्वैरपि भवकारणत्वेन योगाऽप-नेयस्याऽस्योपगमादन्यस्य विशेषस्य सतोऽप्यकिञ्चित्करत्वात् ।।२२।। यत एवं ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः ।।२३।। तत इति । ततः = सतो विशेषस्याऽपार्थकत्वाद्धेतोः अस्थानप्रयासोऽयं तत्त्वचिन्तकानां (यत्तभेदनिरूपणम्=) यत्तभेदस्य = देवादिविशेषस्य निरूपणं = गवेषणं, यतश्चाऽनुमानस्य देवताविशेषादिग्राहकत्वेनाऽभिमतस्य सामान्यं विषयो मतः । अतोऽपि सर्वविशेषाऽनुगतस्य तस्याऽप्रतीतेरस्थानप्रयासोऽयम् ।।२३।। इत्थं च भवकारणमात्रज्ञानात्तदपनयनार्थं गुणवत्पुरुषविशेषाऽऽराधनं कर्तव्यं, विशेष१. हस्तादर्श 'बाधित' इति पाठः । २. मुद्रितप्रतौ 'बुद्धिमतां' पदं नास्ति । ३. हस्तादर्श 'यतस्य' इत्यशुद्धः पाठः। का ||२८७॥ १६/२३ Jain Education Intemational Page #293 -------------------------------------------------------------------------- ________________ विमर्शस्त निष्प्रयोजन इति कालातीतमतं व्यवस्थितम । एतच्चाऽस्माकमपि विशेषविमर्शाऽक्षमस्य स्वाऽऽग्रहच्छेदाय सामान्ययोगप्रवृत्त्यर्थमनुमतम्, अन्यस्य तु निरभिनिवेशस्य शास्त्राऽनुसारेण विशेषविमर्शोऽपि भगवद्विशिष्टोपासनारूपतयाऽश्रद्धामलक्षालनेन तत्त्वज्ञानगर्भवैराग्यजीवातु भूतत्वाद् । विशिष्टनिर्जराहेतुरिति न सर्वथा तद्वैफल्यमित्यभिप्रायवानाह आस्थितं चैतदाचार्यस्त्याज्ये कुचितिकाग्रहे । शास्त्राऽनुसारिणस्तर्कान्नामभेदाऽनुपग्रहात् ।।२४।। आस्थितं चेति । एतच्च = कालातीतमतं आचार्यः = श्रीहरिभद्रसूरिभिः आस्थितं = अङ्गीकृतं, कुचितिकाग्रहे = कौटिल्याऽऽवेशे त्याज्ये = परिहार्ये कुचितिकात्यागार्थमित्यर्थः । शास्त्रानुसारिणः तर्कात् अर्थसिद्धौ सत्यामिति गम्यं, नामभेदस्य = संज्ञाविशेषस्य अनुपग्रहात् = अनभिनिवेशात् (=नामभेदानुपग्रहात्) । तत्त्वार्थसिद्धौ नाममात्रक्लेशो हि योगप्रतिपन्थी, न तु धर्मवादेन विशेषविमर्शोऽपीति भावः । तदिदमुक्तं → साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् । तथाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः ।। विपश्चितां न युक्तोऽयमैदंपर्यप्रिया हि ते । यथोक्तास्तत्पुनश्चारु हन्ताऽत्राऽपि निरूप्यताम्।। उभयोः परिणामित्वं तथाऽभ्युपगमाद् ध्रुवम् । अनुग्रहात्प्रवृत्तेश्च तथाऽद्धाभेदतः स्थितम् ।। १. मुद्रितप्रतौ ‘जीवानुभू' इत्यशुद्धः पाठः । २. हस्तादर्श · चितविग्रहे' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'अनुग्रहाप्र....' ।।२८८ १६/२४ इत्यशुद्धः पाठः । Page #294 -------------------------------------------------------------------------- ________________ ल F hhody आत्मनां तत्स्वभावत्वे प्रधानस्याऽपि संस्थिते । ईश्वरस्याऽपि सन्यायाद्विशेषोऽधिकृतो भवेत्।। । - (योगबिन्दु ३०८,३०९,३१०,३१२) इति ।।२४।। विशेषविमर्श शास्त्र-तर्कयोर्द्वयोरुपयोगप्रस्थानमाह अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति । तथैवाऽतीन्द्रियं वस्तु छद्मस्थस्याऽपि तत्त्वतः ।।२५।। अस्थानमिति । अस्थानं = अविषयः रूपं = नील-कृष्णादिलक्षणं अन्धस्य लोचनव्यापारविकलस्य यथा सन्निश्चयं = विशदाऽवलोकनं प्रति आश्रित्य, तथैव = उक्तन्यायेनैव अतीन्द्रियं वस्तु आत्मादिविशेषरूपं छद्मस्थस्य = अर्वाग्दृशः प्रमातुः अपि तत्त्वतः = परमार्थनीत्या ।।२५।। हस्तस्पर्शसमं शास्त्रं तत एव कथञ्चन । . अत्र तनिश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् ॥२६॥ हस्तेति । हस्तस्पर्शसमं = तद्वस्तूपलब्धिहेतुहस्तस्पर्शसदृशं शास्त्रं अतीन्द्रियाऽर्थगोचरम् । तत एव = शास्त्रादेव कथञ्चन = केनापि प्रकारेण अत्र = छद्मस्थे प्रमातरि तन्निश्चयोऽपि = अतीन्द्रियवस्तुनिर्णयोऽपि स्यात्, तथा = वर्धमानत्वादिविशेषेण चन्द्रोपरागवत् = चन्द्रराहु- ॥२८९ स्पर्शवत् । यथा शास्त्रात् सर्वविशेषाऽनिश्चयेऽपि चन्द्रोपरागः केनाऽपि विशेषेण निश्चीयत १. हस्तादर्श 'मंधस्या' इत्यशुद्धः पाठः । २. हस्तादर्श ....लोचनं' इति पाठः । १६/२६|| Jain Education Interational For Private & Personal use only Page #295 -------------------------------------------------------------------------- ________________ अ थे शा नु ग्र ho do has to ह वि चा र द्वा त्रिं शि का १६/३० एव तथाऽन्यदप्यतीन्द्रियं वस्तु ततश्छद्मस्थेन निश्चीयत इति भावः || २६ ।। इत्थं स्पष्टता शाब्दे प्रोक्ता तत्र विचारणम् । माध्यस्थ्यनीतितो युक्तं व्यासोऽपि यददो जगौ ।। २७ ।। इत्थं हीति । इत्थं = उक्तदृष्टान्तेन हि शाब्दे ज्ञाने अस्पष्टता प्रोक्ता । तत्र = अस्पष्टे शाब्दज्ञाने माध्यस्थ्यनीतितो विचारणं युक्तं, तर्कस्य प्रमाणाऽनुग्राहकत्वात् तेनैवैदम्पर्यशुद्धेः । तस्याश्च स्पष्टताप्रायत्वात् । यद् = यस्माद् अदो = वक्ष्यमाणं व्यासोऽपि जगौ ||२७|| आर्षं धर्मोपदेशं च वेदशास्त्राऽविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः || २८ ॥ शास्त्रादाचरणं सम्यक् स्याद्वादन्यायसंगतम् । ईशस्याऽनुग्रहस्तस्माद्दृष्टेष्टाऽर्थाऽविरोधिनः ।।२९।। यद्दातव्यं जिनैः सर्वैर्दत्तमेव तदेकदा । दर्शन - ज्ञान - चारित्रमयो मोक्षपथः सताम् ॥ ३० ॥ जिनेभ्यो याचमानोऽन्यं लब्धं 'बोधिमपालयन् । १. मुद्रितप्रतौ —... न्द्रियवस्तु' इति पाठः । २. हस्तादर्शे ' ...नीतिता' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'जगुः' इत्यशुद्धः पाठः । ४. ‘शास्त्रादौ' इति मुद्रितप्रतावशुद्धः पाठः । ५. हस्तादर्शे 'सदा' इति पाठः । ६. मुद्रितप्रतौ सर्वत्र 'धर्मम...' इति पाठः । ।। २९० । Page #296 -------------------------------------------------------------------------- ________________ व to b) F पु रु ष का र how to pro द्वा शि का १७/२ तं विह्वलो विना भाग्यं केन मूल्येन' लप्स्यसे' ? ।। ३१ ।। अनुष्ठानं ततः स्वामिगुणरागपुरःसरम् । परमानन्दतः कार्यं मन्यमानैरनुग्रहम् ।।३२।। आर्षमित्यारभ्य स्पष्टम् ।।२७-३२।। ।। इतीशाऽनुग्रहविचारद्वात्रिंशिका ।। १६ ।। ।। अथ दैवपुरुषकारद्वात्रिंशिका ।।१७।। महेश्वराऽनुग्रहादेव योगसिद्धिरिति मतं निरस्य 'दैवादेवेयं पुरुषकारादेव 'वेयमित्येकान्तमतनिरासायोपक्रमते दैवं पुरुषकारश्च तुल्यौ द्वावपि तत्त्वतः । निश्चय - व्यवहाराभ्यामत्र कुर्मो विचारणाम् ॥ १ ॥ दैवमिति । स्पष्टः ।। १ ।। दैवं पुरुषकारश्च' स्वकर्मोद्यम संज्ञौ । निश्चयेनाऽनयोः सिद्धिरन्योऽन्यनिरपेक्षयोः ||२|| १. हस्तादर्शे 'मूल्यन' इत्यशुद्धः पाठः । २ मुद्रितप्रती 'लप्स्यते' इति पाठः । ३. हस्तादर्शे 'चेय' मित्यशुद्धः पाठः । ४. हस्तादर्शे '...रस्य' इत्यशुद्धः पाठः । ५. हस्तादर्शे '...द्यकासं...' इत्यशुद्धः पाठः । ।। २९१ ।। Page #297 -------------------------------------------------------------------------- ________________ 4 व 89 bf ho do to 5 पु रु ष का र द्वा त्रिं शि का १७/४ दैवमिति । दैवं स्वकर्मसंज्ञकं, पुरषकारश्च स्वोद्यमसंज्ञकः । निश्चयेन = अनयोः द्वयोः प्रत्येकं स्वकार्यजनने अन्योऽन्यनिरपेक्षयोः सिद्धिः || २ ॥ अत्रैव युक्तिमा सापेक्षमसमर्थं हीत्यतो' यद् व्यापृतं यदा । तदा तदेव हेतुः स्यादन्यत्सदपि नाऽऽदृतम् ॥ ३॥ सापेक्षमिति । 'सापेक्षं 'समर्थ' इत्यतो न्यायात् दैव- पुरुषकारयोर्मध्ये यत् यदा व्यापृतं, तदा तदेव अधिकृतकार्ये हेतुः स्यात् कुर्वद्रूपस्यैव कारणत्वात् । अन्यत् सदपि नाऽदृतं = नाऽभ्युपगतं अनेन, असदविशेषात् । वस्तुतोऽर्थक्रियाकारित्वमेव वस्तुनो लक्षणमिति तद्विरहादसदेवाऽन्यदित्यप्यर्थः ||३|| विशिष्य कार्यहेतुत्वं द्वयोरित्यनपेक्षयोः । निश्चयनयेन अवर्ज्यसन्निधि त्वन्यद' न्यथासिद्धिमञ्चति ।।४ ॥ विशिष्येति । इति = एवं अनपेक्षयोर्द्वयोः = दैव- पुरुषकारयोः विशिष्य तत्तद्व्यक्तौ कार्यहेतुत्वम् । अन्यत्तु अवर्ज्यसन्निधि = अवर्जनीयसन्निधिकं सत् पटादौ कार्ये दैवागतरासभवद् अन्यथासिद्धिं अञ्चति प्राप्नोति । इत्थं च व्यवहारवादिनाऽन्यथासिद्धत्वादपि अन्यस्य = I १. हस्तादर्श 'हि ततो' इति पाठः । परं व्याख्यानुसारेणाऽशुद्धः । २ हस्तादर्शे 'तदैव' इति पाठः । ३. हस्तादर्शे ' हीयम ...' इत्यशुद्धः पाठः । ४. 'तदा' नास्ति । ५. हस्तादर्शे न्यदथा...' इत्यशुद्धः पाठः । ।।२९२ । Page #298 -------------------------------------------------------------------------- ________________ ।। कारणत्वं दुर्वचमिति भावः ।।४।। अन्वय-व्यतिरेकाभ्यां व्यवहारस्तु मन्यते । द्वयोः सर्वत्र हेतुत्वं गौण-मुख्यत्वशालिनोः ॥५॥ अन्वयेति । व्यवहारस्तु = व्यवहारनयस्तु अन्वय-व्यतिरेकाभ्यां द्वयोः = दैवपुरुषकारयोः सर्वत्र कार्ये हेतुत्वं मन्यते गौण-मुख्यत्वशालिनोः । क्वचित्कार्ये हि किञ्चिद् गौणतयोपयुज्यते, किञ्चिच्च मुख्यतया। सामान्यतस्तु दैवं पुरुषकारं वा विना' न किञ्चित्कार्यं जायते इति सामान्यतः सर्वत्र हेतुत्वमनयोः । यस्तु कुर्वद्रूपत्वेन कारणत्वमिच्छन् सामान्यतः कारणतामेवाऽपलपति', तस्य घटाद्यर्थमरण्यस्थदण्डादौ प्रवृत्तिदुर्घटा, तस्या घटसाधनताज्ञानाऽधीनत्वात्', तस्य च घटोपधानात्प्रागसिद्धेः । ___'सादृश्यग्रहात्प्रागपि तत्र घटसाधनत्वधीः । अत एव न कार्यलिङ्गकोच्छेदः, अतज्जातीयातज्जातीयोत्पत्तिसम्भावनाऽभावादिति' चेत् ? न, तत्रापि वासनाविशेषस्य बीजत्वे तेनैव प्रवृत्त्याद्युपपत्तौ दृष्टकारणवैफल्यप्रसङ्गात्, प्रकृते बाधकाऽभावाच्चेत्यन्यत्र विस्तरः ।।५।। अनुत्कटत्वं गौणत्वमुत्कटत्वं च मुख्यता । द्वयं प्रत्येकजन्यत्वव्यपदेशनियामकम् ।।६।। १७/६ १. हस्तादर्श 'विना' पदं नास्ति । २. प्राचीनमुद्रितप्रतौ ...मेवालपति' इत्यशुद्धः पाठः । ३. प्राचीनमुद्रितप्रतौ '...ज्ञाधीनत्वात्' इत्यशुद्धः पाठः । av bhboth ।।२९३।। Jain Education Interational Page #299 -------------------------------------------------------------------------- ________________ 444 अनुत्कटत्वमिति । गौणत्वं = अनुत्कटत्वं, न त्वल्पत्वमेव, अल्पस्याऽपि बलीयसो गौणत्वाऽव्यपदेशात् । एवं मुख्यता चोत्कटत्वम् । ___ एतद् द्वयं प्रत्येकजन्यत्वव्यपदेशे नियामकं (=प्रत्येकजन्यत्वव्यपदेशनियामकम्), अन्यथा सर्वस्य कार्यस्योभयजन्यत्वात्प्रत्येकजन्यत्वव्यवहारोऽप्रामाणिक: स्यादिति भावः ।।६।। एतदेव भावयति उत्कटेन हि दैवेन कृतं दैवकृतं विदुः । तादृशेन च यत्नेन कृतं यत्नकृतं जनाः ।।७।। 'उत्कटेन हीति । उत्कटेन हि देवेन कृतं कार्यं जना 'देवकृतं विदुः, तादृशेन | = उत्कटेन यत्नेन च कृतं यत्नकृतं एतदिति । इत्थं चोत्कटस्वकृतत्वज्ञानमनुत्कटाऽन्यकृतत्वज्ञानं | वा प्रत्येकजन्यत्वाऽभिलापप्रयोजकम् ।। 'दैवकृतमिदं न पुरुषकारकृतमि'त्यत्र चोत्कटपुरुषकारकृतत्वाऽभाव एव विषय इति | न कश्चिद्दोष इत्यर्थः ।।७।। विशेषदर्शिनो व्यवहारमुपपाद्याऽविशेषदर्शिनस्तमुपपादयति अभिमानवशाद्वाऽयं भ्रमो विध्यादिगोचरः । निविष्टबुद्धिरेकत्र नाऽन्यद्विषयमिच्छति ॥८॥ 'अभिमाने'ति । यद्वाऽयं = 'दैवकृतमिदं न पुरुषकारकृतमि'त्यादिर्व्यवहारो विध्यादिगोचरो । १. हस्तादर्श 'उत्कटेन हीति' अयं पाठो नास्ति । २. मुद्रितप्रतौ 'दैवेकुतं' इत्यशुद्धः पाठः । भी 2 ।।२९४।। १७/८ Jain Education Interational For Private & Personal use only Page #300 -------------------------------------------------------------------------- ________________ ।। = विधिनिषेधविषयो भ्रमो = विपर्यासः, अभिमानवशाद् = अहङ्कारदोषवशात्; यद् = यस्माद् एकत्र निविष्टबुद्धिः = एकविषयोपरक्तग्रहणतीव्राऽभिलाषो नान्यद्विषयमिच्छति। इत्थं चैकधर्मोत्कटजिज्ञासयैवाऽपरधर्माऽग्रहस्तदभावग्रह श्चोपपद्यत इति भावः । विप्रपञ्चितोऽयमर्थ उपदेशपदप्रसिद्ध उपदेशरहस्येऽस्माभिः ।।८।। सापेक्षमसमर्थमिति दूषयितुमाह यदीष्यते पराऽपेक्षा स्वोत्पत्ति-परिणामयोः। तदा कार्येऽपि सा युक्ता न युक्तं दृष्टबाधनम् ।।९।। ___ यदीति। यदि स्वस्य = अधिकृतहेतोरुत्पत्तौ परिणामे च (= स्वोत्पत्ति-परिणामयोः) पराऽपेक्षा = स्वाऽतिरिक्तहेत्वपेक्षा "इष्यते, तदा कार्येऽपि जननीये सा = हेत्वन्तराऽपेक्षा युक्ता, न युक्तं दृष्टबाधनं = अनुभूयमानस्य सहकारिसमवधानेन कार्योत्पादकत्वस्याऽन्यथाकरणम् ।।९।। विशिष्येत्यादिनोक्तं दूषयति विशिष्य कार्यहेतुत्वं कार्यभेदे भवेदपि । अन्यथा त्वन्यथासिद्धिरन्यत्राऽतिप्रसङ्गकृत् ।।१०।। विशिष्येति । विशिष्य कार्यहेतुत्वं च कार्यभेदे प्रामाणिके' सति भवेदपि, 'यथा १. मुद्रितप्रतौ 'तदभावग्रह' इति पाठः त्रुटितः, नास्तीत्यर्थः । २. 'विपंचित' इति मुद्रितप्रतो । ३. हस्तादर्श १७/१०॥ मुद्रितप्रती चात्र 'तर्हि' इति पाठः । परं व्याख्यानुसारेणात्र 'तदा' इति पाठो युक्तः । ४. हस्ताद” 'इष्यते' पदं नास्ति । ५. हस्तादर्श 'प्रामाणिक सति' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'तथा' इत्यशुद्धः पाठः । ।।२९५।। Page #301 -------------------------------------------------------------------------- ________________ aro bhsbs विजातीये वह्नौ तृणादेर्विजातीये च तत्राऽरण्यादेरिति । अन्यथा = कार्यभेदाऽभावे तु एकेन हेतुनाऽपरहेतोः अन्यथासिद्धिः उच्यमाना अन्यत्र प्रकृताऽतिरिक्तस्थले अतिप्रसङ्गकृत् । शक्यं ह्येवं वक्तुं घटेऽपि दण्डो हेतुर्न चक्रमिति । 'न शक्यं, स्वतन्त्राऽन्वयव्यतिरेकदर्शनाद्, एकेनाऽपराऽन्यथासिद्ध्यभावादिति चेत् ? तुल्यमिदमन्यत्र ।।१०।। ____ अथ देवोत्कर्षेण फलोत्कर्षदर्शनात्तदेव फलहेतुर्न यत्न इत्याशङ्कायामाह क्वचित्कर्मेव यत्नोऽपि व्यापारबहुलः क्वचित् । अन्ततः' प्राग्भवीयोऽपि द्वावित्यन्योऽन्यसंश्रयौ ॥११॥ क्वचिदिति। क्वचित् कार्ये कर्मेव यत्नोऽपि क्वचित् कार्ये व्यापारबहुलः । अन्ततः ऐहिकयत्नप्राचुर्याऽनुपलम्भे प्राग्भवीयोऽपि स व्यापारबहुल आवश्यकः, उत्कृष्टयत्नं विनोत्कृष्टऽदैवानुत्पत्तेः, इति = एवं फलविशेषोत्कर्षप्रयोजकोत्कर्षवत्तयापि द्वौ दैवपुरुषकारौ अन्योऽन्यसंश्रयौ = फलजनने परस्पराऽपेक्षौ । यत उक्तं"व्यापारमात्रात् फलदं निष्फलं महतोऽपि च । अतो यत्कर्म तदैवं चित्रं ज्ञेयं हिताहितम् ।। एवं पुरुषकारस्तु व्यापारबहुलस्तथा । फलहेतुर्नियोगेन ज्ञेयो जन्मान्तरेऽपि हि ।। अन्योऽन्यसंश्रयावेवं द्वावप्येतौ विचक्षणैः । उक्तौ”।। (योगबिन्दु ३२२-२३-२४) इति ।।११।। २९६ ।। १७/११॥ १. मुद्रितप्रतौ 'अन्यतः' इत्यशुद्धः पाठः । २. हस्तादर्श 'द्वावप्य..' इति पाठान्तरम् । ३. हस्तादर्श 'यत्नेऽपि' इत्यशुद्धः पाठः। ४. 'वित्तं' इति मुद्रितप्रतावशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #302 -------------------------------------------------------------------------- ________________ 5944 Ap कर्मैव ब्रुवते केचित् कालभेदात् फलप्रदम् । तन्नैहिकं यतो यत्नः कर्म तत्पौर्वदेहिकम् ।।१२।। कमैवेति । केचित् = साङ्ख्याः कर्मैव कर्म प्रधानाऽपरनामकं, एवकारेण पुरुषकारव्युदासः, कालभेदात् = तत्तत्कालसम्बन्धलक्षणविपाकात् फलप्रदं = तत्तत्कार्यकारि ब्रुवते । तदुक्तं“अन्यैस्तु कर्मैव केवलं कालभेदतः” (योगबिन्दु ३२४) इति । तन्न, 'यत ऐहिकं कर्म वाणिज्यराजसेवादि यत्न उच्यते, पौर्वदेहिकं = पूर्वदेहजनितं तद् वासनात्मना तथाविधपुद्गलग्रहणसम्बन्धेन वाऽवस्थितं कर्मोच्यते ।।१२।। भवान्तरीयं तत्कार्यं कुरुते नैहिकं विना । द्वारत्वेन च गौणत्वमुभयत्र न दुर्वचम् ।।१३।। ___ भवान्तरीयमिति । भवान्तरीयं पूर्वभवाऽर्जितं तत् = कर्म कार्यं धनप्राप्त्यादिकं ऐहिकं = वाणिज्यराजसेवादि कर्म विना न कुरुते । ___अतोऽन्वय-व्यतिरेकाऽविशेषात् पौर्वदेहिकस्येवैहिकस्याऽपि कर्मण: कार्यहेतुत्वमिति द्वयोरन्योऽन्यापेक्षत्वमेव । तदुक्तम्"देवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहाऽपरम् ।। नैतदात्मक्रियाऽभावे यतः स्वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः ।।" १. हस्तादर्श 'य ऐ' इत्यशुद्धः पाठः । २. योगबिन्दुप्रतौ अत्र 'नेदमात्म..' इति पाठो लभ्यत इत्यवधेयम् । ३. 'साधनमिति मुद्रितप्रतौ हस्तादर्श च पाठः । किन्तु योगबिन्दौ तद्वृत्तौ च साधकमिति पाठः । अतोऽस्माभिः स पाठो गृहीतः । का ॥२९७।। १७/१३ Jain Education Interational For Private & Personal use only Page #303 -------------------------------------------------------------------------- ________________ (योगबिन्दु ३२५-२६) इति । द्वारत्वेन = 'व्यापारत्वेन च गौणत्वं उच्यमानं उभयत्र = यत्ने कर्मणि च न दुर्वचम्, ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयकर्मणोऽपि प्राग्भवी ययत्नव्यापारत्वाऽविशेषादिति भावः ।।१३।। अपेक्ष्ये कालभेदे च हेत्वैक्यं परिशिष्यते । __ दृष्टहानिरदृष्टस्य कल्पनं चाऽतिबाधकम् ॥१४।। अपेक्ष्य इति । केवलेन कर्मणा चित्रफलजनने कालभेदे चाऽपेक्ष्ये = अपेक्षणीये हेत्वैक्यं = कारणैक्यं परिशिष्यते । ____ तत्क्षणविशिष्टकार्यत्वाऽवच्छिन्ने तत्क्षणस्य हेतुत्वेनैवाऽनतिप्रसङ्गाद् देशनियमस्य च स्वभावत एवोपपत्तेः । किं च दृष्टहानिः = दृष्टानां कारणानां यत्नादीनां त्यागः, अदृष्टस्य च प्रधानस्य कल्पनं अतिबाधकं = अतिबाधाकारीति न किञ्चिदेतत् ।।१४।। दृष्टेनैवोपपत्तौ च नाऽदृष्टमिति केचन ।। फले विशेषात्तदसत्तुल्यसाधनयोर्द्वयोः ।।१५।। . दृष्टेनैवेति । दृष्टेनैव कारणसमाजेन उपपत्तौ जगद्व्यवस्थानिर्वाहलक्षणायां सत्यां च नादृष्टं = कर्म कल्पनीयं इति केचन = नास्तिकप्रायाः । ते हि वदन्ति 'विहित१. हस्तादर्श 'व्यापारत्वेन' इति पदं नास्ति । २. हस्तादर्श 'वीत्न' इत्यशुद्धः त्रुटितः पाठः । ३. हस्तादर्श 'केचि' इति पाठः । | ||२९८॥ का १७/१५॥ Jain Education Interational Page #304 -------------------------------------------------------------------------- ________________ arobarb ।। निषिद्धाभ्यामपि कर्मभ्यामामुष्मिकफलजननं स्वध्वंसद्वारैवोपपत्स्यत इति किमन्तर्गडुना ऽदृष्टेन ? ___ न चादृष्टसत्त्वे चरमसुखदुःखादिभोगेन' तन्नाशात् फलविरामोपपत्तिरन्यथा तु तदनुपपत्तिरिति वाच्यं, अदृष्टाभ्युपगमेऽपि कालान्तर एव फलप्राप्तेस्तदन्यकाले फलविरामोपपत्ते रिति । तदसत्, तुल्यसाधनयोः = 'सदृशदृष्टकारणयोर्द्वयोः पुरुषयोः फले विशेषात् । तस्य चाऽदृष्टभेदं विनाऽनुपपत्त्या तदसिद्धेः ।। ___जायते ह्येकजातीयदुग्धपानादेव कस्यचिद्द:खं कस्यचिच्च सुखमित्यत्र चाऽदृष्टभेद एव नियामक इति । न च कर्कट्यादिवदग्धादेः क्वचित्पित्तादिरसोदबोधादपपत्तिः सर्वत्र तदापत्तेः । न च भेषजवत्तथोपपत्तिः, ततः साक्षात् सुखादितौल्याद्धातुवैषम्यादेरुत्तरकालत्वादिति । ___ तदिदमुक्तं भाष्यकृता- “जो तुल्लसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम घडो व्व हेऊ अ से कम्मं ।।” (विशेषावश्यकभाष्य १६१३) ।।१५।। 'न चाऽलं क्षणिकं कर्म फलायाऽदृष्टमन्तरा । वैयर्थं च प्रसज्येत प्रायश्चित्तविधेरपि ।।१६।। कह ।।२९९।। १. हस्तादर्श '...दिभेदेन' इति पाठः । २. हस्तादर्श 'सदृष्टसदृष्टका...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'द्वयोः १७/१६॥ पुरुषयोः' इति नास्ति । हस्तादर्शविशेषे 'द्धियो' इत्यशुद्धः पाठः । ४. हस्तादर्श 'सर्वत्र तदापत्तेः' इति पाठः नास्ति । ५. मुद्रितप्रती सर्वत्र 'न चापि' इति पाठः । ६. हस्तादर्श 'प्रसज्येत' इति नास्ति । Jain Education Interational For Private & Personal use only Page #305 -------------------------------------------------------------------------- ________________ व पु रु bhosdo s ष का र द्वा शि का १७/१७ न चेति । न च क्षणिकं क्रियाकालमात्रोपरतं कर्म अदृष्टमन्तरा फलाय = फलं जनयितुं अलं समर्थं, चिरध्वस्तस्य कालान्तरभाविफलजनकत्वस्य भावव्यापारकत्वव्याप्तत्वाऽवधारणात् । ध्वंसस्य च व्यापारत्वेऽनुभवेनाऽपि तद्द्वारैव स्मृतिजननोपपत्तौ संस्कारोऽप्युच्छिद्येत । तदुक्तमुदयनेनापि - “चिरध्वस्तं फलायाऽलं न कर्माऽतिशयं विना " ( न्यायकुसुमाञ्जलि - १ / ९) इति । अपि च प्रायश्चित्तविधेरपि अदृष्टमन्तरा वैयर्थ्यं प्रसज्येत । अधर्मनाशेनैव तस्य फलवत्त्वात्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानामप्रसिद्ध्या तन्नाशस्य कर्तुमशक्यत्वात्, दुःखप्रागभावस्याप्यसाध्यत्वात् । प्रागभावस्य प्रतियोगिजनकत्वनियमेन तज्जन्यदुःखोत्पत्त्यापत्तेश्चेत्यन्यत्र विस्तरः । १६ ।। विशेषश्चात्र बलवदेकमन्यन्निहन्ति यत्' । = = व्यभिचारश्च नाप्येवमपेक्ष्य प्रतियोगिनम् ।। १७ ।। विशेषश्चेति । अत्र च = दैवपुरुषकारविचारणायां विशेषः अयं यद् अनयोर्मध्ये एकं बलवद् अन्यद् निर्बलं निहन्ति स्वफलमुपदधानं प्रतिस्खलयति । नन्वत्रैवैकव्यभिचारादुभयोरन्योऽन्यापेक्षत्वक्षतिरित्यत्राह एवमपि च प्रतियोगिनमपेक्ष्य न व्यभिचारः एकेनाऽन्यप्रतिघातेऽप्यन्यस्य प्रतियोगि १. हस्तादर्शे 'च' इति पाठ: I = = 1130011 Page #306 -------------------------------------------------------------------------- ________________ ।। तयाऽपेक्षणात् केवलं प्रतिहतत्वेनैव = प्रतिघातप्रतियोगित्वेन गौणत्वमात्रं स्यादिति बोध्यम् ।।१७।। कर्मणा 'कर्ममात्रस्य नोपघातादि तत्त्वतः । स्वव्यापारगतत्वे तु तस्यैतदपि युज्यते ।।१८।। कर्मणेति । कर्मणा केवलेनैव कर्ममात्रस्य = केवलस्यैव कर्मणः न उपघातादि = उपघातानुग्रही तत्त्वतः = अनुपचारेण । न हि केवलं कर्म किञ्चिदुपहन्तुं निगृहीतुं वा क्षमं, असहायत्वात् । स्वव्यापारगतत्वे तु = जीवक्रियाप्रतिबद्धत्वे पुनः तस्य कर्मणः एतदपि परस्परोपघात ।।१८।। उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया । बाध्यबाधकभावः स्यात्सम्यग् 'न्यायाऽविरोधतः ।।१९।। उभयोरिति । उभयोर्दैव-पुरुषकारयोः तत्स्वभावत्वे = बाध्य-बाधकस्वभावत्वे तेषां तेषां कालादीनां सहकारिकारणानामपेक्षया (= तत्तत्कालाद्यपेक्षया) बाध्यबाधकभावः = उपघात्योपघातकभावः स्यात्, सम्यग् न्यायस्य = सम्यग्युक्तेः अविरोधतः = अविघटनात् (= सम्यग्न्यायाविरोधतः) ।।१९।। १७/१९|| १. हस्तादर्श 'चर्म' इति पाठः । २. हस्तादर्श 'कर्म' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्श 'बाध्य' पदं नास्ति । ४. हस्तादर्श 'नाया' इत्यशुद्धः पाठः । ५. 'तेषां' इति एकं पदं मुद्रितप्रतौ नास्ति । aroby kosh ।।३०१॥ Jain Education Intemational For Private & Personal use only Page #307 -------------------------------------------------------------------------- ________________ प्रतिमायोग्यतातुल्यं कर्मानियतभावकम् । बाध्यमाहुः प्रयत्नेन 'सेव प्रतिमयेत्यपि ॥२०॥ प्रतिमेति । प्रतिमायोग्यतया तुल्यं = सदृशं (=प्रतिमायोग्यतातुल्यं) कर्म फलजननं प्रति अनियतभावं(वकं), फलजनननियतिमतोऽबाध्यत्वात् । प्रयत्नेन बाध्यं = निवर्तनीयं 'सेव = प्रतिमायोग्यतेव प्रतिमयेत्यप्याहुः आचार्याः । अपिः कर्मणो बाधने पुरुषकारस्य तत्फलजनननियत्यभावनियतां नियतिं सहकारिणी समुच्चिनोति । तदिदमुक्तं- “कर्माऽनियतभावं तु यत् स्याच्चित्रं फलं प्रति । तद्बाध्यमत्र दादिप्रतिमायोग्यतासमम् (योगबिन्दु ३३१)" ।।२०।। अत्र दृष्टान्त-दार्टान्तिकयोर्बाधकतैक्यं शब्दसाम्यादेव विकार-नाशसाधारणरूपान्तरपरिणत्यैव "वेत्यभिप्रायवानाह प्रतिमायोग्यतानाशः प्रतिमोत्पत्तितो भवेत् । कर्मणो विक्रिया यत्नाद् बाध्यबाधकतेत्यसौ ॥२१॥ प्रतिमेति । प्रतिमोत्पत्तितः प्रतिमायोग्यताया नाश (प्रतिमायोग्यतानाशः) एव १. मुद्रितप्रतौ 'सैव' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ' ग्यतैव' इत्यशुद्धः पाठः । ३. हस्तादर्श ' प्रतिमे..' इत्यशुद्धः पाठः। ४. हस्तादर्श 'चित्रं प्रति फलं' इति पाठः । छन्दभगात्, मुद्रितयोगबिन्दुपुस्तके चानुपलब्धेः सोऽत्र न गृहीतः । ५. हस्तादर्श 'वैत्य...' इत्यशुद्धः पाठः । ६. हस्तादर्श 'प्रतिमेति' इति नास्ति । ॥३०२।। १७/२१|| Jain Education Interational For Private & Personal use only Page #308 -------------------------------------------------------------------------- ________________ बाधो भवेत् । कर्मणो यत्नाद् विक्रिया = अधिकृतफलजननशक्तिभङ्गलक्षणा बाध इत्यसौ बाध्यबाधकता' । ____एतेन प्रतिमया तद्धेतुयत्नेन वा तद्योग्यताबाधे तदुत्पत्तिवत् कर्मयोग्यताबाधेऽपि | तत्फलोत्पत्तिप्रसङ्ग इति निरस्तम् । उपादानस्यैव स्वनाशाऽभिन्नफलोत्पत्तिनियतत्वात् । कर्मयोग्यतायास्तु सुख-दुःखादिनिमित्तत्वाद् दण्डनाशे घटस्येव तन्नाशे फलस्यासम्भवात् इति द्रष्टव्यम् ।।२१।। ___ ननु येन कर्मणा फलं न जन्यते, तत्र न तद्योग्यतैव, किं यत्नस्य तद्बाधकत्वेनेत्याशङ्कायामाह प्रतिमाया अनियमेऽप्यक्षता योग्यता यथा । फलस्यानियमेऽप्येवमक्षता कर्मयोग्यता ।।२२।। प्रतिमाया इति । प्रतिमाया अनियमेऽपि = अनैकान्त्येऽपि दार्वादिदले यथा योग्यता प्रतिमाया अक्षता तथालोकव्यवहारात । ___फलस्य = सुख-दुःखादिरूपस्य पुरुषकारबाध्यत्वेन अनियमेऽपि एवं कर्मयोग्यता ऽक्षता, अध्यवसायविशेषप्रयुक्तरसस्थितिविशेषघटितत्वात्तस्याः, प्रामाणिकलोकप्रसिद्धत्वाच्च १७/२२|| १. हस्तादर्श '..बाधक' इति त्रुटितः पाठः। २. हस्तादर्श ...योग्यताबाधेऽपि तत्फल-बाधेऽपि तत्फलो...' इत्यधिकः पाठः । स चाऽशुद्धः । ३. हस्तादर्श 'आने..' इति पाठः । ars kbps ॥३०॥ Jain Education Interational For Private & Personal use only Page #309 -------------------------------------------------------------------------- ________________ व पु रु प का र who द्वा शि का १७/२४ फलाऽभावेऽपि बाध्यकर्मयोग्यताव्यवहारस्येति भावः । तदुक्तं- “नियमात्प्रतिमा नात्र न चाऽतोऽयोग्यतैव हि। तल्लक्षणवियोगेन प्रतिमेवाऽस्य बाधकः " ( योगबिन्दु ३३२) इति ।। २२ ।। ननु योग्यतैव प्रतिमामाक्षेप्स्यति किं तद्बाधकेन पुरुषकारेण ? इत्याशङ्क्याहदार्वादेः प्रतिमाऽऽक्षेपे' तद्भावः सर्वतो ध्रुवः' । योग्यायोग्यता वेति न चैषा लोकसिद्धितः ।। २३ ।। = दार्वादेरिति । दार्वादेः = दलस्य स्वयोग्यतयैव (प्रतिमाऽऽक्षेपे) प्रतिमानिष्पत्त्या तद्भावः प्रतिमाभावः सर्वतः = सर्वस्माद् ध्रुवो = निश्चितः प्रसज्येत । योग्यस्य दार्वादेरेव अयोग्यता प्रतिमानाक्षेपे वा इति एतत्प्रसज्येत । न च = न पुनः एषा = अयोग्यता, लोक (प्र) सिद्धित: । न हि दार्वादीनि प्रतिमानिष्पत्त्यभावेऽपि अयोग्यानीति प्रसिद्धिरस्ति, तदापि योग्यतयैव तेषां रूढत्वादिति ।। २३ ।। इदमेव प्रकृते योजयनन्नाह - कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । = फलभेदः कथं नु स्यात्तथाशास्त्रादिसङ्गतः ।। २४ ।। कर्मणोऽपीति । कर्मणोऽपि दैवसंज्ञितस्य एतदाक्षेपे = फलहेतुपुरुषकाराऽऽक्षेपे दानादौ १. हस्तादर्शे ‘प्रतिमापेक्षे' इत्यशुद्धः पाठः । २. 'ध्रुवम्' इति सर्वत्र प्रतौ पाठः । व्याख्यानुसारेण 'ध्रुवः' इति पाठः सम्यगाभाति । ३. 'योग्यतायोग्यता' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श ●' चिह्नद्वयमध्यवर्ती पाठो नास्ति । 1130811 Page #310 -------------------------------------------------------------------------- ________________ to to व पु रु ष का र द्वा त्रिं शि का १७/२६ सुकृतविशेषे विधीयमाने भावभेदतः = परिणामविशेषतस्तत्तारतम्यलक्षणात् फलस्य भेदः ( = फलभेदः) प्रकर्षाऽपकर्षरूपः कथं नु स्यात् ? न कथञ्चिदित्यर्थः, तथा तथा तेन तेन प्रकारेण शास्त्रादिसङ्गतः = शास्त्रलोकसिद्धः । तथाविधपुरुषकारविकलात् कर्मणः फलाभ्युपगमे न कथञ्चित्तच्चित्रता युज्यते । फलहेतोः 'कर्मणः पुरुषकारमन्तरेणैकाऽऽकारत्वाऽऽपत्तेरिति परापेक्षमेतद् द्वितयं प्रतिपत्तव्यमिति ।। २४ ।। शुभात्ततस्त्वसौ भावो हन्ताऽयं तत्स्वभावभाक् 1 एवं किमत्र सिद्धं स्यादत एवाऽस्त्वतो ह्यदः ।।२५।। शुभादिति । शुभात् ततस्तु = तत एव कर्मणः प्राग् नानानिमित्तोपार्जिताद् असौ दानादिकाले भिन्नरूपतया प्रवृत्तो भावो हन्त अयं च फलभेदः तत्स्वभावभाक् = भावभेदाऽपेक्षोत्पत्तिकविचित्रस्वभाववानिति । परः पृच्छति - एवं किमत्र विचारे सिद्धं स्यात् ? तत्राऽऽह अत एव कर्मणः अस्तु भावः तथा अतो हि = अत एव भावाद् अदः = कर्माऽस्तु । तथा च प्रवाहेणाऽपि परस्पराऽपेक्षत्वमनयोः सिद्धमिति भावः ।। २५ ।। इत्थं परस्परापेक्षावपि द्वौ बाध्यबाधकौ । प्रायोऽत्र चरमावर्ते दैवं यत्नेन बाध्यते ।। २६ ।। १. हस्तादर्शे 'कर्मपुरुष...' इत्यशुद्धः पाठः । २. हस्तादर्शे 'हेतोयं' इत्यशुद्धः पाठः । ३. 'प्राये' इति मुद्रितप्रतावशुद्धः पाठ: । ।।३०५ Page #311 -------------------------------------------------------------------------- ________________ दै to bhosdo s व पु रु ष का र द्वा शि का १७/२८ इत्थमिति । इत्थं प्रवाहतः परस्पराऽपेक्षावपि द्वौ दैव - पुरुषकारौ स्वप्राधान्यापेक्षया बाध्यबाधकौ । प्रायो = बाहुल्येन अत्र = अनयोर्मध्ये चरमावर्ते = अन्त्यपुद्गलपरावर्ते यत्नेन दैवं बाध्यते । तथाविधसङ्क्लेशावस्थायां नन्दिषेणादीनामिव कदाचिद्व्यत्ययोऽपि स्यादिति प्रायोग्रहणम् ||२६|| एवं च ग्रन्थिभेदोऽपि यत्नेनैव बलीयसा । औचित्येन प्रवृत्तिः स्यादूर्ध्वं तस्यैव चोदनात् ॥ २७॥ एवं चेति । एवं च = चरमावर्ते यत्नस्य बलीयस्त्वे च ग्रन्थिभेदोऽपि, किं पुनर्देवबाधेत्यपिशब्दार्थः, यत्नेनैव बलीयसा अतिशयवता । औचित्येन = धर्मार्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन प्रवृत्तिः स्यात् ऊर्ध्वं = ग्रन्थिभेदोत्तरं तस्यैव बलीयसो यत्नस्यैव चोदनात् = प्रेरणात् ।। २७ ।। ननु यद्येवं ग्रन्थिभेदादूर्ध्वं स्वपरिणामादेवोचितप्रवृत्तिसिद्धिस्तदोपदेशवैयर्थ्यं स्यादित्यत आह = उपदेशस्त्वनेकान्तो हेतुरत्रोपयुज्यते । गुणमारभमाणस्य पततो वा स्थितस्य न ।।२८।। १. हस्तादर्शे 'यत्नस्येव...' इत्यशुद्धः पाठः । २. हस्तादर्शे 'वैयर्थ्यं स्यादित्यत आह' इति पाठो नास्ति । ।।३०६ ॥ Page #312 -------------------------------------------------------------------------- ________________ व रु ष का र द्वा त्रिं शि का १७/२९ उपदेशस्त्विति। उपदेशस्त्वत्र = भिन्नग्रन्थेरुचितप्रवृत्तौ (हेतुः) 'अनेकान्तो जलोत्पत्तौ भूमिसरसभावनिबन्धनायां पवन -खननादिरिवाऽनियतहेतुभावः सन् उपयुज्यते । अनियतत्वेऽपि विशेषे नैयत्यमभिधित्सुराह गुणं उपरितनगुणस्थानं आरभमाणस्य पततो वा उपरितनगुणस्थानादधस्तनमागच्छतो, न पुनः स्थितस्य = तद्भावमात्रविश्रान्तस्य ।। २८ ।। आधिक्य- स्थैर्यसिद्ध्यर्थं चक्रभ्रामकदण्डवत् । = असौ व्यञ्जकताप्यस्य तद्बलोपनतिक्रिया ।। २९ ।। आधिक्येति । आधिक्यं सजातीयपरिणामप्राचुर्यं स्थैर्यं च = पतनप्रतिबन्धः तत्सिद्ध्यर्थं (= आधिक्य - स्थैर्यसिद्ध्यर्थं ) चक्रभ्रामकदण्डवद् असौ = उपदेश उपयुज्यते । यथा हि दण्डो भ्रमतश्चक्रस्य दृढभ्रम्यर्थं भग्नभ्रमेर्वा भ्रम्याधानार्थमुपयुज्यते, न तूचितभ्रमवत्येव तत्र । तथोपदेशोऽपि गुणप्रारम्भाय तत्पातप्रतिबन्धाय वोपयुज्यते, न तु स्थितपरिणामं प्रतीति । तदुक्तं उपदेशपदे- “उवएसो वि हु सफलो गुणठाणारंभगाण जीवाण । परिवडमाणाण तहा पायं न उ तट्ठिआणं पि ।। " ( उपदेशपद ४९९) व्यञ्जकताऽपि अस्य = उपदेशस्य । तद्बलेन = परिणामबलेन उपनतिक्रिया सन्निधानलक्षणा (= तद्बलोपनतिक्रिया) । अन्यथा घटादौ दण्डादेरपि व्यञ्जकत्वापत्तेरिति भावः ।। २९ ।। = १. हस्तादर्शे 'अनैका...' इति पाठः । ।।३०७।। Page #313 -------------------------------------------------------------------------- ________________ भA4A 'औचित्येन प्रवृत्त्या च सुदृष्टियत्नतोऽधिकात् । पल्योपमपृथक्त्वस्य चारित्रं लभते व्ययात् ।।३०।। औचित्येनेति । औचित्येन = न्यायप्रधानत्वेन प्रवृत्त्या च सुदृष्टिः = सम्यग्दृष्टि:२ अधिकाद् = अतिशयितात् (यत्नतः=) यत्नात् = पुरुषकारात् पल्योपमपृथक्त्वस्य चारित्रमोहस्थितिसम्बन्धिनो व्ययात् चारित्रं लभते देशविरत्याख्यम् । सर्वविरत्याख्यं तु सङ्ख्यातेषु सागरोपमेषु निवृत्तेष्विति द्रष्टव्यम् ।।३०।। मार्गानुसारिता श्रद्धा प्राज्ञप्रज्ञापनारतिः । गुणरागश्च लिङ्गानि शक्यारम्भोऽपि चाऽस्य हि ॥३१॥ __मार्गेति । (१) मार्गानुसारिता = अनाभोगेऽपि सदन्धन्यायेन मार्गानुसरणशीलता। यदुक्तं"असातोदयशून्योऽन्धः कान्तारपतितो यथा । गर्तादिपरिहारेण सम्यक् तत्राऽभिगच्छति ।। तथाऽयं भवकान्तारे पापाऽऽदिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः ।। अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्याऽपि वैकल्यं विचित्रत्वेन कर्मणाम् ।।" (योगबिन्दु ३५४-५५-५६) इति। १७/३१|| (२) श्रद्धा = शुद्धानुष्ठानगता तीव्ररुचिः । (३) प्राज्ञस्य = पण्डितस्य प्रज्ञापना = १. हस्तादर्श 'उचितेन' इति पाठः । २. हस्तादर्श 'सम्यग्दृष्टिः' पदं द्विरुक्तम् । भज ॥३०८।। Jain Education Intemational For Priate & Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ FF vodo अर्थविशेषदेशना', तत्र रतिः = श्रवणतदर्थपालनाऽऽसक्तिः (=प्राज्ञप्रज्ञापनारतिः) (४) गुणरागश्च = गुणबहुमानः। (५) शक्याऽऽरम्भः स्वकृतिसाध्यधर्मादिप्रवृत्तिः अपि चाऽस्य हि = चारित्रस्य हि | लिङ्गानि लक्षणानि प्रवदन्ति पूर्वसूरयः ।।३१।। योगप्रवृत्तिरत्र स्यात्परमानन्दसङ्गता । देशसर्वविभेदेन चित्रे सर्वज्ञभाषिते ॥३२॥ योगेति । अत्र देशसर्वविभेदेन चित्रे = नानारूपे चारित्रे सर्वज्ञभाषिते = तीर्थकराभिहिते योगस्य प्रागुक्तलक्षणस्य प्रवृत्तिः (= योगप्रवृत्तिः) स्यात्, परमेण = उत्कृष्टेन आनन्देन सङ्गता व्याप्ता (=परमानन्दसङ्गता)।।३२।। ।। इति दैव-पुरुषकारद्वात्रिंशिका ।।१७।। ॥ अथ योगभेदद्वात्रिंशिका ॥१८॥ अनन्तरं पुरुषकारप्राधान्येन चारित्रप्राप्तौ योगप्रवृत्तिरुक्तेति तद्भेदानेवाऽत्राऽऽह अध्यात्म भावना ध्यानं समता वृत्तिसङ्क्षयः । १. हस्तादर्श '...र्शना' इत्यशुद्धः पाठः । २. हस्तादर्श 'दिस' इत्यशुद्धः पाठः । ३. हस्तादर्श 'चित्र' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भाषितं' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भाववना' इत्यशुद्धः पाठः । ।।३०९।। Jain Education Interational For Private & Personal use only Page #315 -------------------------------------------------------------------------- ________________ योगः पञ्चविधः प्रोक्तो योगमार्गविशारदैः।।१।। अध्यात्ममिति । व्यक्तः ।।१।। औचित्याद् वृत्तयुक्तस्य 'वचनात्तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्म तद्विदो विदुः।।२।। औचित्यादिति । औचित्याद् = उचितप्रवृत्तिलक्षणाद् वृत्तयुक्तस्य = अणुव्रत-महाव्रतसमन्वितस्य वचनात् = जिनाऽऽगमात् तत्त्वचिन्तनं = जीवादिपदार्थसार्थपर्यालोचनं मैत्र्यादिभावैर्मैत्रीकरुणामुदितोपेक्षालक्षणैः२ समन्वितं (?संयुक्तं) = सहितं (=मैत्र्यादिभावसंयुक्तं) अध्यात्म तद्विदो = अध्यात्मज्ञातारो विदुः = जानते ।।२।। सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारि-स्वकीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया ॥३॥ ___ सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण विषयभेदेन चतुर्विधा। उपकारी = स्वोपकारकर्ता, स्वकीयः = अनुपकर्ताऽपि नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाऽऽश्रितः स्वाऽऽश्रितो वा, अखिलाश्च = प्रतिपन्नत्वसम्बन्धनिरपेक्षाः सर्व एव तदाश्रया = तद्विषया (=उपकारिस्व-कीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया) । तदुक्तं- “उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्री" (षोडशक १३/९) इति ।।३।। १. हस्तादर्श 'वचनं' इत्यशुद्धः पाठः । २. हस्तादर्श ...मुदितसमन्वितं' इति त्रुटितः पाठः । १८/३ ॥३१०।। Jain Education Interational For Private & Personal use only Page #316 -------------------------------------------------------------------------- ________________ ग द hus do s द्वा त्रिं शि का १८/५ करुणा दुःखहानेच्छा 'मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ।।४।। करुणेति । दुःखहानस्य = दुःखपरिहारस्य इच्छा (= दु: खहानेच्छा) करुणा । सा च मोहाद् = अज्ञानादेका । यथा ग्लानयाचिताऽपथ्यवस्तुप्रदानाऽभिलाषलक्षणा । अन्याच दुःख दीनादेर्दर्शनात् (= दुःखितदर्शनात्) तस्य लोकप्रसिद्धाऽऽहार-वस्त्र-शयनाऽऽसनादिप्रदानेन। संवेगाद् = मोक्षाऽभिलाषात् च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु ' सांसारिकदुःखपरित्राणेच्छा छद्मस्थानां अपरा । अपरा पुनः अपरेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वाऽनुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं - " मोहाऽसुखसंवेगाऽन्यहितयुता चैव करुणेति ( षोडशक १३/९) ।।४।। आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥ ५ ॥ आपातेति । मुदिता नाम सन्तुष्टिः । सा चाऽऽद्या = आपातरम्ये = अपथ्याऽऽहारतृप्तिजनितपरिणामाऽसुन्दरसुखकल्पे तत्कालमात्ररमणीये स्व- परगते वैषयिके सुखे । द्वितीया तु सद्धेतौ = शोभनकारणे ऐहिकसुखविशेष एव परिदृष्ट-हित-मिताऽऽहारपरिभोगजनित१. हस्तादर्शे 'महा' इत्यशुद्धः पाठः । २. हस्तादर्शे 'क सा' इत्यशुद्धः त्रुटितश्च पाठः । ३. हस्तादर्शे 'प्रीतिमत्तसु' इत्यशुद्धः पाठः । = ।।३११ ।। Page #317 -------------------------------------------------------------------------- ________________ FF v_st स्वादुरसाऽऽस्वादसुखकल्पे । तृतीया च अनुबन्धयुते = अव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणप्राप्तिलक्षणे इह-परभवाऽनुगते । चतुर्थी तु परे = प्रकृष्टे मोहक्षयादिसम्भवे अव्याबाधे च सर्वेषां प्राणिनां सुखे इत्येवं चतुर्विधा । तदुक्तं- “सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु" (षोडशक १३/१०) ।।५।। करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहितेऽकाले सुखेऽसारे च सर्वतः ।।६।। ___करुणात इति । (१) उपेक्षा हि माध्यस्थ्यलक्षणा' करुणातोऽहिते विषये भवत्येका, यथाऽऽतुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य करुणया तन्निवारणमवधीर्योपेक्षा क्रियते । (२) अपरा च अनुबन्धाद् = आयत्यालोचनेन कार्यविषयप्रवाहपरिणामाद् अकाले = अनवसरे, यथा कश्चिदालस्यादेरा(व?)जनादिषु न प्रवर्तते, तं चाप्रवर्तमानं कदाचित्तद्धितार्थी प्रवर्तयति, कदाचित्तु परिणामसुन्दरं कार्यसन्तानम वेक्षमाणो माध्यस्थ्यमवलम्बत इति । (३) अन्या च निर्वेदाद् = भवसुखवैराग्याद् असारे = बहुतरदुःखाऽनुविद्धत्वेन दुःखाऽनतिविशिष्टे सुखे, यथा सर्वेन्द्रियोत्सवकरं संसारिसुखमनुपश्यतोऽपि योगिनः । (४) इतरा च तत्त्वचिन्तनाद् = मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वस्य ।।३१२।। १. हस्तादर्श ....लणा' इत्यशुद्धः पाठः । २. हस्तादर्श 'परा' इति पाठः । ३. हस्तादर्श 'परिमाण' इत्यशुद्धः पाठः । ४. 'नमनवे' इति सर्वत्र प्रतौ पाठोऽशुद्धः । षोडशकवृत्त्यनुसारेणाऽस्माभिः शुद्धः पाठो गृहीतः ।। . Jain Education Interational For Private & Personal use only Page #318 -------------------------------------------------------------------------- ________________ _ N_ - स्वापराधस्यैव च मोहादिकर्मविकारसमुत्थस्य भावनात्' सर्वतः = सर्वत्रैव स्वव्यतिरिक्तस्य कस्याऽपि सुख-दुःखहेतुत्वाऽनाश्रयणात् । तदुक्तं-“करुणाऽनुबन्ध-निर्वेद-तत्त्वसारा ह्युपेक्षेति" (षोडशक १३/१०) ।।६।। ___उक्तभेदानामेतासां मैत्र्यादीनां यथाक्रमं परिणममानानां विशुद्धस्वभावानामेवाऽध्यात्मोपयोग इति फलद्वारा दर्शयन्नाह सुखीया॑ दुःखितोपेक्षां पुण्ये द्वेषमधर्मिषु । राग-द्वेषौ त्यजन्नेता लब्ध्वाध्यात्म समाश्रयेत् ।।७।। सुखीति । सुखिष्वीदूँ (=सुखीा ), न तु 'साध्वेषां सुखित्वमिति 'मैत्री; दुःखितानामुपेक्षां (=दुःखितोपेक्षां), 'न तु 'कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपां; पुण्ये = प्राणिनां सुकृते द्वेषं, न तु तदनुमोदनेन हर्ष; अधर्मिषु राग-द्वेषौ , न तूपेक्षां; त्यजन् = परिहरन् एताः = परिणतिशुद्धा मैत्राद्या लब्ध्वा अध्यात्म समाश्रयेत् ।। निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्बोधमेव स्वभावतः परार्थसारं चित्तम् । योगाऽऽरम्भकाणां त्वभ्यासादेव सुखीादित्यागेन 'मैत्र्यादिविशुद्धिरिति । ____ तदुक्तं- “एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । 'सवृत्तानां सततं १. हस्तादर्श 'भावात्' इति पाठः । २. 'मैत्री' इति मुद्रितप्रतावशुद्धः पाठः । ३. हस्तादर्श 'सकृते' इति पाठोऽशुद्धः त्रुटितश्च । ४. हस्तादर्श 'मैत्र्यादे' इति पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ५. हस्तादर्श _'सवृ..' इति त्रुटितः पाठः। छ ।।।३१३।। Jain Education Interational For Private & Personal use only Page #319 -------------------------------------------------------------------------- ________________ श्राद्धानां परिणमन्त्युच्चैः ।।" (षोडशक १३/११) । ततश्च निरपायोऽध्यात्मलाभ इति स्थितम् । पतञ्जलिरप्याह- “मैत्रीकरुणामुदितोपेक्षाणां सुख-दुःख-पुण्याऽपुण्यविषयाणां भावनातश्चित्तप्रसादनमिति” (योगसूत्र १-३३) ।।७।। अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव नु ।।८।। अत इति । अतः = अध्यात्मात् पापक्षयो = ज्ञानाऽऽवरणादिक्लिष्टकर्मप्रलयः, सत्त्वं = वीर्योत्कर्षः, शीलं = चित्तसमाधिः, ज्ञानं च वस्त्ववबोधरूपं शाश्वतं = अप्रतिघं, तथा इति वक्तव्याऽन्तरसमुच्चये, अनुभवसंसिद्धं = स्वसंवेदनप्रत्यक्षं अमृतं = पीयूषं हि = स्फुटं | अद एव = अध्यात्म एव नु, अतिदारुणमोहविषविकारनिराकारकत्वादस्येति ।।८।। अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः । निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् ।।९।। अभ्यास इति । (प्रत्यहं = प्रतिदिवसं) वृद्धिमान् = उत्कर्षमनुभवन् बुद्धिसङ्गतो = ज्ञानाऽनुगतः अस्य = अध्यात्मस्य अभ्यासः = अनुवर्तनं भावना उच्यते ।। अशुभाऽभ्यासात् = काम-क्रोधादिपरिचयात् निवृत्तिः = उपरतिः भाववृद्धिश्च १. 'शुद्धानां' इति मुद्रितप्रतावशुद्धः पाठः । २. मुद्रितप्रतौ .त्युच्चेः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अपि' इत्यशुद्धः पाठः । ४. हस्तादर्श 'क्षये' इत्यशुद्धः पाठः । ॥३१४॥ Jain Education Interational Page #320 -------------------------------------------------------------------------- ________________ ।। 'शुद्धसत्त्वसमुत्कर्षरूपा तत्फलं = भावनाफलम् ।।९।। ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः । इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् ।।१०।। ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेन (ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः) आवश्यकभाष्यादिप्रसिद्धा पञ्चधेष्यते । दृढस्य = झटित्युपस्थितिहेतोः संस्कारस्य कारणं (= दृढसंस्कारकारणम्), भावनाया एव पटुतरभावनाजनकत्वनियमात् ।।१०।। उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माऽऽभोगसमन्वितम् ।।११।। उपयोग इति । उपयोगे = स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने (विजातीयप्रत्यया ऽव्यवधानभाक्=) विजातीयप्रत्ययेन = तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाऽपि १८/११ अव्यवधानभाग = अनन्तरितः शुभैकप्रत्ययः = प्रशस्तैकाऽर्थबोधो ध्यानं उच्यते। (सूक्ष्माभोगसमन्वितं=) सूक्ष्माऽऽभोगेन = उत्पातादिविषयसूक्ष्माऽऽलोचनेन समन्वितं = सहितम् ।।११।। ।।३१५॥ १. हस्तादर्श 'मुद्ध' इत्यशुद्धः पाठः । २. हस्तादर्श ....धानयुक्' इति पाठः । स चार्थतः शुद्धोऽपि व्याख्यानुसारेणाऽशुद्धः । Jain Education Interational For Private & Personal use only Page #321 -------------------------------------------------------------------------- ________________ BF vs खेदोद्वेगभ्रमोत्थानक्षेपाऽऽसङ्गाऽन्यमुद्रुजाम् । त्यागादष्टपृथक्चित्तदोषाणामनुबन्ध्यदः ।।१२।। खेदेति । खेदादीनां वक्ष्यमाणलक्षणानां अष्टानां पृथक्चित्तदोषाणां = २अयोगिमनोदोषाणां (अष्टपृथक्चित्तदोषाणां) त्यागात् = परिहारात् अदो ध्यानं अनुबन्धि = उत्तरोत्तरवृद्धिमद्-भवति । यद्यप्यन्यत्र___"खेदोद्वेग-क्षेपोत्थान-भ्रान्त्यन्यमुद्रुगाऽऽसङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान्"।। (षोडशक १४/३) इत्येवं क्रमोऽभिहितस्तथाप्यत्र बन्धाऽऽनुलोम्याद्व्यत्ययेनाऽभिधानमिति द्रष्टव्यम् ।।१२।। प्रवृत्तिजः क्लमः खेदस्तत्र दाढ्यं न चेतसः ।। मुख्यो हेतुरदश्चाऽत्र कृषिकर्मणि वारिवत् ।।१३।। ___प्रवृत्तिज इति । प्रवृत्तिजः = क्रियाजनितः क्लमो = मानसदुःखाऽनुबन्धी प्रयासः खेदः। तत्र = तस्मिन् सति दायँ प्रणिधानैकाग्रत्वलक्षणं चेतसो न भवति । 'अदश्च = प्रणिधानैकाग्र्यं च अत्र = योगकर्मणि कृषिकर्मणि = कृषिसाध्यधान्यनिष्पत्तौ वारिवत् १. हस्तादर्श 'बन्ध्यांदः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'योगिम...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती हस्तादर्श चात्र 'ततो' इति पाठ किन्तु व्याख्यानुसारेणात्र 'तत्र' इति पाठः सम्यगाभाति । ४. हस्तादर्श 'अदद' इत्यशुद्धः पाठः । १८/१३ ॥३१६।। Jain Education Interational For Private & Personal use only Page #322 -------------------------------------------------------------------------- ________________ मुख्यो = असाधारणो हेतुः । तदुक्तं- “खेदे दाढाऽभावान्न प्रणिधानमिह सुन्दरं भवति। । ।। एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ।।" (षोडशक १४/४). ।।१३।। स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ।।१४।। स्थितस्यैवेति । स्थितस्यैव = अप्रवृत्तस्यैव स क्लम उद्वेग उच्यते । ततः = तस्मादनादरजनिताद् योगद्वेषात् क्रिया = 'पारवश्यादिनिमित्ता प्रवृत्तिः राजविष्टिसमा = नृपनियुक्ताऽनुष्ठानतुल्या । योगिनां = श्रीमतां श्राद्धानां कुले जन्म बाधते = प्रतिबध्नाति, अनादरेण योगक्रियाया योगिकुलजन्मबाधकत्वनियमात् । •तदुक्तं- “उद्वेगे विद्वेषाद् विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ।।” (षोडशक १४/५). ।।१४।। भ्रमोऽन्तर्विप्लवस्तत्र न कताऽकतवासना । १८/१५ तां विना योगकरणं प्रस्तुताऽर्थविरोधकृत् ।।१५।। भ्रम इति । भ्रमः = अन्तर्विप्लवः = चित्तविपर्ययः, शुक्तिकायां 'रजतमिदमि'तिवदतस्मिंस्तद्ग्रह इतियावत् । तत्र = तस्मिन् सति कृताकृतवासना = 'इदं मया कृतमिदं ॥३१७।। | वा न कृतमित्येवंरूपा वासना न भवति, विभ्रमदोषेण सत्यसंस्कारनाशाद्विपरीतसंस्कारो। ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श 'पारवशा...' इत्यशुद्धः पाठः । FVE Jain Education Interational Page #323 -------------------------------------------------------------------------- ________________ । त्पादाद्वा । तां = कृताऽकृतवासनां विना योगकरणं प्रस्तुताऽर्थस्य = योगसिद्धिलक्षणस्य | विरोधकृत् (=प्रस्तुताऽर्थविरोधकृत्) । संस्काररहितयोगस्य तादृशयोग एव हेतुत्वादिति भावः। तदिदमुक्तं- "भ्रान्तौ' विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः। तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ।।" (षोडशक १४/८) ।।१५।। प्रशान्तवाहिताऽभाव उत्थानं करणं ततः । त्यागाऽनुरूपमत्यागं निर्वेदादतथोदयम् ।।१६।। प्रशान्तेति । प्रशान्तवाहितायाः = प्रशमैकवृत्तिसन्तानस्य अभावो मनःप्रभृतीनामुद्रेकान्मदाऽवष्टब्धपुरुषवद् उत्थानं उच्यते । ततः करणं योगस्य त्यागाऽनुरूपं = परिहारोचितं, प्रशान्तवाहिताऽभावदोषात् । अत्यागं = न विद्यते त्यागो यस्य तत्तथा, कथञ्चिदुपादेयत्वात् । निर्वेदाद् = एकवृत्तिभङ्गलक्षणात् खेदात् न विद्यते तथा = योगकरणोचितत्वेन उदयो = भाविकाल-विपाको यत्र तत्तथा (=अतथोदयम्) । १८/१७|| तदुक्तं- "उत्थाने निर्वेदात्करणमकरणोदयं सदैवाऽस्य । अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ।।" (षोडशक १४/७) ।।१६।। क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्यासोऽफलावहः । शालेरपि फलं नो यदृष्टमुत्खननेऽसकृत् ॥१७॥ ॥ १. मुद्रितप्रतौ 'भ्रान्तो' इत्यशुद्धः पाठः । २. हस्तादर्श 'स्वमये' इति त्रुटितः पाठः । ||३१८॥ Jain Education Interational For Private & Personal use only Page #324 -------------------------------------------------------------------------- ________________ 5 First क्षेप इति । अन्तराऽन्तरा योगकरणकालस्यैव अन्यत्र = अधिकृताऽन्यकर्मणि चित्तन्यासः = क्षेपः । स च अफलाऽऽवहः = फलाऽजनकः । यद् = यस्मात् शालेरपि = व्रीहेरपि असकृद् = वारंवारं उत्खनने = उत्पाटने फलं न दृष्टम् । असकृदुत्पाटनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भावः । . तदुक्तं- “क्षेपेऽपि चाऽप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । 'नाऽसकृदुत्पाटनतः शालिरपि फलाऽऽवहः पुंसः ।।” (षोडशक १४/६) ।।१७।। आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थाने स्थितिप्रदः ॥१८॥ आसङ्ग इति । आसङ्गोऽभिष्वङ्गः स्यात् ‘इदमेव सुन्दरमनुष्ठानमित्येवं नियमाऽभिनिवेशरूपः । तत्र = तस्मिन् सति असङ्गक्रियैव = अभिष्वङ्गाऽभाववत्यनवरतप्रवृत्तिरेव न भवति। ततोऽयं आसङ्गो हन्त तन्मात्रगुणस्थाने = अधिकृतगुणस्थानमात्रे स्थितिप्रदः, न तु मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवतीत्यासङ्गादपि तत्त्वतोऽफलमेवानुष्ठानम् । तदाह- “आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं यतः परमम् ।।" (षोडशक १४/११) ।।१८।। विहितेऽविहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । का १८/१८ ।।३१९।। १. हस्तादर्श 'नाशकृत्पा...' इति त्रुटितः पाठः । २. हस्तादर्श '...संगतं' इत्यशुद्धः पाठः ।। Jain Education Intemational Page #325 -------------------------------------------------------------------------- ________________ इष्टेऽर्थेऽङ्गार'वृष्ट्याभाऽत्यनादरविधानतः ।।१९।। विहित इति । प्रकृतात् = प्रस्तुतात् कर्मणः अन्यत्र विहितेऽविहिते वाऽर्थे मुत् 1 = प्रीतिः (किल)इष्टेऽर्थेऽङ्गारवृष्ट्याभा, अत्यनादरस्य = गाढाऽबहुमानस्य विधानतः (=अत्यानादरविधानतः), अवसरोचितरागाभाव-रागविषयानवसराभ्यां, प्रतिपक्षरागाच्च । यथा चैत्यवन्दन-स्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुताऽनुरागादन्याऽऽसक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । ___ तदुक्तं- “अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महाऽपाया । सर्वाऽनर्थनिमित्तं मुद्विषयाऽङ्गारवृष्ट्याभा ।।"(षोडशक १४/९) ।।१९।। रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तद्धितम् ॥२०॥ रुजीति । रुजि = पीडारूपायां भङ्गरूपायां वा सत्यां सम्यगनुष्ठानोच्छेदात् = सदनुष्ठानसामान्यविलयात् वन्ध्यफलं = मोघप्रयोजनं हि तद् = अनुष्ठानं बलात्कारेण क्रियमाणम् । तदुक्तं-“रुजि निजजात्युच्छेदात्करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद् वन्ध्यफलमेव ।।" (षोडशक१४/१०) तत् = तस्माद् एतान् दोषान् विना ||३२० ।। शान्तोदात्तस्य = क्रोधादिविकाररहितोदाराशयस्य योगिनो ध्यानं हितं = कुशलाऽनुबन्धि ।।२०।। १. हस्तादर्श 'दृष्टना...' इत्यशुद्धः पाठः। २. हस्तादर्श ‘प्रसुप्ता...' इत्यशुद्धः पाठः। १८/२० Jain Education Interational Page #326 -------------------------------------------------------------------------- ________________ वशिता चैव सर्वत्र भावस्तैमित्यमेव च ।। अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः ॥२१।। वशितेति । सर्वत्र कार्ये वशिता चैव = आत्माऽऽयत्ततैव भावस्य = अन्तःकरणपरिणामस्य स्तैमित्यमेव च = निश्चलत्वमेव (=भावस्तैमित्यमेव) । अनुबन्धव्यवच्छेदो = भवान्तराऽऽ॥ रम्भकाणामितरेषां च कर्मणां वन्ध्यभावकरणं च इति = एतद ध्यानफलं विदः = जानते ध्यानफलविदः ।।२१।। व्यवहारकुदृष्ट्योच्चैरिष्टाऽनिष्टेषु वस्तुषु । कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते ॥२२॥ ___ व्यवहारेति । व्यवहारकुदृष्ट्या = अनादिमत्या 'वितथगोचरया कुव्यवहारवासनयाऽविद्या| पराऽभिधानया उच्चैः = अतीव कल्पितेषु इष्टाऽनिष्टेषु = इन्द्रियमनःप्रमोददायिषु तदितरेषु च वस्तुषु = शब्दादिषु विवेकेन = "तानेवार्थान् द्विषतस्तानेवाऽर्थान् प्रलीयमानस्य । निश्चयतो नाऽनिष्टं न विद्यते किंचिदिष्टं वा ।।” (प्रशमरति ५२) इत्यादिनिश्चयाऽऽलोचनेन तत्त्वधीः = इष्टानिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते । ___ यदुक्तं- “ अविद्याकल्पितेषूच्चैरिष्टाऽनिष्टेषु वस्तुषु । १. हस्तादर्श 'वितथागो...' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रतीप...' इत्यशुद्धः पाठः । ३. 'निश्चयतोऽस्यानिष्टं' इति प्रशमरतो पाठः । १८/२२ ||३२१।। Jain Education Interational Page #327 -------------------------------------------------------------------------- ________________ Fiva संज्ञानात्तद्व्युदासेन समता समतोच्यते।।” (योगबिन्दु ३६४) 'इति ।।२२।। ।। विनैतया न हि ध्यानं ध्यानेनेयं विना च न । अतः प्रवृत्तचक्रं स्याद् द्वयमन्योऽन्यकारणात् ।।२३।। विनेति । एतया = समतया विना हि ध्यानं न स्यात्, चित्तव्यासङ्गाऽनुपरमात् । ध्यानेन विना चेयं = समता न भवति, प्रतिपक्षसामग्र्या बलवत्त्वात् । अतो द्वयं = ध्यानसमतालक्षणं अन्योऽन्यकारणात् प्रवृत्तचक्रं = अनुपरतप्रवाहं स्यात् । न चैवमन्योऽन्याश्रयः, "अपकृष्टयोस्तयोमिथ उत्कृष्टयोर्हेतुत्वात् । सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् ।।२३।। ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते ।।२४।। ___ ऋद्धीति । ऋद्धीनां = आमर्पोषध्यादीनां अनुपजीवनेन अप्रवर्तनं = अव्यापारणं (=ऋळ्यप्रवर्तन), सूक्ष्माणां = केवलज्ञान-दर्शन-यथाख्यातचारित्राद्यावरकाणां कर्मणां क्षयः (=सूक्ष्मकर्मक्षयः), तथा इति समुच्चये । 'अपेक्षैव बन्धनहेतुत्वात्तन्तुः तद्व्यवच्छेदः ।।३२२॥ १. मुद्रितप्रतौ 'इति' पदं नास्ति । २. मुद्रितप्रतौ हस्तादर्श चात्र 'ततः' इति पाठः । व्याख्यानुसारेण 'अतः' पाठः सम्यगाभाति। ३. हस्तादर्श 'अन्योन्यकारणाऽकारणात्' इत्यशुद्धः पाठो मूलानुसारेण । ४. मुद्रितप्रतौ 'अप्रकृ...' इति पाठः । ५. हस्तादर्श 'प्रवर्तनं' नास्ति । ६. हस्तादर्श 'अपोक्षे ....' इत्यशुद्धः पाठः । १८/२४| Jain Education Interational For Private & Personal use only Page #328 -------------------------------------------------------------------------- ________________ 5 ho ho ग द द्वा त्रिं शि का १८/२७ (= अपेक्षातन्तुविच्छेदश्चैव) फलमस्या: = समताया: प्रचक्षते विचक्षणाः || २४ ।। १विकल्पस्पन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः ।। २५ ।। विकल्पेति । स्वभावत एव निस्तरङ्गमहोदधिकल्पस्याऽऽत्मनः अन्यजन्मनां पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यसंयोगजनितानां विकल्पस्पन्दरूपाणां वृत्तीनां अपुनर्भावतः पुनरुत्पत्तियोग्यतापरिहारात् रोधः = परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृत्तिसङ्क्षयः प्रोच्यते । तदाह - “ अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । = अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः ।। " ( योगबिन्दु ३६६ ) ।। २५ ।। केवलज्ञानलाभश्च शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् ॥ २६ ॥ केवलेति । स्पष्टः ||२६|| वृत्तिरोधोऽपि योगश्चेद् भिद्यते पञ्चधाऽप्ययम् 1 मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः ।। २७ ।। वृत्तिरोधोऽपीति । मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितम् । वृत्तिरोधोऽपि १. हस्तादर्शे 'किवल्प' इत्यशुद्धः पाठः । २. 'स्यन्दे 'ति मुद्रितप्रतावशुद्धः पाठः । ।।३२३।। Page #329 -------------------------------------------------------------------------- ________________ ग ho has द द्वा त्रिं शि का १८/२९ चेद्योग उच्यते अयमपि पञ्चधा भिद्यते मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः । अनुभवसिद्धानां भेदानां दुरपह्नवत्वात्, अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः ।।२७।। प्रवृत्ति-स्थिरताभ्यां हि मनोगुप्तिद्वये किल । भेदाश्चत्वार इष्यन्ते तत्राऽन्त्यायां तथाऽन्तिमः ।। २८ ।। वृत् । वृत्तिः = प्रथमाऽभ्यासः, स्थिरता = उत्कर्षकाष्ठाप्राप्तिः ताभ्यां (= प्रवृत्तिस्थिरताभ्यां हि) मनोगुप्तिद्वये किल आद्या: = चत्वारो भेदा अध्यात्म-भावनाध्यान-समतालक्षणा इष्यन्ते, व्यापारभेदादेकत्र क्रमेणोभयोः समावेशाद्, यथोत्तरं विशुद्धत्वात् । तथाऽन्त्यायां = चरमायां तत्र = मनोगुप्तौ अन्तिमो = वृत्तिसङ्क्षय इष्यते । इत्थं हि पञ्चाऽपि प्रकारा निरपाया एव ||२८|| विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्त'ज्ज्ञैर्मनोगुप्तिस्त्रिधोदिता ं ।।२९।। विमुक्तेति । विमुक्तं = परित्यक्तं कल्पनाजालं = सङ्कल्पविकल्पचक्रं येन तत् ( = विमुक्तक-ल्पनाजालं), तथा समत्वे सुप्रतिष्ठितं सम्यग्व्यवस्थितं, आत्मारामं = स्वभावप्रतिबद्धं मनः तज्ज्ञैः तद्वेदिभिः मनोगुप्तिः ि त्रिभिः प्रकारैः उदिता = = = १. ' मनश्चेति' एवं मुद्रितप्रतौ हस्तादर्शे च पाठः । परं व्याख्यानुसारेण योगशास्त्रानुसारेण चात्र 'मनस्तज्ज्ञैः' इति पाठेन भवितव्यम् । २ हस्तादर्शे रुदाहृता' इत्यपि पाठः । ।।३२४।। Page #330 -------------------------------------------------------------------------- ________________ यो ग द hus द्वा त्रिं शि का १८/३२ = कथिता ।।२९।। अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समिति - गुप्तीनां प्रपञ्चो योग उत्तमः ||३०|| अन्यासामिति । अन्यासां = वाक्कायगुप्तीर्यासमित्यादीनां अवतारोऽपि = अन्तर्भावोऽपि यथायोगं = यथास्थानं विभाव्यतां = विचार्यतां यतो = यस्मात् समितिगुप्तीनां प्रपञ्चो यथापर्यायं विस्तारो योग उच्यते उत्तमः = उत्कृष्टः । न तु समिति गुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति ।। ३० ।। उपायत्वेऽत्र पूर्वेषामन्त्य एवाऽवशिष्यते । = तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः ।।३१।। उपायत्व इति । अत्र = अध्यात्मादिभेदेषु योगेषु पूर्वेषां = अध्यात्मादीनां उपायत्वे योगोपायत्वमात्रे वक्तव्ये अन्त्य एव = वृत्तिक्षय एव योगः अवशिष्यते । तत् = तस्मात् पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपायः, तत आरभ्य तु सानुबन्धयोगप्रवृत्तिरेव इति स्थितिः सत्तन्त्रमर्यादा ||३१ ॥ = = भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् । सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा ।।३२।। भगवदिति । निगदसिद्धोऽयम् ||३२|| ।। इति योगभेदद्वात्रिंशिका ।। १८ ।। ।।३२५ । Page #331 -------------------------------------------------------------------------- ________________ ।। अथ योगविवेकद्वात्रिंशिका ।।१९।। अध्यात्मादीन् योगभेदानुपदर्श्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाह इच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्रज्ञैर्निर्व्याजं यो विधीयते ॥१॥ इच्छामिति । इच्छां शास्त्रं सामर्थ्यं चाश्रित्य त्रिविधोऽप्ययं योगो योगशास्त्रज्ञैर्गीयते, इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्चेति । यो निर्व्याजं = निष्कपटं विधीयते । सव्याजस्तु योगाऽऽभासो गणनायामेव नाऽवतरतीति ।।१।। चिकीर्षोः' श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः । कालादिविकलो योग इच्छायोग उदाहृतः ।।२।। चिकीर्षोरिति । चिकीर्षोः = तथाविधक्षयोपशमाऽभावेऽपि निर्व्याजमेव कर्तुमिच्छोः, श्रुतार्थस्य = श्रुतागमस्य, अर्थ्यतेऽनेन तत्त्वमिति कृत्वा', अर्थशब्दस्याऽऽगमवचनत्वात् । ज्ञानिनोऽपि = अवगतानुष्ठेयतत्त्वार्थस्याऽपि प्रमादिनो = विकथादिप्रमादवतः (कालादिविकलः =) कालादिना विकलः = असम्पूर्णः योगः चैत्यवन्दनादिव्यापार इच्छायोग उदाहृतः १. मुद्रितप्रतौ 'चिकीर्षोः श्रुतशास्त्रस्य.' इति पाठः । परं स्वोपज्ञवृत्त्यनुसारेण छन्दोऽनुसारेण च 'चिकीर्षास्तु श्रुतार्थस्य' इति पाठेन भवितव्यम् । २. हस्तप्रतो मुद्रितप्रतौ च 'अर्यत' इत्यशुद्धः पाठः । परमग्रेतनव्याख्यानुसारेण योगदृष्टिसमुच्चयवृत्त्यनुसारेण च शुद्धः पाठोऽत्राऽस्माभिर्गृहीतः । ३. 'तत्त्वा' इत्यशुद्धः पाठो मुद्रितप्रतौ । १९/२ ।।३२६।। Jain Education Interational For Private & Personal use only Page #332 -------------------------------------------------------------------------- ________________ 11 = प्रतिपादितः ।।२।। प्रधानस्येच्छययोगत्वे तदङ्गस्याऽपि तथात्वमिति दर्शयन्नाह साङ्गमप्येककं कर्म 'प्रतिपन्ने प्रमादिनः । नत्वेच्छायोगत इति श्रवणादत्र मज्जति ।।३।। साङ्गमिति । साङ्गमपि = अङ्गसाकल्येनाऽविकलमपि एककं = स्वल्पं किञ्चित् कर्म प्रतिपन्ने = बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिनः = प्रमादवतः 'नत्वेच्छायोगत' (योगदृष्टिसमुच्चय १) इति श्रवणादत्र = इच्छायोगे नि(?)मज्जति = निमग्नं भवति । अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरिोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्याऽऽरम्भप्रदर्शनार्थं नत्वेच्छायोगतोऽयोगमित्यादि नाऽवक्ष्यत्', वाग्नमस्कारमात्रस्याऽल्पस्य विधिशुद्धस्यापि सम्भवात् । प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्याऽपीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ।।३।। यथाशक्त्यप्रमत्तस्य तीव्रश्रद्धाऽवबोधतः ।। शास्त्रयोगस्त्वखण्डार्थाऽऽराधनादुपदिश्यते ।।४।। यथाशक्तीति । यथाशक्ति = स्वशक्त्यनतिक्रमेण अप्रमत्तस्य = विकथादिप्रमादरहितस्य, तीव्रौ = 'तथाविधमोहापगमात 'पटुतरौ यो श्रद्धाऽवबोधौ = जिनप्रवचनास्तिक्य-तत्त्वपरिच्छेदौ १. हस्तादर्श 'प्रतिपन्न...' इति पाठः । टीकानुसारेण स चाशुद्धः । २. 'अवक्षत्' इत्यशुद्धः पाठो मुद्रितप्रती। ३. हस्तादर्श ...प्रमाणस्य' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'तथाविध...' इत्यशुद्धः पाठः । ५. हस्तादर्श 'पटुतमो' इत्यशुद्धः पाठः । ।।।३२७॥ Jain Education Intemational For Private & Personal use only Page #333 -------------------------------------------------------------------------- ________________ ।। ततः (= तीव्रश्रद्धावबोधतः) अखण्डाऽर्थाऽराधनात् = कालाद्यविकलवचनानुष्ठानात् तु शास्त्रयोग उपदिश्यते ।।४।। शास्त्रेण दर्शितोपायः फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः ।।५।। ___ शास्त्रेणेति । • फलपर्यवसायिना = मोक्षपर्यन्तोपदेशेन' •शास्त्रेण दर्शितः = सामान्यतो ज्ञापित उपायो यस्य स तथा (= दर्शितोपायः), सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिक्प्रदर्शकत्वात् । अतिशक्तितः = शक्तिप्राबल्यात् तदतिक्रान्तविषयः शास्त्राऽतिक्रान्तगोचरः सामर्थ्याख्यो योग उच्यते ।।५।। शास्त्राऽतिक्रान्तविषयत्वमस्य समर्थयन्नाह शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः । अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ॥६॥ शास्त्रादिति । सिद्धिहेतवः सर्वे सर्वथा = सर्वैः प्रकारैः शास्त्रादेव न बुध्यन्ते । अन्यथा = शास्त्रादेव सर्वसिद्धिहेतूनां बोधे सर्वज्ञत्वं प्रसज्यते श्रवणादेव, सर्वसिद्धिहेतुज्ञाने सार्वज्ञ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्, तदुपलम्भाऽऽख्यस्वरूपाऽऽचरणरूपचारित्रस्याऽपि विलम्बाऽभावात्, सर्वसिद्ध्युपायज्ञानस्य सार्वज्यव्याप्यत्वाच्च । तदिदमुक्तं ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श ...देशेन न' इत्यशुद्धः पाठः । का १९/६ ।।३२८। Jain Education Interational For Privale & Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ "सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ।। सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः। तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाऽऽप्तितः ।।" (योगदृष्टिसमुच्चय ६-७) ।।६।। प्रातिभज्ञानगम्यस्तत्सामर्थ्याख्योऽयमिष्यते । अरुणोदयकल्पं हि प्राच्यं तत्केवलाऽर्कतः ।।७।। प्रातिभेति । तत् = तस्मात् प्रातिभज्ञानगम्योऽयं सामर्थ्याख्यो योग “इष्यते । सार्वश्यहेतुः खल्वयं मार्गानुसारिप्रकृष्टोहस्यैव विषयो न तु वाचा, क्षपकश्रेणिगतस्य धर्मव्यापारस्य स्वाऽनुभवमात्रवेद्यत्वादिति भावः । ननु प्रातिभमपि श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गात्तथा च कथं शास्त्राऽतिक्रान्तविषयत्वमस्येत्यत आह- तत् = प्रातिभं हि 'केवलाऽर्कतः = केवलज्ञानभानुमालिनः प्राच्यं = पूर्वकालीनं अरुणोदयकल्पम् ।।७।। एतदेव भावयति रात्रेर्दिनादपि पृथग्यथा नो वाऽरुणोदयः । श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ॥८॥ १. मुद्रितप्रतौ ' प्राप्तेर्हेतु..' इति पाठोऽशुद्धः । २. हस्तादर्श 'प्रतिभ...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'तदिति' इत्यशुद्धः पाठः । ४. हस्तादर्श प्रकृते 'उच्यते' इति पाठो वर्तते । परं मूलश्लोकानुसारेणात्र 'इष्यते' इति पाठः सम्यक् । ५. हस्तादर्श 'केला...' इति त्रुटितः पाठः । ६. हस्तादर्श 'तथेदमिति...' इति पाठः । १९/८ ।।३२९। Jain Education Interational For Private & Personal use only Page #335 -------------------------------------------------------------------------- ________________ रात्रेरिति । यथाऽरुणोदयो रात्रेर्दिनादपि पृथग् नो वाऽपृथगित्यर्थः । न पुनरत्रैकरूप्यं विवेचयितुं शक्यते, पूर्वापरत्वाऽविशेषेणोभयभागसम्भवात् । श्रुतात् केवलज्ञानाच्च तथेदमपि प्रातिभं ज्ञानं भाव्यतां, तत्काल एव तथाविधक्षयोपशमभाविनस्तस्य श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यतया श्रुताद् अशेषद्रव्यपर्यायाऽविषयत्वेन क्षायोपशमिकत्वेन च केवलज्ञानाद्विभिन्नत्वात् । केवलश्रुतपूर्वापरकोटिव्यवस्थितत्वेन तद्धेतु-कार्यतया च ताभ्यामभिन्नत्वात् ।।८॥ ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि । इष्यते गमकत्वं चाऽमुष्य व्यासोऽपि यज्जगौ ॥९॥ ऋतम्भरादिभिरिति । एतत् = प्रकृतं प्रातिभज्ञानं परैरपि पातञ्जलादिभिः ऋतम्भरादिभिः ॥ शब्दैर्वाच्यमिष्यते । आदिना तारकादिशब्दग्रहः । गमकत्वं = सामर्थ्ययोगज्ञापकत्वं चाऽमुष्य | प्रातिभस्य परैरिष्यते । यद् = यस्माद् व्यासोऽपि जगौ ।।९।। आगमेनाऽनुमानेन योगा(ध्याना)भ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ।।१०।। आगमेनेति । आगमेन = शास्त्रेण, अनुमानेन = लिङ्गाल्लिङ्गिज्ञानरूपेण, ध्यानाऽभ्यासस्य रसः = श्रुतानुमानप्रज्ञाविलक्षणऋतम्भराऽऽख्यो विशेषविषयस्तेन ( ध्यानाभ्यासरसेन च त्रिधा प्रज्ञा प्रकल्पयन उत्तमं = सर्वोत्कृष्टं योगं लभते ।।१०।। १९/१० ॥३३०।। Jain Education Interational For Private & Personal use only Page #336 -------------------------------------------------------------------------- ________________ द्विधाऽयं धर्मसंन्यास'-योगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥११॥ द्विधेति । द्विधा = द्विप्रकारो अयं = सामर्थ्ययोगः धर्मसन्न्यास-योगसन्न्याससंज्ञे जाते यस्य स तथा (=धर्मसन्न्यास-योगसन्याससंज्ञितः)। संज्ञा चेह 'तया' संज्ञायत' इति कृत्वा तत्स्वरूपमेव गृह्यते । क्षायोपशमिकाः = क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो धर्माः, योगास्तु कायादिकर्म = कायोत्सर्गकरणादयः कायादिव्यापाराः ।।११।। द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ।।१२।। द्वितीयेति । द्वितीयाऽपूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमाऽपूर्वकरणव्यवच्छेदार्थं | द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । अपूर्वकरणस्य तु तत्राऽसञ्जातपूर्वग्रन्थिभेदादिफलेनाभिधानात् । यथाप्राधान्यमयमुपन्यासः । चारुश्च पश्चानुपूर्वेति समयविदः । ततो द्वितीयेऽस्मिंस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि प्रथमो = धर्मसन्याससंज्ञितः सामर्थ्ययोगः तात्त्विकः = पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । १. हस्तादर्श 'सन्यासां' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तप्रतौ चात्र 'तथा' इति पाठः । स चाशुद्धः प्रतिभाति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणात्र 'तया' इति पाठः सम्यगिति कृत्वा गृहीतोऽस्माभिः । ३. मुद्रितप्रतौ 'क्षान्त्याधदिर्म' इत्यशुद्धः पाठः । का १९/१२ |||३३१।। Jain Education Intemational For Private & Personal use only Page #337 -------------------------------------------------------------------------- ________________ __ अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसन्न्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवाऽस्या भवविरक्त एवाऽधिकार्युक्तः ।। ___ यथोक्तं- “अथ प्रव्रज्यार्हः । (१) आर्यदेशोत्पन्नः, (२) विशिष्टजातिकुलान्वितः, (३) क्षीणप्रायकर्ममलः, (४) तत एव विमलबुद्धिः, (५) 'दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगो 'वियोगान्तः, प्रतिक्षणं मरणं, दारुणो विपाक' इत्यवगतसंसारनैर्गुण्यः, (६) तत एव तद्विरक्तः, (७) प्रतनुकषायः, (८) अल्पहास्यादिः, (९) कृतज्ञो, (१०) विनीतः, (११) प्रागपि राजाऽमात्यपौरजनबहुमतः, (१२) अद्रोहकारी, (१३) कल्याणाङ्गः, (१४) श्राद्धः, (१५) स्थिरः , (१६) समुपसम्पन्नश्चेति" (ध.बि.४/३)। ____न ह्यनीदृशो ज्ञानयोगमाराधयति । न चेदृशो नाऽऽराधयतीति भावनीयम् । सर्वज्ञवचनमागमस्त नायमनिरूपितार्थ इति । आयोज्यकरणं = केवलाऽऽभोगेनाऽचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापारणं शैलेश्यवस्थाफलं ततः (=आयोज्यकरणाद्) ऊर्ध्वं द्वितीयो योगसन्न्याससंज्ञित १. 'धर्यस' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र 'क्षीणप्रायकर्ममलबुद्धिः' इत्यशुद्धः पाठः । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण शुद्धः पाठो योजि-तोऽत्र । ३. हस्तादर्श 'वियोगोः' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थिर' इति पदं नास्ति । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण तदत्र योजितम्। ५. मुद्रितप्रतौ 'तत्राय'मित्यशुद्ध पाठः । १९/१२ ।।।।३३२॥ Jain Education Interational For Private & Personal use only Page #338 -------------------------------------------------------------------------- ________________ Foto s ग वि वे क द्वा त्रिं शि का १९/१५ इति तद्विदोऽभिदधति, शैलेश्यवस्थायां कायादियोगानां सन्यासेनाऽयोगाख्यस्य सर्वसन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति ।।१२।। तात्त्विको तात्त्विकश्चेति सामान्येन द्विधाऽप्ययम् । तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः ।। १३॥ तात्त्विक इति । सामान्येन = विशेषभेदाऽनुपग्रहेण तात्त्विको तात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते । तात्त्विको = वास्तवः = केनाऽपि नयेन मोक्षयोजनफल इत्यर्थः । अन्यः अतात्त्विकः तु तदाभासः = उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ||१३|| = अपुनर्बन्धकस्याऽयं व्यवहारेण तात्त्विकः । अध्यात्म-भावनारूपो निश्चयेनोत्तरस्य तु ।।१४।। अपुनर्बन्धकस्येति । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च अयं = योगो व्यवहारेण कारणस्याऽपि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च निश्चयेन = निश्चयनयेन उपचारपरिहाररूपेण उत्तरस्य तु चारित्रिण एव ।।१४।। = सकृदावर्तनादीनाम' तात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ।। १५ ।। = १. हस्तादर्शे . नामदंता...' इत्यशुद्धः पाठः । ||३३३ ।। Page #339 -------------------------------------------------------------------------- ________________ सकृदिति । सकृद् = एकवारं आवर्तन्ते = उत्कृष्टस्थिति बनन्तीति सकृदावर्तनाः।। आदिशब्दाद् द्विरावर्तनादिग्रहः । तेषां (=सकृदावर्तनादीनां) अतात्त्विको = व्यवहारतः, निश्चयतश्चाऽतत्त्वरूपः, अशुद्धपरिणामत्वाद् उदाहृतः अध्यात्म-भावनारूपो योगः । प्रत्यपायोऽनर्थः फलं प्रायो = बाहुल्येन यस्य स तथा (=प्रत्यपायफलप्रायः) । तथा = तत्प्रकारं' भावसाराऽध्यात्मभावनायुक्तयोगियोग्यं यद्वेषादिमानं नेपथ्य-चेष्टा-भाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् (= तथावेषादिमात्रतः) । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ।।१५।। शुद्ध्यपेक्षो यथायोगं चारित्रवत एव च । हन्त ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते ।।१६।। शुद्ध्यपेक्ष इति । यथायोगं = यथास्थानं शुद्ध्यपेक्ष = उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानः चारित्रवत एव च हन्त तात्त्विकः = पारमार्थिकैकस्वरूपो ध्यानादिको योगः प्रविज़म्भते = प्रोल्लसति ।।१६।। १९/१७ अपायाऽभाव-भावाभ्यां सानुबन्धोऽपरश्च सः । निरुपक्रमकर्मैवापायों योगस्य बाधकम् ।।१७।। १. ....कारभा...' इति मुद्रितप्रतौ पाठोऽशुद्धः । २. 'भावमारा' इत्यशुद्धः पाठो मुद्रितप्रती । । ३. 'मानचा' इति मुद्रितप्रतावशुद्धः पाठः । ४. हस्तादर्श 'वापार्यो' इत्यशुद्धः पाठः । ।।३३४।। Jain Education Interational For Private & Personal use only Page #340 -------------------------------------------------------------------------- ________________ Fd to अपायेति । 'अपायस्य अभाव-भावाभ्यां = असद्भाव-सद्भावाभ्यां (= अपायाभावभावाभ्यां) सानुबन्धोऽपरो = निरनुबन्धः च स योगः। अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति। योगस्य बाधकं निरुपक्रम = विशिष्टानुष्ठानचेष्टयाप्यनुच्छेद्यं अनाश्यस्वविपाकसामर्थ्य वा कर्मैव (=निरुपक्रमकर्मैव) चारित्रमोहनीयाख्यं अपायः।।१७।। 'बहुजन्मान्तरकरः सापायस्यैव साश्रवः । अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ॥१८॥ बहिवति । बहुजन्मान्तरकरो = देव-मनुष्याद्यनेकजन्मविशेषहेतुः, निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् । सापायस्यैव = अपायवत एव साश्रवो योगः। एकमेव = वर्तमानं जन्म यत्र स (=एकजन्मा) त्वनाश्रवः । ननु कथमेतदयोगिकेवलिगुणस्थानादर्वाक् सर्वसंवराभावेनाऽनाश्रवत्वाऽसम्भवादित्यत आह- तत्त्वाङ्ग = निश्चयप्रापको यो व्यवहारस्ततः (तत्त्वाङ्गव्यवहारतः) । तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याऽभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नाऽनाश्रवयोगक्षतिरिति भावः । तदुक्तं → "आश्रवो बन्धहेतुत्वाद् बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः।। एवं चरमदेहस्य सम्परायवियोगतः । इत्वराऽऽश्रवभावेऽपि स तथाऽनाश्रवो मतः ।। १९/१८ ॥३३५॥ १. हस्तादर्श 'अपायस्य भावाभा...' इति पाठोऽर्थतः शुद्धोऽपि क्रमानुसारेण मूलकारिकानुसारेण चाऽशुद्धः । २. हस्तादर्श 'बहुजन्मान्तरः कृतापायस्यैव...' इति पाठः । Jain Education Interational Page #341 -------------------------------------------------------------------------- ________________ 65 do to s ग क द्वा त्रिं शि का १९/१९ निश्चयेनाऽत्र शब्दाऽर्थः सर्वत्र व्यवहारतः । निश्चय - व्यवहारौ च द्वावप्यभिमताऽर्थदौ ।। " ← ( योगबिन्दु ३७६, ३७७, ३७८) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकाद् व्यवहारत इत्यन्वयः ।। १८ ।। इत्थं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्व-तद्विपर्ययाभ्यां तद्द्द्वैविध्याऽभिधानाऽभिप्रायवानाह शास्त्रेणाऽधीयते चायं नाऽसिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ।।१९।। शास्त्रेणेति । अयं च योगो गोत्रयोगिनां गोत्रमात्रेण योगिनां असिद्धेः = मलिनाऽन्तरात्मतया योगसाध्यफलाऽभावात् शास्त्रेण = योगतन्त्रेण नाऽधीयते । तथा सिद्धेः = सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य = असङ्गाऽनुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्याऽयं शास्त्रेण नाऽधीयते, यद् = यस्मात् पश्यकस्य = स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः सदसत्कर्तव्याऽकर्तव्याऽऽदेशो न अस्ति । यतोऽभिहितं आचारे- “उद्देसो पास- गस्स नत्थि त्ति” ( आचाराड्ग १/१/२/८३) ।।१९।। कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । = १. मुद्रितप्रतौ यद् द्वा...' इति अशुद्धः पाठः । परं मुद्रित - योगबिन्दुप्रतौ हस्तादर्शे च च द्वा...' इति पाठः । अतः सोऽत्र गृहीतः । २ मुद्रितप्रतौ प्रापकव्य...' इति पाठान्तरम् । ।। ३३६ ।। Page #342 -------------------------------------------------------------------------- ________________ योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ॥२०॥ कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च (=कुल-प्रवृत्तचक्राणां) शास्त्राद् = योगतन्त्रात् सा सा विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये "कुलप्रवृत्तचक्रा ये त एवाऽस्याऽधिकारिणः । योगिनो न तु सर्वेऽपि तथासिद्ध्यादिभावतः ।।” (योगदृष्टिसमुच्चय २०९) तेषां कुलप्रवृत्तचक्रयोगिनां लक्षणं (=तल्लक्षणं) पुनरिदं वक्ष्यमाणं योगाचार्यैः = योगप्रतिपादकैः सूरिभिः विनिर्दिष्टम् ।।२०।। ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नाऽपरे ।।२१।। __ य इति । ये योगिनां कुले जाता = लब्धजन्मानः तद्धर्मानुगताश्च = योगिधर्माऽनुसरणवन्तश्च ये = प्रकृत्याऽन्येऽपि, ते कुलयोगिन उच्यन्ते द्रव्यतो भावतश्च । गोत्रवन्तोऽपि = सामान्येन कर्मभूमिभव्या अपि नाऽपरे कुलयोगिन इति ।।२१।। सर्वत्राऽद्वेषिणश्चैते गुरु-देव-द्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः ॥२२।। सर्वत्रेति । एते च तथाविधाऽऽग्रहाऽभावेन सर्वत्राऽद्वेषिणः । तथा धर्मप्रभावाद्यथास्वाचारं गुर्वादिप्रियाः । तथा प्रकृत्या क्लिष्टपापाऽभावेन दयालवः । विनीताश्च कुशलाऽनुबन्धिभव्यतया १. 'सा' इत्येकं पदं मुद्रितप्रतौ नास्ति । २. 'ते' इति पदं मुद्रितप्रतौ नास्ति । १९/२२ ।।३३७।। Jain Education Interational For Private & Personal use only Page #343 -------------------------------------------------------------------------- ________________ 5 to f ग वे क द्वा त्रिं शि का १९/२४ 'बोधवन्तो ग्रन्थिभेदेन जितेन्द्रियाः चारित्रभावेन ||२२|| प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयाऽर्थिनोऽत्यन्तं शुश्रूषादिगुणाऽन्विताः ।। २३ ।। प्रवृत्तचक्रास्त्विति । प्रवृत्तचक्रास्तु पुनः यमद्वयस्य इच्छायमप्रवृत्तियमलक्षणस्य समाश्रया आधारीभूताः (= यमद्वयसमाश्रयाः), शेषद्वयार्थिनः = स्थिरयम-सिद्धियमद्वयार्थिनः अत्यन्तं सदुपायप्रवृत्त्या । शुश्रूषादयो गुणाः शुश्रूषा श्रवण - ग्रहण-धारण-विज्ञानोहापोहलक्षणास्तैरन्विताः युक्ताः (= शुश्रुषादिगुणान्विताः) ।। २३ ।। आद्याऽवञ्चकयोगाऽऽप्त्या तदन्यद्वयलाभिनः । = = dsधिकारिणो योगप्रयोगस्येति तद्विदः । । २४॥ आद्येति । आद्याऽवञ्चकयोगस्य = योगाऽवञ्चकयोगस्य आप्त्या = प्राप्त्या हेतुभूतया ( = आद्यावञ्चकयोगाप्त्या) तदन्यद्वयलाभिनः = क्रियावञ्चकफलावञ्चक-योगलाभवन्तस्तद वन्ध्यभव्यतया तत्त्वतस्तेषां तल्लाभवत्त्वात् । एतेऽधिकारिणो योगप्रयोगस्य = अधिकृतयोगव्यापारस्य इति एवं तद्विदो = योगविदोऽभिदधति || २४ ॥ = यमाश्चतुर्विधा इच्छा-प्रवृत्ति- स्थैर्य-सिद्धयः । १. हस्तादर्शे 'वाध....' इत्यशुद्धः पाठः । २ हस्तादर्श' लाभत्वात्' इति पाठः । मुद्रितप्रतौ च लाभवत्वात्' इति पाठः । ।।३३८ Page #344 -------------------------------------------------------------------------- ________________ + 4 to योग-क्रिया-फलाख्यं च स्मर्यतेऽवञ्चकत्रयम् ॥२५॥ यमा इति । यमाश्चतुर्विधा इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमाश्च (=इच्छा-प्रवृत्ति-स्थैर्य-सिद्धयः) । अवञ्चकत्रयं च योग-क्रिया-फलाख्यं श्रूयते (=स्मर्यते) योगाऽवञ्चकः क्रियाऽवञ्चकः फलावञ्चकश्चेति ।।२५।। इच्छायमो यमेष्विच्छा युता तद्वत्कथामुदा । स प्रवृत्तियमो यत्तत्पालनं शमसंयुतम् ।।२६।। इच्छेति । तद्वतां = यमवतां कथातो या मुत् = प्रीतिस्तया (तद्वत्कथामुदा) युता = सहिता यमेष्विच्छा इच्छायम उच्यते । यत् तु तेषां यमानां पालनं (=तत्पालन) शमसंयुतं = 'उपशमाऽन्वितं स प्रवृत्तियमः । तत्पालनं चाऽत्राऽविकलमभिप्रेतं, तेन न कालादिविकलतत्पालनलक्षणे इच्छायमेऽतिव्याप्तिः । न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधसाधुचेष्टया प्रधान इच्छायम एव तात्त्विकपक्षपातस्याऽपि द्रव्यक्रियाऽतिशायित्वात् । तदुक्तं- “तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ।।” (योगदृष्टिसमुच्चय २२३) संविग्नपाक्षिकस्य प्रवृत्त-चक्रत्वाऽनुरोधेन तु प्रवृत्तियम एवाऽयं तस्य शास्त्रयोगाऽनियतत्वादिति नयभेदेन भावनीयम् ।।२६।।। सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । १. हस्तादर्श 'उपशमाश्चितं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ .... लनक्षणे' इत्येवमशुद्धः पाठः ।। १९/२६ ॥३३९।। Page #345 -------------------------------------------------------------------------- ________________ रहिता यमसेवा तु तृतीयो यम उच्यते ॥२७।। सदिति । सतो = विशिष्टस्य क्षयोपशमस्योत्कर्षात् = उद्रेकाद् (=सत्क्षयोपशमोत्कर्षात्) अतिचारादीनां चिन्तया (=अतिचारादिचिन्तया) रहिता तदभावस्यैव 'विनिश्चयात् । यमसेवा तु तृतीयो यमः = स्थिरयम उच्यते ।।२७।। परार्थसाधिका त्वेषा सिद्धिः शुद्धाऽन्तरात्मनः। अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते ॥२८।। परार्थेति। परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा = यमसेवा सिद्धिः। शुद्धः = क्षीणमलतया निर्मलोऽन्तरात्मा यस्य (=शुद्धान्तरात्मनः) अचिन्त्यायाः = अनिर्वचनीयायाः शक्तेः स्ववीर्योल्लासरूपाया योगेन (= अचिन्त्यशक्तियोगेन) चतुर्थो यम उच्यते ॥२८॥ सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । । तथादर्शनतो योग आद्याऽवञ्चक उच्यते ।।२९।। ___सद्भिरिति । सद्भिः = उत्तमैः कल्याणसम्पन्नैः = विशिष्टपुण्यवद्भिः दर्शनादपि = अवलोकनादपि पावनैः = पवित्रैः तथा = तेन प्रकारेण गुणवत्तयेत्यर्थः दर्शनतो योगः = सम्बन्ध आद्याऽवञ्चकः = सद्योगाऽवञ्चक उच्यते ।।२९।। १. हस्तादर्श 'निश्चयात्' इति पाठः । २. हस्तादर्श 'सिद्धि' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'इष्यते' इत्यशुद्धः पाठः मूलानुसारेण । १९/२९ |||३४० Jain Education Interational Page #346 -------------------------------------------------------------------------- ________________ तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियाऽवञ्चकयोगः स्यान्महापापक्षयोदयः ॥३०॥ तेषामेवेति । तेषामेव = सतामेव प्रणामादिक्रियानियम' इत्यलं क्रियावञ्चकयोगः स्यात् । महापापक्षयस्य = नीचैर्गोत्रकर्मक्षयस्योदय = उत्पत्तिर्यस्मात् स (=महापापक्षयोदयः) तथा |॥३०॥ फलाऽवञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥३१॥ फलेति । फलावञ्चकयोगस्तु सद्भ्य एव अनन्तरोदितेभ्यो नियोगतो = अवश्यम्भावेन सानुबन्धस्योत्तरोत्तरवृद्धिमतः फलस्याऽवाप्तिः (=सानुबन्धफलावाप्तिः) तथा सदुपदेशादिना धर्मसिद्धौ विषये सतां मता ।।३१।। इत्थं योगविवेकस्य विज्ञानाद् वान्तकल्मषः । यतमानो यथाशक्ति परमानन्दमश्नुते ॥३२॥ इत्थमिति । स्पष्टः ।।३२।। ॥ इति योगविवेकद्वात्रिंशिका ।।१९।। १. हस्तादर्श ....दिक्रियादिनियम' इति पाठः । २. मुद्रितप्रतौ '...तरवृत्तिमत' इति पाठः । ३. मुद्रितप्रती 'हीनकल्मष' इत्यशुद्धः पाठः । १९/३२ ।।३४१। Jain Education Interational For Private & Personal use only Page #347 -------------------------------------------------------------------------- ________________ 'F Evsh ॥ अथ योगावतारद्वात्रिंशिका ।।२०।। अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति' व्यवतिष्ठत | इत्यतोऽयं निरूप्यते सम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते । सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥१॥ ___सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरो = असम्प्रज्ञातः चेति अन्यैः = पातञ्जलैः अयं = योगो द्विधेष्यते । सम्यक् = संशय-विपर्ययाऽनध्यवसायरहितत्वेन प्रज्ञायते = प्रकर्षण ज्ञायते भाव्यस्य स्वरूपं येन स सम्प्रज्ञात उच्यते ।।१।। 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः । भाव्यस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः ।।२।। वितर्केणेति । 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः क्रमेण युक्तः। भाव्यस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनलक्षणाया भेदात् (=भावनाभेदात्) सम्प्रज्ञातश्चतुर्विधो भवति । तदुक्तं-"वितर्क-विचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति (योगसूत्र १-१७)" ।।२।। १. हस्तादर्श ....वतारेऽवतिष्ठत' इति पाठः । २. हस्तादर्शान्तरे ‘स तिष्ठत' इति पाठः । ३. हस्तादर्श 'प्रज्ञा...' इति त्रुटितः पाठः । ४. त्रिषु हस्तादर्शेषु 'विकल्पेन' इति पाठः । २०/२ ।।३४२। For Private & Personal use only Page #348 -------------------------------------------------------------------------- ________________ पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सवितर्को'ऽन्यथाऽपरः ॥३॥ पूर्वेति । पूर्वापरयोरर्थयोरनुसन्धानात् (=पूर्वाऽपराऽनुसन्धानात्) शब्दोल्लेखात् = शब्दार्थोपरागात् च यद्वा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेषु' अर्थेषु (=महाभूतेन्द्रियार्थेषु) स्थूलविषयेषु तदा सवितर्कः समाधिः । अन्यथा अस्मिन्नेवालम्बने पूर्वापराऽनुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायां अपरो निर्वितर्कः ।।३।। तन्मात्राऽन्तःकरणयोः सूक्ष्मयोर्भावना पुनः । दिक्कालधर्मावच्छेदात् सविचारोऽन्यथाऽपरः ।।४।। तन्मात्रेति । तन्मात्राऽन्तःकरणयोः सूक्ष्मयोः भाव्ययोः दिक्कालधर्माऽवच्छेदाद् = देशकालधर्माऽवच्छेदेन भावना पुनः सविचारः समाधिः । अन्यथा = तस्मिन्नेवाऽऽलम्बने देशकालधर्माऽवच्छेदं विना धर्मिमात्रावभासित्वेन भावनायां अपरो निर्विचारः ।।४।। यदा रजस्तमोलेशाऽनुविद्धं भाव्यते मनः । तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः ॥५॥ ___यदेति । यदा रजस्तमसोर्लेशेनाऽनुविद्धं (=रजस्तमोलेशाऽनुविद्धं) मनः = अन्तःकरणतत्त्वं १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'सविकल्पो' इति पाठः । परं व्याख्यानुसारेणाऽत्र 'सवितर्को' इत्येव पाठो ज्यायान् । २. हस्तादर्श 'लक्षणार्थे...' इति पाठान्तरम् । ३. हस्तादर्श 'धर्माविच्छेदाद् देश-काल' इति पाठः त्रुटितः । २०/५ ॥३४३॥ Jain Education Intemational For Private & Personal use only Page #349 -------------------------------------------------------------------------- ________________ ।। भाव्यते तदा भाव्यस्य = भावनाविषयस्य सुखस्य = सुखप्रकाशमयस्य सत्त्वस्योद्रेकाद्' । || = आधिक्यात् (=भाव्यसुखोद्रेकात्) चिच्छक्तेर्गुणभावतः = अनुद्रेकात् ।।५।। सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः । देहाऽहङ्कारविगमात् प्रधानमुपदर्शिनः ।।६।। ___सानन्द इति । सानन्दः समाधिर्भवत्युक्तहेतुतः । अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते देहाऽहङ्कारविगमाद् बहिर्विषयाऽऽवेशनिवृत्तेः "प्रधानमुपदर्शिनः = प्रधानपुरुषतत्त्वाविभावकाः ।।६।। सत्त्वं रजस्तमोलेशाऽनाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता ।।७।। सत्त्वमिति। यत्र रजस्तमोलेशेनाऽनाक्रान्तं (-रजस्तमोलेशाऽनाक्रान्तं) सत्त्वं भाव्यते, स सास्मितः समाधिः । अत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता, भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाच्चिति शक्तेश्च उद्रेकात । सत्तामात्रावशेषत्वाच्वात्र सास्मितत्वोपपत्तिः । न २०/७ चाहंकाराऽस्मितयोरभेदः शङकनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयं वेदयते ।।३४४।। १. हस्तादर्श ' क्रावि..' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘भण्यते' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'प्रधानपुमद....' इत्यशुद्धः पाठः । ४. हस्तादर्श 'प्रधानमुपदर्शिनः' इति पदं द्विरुक्तम् । ५. हस्तादर्श 'चित्तै' इत्यशुद्धः पाठः । ६. हस्तादर्श ...त्युल्लुखेन' इत्यशुद्धः पाठः ।। FF Est Jain Education Interational Page #350 -------------------------------------------------------------------------- ________________ सोऽहङ्कारः, यत्राऽन्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति ।।७।। अत्रैव कृततोषा ये परमात्माऽनवेक्षिणः । चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् ॥८॥ अत्रैवेति । अत्रैव = सास्मितसमाधावेव ये कृततोषाः परमात्माऽनवेक्षिणः परमपुरुषाऽदर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते ।।८।। ग्रहीतृग्रहणग्राह्यसमापत्तित्रयं किल । अत्र सास्मित-सानन्द-निर्विचारान्तविश्रमम् ।।९।। ग्रहीत्रिति। •सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातौ ग्रहीतृ समापत्तिः। सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः । निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः ।।९।। मणेरिवाऽभिजातस्य क्षीणवृत्तेरसंशयम् । तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता ॥१०॥ मणेरिवेति। मणेरिव = स्फटिकादिरत्नस्येव अभिजातस्य = जात्यस्य क्षीणवृत्तेः ।।३४५।। = क्षीणमलस्य असंशयं = निश्चितं तात्स्थ्यात् = तत्रैकाग्रत्वात, तदञ्जनत्वाच्च = • • चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ 'तत्रेका...' इत्यशुद्धः पाठः । २०/१० Jain Education Interational Page #351 -------------------------------------------------------------------------- ________________ BEEV तन्मयत्वात् । न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता । । तदुक्तं- "क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ-तदजनता समापत्तिः” (यो.सू.१४१) । यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात् तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तद्रूपतापत्तिः। ___यद्यपि ग्रहीतृ-ग्रहण-ग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः । यतः प्रथम ग्राह्यनिष्ठः समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवादिति बोध्यम् ।।१०।। सङ्कीर्णा सा च शब्दाऽर्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा ।।११।। सङ्कीर्णेति। सा च = समापत्तिः शब्दार्थज्ञानैः विकल्पतः अपि सङ्कीर्णा सवितर्का। यदाह-"(तत्र) शब्दार्थज्ञानविकल्पैः सङ्कीर्णा = सवितर्का (योगसूत्र १-४२)”। तत्र श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः, अर्थो 'जात्यादिः, ज्ञानं = सत्त्वप्रधाना बुद्धिवृत्तिः, विकल्पः = "शब्दज्ञानाऽनुपाती वस्तुशून्योऽर्थः, एतैः सङ्कीर्णा यत्रैते शब्दादयः परस्पराऽध्यासेन प्रतिभासन्ते-"गौरिति शब्दो 'गौरित्यर्थो गौरिति ज्ञानं" इत्याकारेण । इत्थं परैर्भेदैश्चतर्विधा १. हस्तादर्श .....त्वोत्कर्षे' इति पाठः । २. हस्तादर्श 'तत्र रूपा...' इति पाठः । ३. मुद्रितप्रतौ 'जात्यादिज्ञानं' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'शाब्द' इति पाठः । परं योगसूत्रानुसारेण 'शब्द' इत्येव । पाठः सम्यक् । ५. मुद्रितप्रतौ 'गोरि' इत्यशुद्धः पाठः । ६. हस्तादर्श 'परिभे...' इत्यशुद्धः पाठः । २०/११ ||३४६।। Jain Education Interational For Private & Personal use only Page #352 -------------------------------------------------------------------------- ________________ 'FE इयं भवति । तथाहि- "महास्मृतिपरिशुद्धौ 'स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का" (योगसूत्र १४३) । यदाह- "उक्तलक्षणविपरीता निर्वितर्केति” (योगसूत्र १/४४) ।। ___ यथा च स्थूलभूतादिविषया सवितर्का तथा सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दाऽर्थविकल्पसहितत्वेन देशकालधर्माऽवच्छेदेन च गृहणन्ती सविचारा भण्यते धर्मिमात्रतया च तं गृह्णन्ती निर्विचारेति । यत उक्तं- “एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता” (यो.सू.१-४४)। सूक्ष्मविषयत्वं चाऽलिङ्गपर्यवसानं (यो.सू.१-४५) न क्वचिल्लीयते', न वा किंचिल्लिङ्गति गमयतीत्यलिंगं प्रधानं तत्पर्यन्तमित्यर्थः । गुणानां हि परिणामे चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिग लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमानं बुद्धिः, अलिङ्गं च प्रधानमिति। एताश्च समापत्तयः संप्रज्ञातरूपा एव । यदाह- "ता एव सबीजः समाधिरिति” (योगसूत्र १-४६) सह बीजेन = आलम्बनेन वर्तत इति सबीजः सम्प्रज्ञात इत्यर्थः ।।११।। इतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह अध्यात्म निर्विचारत्ववैशारद्ये प्रसीदति । १. मुद्रितप्रतौ 'स्वरूपशून्ये वार्थ...' इत्येवमस्थानच्छिन्नः पाठो भ्रमोत्पादकः । २. हस्तादर्श 'भणंति' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'तं' नास्ति । ४. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'द्विद्यते' इत्यशुद्धः पाठो विद्यते । परं राजमार्तण्डानुसारेणास्माभिः 'ल्लीयते' इति शुद्धः पाठः संयोजितः । २०/११ ३४७॥ Jain Education Interational For Private & Personal use only Page #353 -------------------------------------------------------------------------- ________________ ऋतम्भरा ततः प्रज्ञा श्रुताऽनुमितितोऽधिका ।।१२।। अध्यात्ममिति । निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य वैशारद्ये प्रकृष्टाऽभ्यासवशेन नैर्मल्ये (=निर्विचारत्ववैशारद्ये) अध्यात्म = शुद्धसत्त्वं प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति । यदुक्तं- "निर्विचारत्ववैशारद्येऽध्यात्मप्रसादः" (योगसूत्र १-४७) । ___ ततः = अध्यात्मप्रसादात् ऋतम्भरा प्रज्ञा भवति। ऋतं सत्यमेव बिर्भति, न कदाचिदपि विपर्ययेणाऽऽच्छाद्यते या सा ऋतम्भरा । तदुक्तं- "ऋतम्भरा तत्र प्रज्ञा" (योगसूत्र १४८)। सा च श्रुतानुमितितः = आगमाऽनुमानाभ्यां सामान्यविषयाभ्यां •विशेषविषयत्वेन अधिका। यदाह- "श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषाऽर्थत्वादिति” (योगसूत्र १-४९)।।१२।। तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः । असम्प्रज्ञातनामा स्यात् समाधिस्तन्निरोधतः ।।१३।। तज्जन्मेति। तत ऋतम्भराप्रज्ञाया जन्म = उत्पत्तिर्यस्य स तथा (=तज्जन्मा) तत्त्वसंस्कारः = परमार्थविषयः संस्कारः संस्कारान्तरस्य = स्वेतरस्य व्युत्थानजस्य समाधिजस्य वा संस्कारस्य बाधकः (=संस्कारान्तरबाधकः) तन्निष्ठकार्यकरणशक्तिभङ्गकृदिति यावत् । तदुक्तं- “तज्जः 'संस्कारोऽन्यसंस्कारप्रतिबन्धी” (योगसूत्र १-५०) । तस्य निरोधतः सर्वासां ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'संस्कारः संस्कार...' इत्यशुद्धः पाठः । योगसूत्रानुसारेण 'संस्कारोऽन्यसंस्कार....' इति शुद्धः पाठोऽस्माभियोजितः । २०/१३ ॥३४८।। Jain Education Interational For Private & Personal use only Page #354 -------------------------------------------------------------------------- ________________ ।। चित्तवृत्तीनां स्वकारणे प्रविलयात् (= तन्निरोधतः) संस्कारमात्रोदितवृत्तिलक्षणो असम्प्रज्ञा| तनामा समाधिः स्यात् । तदुक्तं- “तस्याऽपि निरोधे' सर्वनिरोधान्निर्बीजः समाधिरिति” (योगसूत्र १-५१) ।।१३।। विरामप्रत्ययाऽभ्यासान्नेति नेति निरन्तरात् । ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते ।।१४।। विरामेति । विरामो = वितर्काऽऽदिचिन्तात्यागः स एव प्रत्ययो = विरामप्रत्ययः तस्य अभ्यासः = पौनःपुन्येन चेतसि निवेशनं, ततः (=विरामप्रत्ययाऽभ्यासात्) नेति नेति निरन्तराद् = अन्तररहितात संस्कारशेषात = उत्पन्नात ततः = असम्प्रज्ञातसमाधेः, यत उक्तं- “विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः३” (योगसूत्र १-१८) इति । कैवल्यं = आत्मनः स्वप्रतिष्ठत्वलक्षणं उपतिष्ठते = आविर्भवति ।।१४।। ____ तदेवमुक्तौ पराभिमतौ सभेदौ सोत्पत्तिक्रमौ च संप्रज्ञाताऽसंप्रज्ञाताऽऽख्यौ योगभेदौ । अथानयोर्यथासम्भवमवतारमाह२०/१५ सम्प्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः । तात्त्विकी च समापत्तिात्मनो भाव्यतां विना ।।१५।। FFER ।।।३४९।। ॥ १. मुद्रितप्रती 'सर्व(वृत्ति)निरोधी नि(धान्नि)ीज.' इति पाठः ।। २. मुद्रितप्रतौ 'उत्पन्ना' इत्यशुद्धः पाठः । ॥ ३. हस्तप्रतौ ...शेषादन्य' इत्यशुद्धः पाठः । योगसूत्रानुसारेण शुद्धः पाठोऽत्र योजितः । Jain Education Interational For Private & Personal use only Page #355 -------------------------------------------------------------------------- ________________ गा व ता र bhosda द्वा त्रिं शि का २०/१६ सम्प्रज्ञात' इति । अत्र = सम्प्रज्ञाताऽसम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति, स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारभ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः । यदाह योगबिन्दुकृत्- “समाधिरेष एवाऽन्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा । । ” ( योगबिन्दु ४१९ ) इति । एष एवाऽध्यात्मादियोगः । तात्त्विकी निरुपचरिता च समापत्तिरात्मनो भाव्यतां = भावनाविषयतां विना न घटते । शुद्धस्याऽभाव्यत्वे विशिष्टस्याऽपि तत्त्वाऽयोगात्, विशेषणसम्बन्धं विना वैशिष्ट्यस्याऽपि दुर्वचत्वाच्चेति । तथा च ग्रहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः । । १५ ।। परमात्मसमापत्तिर्जीवात्मनि हि युज्यते । = अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः ।। १६ ।। परमात्मेति । जीवात्मनि हि परमात्मसमापत्तिः तथापरिणामलक्षणा युज्यते अभेदेन तथा = परमात्मत्वेन ध्यानात् (= तथाध्यानात्) जीवात्मनोऽन्तरङ्गाया उपादानभूतायाः स्वशक्तितः तथापरिणमनात्मशक्तेः (= अन्तरङ्गस्वशक्तितः), शक्त्या सत एव व्यक्त्या परिणमनस्य तथा सामग्रीतः सम्भवादिति भावः ।। १६ ।। जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयति १. हस्तादर्शे 'संप्रज्ञाता' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ...णमना (दा) त्म...' इति भ्रामकः पाठः । ३. मुद्रितप्रतौ 'व्यक्ता (क्त्या ) ' इति पाठः । हस्तादर्शे 'एव्यक्त्या' इति त्रुटितः पाठः । For Private Personal Use Only ।।३५० ।। Page #356 -------------------------------------------------------------------------- ________________ बाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः । कायाऽधिष्ठायक-ध्येयाः प्रसिद्धा योगवाङ्मये ।।१७।। बाह्यात्मा चेति । कायः = स्वात्मधिया प्रतीयमानः 'अहं स्थूलोऽहं कृश' इत्याद्युल्लेखेन, अधिष्ठायकः = कायचेष्टाजनकप्रयत्नवान् ध्येयश्च ध्यानभाव्यः (=कायाधिष्ठायकध्येयाः)। एते त्रयो बाह्यात्मा चान्तरात्मा च परमात्मा चेति योगवाङ्मये = योगशास्त्रे प्रसिद्धाः। एतेषां च स्वेतरभेदप्रतियोगित्व-ध्यातृत्व-ध्येयत्वानोपयोगस्तात्त्विकाऽतात्त्विकैकत्वपरिणामतश्च सन्निधानमतात्त्विकपरिणामनिवृत्तौ तात्त्विकपरिणामोपलम्भश्च समापत्तिरिति ध्येयम् ।।१७।। अन्ये मिथ्यात्व-सम्यक्त्व-केवलज्ञानभागिनः । मिश्रे च क्षीणमोहे च विश्रान्तास्ते त्वयोगिनि ।।१८।। अन्य इति । अन्ये पुनराहुः- मिथ्यात्व-सम्यक्त्व-केवलज्ञानभागिनो = बाह्यात्माऽन्तरात्मपरमा-त्मानः ते तु मिश्रे च क्षीणमोहे चाऽयोगिनि च गुणस्थाने क्रमेण विश्रान्ताः। तत्र च बाह्यात्मताद-शायाम न्तरात्म-परमात्मनोः शक्तिस्तदेकद्रव्यत्वात् , अन्तरात्मदशायां च परमात्मनः शक्तिः बाह्यात्मनस्तु भूतपूर्वनयेन योगः, परमात्मतादशायां च बाह्यात्माऽन्तरात्मनोईयोरपि भूतपूर्वनयेनैव योग इति वदन्ति । तत्त्वमत्रत्यमध्यात्ममतपरीक्षायां व्यवस्थापितमस्माभिः ।।१८।। १. मुद्रितप्रतौ 'तात्त्विकैकत्व.....' इति त्रुटितः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । का २०/१८ ॥३५१॥ For Private & Personal use only Page #357 -------------------------------------------------------------------------- ________________ गा व ता र द्वा त्रिं शि का २०/२० विषयस्य समापत्तिरुत्पत्तिर्भावसंज्ञिनः । आत्मनस्तु समापत्तिर्भावो द्रव्यस्य तात्त्विकः ।।१९।। विषयस्येति । विषयस्य = आत्माऽतिरिक्तस्य भाव्यस्य समापत्तिर्भावसंज्ञिनो भावाऽभिधानस्य उत्पत्तिः उच्यते । वदन्ति हि नयदक्षाः- “अग्न्युपयुक्तो माणवकोऽप्यग्निरेवेति”, शब्दाऽर्थप्रत्ययानां तुल्याऽभिधानत्वाद् न त्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणामः सम्भवति, चेतनत्वाऽचेतनत्वयोर्विरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य = परमात्मदलस्य तात्त्विकः सहजशुद्धो भावः = परिणामः ।। १९ ।। = = अत एव च योऽर्हन्तं स्वद्रव्य-गुण-पर्ययैः । वेदाऽऽत्मानं स एव स्वं वेदेत्युक्तं महर्षिभिः ।।२०।। = अत एव चेति । यत एव 'दलतया परमात्मैव जीवात्मा,' अत एव च योऽर्हन्तं तीर्थकरं स्वद्रव्य-गुण-पर्ययैः = निजशुद्धात्म-केवलज्ञान-स्वभावपरिणमनलक्षणैः वेद जानाति स एव स्वमात्मानं वेद तत्त्वतो जानाति तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वात् इति महर्षिभिरुक्तं । यतः पठ्यते- “जो जाणइ अरहन्ते दव्वत्तगुणत्त-पज्जयत्तेहिं । सो जाणइ अप्पाणं मोहो खलु जाइ तस्स लयं ।। " ( प्रवचनसार१/८० ) | १. हस्तादर्श 'च' नास्ति । = = ।।३५२ ।। Page #358 -------------------------------------------------------------------------- ________________ ।। न चैतद्गाथाकर्तुः दिगम्बरत्वेन महर्षित्वाऽभिधानं न निरवद्यमिति मूढधिया शङ्कनीयं, || ।। सत्यार्थकथनगुणेन व्यासादीनामपि हरिभद्राचार्यैस्तथाभिधानादिति द्रष्टव्यम् ।।२०।। असम्प्रज्ञातनामा तु सम्मतो वृत्तिसङ्क्षयः । सर्वतोऽस्मादकरणनियमः पापगोचरः ॥२१॥ असम्प्रज्ञातेति । असम्प्रज्ञातनामा तु समाधिः वृत्तिसङ्क्षयः सम्मतः, 'सयोग्ययोगिकेवलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् । तदुक्तं- “असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः । निरुद्धाऽशेषवृत्त्यादितत्स्वरूपाऽनुवेधतः ।।” (योगबिन्दु-४२१) इति । 'धर्ममेघः' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ' धर्ममशुक्लकृष्णं मेहति = सिञ्चतीति व्युत्पत्तेः । तदुक्तं- "प्रसङ्ख्यानेप्यकुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति” (योगसूत्र ४-२९)। एवमन्येषामपि तत्तत्तन्त्रसिद्धानां शब्दानामर्थोऽत्र यथायोगं भावनीयः । तदाह- “धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः। सत्त्वानन्दः परश्चेति योज्योऽत्रैवाऽर्थयोगतः ।।” (योगबिन्दु-४२२) अस्माद् = वृत्तिसङ्क्षयात् २०/२१ १. हस्तादर्श 'सयोगिके...' इति त्रुटितोऽशुद्धः पाठः । २. हस्तादर्श 'तदुपमात्' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ।।३५३।। 'ऽपरैः' इत्यशुद्धः पाठः । ४. 'ख्यातो' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'संप्र....' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'भवशक्रशि' इत्यशुद्धः पाठः । योगबिन्दुग्रन्थानुसारेण योगविंशिकावृत्त्यनुसारेण च 'भवशत्रुः' इति पाठो योजितोऽस्माभिः । ७. मुद्रितप्रतौ हस्तप्रतौ च '...नन्दपर..' इति त्रुटितः पाठः । Jain Education Interational For Private & Personal use only Page #359 -------------------------------------------------------------------------- ________________ । FFE फलीभूतात् सर्वतः = सर्वैः प्रकारैः पापगोचरः = पापविषयः अकरणनियमः अनुमीयते इति शेषः । नरकगमनादिवृत्तिनिवृत्तेर्महारम्भ-परिग्रहादिहेत्वकरणनियमेनैवोपपत्तेः ।।२१।। ग्रन्थिभेदे यथाऽयं स्याद् बन्धहेतुं परं प्रति । नरकादिगतिष्वेवं ज्ञेयस्त तुगोचरः ।।२२।। ग्रन्थिभेद इति । यथाऽयं = अकरणनियमो बन्धहेतुं = मिथ्यात्वं परम् = उत्कृष्ट सप्ततिकोटिकोट्यादिस्थितिनिमित्तं प्रति = आश्रित्य ग्रन्थिभेदे (स्यात्=) निरूप्यते । ___एवं नरकादिगतिषु निवर्तनीयासु त तुगोचरो = नरकादिहेतुविषयोऽकरणनियमो ज्ञेयः ।।२२।। दुःखात्यन्तविमुक्त्यादि नाऽन्यथा स्याच्छुतोदितम् । हेतुः सिद्धश्च भावोऽस्मिन्नेवं' वृत्तिक्षयौचिती ॥२३॥ दुःखेति । अन्यथा दुःखाऽत्यन्तविमुक्त्यादि श्रुतोदितं = सिद्धान्तप्रतिपादितं न स्यात् । तदाह-“अन्यथात्यन्तिको मृत्युभूयस्तत्राऽगतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् ।।” (योगबिन्दु-४१७) न च तत्त्वज्ञानेनैव दुःखाऽत्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यं, तस्याऽऽत्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे तद्धत्वकरणनियमस्या ऽवश्याऽऽश्रयणीयत्वादिति भावः। अस्मिन = तत्तत्पापस्थानाऽकरणनियमे च सिद्धः = । १. मुद्रित-हस्तप्रतिषु ....स्मिन्निति' एवं पाठः । परं व्याख्यानुसारेण '...लेवं' इति पाठो युक्ततमः । २०/२३ ||३५४॥ Jain Education Interational For Private & Personal use only Page #360 -------------------------------------------------------------------------- ________________ 'F E ।। पराऽपराधनिवृत्तिहेतुतत्त्वज्ञानाऽनुगततया प्रतिष्ठितो भावः = अन्तःकरणपरिणामो हेतुः। ॥ तदुक्तं- “हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । 'प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः।।" (योगबिन्दु-४१८) इति । एवं = अकरणनियमोपपत्तौ वृत्तिक्षयौचिती = वृत्तिक्षयस्य न्याय्यता, हेत्वकरणनियमेन फलाऽनुत्पत्तिपर्यायोपपत्तेस्तत्प्रागऽभा वापगमस्याऽपि योग्यताविगमाऽऽख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात् तद्विरहितस्य तस्य फल-नियतत्वात् । तदुक्तं"मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यताऽपगमाद्दग्ध्वा ततः कल्याणमश्नुते ।।" (योगबिन्दु-४२३) इति ।।२३।। ___ननु यद्येक एव योगस्तदा कथं भेद: ? भेदे च प्रकृते किं तदन्तर्भावप्रयासेनेत्यत आह योगे 'जिनोक्तेऽप्येकस्मिन् दृष्टिभेदः प्रवर्तते । क्षयोपशमवैचित्र्यात् समेघाद्योघदृष्टिवत् ।।२४।। योग इति । 'जिनोक्ते = अर्हता सर्वज्ञेन प्रोक्ते तत्त्वत एकस्मिन्नपि योगे क्षयोपशम२०/२४|| वैचित्र्यात दृष्टिभेदो = दर्शनविशेषः प्रवर्तते । समेघादौ = मेघसहितराव्यादौ ओघदृष्टिवत १. मुद्रितप्रतौ हस्तप्रतौ च 'प्रधानं क...' इति पाठः । योगबिन्दुग्रन्थाऽनुसारेणाऽत्र 'प्रधानक...' इति पाठो योजितः। ||३५५।। २. मुद्रितप्रतौ 'प्राग्भावा...' इत्यशुद्धः पाठः ।। ३. मुद्रितप्रतौ 'तस्य' इति पदं नास्ति । ४. हस्तादर्श 'जिनेक्तेऽप्येकस्मिन्' इति पाठः त्रुटितः । ५. मुद्रितप्रतौ '(जिनेन) अर्ह...' इति पाठः प्रकल्प्य योजितः । ६. हस्ताद” 'एकेऽपि' इत्यशुद्धः पाठः । ७. हस्तादर्श 'प्रवन्नीता' इत्यशुद्धः पाठः । st Jain Education Intemational For Privale & Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ 적 서 सामान्यदर्शनं इव (=समघाद्योघवृष्टिवत्)। 'यथा हि- एकस्मिन्नपि दृश्ये समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अमेघायां तु मनागधिकतरग्राहिणी । एवं समेघाऽमेघयोर्दिवसयोरप्यस्ति विशेषः । तथा सग्रहणग्रहयोश्चित्तविभ्रम-तदभावाभ्यामर्भकाऽनर्भकयोरपि मुग्धत्वविवेकाभ्यामुपहताऽनुपहतलोचनयोश्च दोष-गुणाभ्यां ग्राहकयोरपि। तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम् । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदाऽवबोधात् । ___ प्रवृत्तिरपि अमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताऽऽग्रहतया मैत्र्यादिपारतत्र्येण गम्भीरोदाराशयत्वाच्चारिचरकसंजीविन्यचरकचारणनीत्येत्याहुः ।।२४।। सच्छ्रद्धासङ्गतो बोधो दृष्टिः सा चाऽष्टधोदिता । मित्रा तारा बला दीपा स्थिरा कान्ता प्रभा परा ।।२५।। ___सच्छ्रद्धेति । सच्छ्रद्धया शास्त्रबाह्याऽभिप्रायविकलसदूहलक्षणया सङ्गतो (=सच्छ्र. खासङ्गतः) बोधो दृष्टिः, तस्या उत्तरोत्तरगुणाऽऽधानद्वारा सत्प्रवृत्तिपदाऽऽवहत्वात् । तदुक्तं- “सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात् सत्प्रवृत्तिपदावहः ।।" (योगदृष्टि-१७) इति। सा चाष्टधोदिता मित्रा तारा बला दीप्रा स्थिरा ||३५६।। कान्ता प्रभा परा चेति ।।२५।। २०/२५ १. मुद्रितप्रती 'तथा' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ '...घातस...' इत्यशुद्धः पाठः । Jain Education Interational Page #362 -------------------------------------------------------------------------- ________________ E Es तृण-गोमय-काष्ठाग्निकण-दीप'प्रभोपमा । रत्न-ताराऽर्क-चन्द्राऽऽभा क्रमेणेक्ष्वादिसन्निभा ।।२६।। तृणेति । (१) मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक्प्रयोगकालं यावदनवस्थानात् । अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः, विकलप्रयोगभावाद् भावतो वन्दनादिकार्याऽयोगादिति । (२) तारा दृष्टिोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात । अतोऽपि प्रयोगकाले स्मृतिपाटवाऽसिद्धेः, तदभावे प्रयोगवैकल्यात. तत तथातत्कार्याऽभावादिति । (३) बला दृष्टिः काष्ठाऽग्निकणतुल्या, ईषद्विशिष्टा उक्तबोधद्वयात्, तद्भावेनाऽत्र मनाक् स्थितिवीर्ये । अतः पटुप्राया स्मृतिः, इह प्रयोगसमये तद्भावे चाऽर्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । (४) दीपा दृष्टिर्दीपप्रभासदृशी, विशिष्टतरा उक्तबोधत्रयात् । अतोऽत्रोदने स्थितिवीर्ये, तत्पद्व्यपि प्रयोगसमये स्मृतिः । ___ एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः । २०/२६ ||३५७।। १. मुद्रितप्रती '...दीप्रप्र..' इत्यशुद्धः पाठः । २. हस्तादर्श '...स्थानप्रकर्ष' इति पाठः । Jain Education Interational For Private & Personal use only Page #363 -------------------------------------------------------------------------- ________________ यो गा व ता र bhoot द्वा त्रिं शि का २०/२६ (५) स्थिरा च भिन्नग्रन्थेरेव सा च रत्नाऽऽभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नाऽपरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति । (६) कान्ता तु ताराऽऽभा, तदवबोधस्ताराभास्समानः । अतः स्थित एव प्रकृत्या । निरतिचारमत्राऽनुष्ठानं शुद्धोपयोगानुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति । (७) प्रभाssssभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पाऽवसरः, प्रशमसारं सुखमिह अकिञ्चित्कराण्यत्राऽन्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनेयेषु तथाऽवन्ध्या सत्क्रियेति । (८) परा तु दृष्टिश्चन्द्राऽऽभा, तदवबोधश्चन्द्रचन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, ৺तदभावेनोत्तमं सुखं, आरूढाऽऽरोहेणवन्नाऽनुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति । तथा क्रमेण मित्राद्यनुक्रमेणेक्ष्वादिसन्निभा, दृष्टिः, इक्षु-रस- कक्कब-गुडकल्पाः खल्वाद्याश्चतस्रः खण्ड-शर्करा-मत्स्यण्ड-वर्षोलकसमाश्चाऽग्रिमा इत्याचार्याः । इक्ष्वादिकल्पानामेव १. 'तु' पदं मुद्रितप्रतौ नास्ति । २. मुद्रितप्रतौ 'विनयेषु' इत्यशुद्धः पाठः । ३. हस्तादर्शे '...चभा' इति त्रुटितोऽशुद्धश्च पाठः । ४. प्राचीनमुद्रितप्रतौ ' तदा भावेनो...' इत्यशुद्धः पाठः । हस्तादर्शे तु 'तदभावैनो' इत्यशुद्धः पाठः । ५. प्राचीनमुद्रितप्रतौ णवभा (तो)नुष्ठानं' इत्यशुद्धः पाठः । ।। ३५८ ।। Page #364 -------------------------------------------------------------------------- ________________ यो गा व ता र hos द्वा त्रिं शि का १०/२८ रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः, नलादिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वा दिति ||२६|| यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ।। २७ ।। यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- “ यम-नियमाऽऽसन-प्राणायामप्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्येति ” ( योगसूत्र २ - २९) तैर्युक्तानाम् ( =यमादियोगयुक्तानां ) खेदादीनां ध्यानाऽभिधानस्थले प्रोक्तानां योगप्रत्यनीकाऽऽशयलक्षणानां परिहारतः (= खेदादिपरिहारतः ) अद्वेषादयो येऽष्टौ गुणाः । तदुक्तं- “ अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे " ( षोडशक१६/१४) इति । तत्स्थानां तत्प्रतिबद्धवृत्तीनां (= अद्वेषादिगुणस्थानां) क्रमेणैषा = दृष्टिः सतां भगवत्पतञ्जलि-भदन्तभास्करादीनां योगिनां मता = इष्टा ।। २७ ।। आद्याश्चतस्रः 'सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ।। २८ ।। आद्या इति । आद्याश्चतस्रो = मित्राद्या दृष्टय इह १. हस्तादर्शे 'सांपायापा.. इत्यशुद्धः पाठः = । २. मुद्रितप्रतौ भवति' जगति मिथ्यादृशां भवन्ति' । इत्यशुद्धः पाठः । ।।३५९ ।। Page #365 -------------------------------------------------------------------------- ________________ FFER सापायपाता = दुर्गतिहेतुकर्मबलेन तन्निमित्तभावादपायसहिताः । कर्मवैचित्र्याद भ्रंशयोगेन सपाताश्च । न तु सपाता एव, ताभ्यस्तदुत्तरभावादिति । तथोत्तराः = चतस्रः स्थिराद्या दृष्टयो भिन्नग्रन्थे-स्तत्त्वतः = परमार्थतश्च निरपायाः । श्रेणिकादीनामेतदभावोपात्तकर्मसामर्थ्येन' प्रतिपातेऽपि हि तस्याऽपायस्याऽपि सदृष्ट्यविघातेन तत्त्वतोऽनपायत्वाद्वज्रतण्डुलवत्पाकेन तदाशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेः ।। योगाऽऽचार्या एवाऽत्र प्रमाणम् । तदुक्तं- “प्रतिपातयुताश्चाऽऽद्याश्चतस्रो नोत्तरास्तथा। सापाया अपि चैतास्ताः प्रतिपातेन नेतराः ।।” (योगदृष्टि-१९) इति ।।२८।। प्रयाणभङ्गाऽभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ।।२९।। प्रयाणेति । प्रयाणस्य = कन्यकुब्जादावनवरतगमनलक्षणस्य भङ्गाभावेन (=प्रयाणभङ्गाभावेन) निशि = रात्रौ स्वापसमः पुनर्विघातः = प्रतिबन्धः दिव्यभवतः' - स्वर्गजन्मनः सकाशात चरणस्य = चारित्रस्य उपजायते ।।२९।। तादृश्यौदयिके भावे विलीने योगिनां पुनः । २०/२९ ॥३६०।। १. मुद्रितप्रतौ 'सामर्थ्य हि तस्याऽपा..' इत्येवं त्रुटितः अशुद्धश्च पाठः । पाटणहस्तप्रतौ ...नाऽप्रति स हि..' इत्यशुद्धः पाठः। २. हस्तादर्शविशेषे च 'प्रतिसहि..' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ सर्वत्र हस्तादर्श च 'पुनर्दिव्य...' इत्यशुद्धः पाठः । ४. हस्तादर्श "दिव्यभव्यत' इत्यशुद्धः पाठः । Jain Education Interational Page #366 -------------------------------------------------------------------------- ________________ गा व ता र hus तू द्वा त्रिं शि का २०/३२ जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः ।। ३० ।। तादृशीति । तादृशि = स्वर्गगतिनिबन्धने सरागचारित्रदशाभाविनि' औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया (= जाग्रन्निरन्तरगतिप्रायाः) योगानां प्रवृत्तयो ( = योगप्रवृत्तयः ) भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः तथाविधकर्मरूपश्रमाऽभावेन तदपनयनार्थस्वापसमस्वर्भवेनाऽविलम्बादिति भावः ||३०|| मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः । मार्गाऽभिमुखभावेन कुर्वते मोक्षयोजनम् ।। ३१ । मिथ्यात्व इति । मिथ्यात्वे = मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्ते अपुनर्बन्धकत्वादिभावेन मित्राद्या अपि दृष्टयः चतस्रः किं पुनः स्थिराद्या इत्यप्यर्थः मार्गाभिमुखभावेन 'मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते, चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ।।३१।। = प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्यादृगप्युक्तः परमानन्दभागतः ।। ३२। १. ' दशावति (दशाभाविनि) औद...' इति मुद्रितप्रतौ पाठः । हस्तादर्शे 'दशावति' इति पाठो नास्ति । २. मुद्रितप्रती 'योगिनां' इत्यशुद्धः पाठः । ३. 'स्वभावे' इत्यशुद्ध: पाठो मुद्रितप्रतौ । ४. मुद्रितप्रतौ 'मार्गासां....' इत्यशुद्धः पाठः । ।।३६१ ।। Page #367 -------------------------------------------------------------------------- ________________ प्रकृत्येति । अतः = उक्तहेतोः सूत्रे = जिनप्रवचने प्रकृत्या = निसर्गेण भद्रको = || निरुपमकल्याणमूर्तिः, शान्तः = क्रोधविकाररहितः, विनीतः = अनुद्धतप्रकृतिः, मृदुः = निर्दम्भः, उत्तमः = सन्तोषसुखप्रधानः, मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनं उक्तः शिवराजर्षिवदिति ।।३२।। ।। इति योगावतारद्वात्रिंशिका ।।२०।। भ 24, ॥ अथ मित्राद्वात्रिंशिका ॥२१॥ योगाऽवतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूपयन्नाह मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राऽद्वेष एव च ॥१॥ मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं = स्वल्पो बोधः तृणाग्निकणोद्योतेन सदृशः। योगाङ्गं च यमो भवेद् इच्छादिभेदः। अखेदः = अव्याकुलतालक्षणः (एव) १. 'योगांग' इति मुद्रितप्रतावशुद्धः पाठः । हस्तप्रतौ च 'योगायं' इत्यशुद्धः पाठः । २. हस्तादर्श 'तन्दं' इत्यशुद्धः पाठः। ।।३६२।। Jain Education Interational For Private & Personal use only Page #368 -------------------------------------------------------------------------- ________________ देवकार्यादौ आदिशब्दाद् गुरुकार्यादिपरिग्रहः तथातथोपनतेऽस्मिंस्तथापरितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि' भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्च अन्यत्र' त्वदेवकार्यादौ तथा'तत्त्ववेदितया । मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाकुराऽनुदयात्तथाविधाऽनुष्ठानमधिकृत्य । अत्र स्थितस्य हि करुणांशबीजस्यैवेषत्स्फुरणमिति ।।१।। यमस्वरूपं सभेदमभिधत्ते अहिंसा-सूनृताऽस्तेय-ब्रह्माऽकिञ्चनता' यमाः। दिक्कालाद्यनवच्छिन्नाः सार्वभौमा महाव्रतम् ।।२।। अहिंसेति । प्राणवियोगप्रयोजनो व्यापारो हिंसा, तदभावो = अहिंसा | वाङ्मनसोर्यथार्थत्वं सूनृतम् । परस्वाऽपहरणं स्तेयं तदभावो = अस्तेयम् । उपस्थसंयमो = ब्रह्म । ___ भोगसाधनानामस्वीकारोऽकिंचनता (=अहिंसा-सूनृताऽस्तेय-ब्रह्माकिञ्चनता)। एते यमाः। तदुक्तं- “अहिंसा-सत्याऽस्तेय-ब्रह्मचर्यापरिग्रहा यमा इति” (योगसूत्र २-३०)। दिक् = देशस्तीर्थादिः, कालः = चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेः ब्राह्मणादिप्रयोजन१. हस्तादर्श ...भावेऽपि' इति पाठान्तरम् । २. मुद्रितप्रती सर्वत्र हस्तादर्शषु च '...अपरत्र...' इति पाठः । परं मूलग्रन्थानुसारेणात्र ....अन्यत्र' इति पाठः सङ्गच्छते। अर्थभेदस्तु न कश्चिदित्यवधेयम् । ३. मुद्रितप्रतिहस्तादर्शादौ अनेकत्र 'तत्त्वाऽवे..' इति पाठः । ४. हस्तादर्श '..कांचनता' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः। २१/२ |||३६३।। Jain Education Interational For Private & Personal use only Page #369 -------------------------------------------------------------------------- ________________ मि त्रा द्वा त्रिं शि का २१/३ रूपस्य समयस्य च ग्रहः । ततो दिक्कालादिनाऽनवच्छिन्नाः (= दिक्कालाद्यनवच्छिन्नाः) “तीर्थे 'कञ्चन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि ब्राह्मणान्न हनिष्यामि, देव-ब्राह्मणाद्यर्थव्यतिरेकेण न कमपि हनिष्यामि” इत्येवंविधाऽवच्छेदव्यतिरेकेण सर्वविषया अहिंसादयो यमाः सार्वभौमाः सर्वासु क्षिप्ताद्यासु चित्तभूमिषु सम्भवन्तो महाव्रतमित्युच्यते । तदुक्तं- “ एते तु जाति- देश - काल-समयाऽनवच्छिन्नाः' सार्वभौमा महाव्रतम् ” ( योगसूत्र २ - ३१ ) इति ।। २ ।। बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाऽङ्गत्वमुदाहृतम् ॥ ३ ॥ = बाधनेनेति । वितर्काणां = योगपरिपन्थिनां हिंसादीनां प्रतिपक्षस्य भावनात् बाधनेन'अनुत्थानोपहतिलक्षणेन' (योगसौकर्यतः = ) योगस्य सौकर्यतः सामग्रीसम्पत्तिलक्षणाद् अमीषां : अहिंसादीनां यमानां योगाङ्गत्वमुदाहृतम् । न तु धारणादीनामिव समाधेः साक्षादुपकारकत्वेन, न वासनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः । तदुक्तं“वितर्कबाधने प्रतिपक्षभावनमिति” ( योगसूत्र २-३३) ।।३।। १. हस्तादर्श 'किंचन' इति पाठः । २ हस्तादर्शे 'हमि' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ क्षिप्राद्यासु' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'च्यंते' इत्यशुद्धः पाठः । ५. हस्तादर्शे ' ..नवन्नाः' इति त्रुटितोऽशुद्धश्च पाठः । ६. हस्तादर्शे ' अनुत्थावोप...' इत्यशुद्धः पाठः । ७. हस्तादर्शे लक्षणे सति' इति पाठः । ।।३६४।। Page #370 -------------------------------------------------------------------------- ________________ हतूक क शि का २१/४ क्रोधाल्लोभाच्च मोहाच्च कृताऽनुमित-कारिता: । मृदु-मध्याऽधिमात्राश्च वितर्काः सप्तविंशतिः ॥४॥ क्रोधादिति । क्रोधः कृत्याऽकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् (=क्रोधात्) । लोभस्तृष्णालक्षणस्ततः (= लोभात्) च । मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माऽभिमानलक्षणः । इत्थं च कारणभेदेन त्रैविध्यं दर्शितं भवति । तदुक्तं -" लोभक्रोधमोह पूर्वकाः " इति । ( योगसूत्र २ - ३४ ) व्यत्ययाऽभिधानेऽप्यत्र मोहस्य प्राधान्यं स्वपरविभागपूर्वकयोलोभक्रोधयोस्तन्मूलत्वादिति वदन्ति । ततः कारणत्रयात् कृताऽनुमित- कारिता एते हिंसादयो नवधा भिद्यन्ते । तेऽपि मृदवो = मन्दाः, मध्याश्चाऽतीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । तदुक्तं“मृदु-मध्याऽधि' मात्राः" इति ( योगसूत्र २ - ३४ ) । इत्थं च सप्तविंशतिर्वितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येकं मृदु-मध्याऽधिमात्राभेदो' भावनीय इति वदन्ति ||४|| 'दुःखाऽज्ञानाऽनन्तफला अमी इति विभावनात् । १. हस्तादर्शे ‘कृतानुमेति....' इत्यशुद्धः पाठः । २. '... मोहमूला' इति हस्तादर्शे । परं योगसूत्रानुसारेण '...मोहपूर्वका..' इति पाठो युज्यते । ३. 'व्यत्या...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. मुद्रितप्रतौ 'मध्यादि' इत्यशुद्धः पाठः । ५. हस्तादर्शे '... धिमात्रभेद' इति पाठः । . इत आरभ्य मुद्रितप्रतौ ' ( वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोहपूर्वका मृदु-मध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावन्) ' इत्येवं पाठः सम्पादकेन योगसूत्राद् योजितः । परं कुत्राऽपि हस्तादर्शे नोपलभ्यते । ६. हस्तादर्शे 'दुःखज्ञाना...' इत्यशुद्धः पाठः । ।।३६५ ।। Page #371 -------------------------------------------------------------------------- ________________ 分不可分何和 मि त्रा द्वा त्रिं शि का २१/६ प्रकर्षं गच्छतामेतद्यमानां फलमुच्यते ॥ ५ ॥ दुःखे । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः, अज्ञानं मिथ्याज्ञानं संशयविपर्ययादिरूपं, ते अनन्ते = अपरिच्छिन्ने फलं येषां ते तथोक्ताः (= दुःखाऽज्ञानाऽनन्तफला ) अमी वितर्का इति विभावनात् = निरन्तरं ध्यानात् प्रकर्षं गच्छतां यमानाम् एतत् वक्ष्यमाणं फलमुच्यते ।। ५ ।। वैरत्यागोऽन्तिके तस्य, फलं चाऽकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः ।।६।। वैरेति । तस्य = अहिंसाऽभ्यासवतः अन्तिके = सन्निधौ वैरत्यागः = सहजविरोधिनामप्यहि-नकुलादीनां हिंस्रत्वपरित्यागः २ तदुक्तं- “`तत्सन्निधौ वैरत्यागः " ( योगसूत्र २३५) । = सत्याऽभ्यासवतश्चाऽकृतकर्मणः = अविहिताऽनुष्ठानस्याऽपि फलं तदर्थोपनतिलक्षणम् । * क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति । अस्य तु सत्यं तथा प्रकृष्यते, यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाच्च यस्य कस्यचित् क्रियामकुर्वतोऽपि फलं भवतीति । तदाह- " "क्रियाफलाऽऽश्रयत्वं " ( योगसूत्र २ - ३६ ) । १. मुद्रितप्रतौ 'वितका' इत्यशुद्धः पाठः । २ हस्तादर्शे ...परिहार' इति पाठान्तरम् । ३. 'तस्स..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. प्राचीनमुद्रितप्रतौ ' लक्षणक्रिय...' इत्यशुद्धः पाठः । ।।३६६ ।। Page #372 -------------------------------------------------------------------------- ________________ अस्तेयाऽभ्यासवतश्च रत्नोपस्थानं = तत्प्रकर्षान्निरभिलाषस्याऽपि सर्वतो 'दिव्यानि रत्नान्युपतिष्ठन्त इत्यर्थः । ब्रह्मचर्याऽभ्यासवतश्च सतो निरतिशयस्य वीर्यस्य लाभः (= रत्नोपस्थानसद्वीर्यलाभः) । वीर्यनिरोधो हि ब्रह्मचर्य, तस्य प्रकर्षाच्च वीर्यं शरीरेन्द्रियमनःसु प्रकर्षमागच्छतीति । अपरिग्रहाऽभ्यासवतश्च जनुष उपस्थितिः (= जनुरनुस्मृतिः) “कोऽहमासं? कीदृशः ? किंकार्यकारी" इति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः । किं त्वात्मनः शरीरपरिग्रहोऽपि, तथाभोगसाधनत्वाच्छरीरस्य । तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण •माध्यस्थ्यमवलम्बते तदा. मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति । तदाह- “जन्मकथन्तासम्बोधः" इति (यो. सू. २-३९) ।।६।। इत्थं यमप्रधानत्वमवगम्य स्वतन्त्रतः । योगबीजमुपादत्ते श्रुतमत्र श्रुतादपि ।।७।। इत्थमिति । इत्थम् = उक्तप्रकारेण स्वतन्त्रतः = स्वाभिमतपातञ्जलादिशास्रतो यमप्रधानत्वमवगम्य अत्र = मित्रायां दृष्टौ निवृत्ताऽसद्ग्रहतया सद्गुरुयोगे श्रुतात् = १. मुद्रितप्रतौ 'दिक्कालानि' इत्यशुद्धः पाठः । २.मुद्रितप्रतौ 'सर्वमेव' इति पाठो नास्ति । ३. हस्तादर्श 'ग्रहापेक्ष्येण' इति पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । २१/७ ||३६७॥ Page #373 -------------------------------------------------------------------------- ________________ मि त्रा ho to s द्वा त्रिं शि का २१/९ जिनप्रवचनात् श्रुतमपि योगबीजमुपादत्ते, तथास्वाभाव्यात् ।।७।। उक्तयोगबीजमेवाऽऽहजिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ ८ ॥ जिनेष्विति । जिनेषु = अर्हत्सु कुशलं = द्वेषाद्यभावेन प्रीत्यादिमत् चित्तम् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव = जिननमस्कार एव च तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिं। प्रणामादि च पञ्चाङ्गादिलक्षणं, आदिशब्दाद् मण्डलादिग्रहः । संशुद्धं अशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वाSनुपपत्तेः । एतत्सर्वं सामस्त्यप्रत्येकभावाभ्यां योगबीजं = मोक्षयोजकाऽनुष्ठानकारणं अनुत्तमं सर्वप्रधानं विषयप्राधान्यात् ||८|| चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ।। ९ ।। चरम इति । अदो हि = एतच्च चरमे = अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पाकतो (=तथाभव्यत्वपाकतः) मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धेः । प्रतिबन्धे आसङ्गेन *उज्झितं (=प्रतिबन्धोज्झितं ) आहारादिसंज्ञोदयाऽभावात्, फलाऽभिसन्धि१. हस्तादर्शे '...मत् चित्तं' इति पाठो नास्ति । २. हस्तादर्शे 'मंझला...' इत्यशुद्धः पाठः । ३. हस्तादर्शे '....धुर्याऽसिद्धेः' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'उष्ठितं' इत्यशुद्धः पाठः । = = ।।३६८ ।। Page #374 -------------------------------------------------------------------------- ________________ रहितत्वाच्च । तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात्। अत एव उपादेयधिया = ) अन्याऽपोहेनाऽऽदरणीयत्वबुद्ध्या शुद्धम् । तदुक्तं- “उपादेयधियात्यन्तं संज्ञाविष्कम्भणाऽन्वितम् । फलाऽभिसन्धिरहितं संशुद्धं ह्येतदीदृशम्।।” (योगदृष्टि समुच्चय २५) ।।९।। प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । तत्स्थानस्थितिकार्येव वीरे गौतमरागवत् ॥१०॥ प्रतिबन्धेति । प्रतिबन्धे = स्वासङ्गे एका = केवला निष्ठा यस्य तत्तथा (=प्रतिबन्धैकनिष्ठं) अदो जिनविषयकुशल-चित्तादि तत्स्थानस्थितिकार्येव, तथास्वभावत्वात् । वीरे = वर्धमानस्वामिनि गौतमरागवत् = गौतमीयबहुमानवत् । असङ्गसक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन मोक्षफलपर्यवसानं भवति इति विवेचितं प्राक् ।।१०।। सरागस्याऽप्रमत्तस्य वीतरागदशानिभम् । अभिन्दतोऽप्यदो ग्रन्थिं योगाचार्यैर्यथोदितम् ।।११।। सरागस्येति । अदः शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दतोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थ्येन तथाविधक्षयोपशमादतिशयिताऽऽनन्दानुभवात् । सरागस्याऽप्रमत्तस्य सतो यतेः वीतरागदशानिभम् । सरागस्य वीतरागत्वप्राप्ताविव' योगबीजोपादानवेलायामपूर्वः कोऽपि ।।३६९ ।। स्वाऽनुभवसिद्धोऽतिशयलाभ इति भावः । यथोदितं योगाचार्यः ।।११।। १. हस्तादर्श ....वियोग' इत्यशुद्धः त्रुटितश्च पाठः । २१/११ Page #375 -------------------------------------------------------------------------- ________________ Risto ईषदुन्मज्जनाऽऽभोगो 'योगचित्तं भवोदधौ । तच्छक्त्यतिशयोच्छेदि दम्भोलिग्रन्थिपर्वते ।।१२।। ईषदिति। योगचित्तं = योगबीजोपादानप्रणिधानचित्तं भवोदधौ = संसारसमुद्रे ईषद् = मनाग उन्मज्जनस्याऽऽभोगः (=उन्मज्जनाऽऽभोगः) । तच्छक्तेः = भवशक्तेः अतिशयस्य = उद्रेकस्य उच्छेदि = नाशकं (=तच्छक्त्यतिशयोच्छेदि) । ग्रन्थिरूपे पर्वते (=ग्रन्थिपर्वते) दम्भोलिः = वज्रं, नियमात्तद्भेदकारित्वात् । इत्थं 'चैतत् फलपाकाऽऽरम्भसदृशत्वादस्येति समयविदः ।।१२।। आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । न चाऽन्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि ।।१३।। आचार्यादिष्वपीति। आचार्यादिष्वपि = आचार्योपाध्यायतपस्व्यादिष्वपि (हि) एतत् = कुशलचित्तादि विशुद्धं = संशुद्धमेव भावयोगिषु = तात्त्विकगुणशालिषु योगबीजम् । न चान्येष्वपि = द्रव्याऽऽचार्यादिष्वपि, कूटेऽकूटधियोऽपि हि असारत्वात् = असुन्दरत्वात् तस्याः सद्योगबीजत्वाऽनुपपत्तेः ।।१३।। श्लाघनाद्यसदाशंसापरिहारपुरःसरम् । १. हस्तादर्श 'बीजचित्तं' इति पाठः । २. हस्तादर्श 'प्रणिधाने चित्तं' इति पाठः । ३. हस्तादर्श '...स्ने' इत्यशुद्धः पाठः। ४. हस्तादर्श 'चित' इत्यशुद्धः पाठः । २१/१३ ||३७०।। Page #376 -------------------------------------------------------------------------- ________________ वैयावृत्त्यं च विधिना तेष्वाशयविशेषतः ।।१४।। श्लाघनेति । श्लाघनादेः स्वकीया॑देर्याऽसती = असुन्दरा आशंसा = प्रार्थना तत्परिहारपुरस्सरं (= श्लाघनाद्यसदाशंसापरिहारपुरस्सर) वैयावृत्त्यं च व्यापृतभावलक्षणमाहारादिदानेन विधिना = सूत्रोक्तन्यायेन तेषु = भावयोगिष्वाचार्येषु आशयविशेषतः = चित्तोत्साहाऽतिशयात् योगबीजम् ।।१४।। भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।।१५।। भवादिति । भवात् = संसारात् उद्विग्नता = इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा शुद्धो = निर्दोष औषधदानादेरभिग्रहः (=शुद्धौषधदानाद्यभिग्रहः), भावाऽभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य स्वाशयशुद्धस्याऽन्यस्यापि सम्भवात् । तथा सिद्धान्तं = आर्षवचनं आश्रित्य, न तु कामादिशास्त्राणि । विधिना = न्यायाऽऽतधनसत्प्रयोगादिलक्षणेन 'लेखनादि च योगबीजम् ।।१५।। लेखनादिकमेवाह लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ।।१६।। १. हस्तादर्श ...वित्त्वतः' इत्यशुद्धः पाठः । २. हस्तादर्श .....वृत्त्ये' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्वाश्रय....' इत्यशुद्धः पाठः । ४. हस्तादर्श ..स्योपि' इत्यशुद्धा पाठः । ५. मुद्रितप्रतौ 'लेखनादिकं' इति पाठान्तरम् । २१/१६ ।।।३७१॥ Jain Education Interational For Private & Personal use only Page #377 -------------------------------------------------------------------------- ________________ लेखनेति । लेखना सत्पुस्तकेषु । पूजना पुष्प-वस्त्रादिभिः । दानं पुस्तकादेः । श्रवणं व्याख्यानस्य । वाचना स्वयमेवाऽस्य । उद्ग्रहो = विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भव्येषु । अथ स्वाध्यायो = वाचनादिरस्यैव । •चिन्तना 'ग्रन्थार्थतोऽस्यैव । भावनेति च एतद्गोचरैव योगबीजम् ।।१६।। बीजश्रुतौ परा श्रद्धाऽन्तर्विश्रोतसिकाव्ययात् । तदुपादेयभावश्च फलौत्सुक्यं विनाऽधिकः ।।१७।। बीजेति । बीजश्रुतौ = योगबीजश्रवणे परा = उत्कृष्टा श्रद्धा 'इदमित्थमेव' इति प्रतिपत्तिरूपा अन्तर्विश्रोतसिकायाः = चित्ताशङ्काया व्ययात् (=अन्तर्विश्रोतसिकाव्ययात्)। तस्याः = बीजश्रुतेः उपादेयभावश्च = आदरपरिणामश्च (=तदुपादेयभावश्च) । फलौत्सुक्यं = अभ्युदयाऽऽशंसात्वरालक्षणं विना अधिकः = अतिशयितो योगबीजम् ।।१७।। निमित्तं सत्प्रणामादेर्भद्रमूर्तेरमुष्य च । शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः ॥१८॥ निमित्तमिति । अमुष्य च अनन्तरोदितलक्षणयोगिनो जीवस्य भद्रमूर्तेः = प्रियदर्शनस्य सत्प्रणामादेः योगबीजस्य निमित्तं शुभः = प्रशस्तः निमित्तसंयोगः = सद्योगादिसम्बन्धः १. मुद्रितप्रतौ 'ग्रंथार्थताऽस्यैव' इति पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । २. हस्तादर्श __'अन्त...' इत्यशुद्धः पाठः । २१/१८ ।।३७२।। Jain Education Interational Page #378 -------------------------------------------------------------------------- ________________ सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वाज्जायतेऽवञ्चकोदयाद्वक्ष्यमाणसमाधिविशेषोद|| यात्(मतः)।।१८।। योग-क्रिया-फलाऽऽख्यं च साधुभ्योऽवञ्चकत्रयम् । श्रतः समाधिरव्यक्त इषलक्ष्यक्रियोपमः ॥१९॥ __ योगेति । साधुभ्यः = साधूनाश्रित्य योग-क्रिया-फलाऽऽख्यं' अवञ्चकत्रयं = योगाऽवञ्चकक्रियाऽवञ्चक-फलाऽवञ्चकलक्षणं अव्यक्तः समाधिः श्रुतः, तदधिकारे पाठात् । इषुलक्ष्यक्रियोपमः = शरशरव्यक्रियासदृशः । यथा शरस्य शरव्यक्रिया तदविसंवादिन्येव, अन्यथा तत्क्रियात्वाऽयोगात्, तथा सद्योगाऽवञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः ।।१९।। २१/२० हेतुरत्राऽन्तरङ्गश्च तथाभावमलाल्पता । ज्योत्स्नादाविव रत्नादिमलाऽपगम उच्यते ॥२०॥ हेतुरिति । अत्र = सत्प्रणामादौ अन्तरङ्गश्च हेतुः तथाभावमलस्य कर्मसम्बन्धयोग्यतालक्षणस्याऽल्पता (=तथाभावमलाऽल्पता) । ज्योत्स्नादाविव = रत्नकान्त्यादाविव रत्नादिमलाऽपगम उच्यते । तत्र मृत्पुटपाकादीनामिवाऽत्र सद्योगादीनां निमित्तत्वेनैवोपयोगा१. हस्तादर्श ...फलख्यावंय..' इति पाठः । स चार्थतः शुद्धोऽपि मूलानुसारेणाऽशुद्धः । २. हस्तादर्श ‘शया' इत्यशुद्धः त्रुटितश्च पाठः । ३. हस्तादर्श 'सत्प्रण्य...' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'तथाभव...' इत्यशुद्धः पाठो मूलानुसारेण । ॥३७३।। Jain Education Interational For Private & Personal use only Page #379 -------------------------------------------------------------------------- ________________ ।। दिति भावः ।।२०।।। सत्सु सत्त्वधियं हन्त मले तीव्र लभेत कः । अगुल्या न स्पृशेत् पङ्गुः शाखां सुमहतस्तरोः ॥२१॥ सत्स्विति । सत्सु = साधुषु सत्त्वधियं = साधुत्वबुद्धिं हन्त तीव्र = प्रबले मले = कर्मबन्धयोग्यतालक्षणे सति को लभेत ? ततो "लाभशक्तेरयोगान्न कोऽपीत्यर्थः । अगुल्या पङ्गुः "सुमहतस्तरोः शाखां न स्पृशेत्, तत्प्राप्तिनिमित्तस्योच्चत्वस्याऽऽरोहशक्तेर्वाऽभावात्, तद्वत्प्रकृतेऽपि भावनीयम् ।।२१।। वीक्ष्यते स्वल्परोगस्य चेष्टा चेष्टाऽर्थसिद्धये । २१/२२ ___ स्वल्पकर्ममलस्याऽपि तथा प्रकृतकर्मणि ।।२२।। वीक्ष्यत इति । स्वल्परोगस्य = मन्दव्याधेः चेष्टा राजसेवादिप्रवृत्तिलक्षणा चेष्टा अर्थस्य कुटुम्बपालनादिलक्षणस्य सिद्धये = निष्पत्तये (= अर्थसिद्धये) "वीक्ष्यते । न तु तीव्ररोगस्येव प्रत्यपायाय । स्वल्पकर्ममलस्याऽपि पुंसः तथा प्रकृतकर्मणि योगबीजोपा ॥३७४।। १. हस्तादर्श 'भावे' इत्यशुद्धः पाठः । २. हस्तादर्श 'सत्स्वैति' इत्यशुद्धः पाठः । ३. हस्तादर्श ' तालालक्षणे' इत्यशुद्धः पाठः । ४. हस्तादर्श 'शक्तेरको..' इति त्रुटितः पाठः । ५. हस्तादर्श 'सुमहस्त..' इति त्रुटितः पाठः। ६. हस्तादर्श 'तकृतेऽपि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'तप्रतुपि' इत्यशुद्धः पाठः । ७. हस्तादर्श .येक्ष्यते' इति त्रुटितः पाठः । Page #380 -------------------------------------------------------------------------- ________________ दानलक्षणे । ईदृशस्यैव स्वप्रतिपन्ननिर्वाहक्षमत्वात् ।।२२।। यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । ___ तत्त्वतोऽपूर्वमेवेदमपूर्वाऽऽसत्तितो विदुः ।।२३।। यथेति । यथाप्रवृत्तिकरणे चरमे = पर्यन्तवर्तिनि च ईदृशी = योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका स्थितिः = स्वभावव्यवस्था । अपूर्वस्य = अपूर्वकरणस्य आसत्तितः = सन्निधानात् (=अपूर्वाऽऽसत्तितः) 'फलव्यभिचारायोगात् इदं चरमं यथाप्रवृत्तकरणं तत्त्वतः = परमार्थतः । अपूर्वमेव विदुः = जानते योगविदः, यत उक्तं- "अपूर्वाऽऽसन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति' योगविदो विदुः” (योगदृष्टिसमुच्चय ३९) ।।२३ ।। प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् । __ अन्वर्थयोजना नूनमस्यां तस्योपपद्यते ।।२४।। प्रवर्तते इति । यद् इह = जिनप्रवचने गुणस्थानपदं मिथ्यादृशि = मिथ्यादृष्टौ पुंसि प्रवर्तते = अस्खलवृत्ति प्रयोगविषयीभवति । तस्य = गुणस्थानपदस्य नूनं = निश्चितं अस्यां = मित्रायां दृष्टौ अन्वर्थयोजना = योगाऽर्थघटना उपपद्यते । सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्याऽस्यामेवोपपत्तेः । तदुक्तं हरिभद्रसूरिभिः- “प्रथमं यद्गुणस्थानं सामान्ये१ हस्तादर्श 'लयतिचारायोगात्' इत्यशुद्धः पाठः । २. हस्तादर्श .....पैदमिति' इत्यशुद्धः पाठः । ३. मुद्रितप्रती ....त्तियोग...' इत्यशुद्धः पाठः । २१/२४ ॥३७५ ।। Jain Education Interational Page #381 -------------------------------------------------------------------------- ________________ मि त्रा द्वा शि का २१/२७ नोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ।।” (यो.दृ.स.४०) इति ।।२४।। व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताऽव्यक्तधियोर्नु कः ।। २५ ।। व्यक्तेति । अन्यत्र = ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः (अपि) मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन इयं मित्रा' दृष्टिरेव उच्यते, व्यक्तत्वेन तत्राऽस्या एव ग्रहणात् । घ ती मले तु इति वितर्के व्यक्ताव्यक्तयोर्धियोः को विशेष: ? = = दुष्टाया नु धियो व्यक्ताया अव्यक्ताऽपेक्षया प्रत्युताऽतिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः । = विचित्रतया `नैगमस्य बहुभेदत्वात् तद्भेदविशेषाऽऽश्रयणेन वाऽन्यत्र तथाऽभिधानमिति परिभावनीयं सूरिभिः ।। २५ ।। `यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ॥ २६ ॥ उत्कर्षादपकर्षाच्च शुद्ध्यशुद्धयोरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां संप्रवर्तते ॥ २७ ॥ १. हस्तादर्श 'मिथ्या' इति पाठः । सः चिन्त्यः | २ मुद्रितप्रतौ 'निगम...' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'समसद्यो...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ स प्रवर्त...' इत्यशुद्धिः वर्तते । ।।३७६ ।। Page #382 -------------------------------------------------------------------------- ________________ गुणाऽऽभासस्त्वकल्याणमित्रयोगेन कश्चन । अनिवृत्ताऽऽग्रहत्वेनाऽभ्यन्तरज्वरसन्निभः ।।२८।। मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोण-श्यामसुमत्विषम् ।।२९।। यथौषधीषु पीयूषं द्रुमेषु स्वर्दुमो यथा । गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते ॥३०।। 'विनैनमतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त विना नावमुत्तितीर्षा महोदधेः ।।३१।। तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ।।३२।। ।। शिष्टा सप्तश्लोकी सुगमा ।।२६-२७-२८-२९-३०-३१-३२।। ।। इति मित्राद्वात्रिंशिका ।।२१।। २१/३२ ।।३७७।। ।। १. मुद्रितप्रतौ 'विनैनं मति...' इत्यशुद्धः पाठः । Page #383 -------------------------------------------------------------------------- ________________ ता रा दि Is p त्र य द्वा त्रिं शि का २२/२ 'तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभा । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ।। १ । तारायामिति । तारायां पुनर्दृष्टौ मनाग् = ईषत् स्पष्टं मित्राऽपेक्षया दर्शनम् । शुभाः प्रशस्ता नियमा वक्ष्यमाणा इच्छादिरूपाः । तथा हितारम्भे पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणे अनुद्वेगः । तथा तत्त्वगोचरा तत्त्वविषया जिज्ञासा ज्ञातुमिच्छा, अद्वेषत एव तत्प्रतिपत्त्याऽऽनुगुण्यात् ।। १ ।। = ।। अथ तारादित्रयद्वात्रिंशिका ।।२२।। मित्रानिरूपणानन्तरं तारादित्रयं निरूपयन्नाह = = नियमाः शौच - सन्तोषौ स्वाध्याय - तपसी अपि । देवताप्रणिधानं च योगाचार्यैरुदाहृताः ।। २ ।। नियमा इति । शौचं = शुचित्वं तद् द्विविधं, बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायप्रक्षालनं, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोषः = सन्तुष्टिः । स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः । तपः कृच्छ्र चान्द्रायणादि । देवताप्रणिधानं = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । एते योगाचार्यैः = पतञ्जल्यादिभिर्नियमा उदाहृताः । १. हस्तादर्शे 'तरायां' इत्यशुद्धः पाठः । = ।।३७८ ।। Page #384 -------------------------------------------------------------------------- ________________ En यदुक्तं- “शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः" इति (योगसूत्र २- । ।। ३२) ।।२।। शौचभावनया स्वागजुगुप्साऽन्यैरसङ्गमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याऽक्षजययोग्यता ।।३।। शौचेति । शौचस्य भावनया ( शौचभावनया) स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा = घृणा (=स्वाङ्गजुगुप्सा) भवति “अशुचिरयं कायो' नाऽत्राऽऽग्रहः कर्तव्यः" इति। तथा च अन्यैः कायवद्भिः असङ्गमः = तत्सम्पर्कपरिवर्जनमित्यर्थः । यः किल स्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति? तदुक्तं- "शौचात्स्वाङ्गे जुगुप्सा, परैरसंसर्गः" (योगसूत्र २-४०) । तथा सुसत्त्वस्य प्रकाशसुखात्मकस्य शुद्धी रजस्तमोभ्यामनभिभवः (=सत्त्वशुद्धिः) । सौमनस्यं = खेदाऽननुभवेन मानसी प्रीतिः, एकाग्र्यं = नियते विषये चेतसः स्थैर्य, अक्षाणां = इन्द्रियाणां जयो = विषयपराङ्मुखानां स्वात्मन्यवस्थानं, योग्यता चात्मदर्शने विवेकख्यातिरूपे समर्थत्वम् । एतावन्ति फलानि शौचभावनयैव भवन्ति । तदुक्तं "सुसत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयाऽऽत्मदर्शनयोग्यत्वानि चेति” (योगसूत्र २-४१)।।३।।। |||३७९॥ १. हस्तादर्श 'कालो' इत्यशुद्धः पाठः । २. मुद्रितप्रती स्वयमेव' इत्यशुद्धः पाठः । ३. मुद्रितप्रतो ....पराङ्मुखाना' इत्यशुद्धः पाठः । का २२/३ Page #385 -------------------------------------------------------------------------- ________________ Ents सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । 'तपसोऽङ्गाऽक्षयोः सिद्धिः समाधिः प्रणिधानतः ।।४।। सन्तोषादिति। सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् = अतिशयितं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनाऽपि न समं। तदाह- “सन्तोषादनुत्तमः सुखलाभः" (योगसूत्र २-४२)। . स्वाध्यायात् स्वभ्यस्तात् इष्टदर्शनं = जप्यमानमन्त्राभिप्रेतदेवतादर्शनं भवति । तदाह"स्वाध्यायादिष्टदेवतासंप्रयोगः” (योगसूत्र २-४४)। तपसः स्वभ्यस्तात् क्लेशाद्यशुद्धिक्षयद्वारा अङ्गाऽक्षयोः = कायेन्द्रिययोः सिद्धिः, यथेच्छ मणुत्वमहत्त्वादिप्राप्ति-सूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यात् । यथोक्तं- “कायेन्द्रियसिद्धिरशुद्धि क्षयात्तपसः” (योगसूत्र २-४३)। प्रणिधानतः = ईश्वरप्रणिधानात् समाधिः स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहृत्य समाधिमुद्बोधयतीति। यथोक्तं- “समाधिसिद्धिरीश्वरप्रणिधानादिति" (योगसूत्र २-४५)। तपःस्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाऽध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा 'समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं- “तपःस्वाध्यायेश्वरप्रणिधानानि १. हस्तादर्श 'तपःसौगा' इत्यशुद्धः पाठः । २.हस्तादर्श- मुद्रितप्रत्यादौ ' शुचि..' इति पाठः । परं योगसूत्रानुसारेण '..शुद्धि..' इति पाठः सम्यक् । ३.मुद्रितप्रतौ 'यथेत्थिमि'त्यशुद्धः पाठः । हस्तादर्श च 'यषेच्छ' इत्यशुद्धः पाठः। ४. हस्तादर्श 'प्राप्ति' पदं नास्ति । ५. मुद्रितप्रतौ '..रशुचिक्ष..' इति पाठः । ६. 'समा क्.....' इत्यशुद्धः पाठो मुद्रितप्रतौ। २२/४ ।।३८०।। Jain Education Interational For Private & Personal use only Page #386 -------------------------------------------------------------------------- ________________ ।। क्रियायोगः (योगसूत्र २-१) समाधिभावनार्थः क्लेशतनुकरणार्थश्चेति" (योगसूत्र २-२)।।४।। विज्ञाय नियमानेतानेवं योगोपकारिणः । अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि ॥५॥ विज्ञायेति । एतान् = शौचादीन् नियमान् एवं = स्वाङ्गजुगुप्सादिसाधकत्वेन योगोपकारिणः = समाधिनिमित्तान् विज्ञाय अत्र = तारायां दृष्टावेतेषु इच्छादिकेषु हि नियमेषु रतो भवेत् तथाज्ञानस्य तथारुचिहेतुत्वात् । तदत्र काचित्प्रतिपत्तिः प्रदर्शिता ER FM भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च । यथाशक्त्युपचारश्च' बहुमानश्च योगिषु ॥६॥ भवतीति । अस्यां दृष्टौ अविच्छिन्ना = भावप्रतिबन्धसारतया विच्छेदरहिता योगकथासु प्रीतिर्भवति । योगिषु = भावयोगिषु यथाशक्ति = स्वशक्त्यौचित्येन उपचारश्च ग्रासादिसम्पादनेन, बहुमानश्च अभ्युत्थानगुणगानादिना । अयं च शुद्धपक्षपातपुण्यविपाका-द्योगवृद्धि लाभान्तर-शिष्टसम्मतत्व-क्षुद्रोपद्रवहान्यादिफल इति' ध्येयम् ।।६।। भयं न भवजं तीनं हीयते नोचितक्रिया । न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया ।।७।। । १. हस्तादर्श 'बासस्य' इत्यशुद्धः पाठः । २. हस्तादर्श 'इति' पदं नास्ति । ।।३८१।। Jain Education Interational Page #387 -------------------------------------------------------------------------- ________________ भयमिति । भवजं = संसारोत्पन्नं तीव्र भयं न भवति, तथाऽशुभाऽप्रवृत्तेः । उचिता क्रिया क्वचिदपि कार्ये न हीयते, सर्वत्रैव धर्माऽऽदरात् । न चाऽनाभोगतोऽपि = अज्ञानादपि अत्यन्ताऽनुचितक्रिया साधुजननिन्दादिका स्यात् ।।७।। स्वकृत्ये विकले त्रासो जिज्ञासा सस्पृहाधिके । दुःखोच्छेदाऽर्थिनां चित्रे कथन्ताधीः परिश्रमे।।८।। स्वकृत्य इति । स्वकृत्ये = स्वाचारे कायोत्सर्गकरणादौ विकले = विधिहीने त्रासो 'हा 'विराधकोऽह'मित्याशयलक्षणः अधिके = स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिकृत्ये जिज्ञासा 'कथमेतदेवं स्यादिति' सस्पृहा = अभिलाषसहिता । दुःखोच्छेदार्थिनां = संसारक्लेशजिहासूनां चित्रे = नानाविधेपरिश्रमे = तत्तन्नीतिप्रसिद्धिक्रियायोगे कथन्ताधीः = कथम्भावबुद्धिः । कथं नानाविधा मुमुक्षुप्रवृत्तिः कात्स्येन ज्ञातुं शक्यते ? इति । तदाह- "दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ।।” (योगदृष्टिसमुच्चय ४७) ।।८।। नाऽस्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥९॥ नेति । 'नाऽस्माकं महती प्रज्ञा = अविसंवादिनी बुद्धिः, स्वप्रज्ञाकल्पिते विसंवाद ।।३८२।। Jain Education Interational Page #388 -------------------------------------------------------------------------- ________________ दर्शनात् । तथा सुमहान् = अपारः शास्त्रस्य विस्तरः (=शास्त्रविस्तरः) । तत् = तस्मात् शिष्टाः = साधुजनसम्मताः प्रमाणं इह = प्रस्तुतव्यतिकरे, यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत' इत्यर्थः इति = एतत् अस्यां = दृष्टौ' मन्यते सदा = निरन्तरम् ।।९।। सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ।।१०।। ___ सुखमिति। सुखं = अनुद्वेजनीयं स्थिरं च = निष्कम्पं यदासनं तेन उपेतं = सहितं (=सुखस्थिरासनोपेतं), उक्तविशेषणविशिष्टस्यैवाऽऽसनस्य योगाऽङ्गत्वात्। यत्पतञ्जलिः"स्थिरसुखमासनमिति” (योगसूत्र २-४६) बलायां दृष्टौ दर्शनं दृढं काष्ठाऽग्निकणोद्योतसममिति कृत्वा परा = प्रकृष्टा च तत्त्वशुश्रूषा = तत्त्वश्रवणेच्छा जिज्ञासासम्भवा' । न क्षेपो योगगोचरः, तदनुद्वेगे उद्वेगजन्यक्षेपाऽभावात् ।।१०।। असत्तृष्णात्वराऽभावात् स्थिरं च सुखमासनम् । प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलादिह ।।११।। असदिति । असत्तृष्णायाः = असुन्दरलालसायाः त्वरायाश्चाऽन्याऽन्यफलौत्सुक्यलक्षणाया ।।।।३८३ ।। १. हस्ताद” 'दृष्टं' इत्यशुद्धः पाठः । २. मुद्रितप्रत-हस्तादर्शेषु '....भवात्' इति पाठः । परं सन्दर्भानुसारेणात्र '...भवा' इति पाठः यद्वा '...भवायाः' इति पाठः शुद्ध आभाति । ३. हस्तादर्श '...तृष्णा अ' इति त्रुटितः पाठः । २२/११ Jain Education Interational For Private & Personal use only Page #389 -------------------------------------------------------------------------- ________________ EF / अभावात् (=असत्तृष्णात्वराऽभावात्) स्थिरं सुखं चाऽऽसनं भवति। प्रयत्नस्य श्लथता = 'अक्लेशेनैवासनं बनामी'तीच्छायामङ्गलाघवेन तन्निबन्धः, आनन्त्ये चाऽऽकाशादिगते समापत्तिः = अवधानेन मनस्तादात्म्याऽऽपादनं दुःखहेतुदेहाऽहंकाराऽभावफलं तबलात् (=प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलात्) इह = बलायां दृष्टौ भवति । यथोक्तं- “प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्यां” (योगसूत्र २-४७) ।।११।। अतोऽन्तरायविजयो द्वन्द्वाऽनभिहतिः परा' । "दृष्टदोषपरित्यागः प्रणिधानपुरःसरः५ ।।१२।। अत इति। अतो यथोक्तादासनादन्तरायाणामङ्गमेजयादीनां विजयः (=अन्तरायविजयः)। द्वन्दैः शीतोष्णादिभिरनभिहतिर्दःखाऽप्राप्तिः (=द्वन्द्वाऽनभिहतिः) परा = आत्यन्तिकी 'ततो द्वन्द्वानभिघात' (योगसूत्र २-४८) इत्युक्तेः । दृष्टानां च दोषाणां मनःस्थितिजनितक्लेशादीनां परित्यागः (=दृष्टदोषपरित्यागः) प्रणिधानपुरस्सरः = 'प्रशस्ताऽवधानपूर्वः ।।१२।। कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । २२/१३ यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ।।१३।। १. हस्तादर्श ‘श्लघधता' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'श्लघता' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ '...रबाधनेन...' इत्यशुद्धः पाठः । ३. हस्तादर्शादौ 'तिस्तथा' इति पाठः । परं व्याख्यानुसारेण 'तिः परा' इति पाठः सम्यक् । ४. हस्तादर्श 'दृष्टतोष...' इत्यशुद्धः पाठः । ५. हस्तादर्श '...मुरस्सरम्' इति पाठः । ६. हस्तादर्श 'प्रस्ता...' इत्यशुद्धः पाठः । के ।।३८४|| Jain Education Interational For Private & Personal use only Page #390 -------------------------------------------------------------------------- ________________ Eur कान्ते ति । कान्ताजुषः = कामिनीसहितस्य विदग्धस्य = गेयनीतिनिपुणस्य दिव्यस्य । । = अतिशयितस्य गेयस्य किन्नरादिसम्बन्धिनः श्रुतौ =श्रवणे (=दिव्यगेयश्रुतौ) यथा यूनो = यौवनगामिनः कामिनो भवति 'शुश्रूषा, तथाऽस्यां = बलायां तत्त्वगोचरा 'शुश्रूषा ॥१३॥ अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताऽभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः ।।१४।। ___ अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे। श्रुतं = अर्थश्रवणं व्यर्थं, ऊपर इव बीजन्यासः। श्रुताऽभावेऽपि = अर्थश्रवणाभावेऽपि अस्याः = उक्तशुश्रूषाया भावे पुनः ध्रुवो = निश्चितः कर्मक्षयः । अतोऽन्वय-व्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः ।।१४।। योगारम्भ इहाऽक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पयःसेकेन पीनता ।।१५।। ___ योगेति । इह बलायां अक्षेपात् = अन्यत्र चित्ताऽन्यासाद् योगारम्भे उपायेषु = योगसाधनेषु कौशलं = दक्षत्वं (स्यात्=) भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । ॥३८५।। १. मुद्रितप्रतो .....गामिनो का...' इत्यशुद्धः पाठः । २. हस्तादर्श ...सुश्रूषा' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'चित्ताभ्यासादि'त्यशुद्धः पाठः । २२/१५ Jain Education Interational For Private & Personal use only Page #391 -------------------------------------------------------------------------- ________________ EFF उप्यमाने तरौ पयःसेकेन पीनता दृष्टा, तद्वदिहाप्यक्षेपेणैवमतिपीनत्वलक्षणमुपायकौशलं स्यात्। 'अन्यथा पूर्णपयःसेकं विनोप्तस्य तरोरिव प्रकृताऽनुष्ठानस्य कार्यमेवाऽकौशललक्षणं स्यादिति भावः ।।१५।। प्राणायामवती दीप्रा योगोत्थानविवर्जिता । . तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता ॥१६॥ प्राणायामवतीति । प्राणायामवती = प्राणायामसहिता दीपा दृष्टिः । योगोत्थानेन विवर्जिता (=योगोत्थानविवर्जिता), प्रशान्तवाहितालाभात् । तत्त्वश्रवणेन संयुक्ता (=तत्त्वश्रवणसंयुक्ता) शुश्रूषा-फलभावात् । सूक्ष्मबोधेन विवर्जिता (=सूक्ष्मबोधमनाश्रिता) वेद्यसंवेद्यपदाऽप्राप्तेः ।।१६।। रेचकः स्याबहिर्वृत्तिरन्तवृत्तिश्च पूरकः । कुम्भकः स्तम्भवृत्तिश्च प्राणायामनिधेत्ययम् ।।१७।। ___ रेचक इति। बहिर्वृत्तिः = *श्वासो' रेचकः स्यात् । अन्तर्वृत्तिश्च• = प्रश्वासः पूरकः। स्तम्भवृत्तिश्च कुम्भकः, यस्मिन् जलमिव कुम्भे निश्चलतया प्राणोऽवस्थाप्यते । इत्ययं त्रिधा प्राणायामः = प्राणगतिविच्छेदः। यदाह- "श्वासप्रश्वासयोर्गतिविच्छेदः प्रा २२/१७ ।।३८६।। १. हस्तादर्श 'अन्य पू...' इति त्रुटितः पाठः । २. मुद्रितप्रतौ '...बाध..' इत्यशुद्धः पाठः । ३. हस्तादर्श 'पूर्वगः' इत्यशुद्धः पाठः । ४. हस्तादर्श 'प्रश्वास' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Jain Education Interational For Private & Personal use only Page #392 -------------------------------------------------------------------------- ________________ Eduta whos ता रा दि त्र य द्वा त्रिं शि का २२/१८ णायामः" इति ( योगसूत्र २ - ४९ ) । अयं च नासाद्वादशाऽन्ताऽऽदिदेशेन, षड्विंशतिमात्रादिप्रमाणकालेन सङ्ख्यया च ' इयतो वारान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवती'त्यादिलक्षणया' उपलक्षितो दीर्घसूक्ष्मसंज्ञ आख्यायते । यथोक्तं- " स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देश-काल- संख्याभिः परिदृष्टो दीर्घसूक्ष्मसंज्ञ" ( योगसूत्र २-५० ) इति । बाह्याभ्यन्तरविषयौ द्वादशान्त- हृदयनाभिचक्रादिरूपा वपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । यथोक्तं- “बाह्याऽऽभ्यन्तरविषयाऽऽक्षेपी चतुर्थ " इति ( योगसूत्र २ - ५१) ।।१७।। धारणायोग्यता तस्मात् प्रकाशाऽऽवरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यताऽनुगम् ।। १८ ।। धारणेति । तस्मात् = प्राणायामात् धारणानां योग्यता ( = धारणायोग्यता), प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं- “ धारणासु च योग्यता मनसः " ( योगसूत्र २-५३ ) इति । तथा प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षयः (=प्रकाशाऽऽवरणक्षयः)। तदुक्तं- “ ततः क्षीयते प्रकाशाऽऽवरणमिति” ( योगसूत्र २-५२ ) । १. मुद्रितप्रतौ सर्वत्र .... लक्षणोप' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ...विषयो...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ '... रूप एव पर्या...' इत्यशुद्धः पाठः । ।।३८७ ।। Page #393 -------------------------------------------------------------------------- ________________ अयं अन्यैः पतञ्जल्यादिभिः उक्तः। *भगवत्प्रवचने तु व्याकुलताहेतुत्वेन निषिद्ध एव श्वासप्रश्वासरोधः, यथायोगसमाधानमेव' प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं- “उस्सासं ण णिरुंभइ आभिग्गहिओ वि किमु 'चेछाउ । 'सज्जमरणं निरोहे सुहुमुस्सासं च जयणाए।।” (आवश्यकनियुक्ति-१५१०) ___एतच्च = पतञ्जल्याद्युक्तं क्वचित् = पुरुषविशेषे योग्यताऽनुगं = योग्यतानुसारि युज्यते, नानारुचित्वाद्योगिनां, प्राणायामरुचीनां प्राणायामेनाऽपि फलसिद्धेः, स्वरुचिसम्पत्तिसिद्धस्योत्साहस्य योगोपायत्वात । यथोक्तं योगबिन्दौ- "उत्साहान्निश्चयाद्वैर्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ।।” (योगबिन्दु ४११) इति। तस्माद्यस्य प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम् ।।१८।। रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चिताऽर्थस्य प्राणायामश्च भावतः ।।१९।। रेचनादिति । बाह्यभावानां = कुटुम्ब-दारादिममत्वलक्षणानां रेचनात्, अन्तर्भावस्य = श्रवणजनितविवेकलक्षणस्य पूरणात्, निश्चिताऽर्थस्य कुम्भनात् = स्थिरीकरणात् च भावतः प्राणायामः। अयमेवाऽव्यभिचारेण योगाङ्गम् । १. मुद्रितप्रतौ ....नमव' इत्यशुद्धः पाठः । २. हस्तादर्श 'उम्गाहिओ' इति पाठः । ३. मुद्रितप्रतौ 'अचेट्टा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ‘पसज्ज..' इत्यशुद्धः पाठः । हस्तादर्श च ‘एसज्ज...' इत्यशुद्धः पाठः । आवश्यकनियुक्त्यनुसारेण शुद्धः पाठोऽत्र गृहीतोऽस्माभिः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्ताद” नास्ति । २२/१९ ।।३८८॥ Jain Education Interational For Private & Personal use only Page #394 -------------------------------------------------------------------------- ________________ अत एवोक्तं- 'प्राणायामवती चतुर्थाङ्गभावतो भावरेचकादिभावात्' (योगदृष्टिसमुच्चय || ॥ ५७ वृ.) इति ।।१९।। प्राणेभ्योऽपि गुरुर्धर्मः 'इत्यतोऽस्यां विनिश्चयात् । प्राणांस्त्यजति' धर्मार्थं, न धर्म प्राणसङ्कटे ॥२०॥ प्राणेभ्योऽपीति । अस्यां = दीप्रायां 'प्राणेभ्योऽपि = इन्द्रियादिभ्योऽपि गुरुः = महत्तरो धर्मः' इति अतः = इत्यतो भावप्राणायामतो विनिश्चयाद् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः। अत एव न धर्मं त्यजति प्राणसङ्कटे = प्राणकष्टे ।।२०।। पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः ।। भवक्षाराम्भसस्त्यागाद् वृद्धिं 'मधुरवारिणा ।।२१॥ पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या तत्रोत्सर्गप्रवृत्त्या तत्त्वश्रुत्या = तथातत्त्वश्रवणेन मधुरवारिणा सदाशयः = शोभनपरिणामः भवलक्षणस्य क्षाराम्भ २२/२१ १. मुद्रितप्रतौ 'प्राणायामविनि...' इत्यशुद्धः पाठः । हस्तादर्श च 'इत्येतस्यां विनि...' इति पाठः । परं व्याख्यानुसारेणात्र 'इत्यतोऽस्यां विनि' इति पाठः सङ्गच्छते । अधुनोपलब्धे हस्तादर्श ‘इत्यतोस्यां' इति अवग्रहशून्यः पाठ उपलब्धः । २. मुद्रितप्रतौ हस्तादर्श च 'त्यजन्ति' इति पाठः । परं वृत्त्यनुसारेण 'त्यजति' इति सङ्गच्छते । ३. हस्तादर्श 'वृष्टिं' इत्यशुद्धः पाठः । ४. हस्तादर्श 'सागरधारिणा' इत्यशुद्धः पाठः । ५. हस्तादर्श 'वारिण...' इत्यशुद्धः पाठः । अन्यत्र च हस्तादर्श च 'मधुरसदा...' इति त्रुटितः पाठः । |||३८९।। Jain Education Interational For Private & Personal use only Page #395 -------------------------------------------------------------------------- ________________ ता रा ds who त्र य द्वा त्रिं शि का २२०/२३ सस्त्यागात् (=भवक्षाराऽम्भसस्त्यागात्) पुण्यबीजं वृद्धिं नयति । यथा हि मधुरोदकयोगतस्तन्माधुर्याऽनवगमेऽपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्वश्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भाव: ।। २१ ।। तत्त्वश्रवणतस्तीव्रा गुरुभक्तिः सुखाssवहा । समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः ।। २२ ।। = तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा गुरौ तत्त्व श्रावयितरि भक्तिः = आराध्यत्वेन प्रतिपत्तिः (= गुरुभक्तिः) सुखाऽऽवहा = उभयलोकसुखकरी । ततो = गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं- “गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ।। " ( यो दृ.स. ६४ ) समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्ध - विपाक-तद्भावापत्त्युपपत्तिपरिग्रहः ।। २२ ।। कर्मवज्रविभेदेनानन्तधर्मकगोचरे । वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न ।। २३ ।। कर्मेति । कर्मैव वज्रं अतिदुर्भेदत्वात् तस्य विभेदेन अनन्तधर्मकं = भेदाभेदनित्यत्वाऽनित्यत्वाद्यनन्तधर्मशबलं यद्वस्तु तद्गोचरे वस्तुनस्तथात्वपरिच्छेदिनि (=कर्मवज्रविभेदेनानन्तधर्मकगोचरे) वेद्य-संवेद्यपदजे बोधे सूक्ष्मत्वं यत्तद् अत्र = दीप्रायां दृष्टौ न भवति, तदधोभूमिकारूपत्वादस्याः । तदुक्तं- “भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः । = ।। ३९० ।। Page #396 -------------------------------------------------------------------------- ________________ ता रा दि त्र य bhes its द्वा शि का १२/२५ ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु || ” ( योगदृष्टिसमुच्चय ६६ ) || २३।। अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ।। २४ ।। अवेद्येति । आसु मित्राद्यासु चतसृषु दृष्टिषु यद् = यस्मात् अवेद्यसंवेद्यपदं उल्बणं अधिकम् । पक्षिच्छायायां जलसंसर्गिन्यां 'पक्षिधिया जलचरप्रवृत्तिरिवाभा वेद्यसंवेद्यपदसम्बन्धिनी यत्र तत्तथा (= पक्षिच्छायाजलचरप्रवृत्त्याभं) । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितयाऽतात्त्विकं । = = अत एवाऽनुल्बणमित्यर्थः । एतदपि पदमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः । तदिदमभिप्रेत्योक्तं- “अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।। " ( योगदृष्टिसमुच्चय ६७ ) ।।२४।। वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ।। २५ ।। वेद्यमिति । वेद्यं वेदनीयं = वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञान = १. सर्वत्र प्रतिसु 'जलधिया' इति पाठः । परं 'पक्षिधिया' इति पाठो युज्यते । २. मुद्रितप्रतौ 'वेद्यपदसंवेद्यसं...' इत्यशुद्धः पाठः । हस्तादर्शे च 'वेद्यपदसंवेद्यसंवेद्यसं...' इत्यशुद्धः पाठः । परं 'वेद्यसंवेद्यपदसं...' इति पाठः शुद्धो भाति । ३. सर्वत्र प्रतिसु 'चरमासु' इति पाठः । परं योगदृष्टिसमुत्च्त्वयवृत्त्यनुसारेणात्र 'पदमासु' इति पाठः समीचीनः प्रतिभाति । ४. हस्तादर्शे 'करणि...' इति पाठः । ।।३९१ ।। Page #397 -------------------------------------------------------------------------- ________________ // ग्राह्यमित्यर्थः संवेद्यते = क्षयोपशमाऽनुरूपं निश्चयबुद्ध्या विज्ञायते यस्मिन् = आशयस्थाने अपायादिनिबन्धनं = नरक-स्वर्गादिकारणं 'स्त्र्यादि तद्वद्यसंवेद्यं पदम् । अन्यत्' = अवेद्यसंवेद्यपदम् एतद्विपर्ययात्' = उक्तलक्षणव्यत्ययात् । यद्यपि शुद्धं यथावद्वेद्यसंवेदनं माषतुषादावसम्भवि, योग्यतामात्रेण च मित्रादिदृष्टिष्वपि | सम्भवि, तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः ।।२५।। अपायशक्तिमालिन्यं सूक्ष्मबोधविघातकृत् । न वेद्यसंवेद्यपदे वज्रतण्डुलसन्निभे ॥२६॥ अपायेति । अपायशक्तिमालिन्यं = नरकाद्यपायशक्तिमलिनत्वं सूक्ष्मबोधस्य विघातकृत् (=सूक्ष्मबोधविघातकृत्), अपायहेत्वासेवनक्लिष्टबीजसद्भावात्, तस्य सज्ज्ञानावरणक्षयोपशमाऽभावनियतत्वात्, न वेद्यसंवेद्यपदे उक्तलक्षणे वज्रतण्डुलसन्निभे, प्रायो दुर्गतावपि मानसदुःखाऽभावेन तद्वद्वेद्यसंवेद्यपदवतो भावपाकाऽयोगात् । एतच्च व्यावहारिकं वेद्यसंवेद्यपदं भावमाश्रित्योक्तं । निश्चयतस्त प्रतिपतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव 'वेद्यसंवेद्यपदभावः । नैश्चयिक२२/२६ तद्वति क्षायिकसम्यग्दृष्टौ श्रेणिकादाविव पुनर्दुर्गत्ययोगेन तप्तलोहपदन्यासतुल्याया अपि १. मुद्रितप्रतौ तु 'स्यादि (हिंसाहिंसादि)' इति पाठोऽशुद्धः । २. हस्तादर्श 'अन्यवेदवेद्य' इत्यशुद्धः पाठः । ३. हस्तादर्श 'विदर्या...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'कृत्' इति नास्ति । ५. हस्तादर्श 'वेद्यपदभावः' इति त्रुटितः पाठः । Ey vbo का ॥३९२।। Jain Education Interational For Private & Personal use only Page #398 -------------------------------------------------------------------------- ________________ EPF के पापप्रवृत्तेश्चरमाया एवोपपत्तेः । यथोक्तं- “अतोऽन्यदुत्तरास्वस्मात् पापे कर्माऽऽगसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ।। वेद्यसंवेद्यपदतः संवेगाऽतिशयादिति । चरमैव भवत्येषा पुनर्दुगत्ययोगतः।।” (योगदृष्टिसमुच्चय ७०-७१) इति ।।२६।। तच्छक्तिः स्थूलबोधस्य बीजमन्यत्र चाऽक्षतम् । तत्र यत्पुण्यबन्धोऽपि हन्ताऽपायोत्तरः स्मृतः ॥२७॥ तच्छक्तिरिति । अन्यत्र 'चाऽवेद्यसंवेद्यपदे तच्छक्तिः = अपायशक्तिः स्थूलबोधस्य बीजमक्षतम् = अनभिभूतम् । तत्र = अवेद्यसंवेद्यपदे यत् = यस्मात् पुण्यबन्धोऽपि हन्त ! अपायोत्तरो = विघ्ननान्तरीयकः स्मृतः "तत्पुण्यस्य पापाऽनुबन्धित्वात् ।।२७।। प्रवृत्तिरपि योगस्य वैराग्यान्मोहगर्भतः । प्रसूतेऽपायजननीमुत्तरां मोहवासनाम् ।।२८॥ प्रवृत्तिरपीति । तत्रेति 'प्राक्तनमत्राऽनुषज्यते । तत्र मोहगर्भतो वैराग्यात् योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याऽभावे अपायजननीमुत्तरां मोहवासनां प्रसूते, मोहमूलाऽनुष्ठानस्य मोहवासनाऽवन्ध्यबीजत्वात् । अतोऽत्र योगप्रवृत्तिरप्यकिञ्चित्करीति भावः ।।२८।। ___ अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । १. हस्तादर्श ‘च वाद्य...' इत्यशुद्धः पाठः । २. हस्तादर्श 'पायो' इत्यशुद्धः पाठः । ३. हस्ताद” 'विघ्नात्मीयक' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'ततस्तत्पु..' इति पाठः । ५. हस्तादर्श 'प्राक्कृत....' इत्यशुद्धः पाठः । ६. हस्तादर्श 'निरनबंधकं' नास्ति । २२/२८ ॥३९३।। Jain Education Intemational Page #399 -------------------------------------------------------------------------- ________________ EF भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् ॥२९॥ अवेद्येति । 'अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् = अनुबन्धरहितं स्यात्, यदि कदाचिन्न स्यात् पापानुबन्धि । सानुबन्धे तत्र ग्रन्थिभेदस्य नियामकत्वात् । भवाभिनन्दिनां क्षुद्रत्वादिदोषवतां जन्तूनां (=भवाभिनन्दिजन्तूनां) पापं सानुबन्धकम् = अनुबन्धसहितं स्यात्, रागद्वेषादिप्राबल्यस्य तदनुबन्धाऽवन्ध्यबीजत्वात् ।।२९।। कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यमेव हि । अत्र व्यामूढचित्तानां कण्डूकण्डूयनादिवत् ॥३०॥ ___ कुकृत्यमिति। कुकृत्यं = प्राणातिपातादि' कृत्यं = करणीयं आभाति । कृत्यं च | = अहिंसादि अकृत्यमेव हि = अनाचरणीयमेव । अत्र = अवेद्यसंवेद्यपदे व्यामूढचित्तानां = मोहग्रस्तमानसानां कण्डूलानां 'कण्डूयनादिवत् (=कण्डूकण्डूयनादिवत्) । आदिना कृम्याकुलस्य कुष्टिनोऽग्निसेवनग्रहः । कण्डूयकादीनां कण्ड्वादेरिव भवाभिनन्दिनामवेद्यसंवेद्यपदादेव | विपर्ययधीरिति भावः ।।३०।। एतेऽसच्चेष्टयात्मानं मलिनं कुर्वते निजम् । बडिशामिषवत्तुच्छे प्रसक्ता भोगजे सुखे ॥३१॥ १. हस्तादर्श 'अवेद्यसंवेद्यसंवेद्यपदे' इत्यशुद्धः पाठः । २. हस्तादर्श '...पातारंभादि' इति पाठः । ३. हस्तादर्श 'कण्डूकय..' इत्यशुद्धः पाठः मूलानुसारेण । to २२/३१ ।।३९४॥ Jain Education Interational Page #400 -------------------------------------------------------------------------- ________________ 24 ॐ सभा एते इति । एते = भवाभिनन्दिनो असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजं आत्मानं मलिनं कुर्वते, कर्मरजःसम्बन्धात् । बडिशाऽऽमिषवत् = मत्स्यगलमांसवत् तुच्छे = अल्पे रौद्रविपाके प्रसक्ता भोगजे = भोगप्रभवे' सुखे ।।३१ ।। ___ अवेद्यसंवेद्यपदं सत्सङ्गाऽऽगमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ।।३२।। अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत = तस्माद अवेद्यसंवेद्यपदं दुर्गतिप्रदं = नरकादिदुर्गतिकारणं सत्सङ्गागमयोगतो = 'विशिष्टशिष्टसङ्गमागमसम्बन्धात् परमानन्दं मोक्षसुखं इच्छता जेयं अस्यामेव भूमिकायां, अन्यदा जेतुमशक्यत्वात् ।। अत एवाऽनुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगाऽसिद्धेरिति ।।३२।। ।। इति तारादित्रयद्वात्रिंशिका ||२२।। ॥ अथ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ।।२३।। अनन्तरमवेद्यसंवेद्यपदं जेयमित्युक्तं, अत्र तज्जयेनैव कुतर्कनिवृत्तिर्भवति । सैव चाऽत्यन्तमादरणीयेत्याह ॥३९५॥ २३/१ १. हस्ताद” 'भोगभवे' इति पाठान्तरम् । २. मुद्रितप्रती 'विशिष्टसंगम...' इति त्रुटितः पाठः । ३. हस्तादर्श '....सम्बन्ध' इत्यशुद्धः पाठः । ४. हस्तादर्श '...मवद्य...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #401 -------------------------------------------------------------------------- ________________ त ग्र he E too has to ह वृ त्ति द्वा त्रिं शि का २३/३ जीयमानेऽत्र राज्ञीव चमूचरपरिच्छदः । निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः ' ।। १ ।। जीयमान इति । जीयमाने अत्र = अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये। स्वत एव = आत्मनैवाऽपरोपदेशेन शीघ्रं कुतर्क एव विषमग्रहो दृष्टाऽपायहेतुत्वेन क्रूरग्रहः, कुतर्कस्य विषमग्रह: ( = कुतर्कविषमग्रहः ) कुटिलाऽऽवेशरूपो वा निवर्तते । राज्ञ जीयमान इव चमूचरपरिच्छदः ।।१।। शमाऽऽरामाऽनलज्वाला हिमानि ज्ञानपङ्कजे । श्रद्धाशल्यं स्मयोल्लासः कुतर्कः सुनयाऽर्गला ।। २ । शमेति । व्यक्तः ||२|| कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् ||३॥ कुतर्क इति । श्रुते आगमे । = शी परद्रोहविरतिलक्षणे । समाधौ = ध्यानफलभूते || ३ || उक्तं च योगमार्गज्ञैस्तपोनिर्धूतकल्मषैः । = १. हस्तादर्शे '...विषयग्रह' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः । २ मुद्रितप्रतौ हस्तादर्शे च ' हिमानी' इत्यशुद्धः पाठः । क्वचिच्च हस्तादर्शे 'हिमाज्ञाने' इत्यशुद्धः पाठः । ।।३९६।। Page #402 -------------------------------------------------------------------------- ________________ 24 ०५ - 'भावियोगिहितायोच्चैर्मोह दीपसमं वचः ।।४।। उक्तं चेति । उक्तं च निरूपितं पुनः योगमार्गः = अध्यात्मविद्भिः पतञ्जलिप्रभृतिभिः 'तपोनिधूतकल्मषैः = प्रशमप्रधानेन तपसा क्षीणमार्गाऽनुसारिबोधबाधकमोहमलैः भावियोगिहिताय = भविष्यद्विवादबहुलकलिकालयोगिहितार्थं उच्चैः = अत्यर्थं मोहदीपसमं = मोहाऽन्धकारप्रदीपस्थानीयं वचो = वचनम् ।।४।। वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ।।५।। वादांश्चेति । वादांश्च पूर्वपक्षरूपान् प्रतिवादांश्च परोपन्यस्तपक्षप्रतिवचनरूपान् वदन्तो = ब्रवाणाः निश्चितान असिद्धाऽनैकान्तिकादिहेत्वाभासनिरासेन तथा = तेन प्रकारेण तत्तच्छास्त्रप्रसिद्धेन सर्वेऽपि 'दर्शनिनो ममक्षवोऽपि तत्त्वान्तं = आत्मादितत्त्वप्रसिद्धिरूपं न = नैव गच्छन्ति = प्रतिपद्यन्ते, (गतौ) तिलपीलकवत् = 'तिलपीलक इव । निरुद्धाऽक्षिसञ्चारस्तिलयंत्रवाहनपरो यथा ह्ययं नित्यं भ्राम्यन्नपि निरुद्धाऽक्षतया न तत्परिमाण भ ।।३९७॥ २३/५ १. हस्तादर्श 'भावयोगि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'भावयोग' इत्यशुद्धः पाठः । २. हस्तादर्श 'महादीप...' इति पाठः । व्याख्यानुसारेण च सोऽशुद्धः । ३. हस्तादर्श .प्रभृति..' इति त्रुटितः पाठः । ४. मुद्रितप्रतौ 'तपसा नि...' इति पाठः । स चाऽर्थतः शुद्धः परं सन्दर्भानुसारेणाऽशुद्धः प्रतिभाति । ५. हस्तादर्श 'दर्शिनो' इत्यशुद्धः पाठः । ६, हस्तादर्श 'तिपी...' इति त्रुटितः पाठः । Jain Education Interational For Private & Personal use only Page #403 -------------------------------------------------------------------------- ________________ मवबुध्यते, एवमेतेऽपि वादिनः स्वपक्षाऽभिनिवेशाऽन्धा विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्ते इति ।।५।। विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् । तद्योजनामयश्चाऽत्र कुतर्कः किमनेन तत् ॥६॥ विकल्पेति । विकल्पाः शब्दविकल्पा अर्थविकल्पाश्च तेषां कल्पनारूपं शिल्पं (=विकल्पकल्पनाशिल्पं) प्रायो = बाहुल्येन अविद्याविनिर्मितं = ज्ञानावरणीयादिकर्मसम्पर्कजनितम् । तद्योजनामयः = तदेकधारात्मा चाऽत्र कुतर्कः। तत् किमनेन मुमुक्षूणां, दुष्टकारणप्रभवस्य सत्कार्याऽहेतुत्वात्।।६।। जातिप्रायश्च बाध्योऽयं प्रकृताऽन्यविकल्पनात् । हस्ती हन्तीतिवचने प्राप्ताऽप्राप्तविकल्पवत् ।।७।। ___जातिप्रायश्चेति । जातिप्रायश्चः दूषणाऽऽभासकल्पश्च बांध्यः प्रतीति-फलाभ्यां अयं = कुतर्कः, प्रकृताऽन्यस्य = उपादेयाद्यतिरिक्तस्य अप्रयोजनस्य वस्त्वंशस्य विकल्पनात् (=प्रकृतान्यविकल्पनात्) । 'हस्ती हन्तीति वचने हस्त्यारूढेनोक्ते प्राप्ताऽप्राप्तविकल्पवत् नैयायि कच्छात्रस्य । यथा ह्ययमित्थं वक्तारं प्रति “किमयं हस्ती प्राप्तं व्यापादयति? उताऽप्राप्तं? २३/७ आद्ये त्वामपि व्यापादयेत्, अन्त्ये च जगदपी"ति विकल्पयन्नेव हस्तिना गृहीतो मिण्ठेन ।। कथमपि मोचितः । तथा तथाविधविकल्पकारी तत्तदर्शनस्थोऽपि कुतर्कहस्तिना गृहीतः ||३९८॥ Jain Education Interational For Private & Personal use only Page #404 -------------------------------------------------------------------------- ________________ जनाभ भयभ ।। सद्गुरुमिण्ठेनैव मोच्यत इति ।।७।। स्वभावोत्तरपर्यन्त एषोऽत्राऽपि च तत्त्वतः । नाऽर्वाग्दृग्ज्ञानगम्यत्वमन्यथाऽन्येन कल्पनात् ॥८॥ स्वभावेति। एष = कुतर्कः स्वभावोत्तरपर्यन्तः, अत्र च “वस्तुस्वभावैरुत्तरं वाच्यं" ( ) इति वचनात् । अत्राऽपि च •स्वभावे नाऽर्वाग्दृशः = छद्मस्थस्य ज्ञानगम्यत्वं (=नाऽर्वाग्दृग्ज्ञानगम्यत्वं) तत्त्वतः, अन्यथाक्लृप्तस्यैकेन वादिना• स्वभावस्य अन्येनाऽन्यथाकल्पनात् ।।८।। तथाहि - अपां दाहस्वभावत्वे दर्शिते दहनान्तिके । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः किमुत्तरम् ॥९॥ अपामिति । अपां = शैत्यस्वभावत्ववादिनं प्रति अपां दहनाऽन्तिके दाहस्वभावत्वे दर्शिते अध्यक्षविरोधपरिहारात् । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः = लोहाऽऽकर्षणशक्तेर्विप्रकर्षमावस्याऽप्रयोजकत्वात्, किमुत्तरं अन्यथावादिनः ? स्वभावस्याऽपर्यनुयोज्यत्वाद्विशेषस्याऽविनिगमनात् । तदुक्तं - “अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च। अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः।। १. मुद्रितप्रतौ 'वचनता' इत्यशुद्धः पाठः । ....... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श द्विरुक्तः । २. प्रकृते च योगदृष्टिसमुच्चये 'अम्ब्बग्नि...' इति पाठो विद्यते । नार्थभेदः कश्चिद् । | ||३९९।। २३/९ Jain Education Interational For Private & Personal use only Page #405 -------------------------------------------------------------------------- ________________ ।। कोशपानादृते ज्ञानोपायो नाऽस्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकदृश्यते यतः।।" || (योगदृष्टिसमुच्चय ९३-९४) ।।९।। दृष्टान्तमात्रसौलभ्यात्तदयं केन 'वार्यताम् । स्वभावबाधने नाऽलं कल्पनागौरवादिकम् ।।१०।। ___ दृष्टान्तेति । दृष्टान्तमात्रस्य सौलभ्यात् (=दृष्टान्तमात्रसौलभ्यात्) तत् = तस्मात् अयं = अन्यथास्वभावविकल्पकः कुतर्कः केन वार्यताम् ? अग्निसन्निधावपां दाहस्वभावत्वे कल्पनागौरवं बाधकं स्यादित्यत आह- स्वभावस्योपपत्तिसिद्धस्य बाधने ( स्वभावबाधने) कल्पनागौरवादिकं नाऽलं = न समर्थं, कल्पनासहस्रेणाऽपि स्वभावस्याऽन्यथाकर्तुमशक्यत्वात् । अत एव न कल्पनालाघवेनाऽपि स्वभावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् । ___ अथ स्वस्य भावः = अनागन्तुको धर्मो नियतकारणत्वादिरूप एव, स च कल्पनालाघवज्ञानेन गृह्यते, अन्यथागृहीतश्च कल्पनागौरवज्ञानेन त्यज्यतेऽपीति चेत् ? न, गौरवेऽपि अप्रामाणिकत्वस्य दुर्ग्रहत्वात् प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक् ।।१०।। द्विचन्द्र-स्वप्नविज्ञाननिदर्शनबलोत्थितः । धियां निरालम्बनतां कुतर्कः साधयत्यपि ।।११।। ।।४००।। २३/११ १. मुद्रितप्रतौ हस्तादर्श चात्र ‘बाध्यतामिति पाठः । पर व्याख्यानुसारेणात्र 'वार्यतामिति पाठः सङ्गच्छते । अतो व्याख्यानुसृतः पाठोऽत्र मुद्रितः । २. मुद्रितप्रतौ 'स्यान्वथा...' इत्यशुद्धः पाठः । 69 C +6 FedEE Jain Education Interational For Private & Personal use only Page #406 -------------------------------------------------------------------------- ________________ भवभय 420 द्विचन्द्रेति' । द्विचन्द्र-स्वप्नविज्ञाने एव निदर्शने = उदाहरणमात्रे तबलादुत्थितः (=द्विचन्द्र-स्वप्नविज्ञाननिदर्शनबलोत्थितः) कुतर्कः धियां = सर्वज्ञानानां निरालम्बनतां = अलीकविषयतां अपि साधयति ।।११।। तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा । अतीन्द्रियाऽर्थसिद्ध्यर्थं नाऽवकाशोऽस्य कुत्रचित् ।।१२।। तदिति । तदसमञ्जसकारिणा = प्रतीतिबाधितार्थसिद्ध्यनुधाविना पर्याप्तं कुतर्केण । अतीन्द्रियार्थानां = धर्मादीनां सिद्ध्यर्थं (=अतीन्द्रियार्थसिद्धयर्थ) न अस्य = 'कुतर्कस्य कुत्रचिदवकाशः ।।१२।। शास्त्रस्यैवाऽवकाशोऽत्र कुतर्काऽग्रहतस्ततः ।। शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद् भवेत् ।।१३।। शास्त्रस्येति । अत्र = अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवाऽवकाशः, तस्याऽतीन्द्रियार्थसाधनसमर्थत्वात्, शुष्कतर्कस्याऽतथात्वात् । तदुक्तं- “गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्यो"परागादिसंवाद्यागमदर्शनात् ।।" (योगदृष्टिसमुच्चय ९९) ततः = तस्मात् कुतर्काऽग्रहतोऽत्र = शास्त्रे श्रद्धावान् शीलवान् = परंद्रोहविरतिमान् योगवान् = सदा योगतत्परः तत्त्वविद् १. हस्तादर्श 'इति' पदं नास्ति । २. मुद्रितप्रतौ 'धर्मार्थानां' इति पाठोऽशुद्धः प्रतिभाति । ३. हस्तादर्श 'कुता...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'परागासंवा...' इत्यशुद्धः पाठः । ५. हस्तादर्श-मुद्रितप्रतिषु सर्वत्र ...विरतियोगवान्' इत्यशुद्धः पाठः । योगदृष्टिसमुच्चयानुसारेण शुद्धः पाठोऽत्र गृहीतः । ।।४०१।। २३/१३ Jain Education Interational For Private & Personal use only Page #407 -------------------------------------------------------------------------- ________________ ।। = धर्माद्यतीन्द्रियार्थदर्शी भवेत् ।।१३।। ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धाऽपि स्यादित्यत आह तत्त्वतः शास्त्रभेदश्च न शास्तृणामभेदतः । मोहस्तदधिमुक्तीनां तद्भेदाऽऽश्रयणं ततः ।।१४।। ___ तत्त्वत इति । तत्त्वतो = धर्मवादाऽपेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च न अस्ति, शास्तृणां = धर्मप्रणेतृणां अभेदतः। तत्तन्नयाऽपेक्षदेशनाभेदेनैव स्थूलबुद्धीनां तद्भेदाऽभिमानात्। अत एवाऽऽह- ततः = तस्मात् तदधिमुक्तीनां = शास्तृश्रद्धावतां तद्भेदाश्रयणं = शास्तृभेदाऽगीकरणं मोहो = अज्ञानं, निर्दोषत्वेन सर्वेषामैक्यरूप्यात् । तदुक्तं- “न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः ।। मोहस्तदधिमुक्तीनां तद्भेदाऽऽश्रयणं ततः ।।"(योगदृष्टिसमुच्चय १०२) ।।१४।। "सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् । सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः ।।१५।। 'सर्वज्ञ'ति । सर्वज्ञो मुख्यः = तात्त्विकाऽऽराधनाविषय एकः, सर्वज्ञत्वजात्यविशेषात् । तदुक्तं- “सर्वज्ञो नाम यः कश्चित पारमार्थिक एव हि। स एक एव सर्वज्ञ व्यक्तिभेदेऽपि २३/१५ १. मुद्रितप्रतावत्र 'तृ' इत्येवमशुद्धः पाठः । २. हस्तादर्श '..दविमु.' इत्यशुद्धः पाठः । ३. हस्तादर्श '..पेक्षतात्प..' इति पाठान्तरम् । ४. हस्तादर्श 'सर्वज्ञमु...' इति पाठः । ५. हस्तादर्श ....ख्यस्त्वात्त्वि...' इत्यशुद्धः पाठः । ।।।।४०२।। Jain Education Interational For Private & Personal use only Page #408 -------------------------------------------------------------------------- ________________ 2 44 तत्त्वतः।।” (योगदृष्टिसमुच्चय १०३) तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तद्दर्शनस्थानां, ॥ ते सर्वेऽपि बुधाः तं = सर्वज्ञ मुख्यं सामान्यतो विशेषाऽनिर्णयेऽपि आपन्नाः = आश्रिताः, निरतिशयितगुणवत्त्वेन प्रतिपत्तेः वस्तुतः सर्वज्ञविषयकत्वात्, गुणवत्ताऽवगाहनेनैव तस्या भक्तित्वाच्च । यथोक्तं- “प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ।।” (योगदृष्टिसमुच्चय १०४) ।।१५।। न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः । अतो न ते तमापन्ना विशिष्य भुवि केचन ।।१६।। नेति । विशेषस्तु = सर्वज्ञज्ञानादिगतभेदस्तु असर्वदर्शिभिः = छद्मस्थैः सर्वथा = सर्वैः प्रकारैः न ज्ञायते । अतो न ते सर्वज्ञाऽभ्युपगन्तारः तं = सर्वज्ञं आपन्नाः = आश्रिताः विशिष्य भुवि = पृथिव्यां केचन । तदुक्तं- "विशेषस्तु पुनस्तस्य कार्येनाऽसर्वदर्शिभिः । सर्वेन ज्ञायते तेन तमापन्नो न कश्चनः ।।” (योगदृष्टिसमुच्चय १०५) ।।१६।। अतः सामान्यप्रतिपत्त्यंशेन सर्वयोगिषु परिशिष्टा 'तुल्यतैव भावनीयेत्याह सर्वज्ञप्रतिपत्त्यंशमाश्रित्याऽमलया धिया। निर्व्याज तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् ।।१७।। ।४०३॥ भ 2 २३/१७ १. हस्तादर्श 'कश्च' इति त्रुटितः पाठः । २. हस्तादर्श 'तुल्यैव' इत्यशुद्धः पाठः । ३. हस्तादर्श '...मालया' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #409 -------------------------------------------------------------------------- ________________ कु 94 he too dE hot s त र्क ग्र ह नि वृ द्वा शि का २३/१८ सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया = रागद्वेषमलरहितया धिया = बुद्ध्या निर्व्याजं औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या सर्वतन्त्रेषु = सर्वदर्शनेषु योगिनां मुमुक्षूणाम् । तदुक्तं- “तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवाऽसौ तेनांशेनैव धीमताम् ।। " ( योगदृष्टिसमुच्चय १०६) ।। १७ ।। अवान्तरभेदस्तु सामान्याऽविरोधीत्याह = = = दूराऽऽसन्नादिभेदस्तु' 'तभृत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाssचारेष्वपि प्रभुः ।। १८ ।। दूरेति । दूराऽऽसन्नादिभेदस्तु तद्भृत्यत्वं = सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाऽविशेषवत् प्रकृतोपपत्तेः । भिन्नाऽऽचारेष्वपि तथाऽधिकारभेदेन नानाविधाऽनुष्ठानेष्वपि योगिषु नामादीनां = अर्हदादिसंज्ञादीनां भेदेन ( = नामादिभेदेन ) एकः प्रभुः = उपास्यः । तदुक्तं “यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूराऽऽसन्नादिभेदेऽपि तद्भृत्याः सर्व एव ते ।। सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाऽऽचारस्थिता अपि ।। न भेद एव तत्त्वेन सर्वज्ञानां महात्मनां । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ।। " १. हस्तादर्शे-मुद्रितप्रतिषु च '...भेदोऽपि ' इति पाठः । परं व्याख्यानुसारेणात्र 'भेदस्तु' इति पाठः समीचीनः । २. हस्तादर्शे 'तद्भत्यं' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'भाव्यते तन्म...' इत्यशुद्धः पाठः । परं मुद्रितयोगदृष्टिसमुच्चयप्रतानुसारेण शुद्धः पाठो गृहीतोऽत्र । ।।।४०४ ।। Page #410 -------------------------------------------------------------------------- ________________ त ग्र she E ह त्ति द्वा शि का २३/२१ देवेषु योगशास्त्रेषु चित्राऽचित्रविभागतः । भक्तिवर्णनमप्येवं युज्यते तदभेदतः । । १९ ।। देवेष्वति । एवं = इष्टाऽनिष्टनामभेदे अपि तदभेदतः = तत्त्वतः सर्वज्ञाऽभेदात् योग-शास्त्रेषु = सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु = लोकपाल - मुक्तादिषु चित्राऽचित्रविभागतो भक्तिवर्णनं युज्यते । तदुक्तं- " चित्राऽचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ।।” ( योगदृष्टिसमुच्चय ११०) ।।१९।। संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीने पुनस्तत्त्वे तदतीताऽर्थयायिनाम् ।। २० ।। = तु संसारिष्विति । संसारिषु हि देवेषु = लोकपालादिषु भक्तिः = सेवा तत्कायगामिनां संसारिदेवकायगामिनाम् । तदती संसाराऽतीते पुनः तत्त्वे तदतीताऽर्थयायिनां संसाराऽतीतमार्गगामिनां योगिनां भक्तिः ||२०|| चित्रा चाऽऽद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ।। २१ ।। चित्रा चेति । चित्रा च = नानाप्रकारा च आद्येषु = सांसारिकेषु देवेषु (तद्राग १. हस्तादर्शे 'वेदेषु' इत्यशुद्धः पाठः । २ हस्तादर्शे 'रात्मंतेषु' इत्यशुद्धः पाठः । = ← ( योगदृष्टिसमुच्चय १०७-१०९ ) ।।१८।। = ॥४०५॥ Page #411 -------------------------------------------------------------------------- ________________ 1894 he too dhood s त ग्र ह नि त्ति द्वा त्रिं शि का २३/२३ तदन्यद्वेषसङ्गता =) तद्रागतदन्यद्वेषाभ्यां स्वाऽभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता = युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु तदतीते तु एषा भक्ति: शमसारा = शमप्रधाना अखिलैव हि तथासंमोहाऽभावात् इति ।। २१ ।। इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः । फलं चित्रं प्रयच्छन्ति तथा बुद्ध्यादिभेदतः ।। २२ ।। इष्टापूर्तानीति । इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः = संसारिदेवस्थानादिगत`विचित्राऽध्यवसायात् मृदु-मध्याऽधिमात्ररागादिरूपात् । तथा बुद्ध्यादीनां वक्ष्यमाणलक्षणानां भेदतः फलं चित्रं = नानारूपं प्रयच्छन्ति । विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तेरुपायस्याऽनुष्ठानस्याऽभिसन्ध्यादिभेदेन विचित्रत्वात् । तदुक्तं “संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ।। तत् तस्मात्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ।। " ← ( योगदृष्टिसमुच्चय ११३,११४) ।।२२।। बुद्धिर्ज्ञान 'मसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भ-तज्ज्ञान-तदवाप्तिनिदर्शनात् ।। २३ ।। १. हस्तादर्शे 'यक्ता' इत्यशुद्धः पाठः । २ हस्तादर्शे 'गताविचि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'ज्ञानसंमो...' इत्यशुद्धः पाठः । ||४०६ ॥ Page #412 -------------------------------------------------------------------------- ________________ बुद्धिरिति । बुद्धिः = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् । यदाह- "इन्द्रियार्थाऽऽश्रया बुद्धिः” (योगदृष्टिसमुच्चय १२१)। ज्ञानं = तथाविधोहेन गृहीताऽर्थतत्त्वपरिच्छेदनम् । तदाह- "ज्ञानं त्वागमपूर्वकम्"। (योगदृष्टिसमुच्चय १२१) असम्मोहो = हेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह- “सदनुष्ठानवच्चैतदसम्मोहोऽभिधीयते” (योगदृष्टिसमुच्चय १२१)। एवं त्रिविधो बोध इष्यते स्वस्वपूर्वाणां कर्मणां भेदसाधक: “तभेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनां” (योगदृष्टिसमुच्चय १२०) इति वचनात् । रत्नोपलम्भ-तज्ज्ञानतदवाप्तीनां निदर्शनात् (रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात्) । यथा ह्युपलम्भादिभेदाद्रत्नग्रहणभेदस्तथा प्रकृतेऽपि बुद्ध्यादिभेदादनुष्ठानभेद इति ।।२३।। आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ।।२४।। ___ आदर इति । आदरो = यत्नाऽतिशय इष्टाऽऽप्तौ । करणे प्रीतिः = अभिष्वङ्गात्मिका। अविघ्नः = करण एवाऽदृष्टसामर्थ्यादपायाभावः। सम्पदागमः, तत एव शुभभावपुण्यसिद्धेः। जिज्ञासा' इष्टादिगोचरा । तज्ज्ञसेवा च इष्टादिज्ञसेवा । चशब्दात्तदनुग्रहग्रहः । एतत् सदनुष्ठानलक्षणं तदनुबन्धसारत्वात् ।।२४।। भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः । १. हस्तादर्श ....ज्ञासा चेष्टा' इति पाठः । २. मुद्रितप्रतौ ....दनुग्रह' इति त्रुटितः पाठः । ||४०७॥ २३/२४ Jain Education Interational For Private & Personal use only Page #413 -------------------------------------------------------------------------- ________________ 19 It +6 Photo कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये ।।२५।। भवायेति । बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्त्रविवेकादनादराद् विपाकस्य विरसत्वतो (=विपाकविरसत्वतः) भवाय = संसाराय भवन्ति। तदुक्तं- “बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम्। संसारफलदान्येव विपाकविरसत्वतः।।" (योगदृष्टिसमुच्चय १२४) ज्ञानपूर्वाणि च तानि तथाविवेकसम्पत्तिजनितया श्रुतशक्त्या अमृतशक्तिकल्पया मुक्तये = निःश्रेयसाय | यदुक्तं- “ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ।।” (योगदृष्टिसमुच्चय १२५) ।।२५।। असंमोहसमुत्थानि योगिनामाशु मुक्तये । भेदेऽपि तेषामेकोऽध्वा जलधौ तीरमार्गवत् ।।२६।। असंमोहेति । असंमोहसमुत्थानि तु कर्माणि योगिनां भवातीतार्थयायिनां आशु = शीघ्रं न पुनर्ज्ञानपूर्वकवदभ्युदयलाभव्यवधानेनाऽपि', मुक्तये भवन्ति । यथोक्तं → "असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवाऽतीताऽर्थयायिनाम् ।। प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम्। भवभोगविरक्तास्ते भवाऽतीताऽर्थयायिनः।।” + (योगदृष्टिसमुच्चय १२६-१२७) । भेदेऽपि = गुणस्थानपरिणतितारतम्येऽपि तेषां = योगिनां एकोऽध्वा = एक एव ॥ १. मुद्रितप्रतौ '...धानेऽपि' इत्यशुद्धः पाठः । | ||४०८॥ २३/२६ Jain Education Interational Page #414 -------------------------------------------------------------------------- ________________ भय मार्गः। जलधौ = समुद्रे तीरमार्गवत् दूराऽऽसन्नादिभेदेऽपि तत्त्वतस्तदैक्यात् । प्राप्यस्य मोक्षस्य सदाशिव-परब्रह्म-सिद्धात्म-'तथातादिशब्दैर्वाच्यस्य शाश्वतशिवयोगाऽतिशयितस द्भावाऽऽलम्बन-बृहत्त्वबृंहकत्वनिष्ठितार्थत्वाऽऽकालतथाभावाद्यर्थाऽभेदेनैकत्वात्तन्मार्गस्याऽपि तथात्वात् । तदुक्तं → "एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ।। संसाराऽतीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ।। सदाशिवः परं ब्रह्म सिद्धात्मा 'तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ।। तल्लक्षणाऽविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ।। ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसम्मोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ।।" (योगदृष्टिसमुच्चय १२८-१३२) ।।२६।। तस्मादचित्रभक्त्याऽऽप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां शिष्याऽऽनुगुण्यतः ।।२७।। तस्मादिति । तस्मात् = सर्वेषां योगिनामेकमार्गगामित्वात् अचित्रभक्त्या = एकरूपया भक्त्या आप्याः = प्राप्याः सर्वज्ञाः न भिदामिता = न भेदं प्राप्ताः । तदुक्तं- “सर्वज्ञपूर्वकं खभ का ॥४०९।। १. मुद्रितप्रतौ '...तथता' इत्यशुद्धः पाठः । २. हस्तादर्श 'तथता' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'सर्व' इत्यशुद्ध: पाठः । Jain Education Interational For Private & Personal use only Page #415 -------------------------------------------------------------------------- ________________ 69 GRhodod चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ।।” (योगदृष्टिसमुच्चय १३३) 'इति । कथं तर्हि देशनाभेदः ? इत्यत आह- तेषां सर्वज्ञानां भववैद्यानां = संसाररोगभिषग्वराणां चित्रा = नानाप्रकारा गीः शिष्याऽऽनुगुण्यतो = विनेयाऽभिप्रायाऽनुरोधात् । यथा वैद्या बालादीन् प्रति 'नैकमौषधमुपदिशन्ति, किं तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तराऽपायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना । सुगतादीनां तु भोगाऽऽस्थावतोऽधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना देशनेति । न तु तेऽन्वयव्यतिरेकवद्वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः । तदुक्तं- "चित्रा तु देशनैतेषां स्याद्विनेयाऽऽनुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ।।” (योगदृष्टिसमुच्चय १३४) ।।२७।। तयैव बीजाऽऽधानादेर्यथाभव्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वा 'विभेदतः ।।२८।। तयैवेति । तयैव = चित्रदेशनयैव बीजाऽऽधानादेः = भवोद्वेगादिभावलक्षणात यथाभव्यं = भव्यसदृशं उपक्रिया = उपकारो भवति । यदुक्तं- “यस्य येन प्रकारेण बीजाऽऽधानादिसम्भवः । १. मुद्रितप्रतौ 'इति' पदं नास्ति । २. हस्तादर्श 'वेद्या' इति पाठः । ३. मुद्रितप्रती 'नैक मोष...' इत्यशुद्धः पाठः । ४. मुद्रतप्रतो ....रेकवस्तु...' इति त्रुटितः पाठः । ५. हस्तादर्श 'देशनेते...' इत्यशुद्धः पाठः । ६. मुद्रितप्रती 'वापि भेदतः' इत्यशुद्धः पाठः । ॥४१०॥ २३/२८॥ Jain Education Interational Page #416 -------------------------------------------------------------------------- ________________ त र्क ग्र he too has to ह नि वृ त्ति द्वा शि का २३/२९ 'सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ।। " ( योगदृष्टिसमुच्चय १३५) एकस्या वा तीर्थकरदेशनाया अचिन्त्यपुण्यसामर्थ्याद् = अनिर्वचनीयपरबोधाऽऽश्रयोपात्तकर्मविपाकाद् विभेदतः श्रोतृभेदेन विचित्रतया परिणमनाद्यथाभव्यमुपक्रिया भवतीति न शनावैचित्र्यात्सर्वज्ञवैचित्र्यसिद्धिः । यदाह = “एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ।। यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ।। " ← ( योगदृष्टिसमुच्चय १३६-१३७) ।।२८।। प्रकारान्तरमाह चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः ।। २९॥ चित्रेति । वा = अथवा तत्तन्नयैः = द्रव्याऽऽस्तिकादिभिः कालादियोगतो = दुःषमादियोगमाश्रित्य यन्मूला = यद्वचनाऽनुसारिणी चित्रा = नानारूपा देशना कपिलादीनामृषीणां, तस्य सर्वज्ञस्य प्रतिक्षेपः (= तत्प्रतिक्षेपः) भावं = तत्तद्देशनानयाऽभिप्रायं अजानतोऽयुक्तः, आर्या-पवादस्याऽनाभोगजस्याऽपि महापापनिबन्धनत्वात् । तदुक्तं → “यद्वा तत्तन्नयाऽपेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः । । तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ।। १. मुद्रितप्रतौ 'साधु बन्धो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'दुःखमा...' इति पाठः । ।।।४११ ।। Page #417 -------------------------------------------------------------------------- ________________ त र्क ग्र ह नि त्ति द्वा त्रिं शि का २३/३१ निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ।। न' युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्याऽपवादस्तु पुनर्जिह्वाच्छेदाऽधिको मतः । । * कुदृष्टादि' च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किं तु सत्त्वार्थकृत्सदा । । ” • ← ( योगदृष्टिसमुच्चय १३८ - १४२ ) ।। २९ ।। •तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं न तु तद्विप्रतिपत्त्याऽनुमानाद्यास्थया स्थेयं, तदननुसा-रिणस्तस्याऽव्यवस्थितत्वादित्यत्र भर्तृहरिवचनमनुवदन्नाह— यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।।३०।। यत्नेनेति । यत्नेन = 'असिद्धत्वादिदोषनिरासप्रयासेन = अनुमितोऽप्यर्थः कुशलैः व्या-प्तिग्रहादिदक्षैः अनुमातृभिः अभियुक्ततरैः = अधिकव्याप्त्यादिगुणदोषव्युत्पत्तिकैः अन्यैः अन्यथैव असिद्धत्वादिनैव उपपाद्यते ||३०|| • अभ्युच्चयमाह = = ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ३१ ॥ - ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । १. हस्तादर्शे 'नियु... ' इत्यशुद्धः पाठः । २. योगदृष्टिसमुच्चयप्रतौ 'कृदृष्ट्यादिवन्नो' इति पाठ इत्यवधेयम् । स चाशुद्धः प्रतिभाति । ३ मुद्रितप्रतौ बहुषु हस्तादर्शेषु च ... न्य एवोपपद्यत इत्यशुद्धः पाठः । ४. हस्ता दर्शविशेषे च 'उपपाद्यते' इति पाठो वर्तते। ५. हस्तादर्शे 'असिद्ध्यादि' इति पाठान्तरम् । ६ मुद्रितप्रतौ 'उपपद्यते' इत्यशुद्धः पाठः । ।।४१२ ।। Page #418 -------------------------------------------------------------------------- ________________ 42 4 AH ज्ञायेरन्निति । हेतुवादेन = अनुमानवादेन यदि अतीन्द्रिया धर्मादयः पदार्थाः ज्ञायेरन् । तदा एतावता• कालेन प्राज्ञैः = तार्किकैः तेषु अतीन्द्रियेषु पदार्थेषु निश्चयः कृतः स्यात्, उत्तरोत्तरतर्कोपचयात् ।।३१।। तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे । प्रायो धर्मा अपि त्याज्याः परमानन्दसम्पदि ।।३२।। तदिति । तत् तस्मात् कुतर्कग्रहः = शुष्कतर्काऽभिनिवेशः त्याज्यो दृष्टिमागमे ददता। परमा-नन्दसम्पदि = मोक्षसुखसम्पत्तौ प्रायो धर्मा अपि क्षायोपशमिकाः क्षान्त्यादयः कतर्कग्रहः सतरां त्याज्य एव । क्वचिदपि ग्रहस्यासमानुष्ठानप्रतिपान्थत्वेनाऽश्रेयस्त्वादिति भावः। क्षायिकव्यवच्छेदार्थं प्रायोग्रहणं । __ तदिदमुक्तं- “न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याऽभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ।। ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्ती धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत ।।" (योगदृष्टिसमुच्चय १४७-१४८) इति ।।३२।। ।।१३।। ।। इति कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ।।२३।। 9. का २३/३२ १. हस्तादर्श '...मिकः' इत्यशुद्धः पाठः । Jain Education Interational Page #419 -------------------------------------------------------------------------- ________________ ॥ अथ सदृष्टिद्वात्रिंशिका ॥२४ ।। अनन्तरमवेद्यसंवेद्यपदजयात् कुतर्कनिवृत्तिर्भवति, सैव च विधेयेत्युक्तं, अथ तत्फलीभूताः सदृष्टीविवेचयन्नाह प्रत्याहारः स्थिरायां स्याद्दर्शन' नित्यमभ्रमम् । तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् ॥१॥ प्रत्याहार इति । स्थिरायां दृष्टौ प्रत्याहारः स्यात् वक्ष्यमाणलक्षणः । तथा निरतिचारायां दर्शनं नित्यं अप्रतिपाति । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुत्कोपाद्यनवबोधकल्पमपि भवति, तथाऽतिचारभावात्, रत्नप्रभायामिव धूल्यादरुपद्रवः । अभ्रमं = भ्रमरहितम् । तथा सूक्ष्मबोधेन समन्वितम् (=सूक्ष्मबोधसमन्वितम्) ।।१।। विषयाऽसम्प्रयोगेऽन्तःस्वरूपाऽनुकृतिः किल । प्रत्याहारो हृषीकाणामेतदायत्तताफलः ।।२।। विषयेति । विषयाणां = चक्षुरादिग्राह्याणां रूपादीनां असंप्रयोगे = तद्ग्रहणाऽऽभिमुख्यत्यागेन स्वरूपमात्राऽवस्थाने सति (=विषयासम्प्रयोगे) अन्तःस्वरूपाऽनुकृतिः = चित्तनिरोधनिरोध्यतासम्पत्तिः किल हृषीकाणां चक्षुरादीनामिन्द्रियाणां प्रत्याहारः । यत ||४१४।। १. हस्तादर्श ...दर्शनां नित्यविभ्रमां' इत्यशुद्धः पाठः । २. हस्तादर्श 'तदुक्ताऽपायाद्य....' इति पाठः । Jain Education Intemational For Private & Personal use only Page #420 -------------------------------------------------------------------------- ________________ उक्तं- “स्वविषयाऽसंप्रयोगे चित्तस्वरूपाऽनुकार इवेन्द्रियाणां प्रत्याहारः” इति (योगसूत्र २-५४) । कीदृशोऽयमित्याह- एतदायत्तताफलः = इन्द्रियवशीकरणैकफलः । अभ्यस्यमाने | हि प्रत्याहारे तथाऽऽयत्तानीन्द्रियाणि भवन्ति यथा बाह्यविषयाऽभिमुखतां नीयमानान्यपि | न यान्तीति । तदुक्तं- “ततः परमा वश्यतेन्द्रियाणामिति” (योगसूत्र २-५५) ।।२।। अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् । त्रपायै भवचेष्टा स्याद् बालक्रीडोपमाऽखिला ॥३॥ अत इति । अतः = प्रत्याहारात् ग्रन्थिविभेदेन विवेकोपेतचेतसां भवचेष्टाऽखिला चक्रवादिसुखरूपाऽपि बालक्रीडोपमा' = बालधुलीगृहक्रीडातुल्या, प्रकृत्यसुन्दरत्वाऽस्थिरत्वाभ्यां त्रपायै स्यात् ।।३।। तत्त्वमत्र परञ्ज्योतिर्जस्वभावकमूर्तिकम् ।। विकल्पतल्पमारूढः शेषः पुनरुपप्लवः ॥४॥ तत्त्वमिति । अत्र = स्थिरायां ज्ञस्वभाव एका मूर्तिर्यस्य तत्तथा (=ज्ञस्वभावकमूर्तिकम्), ज्ञानादिगुणभेदस्याऽपि व्यावहारिकत्वात् । परंज्योतिः आत्मरूपं तत्त्वं परमार्थसत् । शेषः पुनः भवप्रपञ्चो विकल्पलक्षणं तल्पमारूढ (=विकल्पतल्पमारूढः) उपप्लवो भ्रमविषयः, १. हस्तादर्श 'विषया...' इति त्रुटितः पाठः । २. हस्तादर्श 'बाह्यनीयमा...' इत्यशुद्धः त्रुटितः पाठः । ३. हस्तादर्श 'बालक्रीडोपमा' इति पदं द्विरुक्तम् । २४/४ ।।।४१५।। Jain Education Interational Page #421 -------------------------------------------------------------------------- ________________ ।। परिदृश्यमानरूपस्याऽभावात् ।।४ ।। भवभोगिफणाऽऽभोगो भोगोऽस्यामवभासते । 'फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्य-पापयोः।।५।। भवेति । अस्यां = स्थिरायां । भोगः = इन्द्रियार्थसुखसम्बन्धः। भवभोगिफणाभोगः = संसारसर्पफणाटोपः अवभासते, बहुदुःखहेतुत्वात् । नाऽनुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, ततो दारुणदुःखपरम्परेति । ____ 'धर्मप्रभवत्वाद् भोगो न दुःखदो भविष्यती'त्यत्राह- यद् = यस्मात् पुण्य-पापयोः द्वयोः हि फलं अनात्मधर्मत्वात् तुल्यम् । व्यवहारतः सुशीलत्व-कुशीलत्वाभ्यां द्वयोर्विभेदेऽपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाऽविशेषात् ।।५।। धर्मादपि भवन भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताऽशनः ॥६॥ धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ प्रायो = बाहुल्येन अनर्थाय देहिनां, तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माऽऽक्षेपिभोगनिरासार्थ, तस्य प्रमादबीजत्वाऽयोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्य(पुष्ष)शुद्ध्यादावागमाऽभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति। सामान्यतो दृष्टान्तमाह- चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः, दहनस्य १. हस्तादर्श 'फले' इत्यशुद्धः पाठः । २४/६ ।। ४१६॥ Jain Education Interational For Private & Personal use only Page #422 -------------------------------------------------------------------------- ________________ । दाहस्वभावाऽपरावृत्तेः । प्राय एतदेवं, न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृताद्दाहाऽसिद्धेः सकल-लोकसिद्धत्वादिति वदन्ति' । युक्तं चैतन्निश्चयतो येनांशेन ज्ञानादिकं तेनांशेनाऽबन्धनमेव, येन च प्रमादादिकं तेन बन्धनमेव । . सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्याऽपि तदविनाभूतयोग-कषायगतस्योपचारेणैव सम्भवात् । 'इन्द्रियाऽर्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र विस्तरः ।।६।। स्कन्धात्स्कन्धान्तराऽऽरोपे भारस्येव न तात्त्विकी । इच्छाया विरतिभॊगात्तत्संस्काराऽनतिक्रमात् ।।७।। स्कन्धादिति । स्कन्धात् स्कन्धान्तराऽऽरोपे 'भारस्येव भोगात् इच्छाया विरतिर्न तात्त्विकी। तत्संस्कारस्य = कर्मबन्धजनिताऽनिष्टभोगसंस्कारस्याऽनतिक्रमात् (=तत्संस्काराऽनतिक्रमात्) । ____तदतिक्रमो हि प्रतिपक्षभावनया तत्तनूकरणेन स्यात् । न तु विच्छेदेन प्रसुप्ततामात्रेण वेति । इत्थं भोगाऽसारताविभावनेन स्थिरायां स्थैर्यमुपजायते । सत्यामस्यामपरैरपि योगाचारलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तं१. प्राचीनमुद्रितप्रती 'वदति' इत्यशुद्धः पाठः । २. हस्तादर्श 'चैतवः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'इन्द्रियन्त्र विस्तर' इति त्रुटितः पाठः । ४. हस्तादर्श'....वेदित्यन्यत्र' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भाव' इति त्रुटितोऽशुद्धश्च ४१७।। पाठः । For Private & Personal use only Page #423 -------------------------------------------------------------------------- ________________ “अलौल्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ।।१।। (शार्गधरपद्धति-१९०/१) मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरधृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् ।।२।। दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भराधीनिष्पन्नयोगस्य तु चिह्नमेतत् ।।३।।(योगदृष्टिसमु.श्लो.१११ वृत्ति उद्धृत, योगबिन्दुवृत्ति-५५ उद्धृत” इति । इहाऽप्येतदकृत्रिमं गुणजातमित एवाऽऽरभ्य विज्ञेयम् ।।७।। धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् । नाऽन्यमुत् स्थिरभावेन मीमांसा च हितोदया ।।८।। धारणेति । कान्तायां उक्तरीत्या नित्यदर्शनम् । तथा धारणा वक्ष्यमाणलक्षणा अन्येषां प्रीतये भवति । तथा स्थिरभावेन नाऽन्यमुत् = नाऽन्यत्र हर्षः, तदा तत्प्रतिभासाऽभावात् । हितोदया = सम्यग्ज्ञानफला मीमांसा च सद्विचारात्मिका भवति ।।८।। 'देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः । प्रियो भवति भूतानां धर्मेकाग्रमनास्तथा ॥९॥ । १. हस्ताद” 'देशेबंधा' इत्यशुद्धः पाठः । २४/९ ।। ४१८।। Jain Education Interational For Private & Personal use only Page #424 -------------------------------------------------------------------------- ________________ रजक के देशेति । देशे = नाभिचक्र-नासाग्रादौ बन्धो = विषयान्तरपरिहारेण स्थिरीकरणात्मा (=देशबन्धो) हि चित्तस्य धारणा। यदाह- "देशबन्धश्चित्तस्य धारणा"(योगसूत्र ३-१)। ___ तत्र = धारणायां सुस्थितः मैत्र्यादिचित्तपरिकर्मवासिताऽन्तःकरणतया, स्वभ्यस्तयमनियमतया, 'जिताऽऽसनत्वेन परिहृतप्राणविक्षेपतया, प्रत्याहृतेन्द्रियग्रामत्वेन ऋजुकायतया, जितद्वन्द्वतया, सम्प्रज्ञाताऽभ्यासाऽऽविष्टतया च सम्यग्व्यवस्थितः। भूतानां = जगल्लोकानां प्रियो भवति । तथा धर्फकाग्रमना भवति ।।९।। अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः । श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्यथोदितम् ॥१०॥ ___ अस्यामिति । अस्यां कान्तायां 'कायचेष्टाया अन्यपरत्वेऽपि श्रुतधर्मे = आगमे मनोयोगात् = नित्यं मनःसम्बन्धात् आक्षेपकज्ञानाद् = नित्यप्रतिबन्धरूपचित्ताऽऽक्षेपकारिज्ञानात् न भोगा इन्द्रियार्थसम्बन्धा भवहेतवो भवन्ति, चेष्टायाः = प्रवृत्तेः शुद्धेः (=चेष्टाशुद्धेः), मनोर्मल्यात् । यथोदितं हरिभद्रसूरिभिर्योगदृष्टिसमुच्चये ।।१०।। मायाऽम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥११॥ मायाम्भ इति । मायाऽम्भः तत्त्वतो = मायाम्भस्त्वेनैव पश्यन् अनुद्विग्नः ततो १. हस्तादर्श 'जितासत्वेन' इत्यशुद्धः पाठः । २. हस्ताद” 'कायाचे...' इति पाठः । २४/११ ||४१९।। Jain Education Interational For Private & Personal use only Page #425 -------------------------------------------------------------------------- ________________ E how to learn ।। = मायाम्भसो द्रुतं = शीघ्रं तन्मध्येन = मायाम्भोमध्येन प्रयात्येव, न न प्रयाति। यथा | इत्युदाहरणोपन्यासार्थः। व्याघातवर्जितो, मायाम्भसस्तत्त्वेन व्याघाताऽसमर्थत्वात्।।११।। भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुजानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ।।१२।। भोगानिति । भोगान् = इन्द्रियाऽर्थसम्बन्धान स्वरूपतः पश्यन् समारोपमन्तरेण तथा = तेनैव प्रकारेण मायोदकोपमान = असारान् भुञ्जानोऽपि हि कर्माऽऽक्षिप्तान् असङ्गः' सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतयाऽपरवशभावात् ।।१२।। भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढाऽऽवेशस्तेन यातीह कः पथा ।।१३।। का भोगेति । भोगतत्त्वस्य तु = भोगं परमार्थतया पश्यतस्तु (पुनः) न भवोदधिलङ्घनम् । २४/१४॥ मायोदकदृढाऽऽवेशः तथाविपर्यासात् तेन यातीह कः पथा यत्र मायायामुदकबुद्धिः ।।१३।। स तत्रैव भयोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ।।१४।। स इति । स = मायायामुदकदृढाऽऽवेशः तत्रैव पथि भयोद्विग्नः सन् यथा १. हस्तादर्श 'असंगतः' इत्यशुद्धः पाठः । २. हस्तप्रतो मुद्रितप्रतौ च 'भवो...' इति पाठः । परं व्याख्यानुसारेण सन्दर्भानुसारेण च 'भयो..' इति पाठः शुद्धः । ३. मुद्रितप्रती '...दकसमावेश' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'भवो...' इत्यशन्द्रः पाठः । हस्तादर्श 'भयो...' इति शुद्धः पाठः । ॥४२०।। Page #426 -------------------------------------------------------------------------- ________________ I how & to t इत्युदाहरणोपन्यासार्थः तिष्ठत्यसंशयं = तिष्ठत्येव जलबुद्धिसमारोपात्' । (तथा) मोक्षमार्गेऽपि हि ज्ञानादिलक्षणे तिष्ठत्यसंशयं भोगजम्बालमोहितो = भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ।।१४।। धर्मशक्तिं न हन्त्यस्यां भोगशक्तिर्बलीयसीम् । हन्ति दीपापहो वायुर्व्वलन्तं न वानलम् ।।१५।। धर्मशक्तिमिति । अस्यां = कान्तायां कर्माऽऽक्षिप्तत्वेन निर्बला भोगशक्तिः अनवरतस्वरसप्रवृत्तत्वेन बलीयसी धर्मशक्तिं न हन्ति, विरोधिनोऽपि निर्बलस्याऽकिञ्चित्करत्वात् । अत्र दृष्टान्तमाह- दीपाऽपहो = दीपविनाशको वायुर्व्वलन्तं दवानलं न हन्ति । प्रत्युत बलीयसस्तस्य सहायतामेवाऽऽलम्बते । इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्मक्षये भोगशक्तिः सहायतामेवाऽऽलम्बते । ___ न तु निर्बलत्वेन तां विरुणद्धीति । यद्यपि स्थिरायामपि ज्ञानाऽपेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदा(द)शे प्रमादसहकारित्वमपि तेषाम् । कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषाम् । 'गृहिणामप्येवंविधदशायामुपचारतो यतिभाव एव । चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभः । न तु तद्विरोधिपरिणामलेशतोऽपीत्याचार्याणामाशयः ।।१५।। २४/१५ ४२१।। १. मुद्रितप्रतो'...समावेशात्' इति पाठः । २. हस्तादर्श'..यसी शध' इत्यशुद्धः पाठः । १. मुद्रितप्रती 'गृहिणो' इति पाठः । Jain Education Interational Page #427 -------------------------------------------------------------------------- ________________ जर मीमांसा दीपिका चाऽस्यां मोहध्वान्तविनाशिनी । तत्त्वाऽऽलोकेन तेन स्यान्न कदाप्यसमञ्जसम् ॥१६॥ मीमांसेति । मीमांसा = सद्विचारणा दीपिका चाऽस्यां = कान्तायां मोहध्वान्तविनाशिनी= अज्ञानतिमिराऽपहारिणी तत्त्वाऽऽलोकेन = परमार्थप्रकाशेन । तेन कारणेन न कदाप्यसमञ्जसं स्यात् । अज्ञाननिमित्तको हि तद्भाव इति ।।१६।। ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा । वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ॥१७॥ ध्यानेति । (ध्यानसारा =) ध्यानेन सारा = रुचिरा प्रभा, तत्त्वप्रतिपत्त्या यथास्थिताऽऽत्माऽनुभवलक्षणया युता, (=तत्त्वप्रतिपत्तियुता) रुजा वर्जिता, वक्ष्यमाणलक्षणसत्प्रवृत्तिपदाऽऽवहा' च विनिर्दिष्टा ।।१७।। चित्तस्य धारणादेशे प्रत्ययस्यैकतानता । ध्यानं ततः सुखं सारमात्माऽऽयत्तं प्रवर्तते ॥१८॥ चित्तस्येति । चित्तस्य = मनसो धारणादेशे = धारणाविषये प्रत्ययस्यैकतानता विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो = ध्यानम् । यदाह- “तत्र प्रत्ययैकतानता ध्यानं" इति (योगसूत्र ३-२) । ततः = तस्मात् सुखं सारं = उत्कृष्टं आत्माऽऽयत्तं १. हस्तादर्श '...त्तिपदा' इति त्रुटितः पाठः । २४/१८ ।।४२२॥ Jain Education Interational Page #428 -------------------------------------------------------------------------- ________________ 1 = पराऽनधीनं प्रवर्तते ।।१८।। सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुख-दुःखयोः ॥१९॥ सर्वमिति । सर्वं परवशं = पराऽधीनं दुःखम्, तल्लक्षणयोगात् । सर्वमात्मवशं = अपराधीनं सुखम्, अत एव हेतोः। एतदुक्तं मुनिना समासेन' = सङ्क्षपेण लक्षणं = स्वरूपं सुख-दुःखयोः । ___ इत्थं च ध्यानजमेव तत्त्वतः सुखं, न तु पुण्योदयभवमपीत्यावेदितं भवति । तदाह"पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतद् ध्यानजं तात्त्विकं सुखम्।।" (योगदृष्टि-१७३) ।।१९।। ध्यानं च विमले बोधे सदैव हि महात्मनाम् । २४/२० सदा प्रसृमरोऽनघ्र प्रकाशो गगने विधोः ॥२०॥ ___ ध्यानं चेति । विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति, तस्य तन्नियतत्वात्। दृष्टान्तमाह- अनभ्रे = अभ्ररहिते गगने विधोः उदितस्य प्रकाशः सदा प्रसृमरो भवति, तथाऽवस्थास्वाभाव्यादिति ।।२०।। १. मुद्रितप्रतौ 'संक्षेपेण समासेन' इति पाठव्यत्ययः । स च मूलग्रन्थानुसारेणाऽशुद्धः प्रतिभाति । २. हस्तादर्शे 'सुखयोः' इत्यशुद्धः त्रुटितः पाठः । ३. हस्तादर्श 'विरधो' इत्यशुद्धः पाठः । ।।४२३।। Jain Education Interational Page #429 -------------------------------------------------------------------------- ________________ hhoo Photos स दृ ष्टि द्वा शि का २४/२३ सत्प्रवृत्तिपदं चेहाऽसङ्गाऽनुष्ठानसञ्ज्ञितम् । 'संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् ।। २१ ।। सदिति । सत्प्रवृत्तिपदं चेह प्रभायां असङ्गाऽनुष्ठानसंज्ञितं भवति, संस्कारतः प्राच्यप्रयत्नजात् स्वरसतः = इच्छानैरपेक्ष्येण प्रवृत्त्या = प्रकृष्टवृत्त्या मोक्षकारणम् । यथा दृढदण्डनोदनाऽनन्तरमुत्तरश्चक्रभ्रमिसन्तानस्तत्संस्काराऽनुवेधादेव भवति, तथा प्रथमाऽभ्यासाद् ध्यानाऽनन्तरं तत्संस्काराऽनुवेधादेव भवन् । तत्सदृशपरिणामप्रवाहोऽसङ्गाऽनुष्ठानसञ्ज्ञां लभत इति भावार्थः ।। २१ ।। प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाऽध्वेति योगिभिर्गीयते ह्यदः । । २२॥ प्रशान्तेति । प्रशान्तवाहितासनं साङ्ख्यानां विसभागपरिक्षयो बौद्धानां शिववर्त्म शैवानां, ध्रुवाध्वा महाव्रतिकानां इति एवं हि योगिभिः अदः = = अऽसङ्गाऽनुष्ठानं गीयते ||२२|| प्रशान्तवाहिता वृत्तेः संस्कारात् स्यान्निरोधजात् । प्रादुर्भाव-तिरोभावौ तद्व्युत्थानजयोरयम् ।।२३।। १. हस्तादर्श 'संस्कार' इति त्रुटितः पाठः । २ मुद्रितप्रतौ 'भवन्' इति पदं नास्ति । ३. मुद्रितप्रतौ 'भावाथ' इति त्रुटितः पाठः । ।।४२४।। Page #430 -------------------------------------------------------------------------- ________________ स how d has to ष्टि द्वा त्रिं शि का २४/२४ = प्रशान्तेति । प्रशान्तवाहिता = परिहृतविक्षेपतया सदृशप्रवाहपरिणामिता वृत्तेः वृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् । तदाह- "तस्य प्रशान्तवाहिता संस्कारात्” ( योगसूत्र ३ - १० ) । कोऽयं निरोध एवेत्यत आह- तद्व्युत्थानजयोः = निरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भाव-तिरोभावौ = वर्तमानाऽध्वाऽभिव्यक्ति-कार्यकरणाऽसामर्थ्याऽवस्थानलक्षण अयं निरोधः । चलत्वेऽपि गुणवृत्तस्योत्तोभयक्षण' वृत्तित्वाऽन्वयेन चित्तस्य तथाविधस्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् । तदुक्तं- “व्युत्थान-निरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्ताऽन्वयो निरोधपरिणामः” इति ( योगसूत्र ३ - ९ ) ।।२३।। सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ । तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह । । २४ ॥ = सर्वार्थतेति । सर्वार्थता = चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः, एकाग्रता = एकस्मिन्नेवाऽऽलम्बने * सदृशपरिणामिता तयोः (= सर्वार्थतैकाग्रतयोः) क्षयोदयौ तु अत्यन्ताभिभवाभिव्यक्तिलक्षणौ समाधिः = उद्रिक्तसत्त्वचित्ताऽन्वयितयाऽवस्थितः समाधिपरिणामोऽभिधीयते । यदुक्तं- “सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः" इति ( योगसूत्र ३ - ११) । पूर्वत्र विक्षेपस्याऽभिभवमात्रं, इह त्वत्यन्ताऽभिभवोऽनुत्पत्तिरूपोऽतीताऽध्वप्रवेश इत्यनयोर्भेदः । १. सर्वत्र मुद्रितप्रती ...भयक्षयवृ...' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सर्वातै' इत्यशुद्धः पाठः । ३. हस्तादर्शे .. नेलंबन' इत्यशुद्धः पाठः । ।।४२५ ।। Page #431 -------------------------------------------------------------------------- ________________ thura has de स ष्टि द्वा शि का २४/२४ इह = अधिकृतदर्शने तुल्यौ = एकरूपाऽऽलम्बनत्वेन सदृशौ शान्तोदितौ अतीताऽध्वप्रविष्टवर्तमानाऽध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता उच्यते समाहितचित्ताऽन्वनि । तदुक्तं - " शान्तोदितौ हि तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः " ( योगसूत्र ३ - १२) | न चैवमन्वयव्यतिरेक`वद्वस्त्वसम्भवः, यतोऽन्यत्राऽपि धर्म - लक्षणाऽवस्थापरिणामा दृश्यन्ते । तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्माऽऽपत्तिर्धर्मपरिणामः । यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षणपरिणामश्च यथा तस्यैव घटस्याऽनागताऽध्वपरित्यागेन वर्तमानाऽध्वस्वीकारः, तत्परित्यागेन वाऽतीताऽध्वपरिग्रहः । अवस्था - परिणामश्च यथा तस्य एव घटस्य प्रथम - द्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन । चलगुणवृत्तीनां गुणपरिणमनं * धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्ववद् 'अव्यपदेश्येषु धर्मेषु कथञ्चिद्भिन्नेष्वन्वयी दृश्यते । यथा पिण्ड - घटादिषु मृदेव प्रतिक्षणमन्याऽन्यत्वाद्विपरिणामाऽन्यत्वम् । तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते, यथा सुखादयः संस्थानादयो वा । केचिच्चाऽनुमानगम्याः, यथा कर्म - संस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाऽभिन्नरूपतया सर्वत्राऽनुगम इति न काचिदनुपपत्तिः । तदिदमुक्तं - " एतेन भूतेन्द्रियेषु धर्म-लक्षणाऽवस्थापरिणामा व्याख्याताः ( योगसूत्र ३ -१३ ) ” शान्तोदिताऽव्यपदेश्यधर्माऽनुपाती १. 'हि' पदं योगसूत्रे साम्प्रतं नोपलभ्यते । २. मुद्रितप्रतौ '... रेकवस्तु...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'एव' नास्ति । ४. मुद्रितप्रतौ '..णामनं' इति पाठः । ५. मुद्रितप्रतौ ' सर्वात्मकत्वव्यपदेशे...' इत्यशुद्धः पाठः । ६. मुद्रितप्रती '...नुपत्ति' इति त्रुटितोऽशुद्धश्च पाठः । ।।४२६ ।। Page #432 -------------------------------------------------------------------------- ________________ E_hoot ।। धर्मी (योगसूत्र ३-१४) “क्रमाऽन्यत्वं परिणामाऽन्यत्वे हेतुरिति (यो .सू.३-१५)”।।२४।। । अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः । ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ।।२५।। ___ अस्यामिति । अस्यां = प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति = साधयति । ततश्चेयं प्रभा सत्प्रवृत्ति पदावहा विनिर्दिष्टा, सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः ।।२५।। समाधिनिष्ठा तु परा तदाऽऽसङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाऽऽशयेति च ॥२६॥ समाधीति । परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता । तदाऽऽसङ्गेन २४/२७ समाध्यासङ्गेन विवर्जिता (=तदासगविवर्जिता) । सात्मीकृतप्रवृत्तिश्च = सर्वांगीणैकत्वपरिणतप्रवृत्तिश्च चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा 'विशुद्ध्या प्रवृत्तिवासकचित्ताऽभावेन ।।२६।। स्वरूपमात्रनिर्भासं समाधिानमेव हि । 11४२७॥ विभागमनतिक्रम्य परे ध्यानफलं विदुः ॥२७॥ १. मुद्रितप्रती .....त्तिपादव...' इत्यशुद्धः पाठः । २. हस्तादर्श 'विधा' इत्यशुद्धः पाठः । ३. पाटणहस्तादर्श अस्यां द्वात्रिंशिकायां १३तः २७ पर्यन्ताः कारिकाः न सन्ति । Jain Education Interational For Private & Personal use only Page #433 -------------------------------------------------------------------------- ________________ स 开ㄛK百科全 दृ ष्टि द्वा त्रिं शि का २४/२९ स्वरूपेति । स्वरूपमात्रस्य = 'ध्येयस्वरूपमात्रस्य निर्भासो यत्र तत्तथा - स्वरूपमात्रनिर्भासं) अर्थाकारसमावेशेन भूताऽर्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यताऽऽपत्तेः ध्यानमेव हि समाधिः । तदुक्तं- “ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति ( योगसूत्र ३ - ३ ) । विभागं अष्टाङ्गो योग इति प्रसिद्धं अनतिक्रम्यं = अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति विदुः ||२७|| निराचारपदो ह्यस्यामतः स्यान्नाऽतिचारभाक् । चेष्टा चाऽस्याखिला भुक्तभोजनाऽभाववन्मता ।। २८ ।। निराचारेति । अस्यां दृष्टौ (हि) योगी नाऽतिचारभाक् स्यात्, तन्निबन्धनाऽभावात् । अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य = एतद्दृष्टिमतः अखिला भुक्त भोजनाऽभाववन्मता आचारजेयकर्माऽभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् ।। २८ ।। कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह 'रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा । फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते ।। २९ ।। 1 रत्नेति' । रत्नशिक्षादृशोऽन्या ( = रत्नशिक्षादृगन्या) हि यथा शिक्षितस्य सतः १. हस्तादर्शे 'ध्येयस्वरूपमात्रस्य' इति पदं नास्ति । २. पाटणभाण्डागारीयहस्तादर्शेऽत्र '.... ग्यग्भूतपतया च ज्ञान... ' इति त्रुटितः पाठः । ३. मुद्रितप्रती '...क्रमाद्य...' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'रत्नशिष्या' इत्यशुद्धः पाठः । ५.. हस्तादर्शे 'रत्नेति' इति पदं नास्ति । ।।४२८ ।। Page #434 -------------------------------------------------------------------------- ________________ तन्नियोजनदृक्, तथाऽऽचारक्रियाऽप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते । पूर्वं हि || साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति ।।२९।। कृतकृत्यो यथा रत्लनियोगाद्रत्नविद् भवेत् । तथाऽयं धर्मसंन्यासविनियोगान्महामुनिः ।।३०।। कृतकृत्य इति । यथा (रत्ननियोगात्=) रत्नस्य नियोगात्' = शुद्धदृष्ट्या यथेच्छं व्यापाराद् रत्नविद् = रत्नवाणिज्यकारी कृतकृत्यो भवेत् । तथा अयं = अधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयाऽपूर्वकरणे महामुनिः कृतकृत्यो भवति ।।३०।। केवलश्रियमासाद्य सर्वलब्धिफलाऽन्विताम् । ___ परं परार्थं सम्पाद्य ततो योगाऽन्तमश्नुते ।।३१।। केवलेति । केवलश्रियं = केवलज्ञानलक्ष्मी आसाद्य = प्राप्य सर्वलब्धिफलाऽन्वितां सर्वोत्सुक्यनिवृत्त्या परं परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगाऽन्तं = योगपर्यन्तं अश्नुते = प्राप्नोति ।।३१।। तत्राऽयोगाद्योगमुख्याद् भवोपग्राहिकर्मणाम् । ||४२९।। १. हस्तादर्श 'विनियोगात्' इति पाठः । स चार्थतः शुद्धः । २. मुद्रितप्रतौ 'यथेच्छव्यापा...' इति पाठः । ३. मुद्रितप्रतौ ....पाराद्विणिग्...' इत्यशुद्धः पाठः । हस्तादर्श च ...पाराद्वणिग्' इति पाठः । परं मूलानुसारेणात्र '...पाराद् रत्नविद्' इति पाठः शुद्धः प्रतिभातीति कृत्वाऽत्र गृहीतः ।। २४/३१ Jain Education Interational For Private & Personal use only Page #435 -------------------------------------------------------------------------- ________________ क्ले श hot 5 who do क हा नो पा य द्वा त्रिं शि का २५/१ क्षयं कृत्वा 'प्रयात्युच्चैः परमानन्दमन्दिरम् ।। ३२ ।। तत्रेति । तत्र = योगाऽन्ते शैलेश्यवस्थायां अयोगाद् = अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां (=भवोपग्राहिकर्मणां ) क्षयं कृत्वा उच्चैः = लोकान्ते परमानन्दमन्दिरं प्रयाति ||३२|| ।। इति सदृष्टिद्वात्रिंशिका ||२४|| ।। अथ क्लेशहानोपायद्वात्रिंशिका ।। २५ ।। सदृष्टिनिरूपणाऽनन्तरं ज्ञानक्रियामिश्रतयैवैताः क्लेशहानोपायभूता भवन्ति नाऽन्यथेति विवेचयन्नाह ज्ञानं च सदनुष्ठानं सम्यक् सिद्धान्तवेदिनः । क्लेशानां कर्मरूपाणां हानोपायं प्रचक्षते ॥१॥ ज्ञानं चेति । सज्ज्ञानं सदनुष्ठानं च सम्यग् = अवैपरीत्येन सिद्धान्तवेदिनः कर्मरूपाणां क्लेशानां हानोपायं = त्यागसामग्रीं प्रचक्षते = प्रकथयन्ति “संजोगसिद्धीइ फलं वयंति' ( आवश्यक निर्युक्ति १०२ ) इत्यादिग्रन्थेन || १ || नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । १. हस्तादर्शे ' प्रसात्यु....' इत्यशुद्धः पाठः । ।।४३० ।। Page #436 -------------------------------------------------------------------------- ________________ 'क्लेशप्रहाणमिच्छन्ति सर्वथा तर्कवादिनः ॥२॥ नैरात्म्येति । नैरात्म्यदर्शनात् = सर्वत्रैवात्माऽभावाऽवलोकनात् अन्ये = बौद्धा || निबन्धनवियोगतो = निमित्तविरहात् क्लेशप्रहाणं = तृष्णाहानिलक्षणं इच्छन्ति सर्वथा = सर्वैः प्रकारैः तर्कवादिनः, न तु शास्त्राऽनुसारिणः ।।२।। एते एव स्वमतं पुरस्कर्तुमाहुः समाधिराज एतच्च तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्येतत्तदेतदमृतं परम् ॥३॥ ___ समाधिराज इति । समाधिराजः सर्वयोगाऽग्रेसरत्वात् एतच्च = नैरात्म्यदर्शनम् । तदेतत्तत्त्वदर्शनं परमार्थाऽवलोकनतः, आग्रहच्छेदकारि = मूर्छाविच्छेदकं एतत्, तदेतदमृतं = पीयूषं परं = भावरूपम् ।।३।। जन्मयोनिर्यतस्तृष्णा ध्रुवा सा चाऽऽत्मदर्शने । तदभावे च नेयं स्याद् बीजाऽभाव इवाऽङ्कुरः ।।४।। जन्मेति। यद् (? यतः) = यस्मात् तृष्णा लोभलक्षणा जन्मयोनिः पुनर्भवहेतुः । ॥ ध्रुवा = निश्चिता सा च = तृष्णा आत्मदर्शने = अहमस्मीति निरीक्षणरूपे । तदभावे २५/४11 = आत्मदर्शनाऽभावे च । नेयं = तृष्णा स्यात् । अङ्कुर इव बीजाऽभावे ।।४।। ।।४३१।। न ह्यपश्यन्नहमिति स्निह्यत्यात्मनि कश्चन । । १. हस्तादर्श 'क्लेशहाण' इति त्रुटितः पाठः । २. मुद्रितप्रती - (अ) त - इत्यशुद्धः पाठः । Jain Education Interational Page #437 -------------------------------------------------------------------------- ________________ श he F who d d हा पा य द्वा त्रिं शि का २५/७ न चाssत्मनि विना प्रेम्णा सुखहेतुषु धावति ।।५।। = न हीति । न नैव हिः = यस्मात् अपश्यन् = अनिरीक्षमाणः अहमिति उल्लेखेन स्निह्यति = स्नेहवान् भवति आत्मनि विषयभूते कश्चन = बुद्धिमान् । न चात्मनि प्रेम्णा' विना सुखहेतुषु धावत प्रवर्तते कश्चन । तस्मादात्मदर्शनस्य वैराग्यप्रतिपन्थित्वाद् नैरात्म्यदर्शनमेव मुक्तिहेतुरिति सिद्धम् ।। ५ ।। एतद्दूषयतिनैरात्म्याऽयोगतो नैतदभाव- क्षणिकत्वयोः । = आद्यपक्षेऽविचार्यत्वाद्धर्माणां धर्मिणं विना ॥६॥ नैरात्म्येति । एतत् = अन्येषां मतं न युक्तम् । अभाव- क्षणिकत्वयोः 'अर्थादात्मनो विकल्प्य ́मानयोः सतोः नैरात्म्याऽयोगतः । आद्यपक्षे = आत्मनोऽभावपक्षे धर्मिणम् = आत्मानं विना धर्माणां = सदनुष्ठान-मोक्षादीनाम् अविचार्यत्वात् = विचाराऽयोग्यत्वात् । न हि वन्ध्यासुताऽभावे तद्गतान् सुरूप- कुरूपत्वादीन् विशेषांश्चिन्तयितुमारभते कश्चिदिति ।।६।। "वक्त्राद्यभावतश्चैव कुमारीसुतबुद्धि । विकल्पस्याऽप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् ॥७॥ १. हस्तादर्श 'प्रेम्भा' इत्यशुद्धः पाठः । २ हस्तादर्शे 'वैराग्यदर्शनमेव...' इति त्रुटितः पाठः । ३. 'अर्थादात्मना ' इति मुद्रितप्रतावशुद्धः पाठः । ४. 'विकल्पमा..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'वक्रादीनां' इत्यशुद्धः पाठः । ।।४३२ ।। Page #438 -------------------------------------------------------------------------- ________________ he Fs वक्त्रादीति । वक्त्रादीनां नैरात्म्यप्रतिपादकतद्रष्ट्रादीनामभावतः (= वक्त्राद्यभावतः) चैव । आद्यपक्षे नैरात्म्याऽयोगतो नैतदिति सम्बन्धः । ज्ञानवादिमते त्वाह= अकृत-विवाहस्त्रीपुत्रज्ञानवत् विकल्पस्याऽपि = प्रतिपादकादिगतस्य स्थितं वस्तु विना वक्तुमशक्यत्वात् । कुमारीसुतबुद्धिरपि हि प्रसिद्धयोः कुमारी-सुतपदार्थयोः सम्बन्धमेवाऽऽरोपितमवगाहते । प्रकृते त्वात्मन एवाऽभावात्तत्प्रतिपादकादिव्यपदेशो निर्मूल एव, क्वचित्प्रमितस्यैव क्वचिदारोप्यत्वात । ____ इत्थं च- “यथा कुमारी स्वप्नान्तरेऽस्मिन् जातं च पुत्रं विगतं च पश्येत् । जाते च हृष्टाऽपगते विषण्णा तथोपमान् जानत सर्वधर्मान् ।।" ( ) इत्यादि परेषां शास्त्रमपि संसाराऽसारताऽर्थवादमात्र-परत यैवोपयुज्यते इति द्रष्टव्यम् ।।७।। द्वितीयेऽपि क्षणादूर्ध्वं नाशादन्याऽप्रसिद्धितः । अन्यथोत्तरकार्याङ्गभावाऽविच्छेदतोऽन्वयात् ।।८।। द्वितीयेऽपीति । द्वितीयेऽपि पक्षे नैरात्म्याऽयोगतो नैतदिति सम्बन्धः । क्षणादूर्ध्व क्षणिकस्याऽऽत्मनो नाशात् अन्यस्याऽनन्तरक्षणस्याऽप्रसिद्धितः (=अन्याऽप्रसिद्धितः) आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः । अन्यथा = भावादेव भावाऽभ्युपगमे उत्तरकार्यं प्रत्यङ्गभावेन = परिणामिभावेन अविच्छेदतः (=उत्तरकार्यागभावाऽविच्छेदतः) अन्वयात् = १. हस्तादर्श ....मात्रपरय...' इति त्रुटितोऽशुद्धश्च पाठः । २५/८ ।।४३३।। Jain Education Interational For Private & Personal use only Page #439 -------------------------------------------------------------------------- ________________ The EF पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्य तथापरिणमने क्षणद्वयाऽनुवृत्तिध्रौव्यात् । सर्वथाऽसतः खरविषाणादेरिवोत्तरभावपरिणमनशक्त्यभावात् सदृशक्षणान्तरसामग्रीसम्पत्तेः 'अतियोग्यताऽवच्छिन्नशक्त्यैवोपपत्तेरिति ।।८।। किं च क्षणिको ह्यात्माऽभ्युपगम्यमानः स्वनिवृत्तिस्वभावः स्यात्, उताऽन्यजननस्वभावः, उताहो उभयस्वभावः ? इति त्रयी गतिः, तत्राऽऽद्यपक्षे आह स्वनिवृत्तिस्वभावत्वे न क्षणस्याऽपरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता ।।९।। ___ स्वनिवृत्तीति । स्वनिवृत्तिस्वभावत्वे क्षणस्य = आत्मक्षणस्य अभ्युपगम्यमाने न अपरोदयः = सदृशोत्तरक्षणोत्पादः स्यात्, पूर्वक्षणस्योत्तरक्षणजननाऽस्वभावत्वात् । द्वितीये त्वाह- अन्यजन्मस्वभावत्वे = सदृशाऽपरक्षणोत्पादकस्वभावत्वे स्वनिवृत्तिरसङ्गता, तदजननस्वभावत्वादेव ।।९।। तृतीये त्वाह उभयैकस्वभावत्वे न विरुद्धोऽन्वयोऽपि हि । न च त तुकः स्नेहः किं तु कर्मोदयोद्भवः ।।१०।। उभयेति । उभयैकस्वभावत्वे = स्वनिवृत्ति-सदृशाऽपरक्षणोभयजननैकस्वभावत्वे अन्वयोऽपि १. हस्तादर्श 'रवियो...' इत्यशुद्धः पाठः । २. हस्तादर्श अत्र 'निवृत्तीति' इत्यधिक: पाठः सम्पातायातः । ३. हस्तादर्श 'उभयेति' इति नास्ति । २५/१० ४३४।। Jain Education Interational Page #440 -------------------------------------------------------------------------- ________________ क्ले श हा hot 5 ho to पा य द्वा त्रिं शि का २५/११ हि न विरुद्धः । यदेव किञ्चिन्निवर्तते तदेवाऽपरक्षणजननस्वभावमिति शब्दार्थाऽन्यथानुपपत्त्यैवाऽन्वयसिद्धेः, उक्तोभयैकस्वभावत्ववत्पूर्वाऽपरकालसम्बन्धैकस्वभावत्वस्याऽप्यविरोधात् । इत्थमेव प्रत्यभिज्ञा-क्रियाफलसामानाधिकरण्यादीनां निरुपचरितानामुपपत्तेरिति निर्लोठितमन्यत्र । न च तद्धेतुकः = आत्मदर्शनहेतुकः स्नेहः किं तु कर्मोदयोद्भवो = मोहनीयकर्मोदयनिमित्तकः । अतो नाऽयमात्मदर्शनाऽपराध इति भावः || १० || ननु यद्यप्यात्मदर्शनमात्रनिमित्तको न स्नेहः, क्षणिकस्याप्यात्मनः स्वसंवेदनप्रत्यक्षेण समवलोकनात्तदुद्भवप्रसङ्गात् किं तु ध्रुवाऽऽत्मदर्शनतो नियत एव स्नेहोद्भवस्तद्गताऽऽगामिकालसुख-दुःखाऽवाप्तिपरिहारचिन्ताऽऽवश्यकत्वादित्यत्राह ध्रुवेक्षणेऽपि न प्रेम, निवृत्तमनुपप्लवात् । ग्राह्याssकार इव ज्ञानेऽन्यथा तत्राऽपि तद् भवेत् ।। ११ ।। ध्रुवेक्षणेऽपीति । ध्रुवेक्षणेऽपि = ध्रुवात्मदर्शनेऽपि न प्रेम समुत्पत्तुमुत्सहते, निवृत्तं उपरतं 'अनुपप्लवात् = संक्लेशक्षयात् विसभागपरिक्षयाऽभिधानात् ज्ञाने ग्राह्याऽऽकार इव भवन्मते । उपप्लववशाद्धि तत्र तदवभासस्तदभावे तु तन्निवृत्तिरिति । तथा च सिद्धान्तो वः- “ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयाऽपि शून्यम् । तथापि च ज्ञानमयः प्रकाशः, प्रत्यक्षरूपस्य तथाविरासीत् ।। " ( ) इति । ... चिह्नद्वमध्यवर्ती पाठो हस्तादर्शे नास्ति । १. मुद्रितप्रती 'उपप्ल...' इत्यशुद्धः पाठः । = ।।४३५।। Page #441 -------------------------------------------------------------------------- ________________ The Fodh अन्यथा = उपप्लवं विनाऽपि ध्रुवाऽऽत्मदर्शनेन प्रेमोत्पत्त्यभ्युपगमे तत्राऽपि त्वन्मतप्रसिद्धाऽऽत्मन्यपि तत् = प्रेम भवेत्, आत्मदर्शनमात्रस्यैव लाघवेन प्रेमहेतुत्वात् । 'ध्रुवत्वभानमेव मोहादिति तु स्ववासनामात्रमिति न किञ्चिदेतत् ।।११।। विवेकख्यातिरुच्छेत्री क्लेशानामनुपप्लवा' । सप्तधा प्रान्तभूप्रज्ञा कार्यचित्तविमुक्तिभिः ।।१२।। विवेकेति । विवेकख्यातिः = प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाऽभिमानाया रजस्तमोमलाऽनभिभूताया बुद्धेरन्तर्मुखायाश्चिच्छायासंक्रान्तिः अनुपप्लवा = अन्तराऽन्तरा व्युत्थानरहिता क्लेशानां उच्छेत्री। यदाह- "विवेकख्यातिरविप्लवा हानोपायः" (योगसूत्र-२-२६)। ___ सा च सप्तधा = सप्तप्रकारैः प्रान्तभूप्रज्ञा = सकलसालम्बनसमाधिपर्यन्तभूमिधीभवति कार्यचित्तविमुक्तिभिः चतुस्त्रिप्रकाराभिः । तत्र (१) 'न मे ज्ञातव्यं किञ्चिदस्ति, (२) क्षीणा मे क्लेशाः, न मे क्षेतव्यं किञ्चिदस्ति, (३) अधिगतं मया 'ज्ञानं, (४) 'प्राप्ता विवेकख्याति'रिति कार्यविषयनिर्मलज्ञानरूपाश्चतस्रः कार्यविमुक्तयः ।। ||४३६।। २५/१२ १. मुद्रितप्रतौ 'ध्रुवत्वभावनमेव...' इत्यशुद्धः पाठः । २. हस्तादर्श ....पलवा' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ "...गतं(ता) मया हानप्राप्तविवेक...” इत्यशुद्धः पाठः । ४. हस्तादर्शऽपि ....हानप्राप्ता...' इत्यशुद्धः पाठः । राजमार्तण्डानुसारेणास्माभिरत्राऽपेक्षितः पाठो योजितः । ५. हस्तादर्शन्तरे 'हानध्वमाविवे...' इत्यशुद्धः पाठः । Page #442 -------------------------------------------------------------------------- ________________ (१) 'चरितार्था मे बुद्धिः', गुणाः हृताऽधिकारा मोहबीजाऽभावात् कुतोऽमीषां प्ररोहः?, (२) सात्मीभूतश्च मे समाधिरिति, (३) स्वरूपप्रतिष्ठोऽहमिति गुणविषयज्ञानरूपास्तिस्रः चित्तविमुक्तय इति । तदिदमुक्तं- "तस्य सप्तधा प्रान्तभू(मिः)प्रज्ञेति" (योगसूत्र २-२७) ।।१२॥ बलान्नश्यत्यविद्याऽस्या उत्तरेषामियं पुनः । प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते ॥१३॥ बलादिति । अस्याः = विवेकख्यातेः बलादविद्या नश्यति । इयम् = अविद्या पुनरुत्तरेषाम् = अस्मितादीनां क्लेशानां प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते । तदुक्तं'अविद्या क्षेत्रमुत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणामिति" (योगसूत्र २-४) ।।१३।। . स्वकार्यं नाऽऽरभन्ते ये चित्तभूमौ स्थिता अपि । विना प्रबोधकबलं ते प्रसुप्ताः शिशोरिव ।।१४।। स्वकार्यमिति। ये = क्लेशाः चित्तभूमौ स्थिता अपि स्वकार्यं नाऽऽरभन्ते विना (प्रबोधकबलं =) प्रबोधकस्योद्बोधकस्य बलं = उद्रेकं ते = क्लेशाः प्रसुप्ताः शिशोरिव = बालकस्येव ।।१४।। १. मुद्रितप्रतौ 'बुद्धिगुणा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तादर्श च 'बुद्धिगुणाः कृताधिकारा' इत्यशुद्धः | पाठः । अस्माभिस्तु राजमार्तण्डानुसारेणाऽपेक्षितः पाठो योजितः। ३. हस्तादर्श 'कार्यवि....' इत्यशुद्धः पाठः । 11४३७॥ २५/१४ Page #443 -------------------------------------------------------------------------- ________________ भावनात्प्रतिपक्षस्य शिथिलीकृतशक्तयः । तनवोऽतिबलाऽपेक्षा योगाऽभ्यासवतो यथा ।।१५।। भावनादिति । भावनात् = अभ्यासात् प्रतिपक्षस्य = स्वविरोधि परिणामलक्षणस्य शिथिलीकृता कार्यसम्पादनं प्रति शक्तिर्येषां ते (=शिथिलीकृतशक्तयः) तथा, तनवो = वासनाऽवरोधतया चेतस्यवस्थिताः, न तु बालस्येवाऽनवरुद्धवासनात्मना। अतिबलाऽपेक्षाः = स्वकार्याऽऽरम्भे प्रभूतसामग्रीसापेक्षाः, न तूद्बोधकमात्राऽपेक्षाः । योगाऽभ्यासवतो यथा रागादयः क्लेशाः ।।१५।। अन्येनोच्चैर्बलवताऽभिभूतस्वीयशक्तयः । तिष्ठन्तो हन्त विच्छिन्ना रागो द्वेषोदये यथा ॥१६।। __ अन्येनेति । अन्येन = स्वाऽतिरिक्तेन उच्चैर्बलवता = अतिशतियबलेन क्लेशेन । अभिभूतस्वीयशक्तयस्तिष्ठन्तो हन्त विच्छिन्नाः क्लेशा उच्यन्ते यथा रागो द्वेषोदये । न ॥ हि राग-द्वेषयोः परस्परविरुद्धयोर्युगपत्सम्भवोऽस्तीति ।।१६।। का सर्वेषां सन्निधिं प्राप्ता उदाराः सहकारिणाम् । २५/१७ निवर्तयन्तः स्वं कार्यं यथा व्युत्थानवर्तिनः ॥१७॥ सर्वेषामिति । सर्वेषां सहकारिणां सन्निधिं = सन्निकर्ष प्राप्ताः स्वं कार्यं निवर्तयन्त १. मुद्रितप्रतिषु- 'स्वविरोधप...' इति पाठः । २. हस्तादर्श 'अशिय...' इत्यशुद्धः पाठः । ४३८॥ Jain Education Interational For Private & Personal use only Page #444 -------------------------------------------------------------------------- ________________ ।। उदारा उच्यन्ते । यथा व्युत्थानवर्तिनो' = योगप्रतिपन्थिदशाऽवस्थिताः ।।१७।। अविद्या चाऽस्मिता चैव रागद्वेषो तथाऽपरौ । पञ्चमोऽभिनिवेशश्च क्लेशा एते प्रकीर्तिताः ॥१८॥ अविद्या चेति । क्लेशानां विभागोऽयम् । तदुक्तं- “अविद्याऽस्मिता-राग-द्वेषाऽभि| निवेशाः क्लेशा इति” (योगसूत्र २-३) ।।१८।। विपर्यासाऽऽत्मिकाऽविद्याऽस्मिता दृग्दर्शनैकता । रागस्तृष्णा सुखोपाये द्वेषो दुःखाऽङ्गनिन्दनम् ।।१९।। विपर्यासाऽऽत्मिकेति। विपर्यासः = अतस्मिंस्तद्ग्रहः२ तदात्मिका (=विपर्यासाऽऽत्मिका) अविद्या । यथाऽनित्येषु घटादिषु नित्यत्वस्य, अशुचिषु कायादिषु शुचित्वस्य, दुःखेषु विषयेषु सुखरूपस्य, अनात्मनि च शरीरादावात्मत्वस्य अभिमानः । तदुक्तं“अनित्याऽशुचि-दुःखाऽनात्मसु नित्य-शुचि-सुखात्मख्यातिरविद्येति” (योगसूत्र २-५)। दृग्दर्शनयोः = पुरुषरजस्तमोऽनभिभूतसात्त्विकपरिणामयोः भोक्तृभोग्यत्वेनाऽवस्थितयोरेकता (=दृग्दर्शनैकता) = अस्मिता । तदुक्तं-• "दृग्दर्शनशक्त्योरेकात्मते वाऽस्मिता" (योगसूत्र २५/१९) १. हस्तादर्श'...नुवर्तिन' इत्यशुद्धः पाठः । २. हस्तादर्श 'तहः' इत्यशुद्धः त्रुटितश्च पाठः । ३. मुद्रितप्रतौ ...त्मतैवाऽस्मिता' इत्यशुद्धः पाठः । ४, हस्तादर्श '...स्मिते' इत्यशुद्धः पाठः । ..... चिनिद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ।।।४३९।। Jain Education Interational For Private & Personal use only Page #445 -------------------------------------------------------------------------- ________________ सुखोपाये = सुखसाधने तृष्णा सुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामः = रागः। तदुक्तं 'सुखानुशयी रागः' (योगसूत्र २/७) इति । दुःखाङ्गानां = दुःखकारणानां निन्दनं = दुःखाऽभिज्ञस्य तदनुस्मृतिपूर्वकं विगर्हणं (=दुःखाऽङ्गनिन्दन) = द्वेषः । यत उक्तं- "दुःखानुशयी द्वेषः” इति (योगसूत्र २-८) ।।१९।। विदुषोऽपि तथारूढः सदा स्वरसवृत्तिकः । शरीराद्यवियोगस्याऽभिनिवेशोऽभिलाषतः ॥२०॥ विदुषोऽपीति । विदुषोऽपि = पण्डितस्याऽपि तथारूढः = पूर्वजन्माऽनुभूतमरणदुःखाऽनुभववासनाबलाद् भयरूपः समुपजायमानः शरीरादीनामवियोगस्य (=शरीराद्यवियोगस्य) अभिलाषतः 'शरीरादिवियोगो मे मा भूदि'त्येवंलक्षणात् अभिनिवेशो भवति । सदा = निरन्तरं स्वरसवृत्तिकः = अनिच्छाऽधीनप्रवृत्तिकः । तदुक्तं- “स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः” इति (योगसूत्र २-९) ।।२०।। एभ्यः कर्माशयो दृष्टाऽदृष्टजन्माऽनुभूतिभाक् । तद्विपाकश्च जात्यायु गाऽऽख्यः सम्प्रवर्तते ।।२१॥ एभ्य इति । एभ्यः = उक्तेभ्योऽविद्यादिभ्यः क्लेशेभ्यः कर्माशयो भवति । दृष्टाऽदृष्टजन्म- १. मुद्रितप्रतौ 'दुःखाभाव...' इत्यशुद्धः पाठः । २. मुद्रिप्तप्रतौ हस्तादर्श च '.बलाद्भूयः समु...' इत्यशुद्धः पाठः । परं स चाशुद्धः । अस्माभिः राजमार्तण्डानुसारेणाऽत्राऽपेक्षितः पाठो योजितः । ३. हस्तादर्श 'कर्माऽप्रिये' इत्यशुद्धः पाठः । को २५/२१॥ ४४० ।। Jain Education Interational For Private & Personal use only Page #446 -------------------------------------------------------------------------- ________________ ।। नोरनुभूति' भजति यः स (= दृष्टाऽदृष्टजन्मानुभूतिभाक्) तथा, तद्विपाकः = कर्मविपाकः || च जात्यायु गाख्यः सम्प्रवर्तते निरूपिततत्त्वमेतत् ।।२१।। परिणामाच्च तापाच्च संस्काराद् द्विविधोऽप्ययम् । गुणवृत्तिविरोधाच्च हन्त दुःखमयः स्मृतः ॥२२॥ परिणामाच्चेति । अयं कर्मविपाको दुःखाऽऽलादफलत्वेन द्विविधोऽपि 'ते लादपरितापफला' (योगसूत्र २-१४) इत्यत्र तच्छब्दपरामृष्टानां जात्यायु गानां द्वैविध्यश्रवणात् । परिणामाच्च = यथोत्तरं गर्भाऽभिवृद्धस्तदप्राप्ति कृतदुःखाऽपरिहारलक्षणाद् दुःखान्तरजननलक्षणाच्च । तापाच्च उपभुज्यमानेषु सुखसाधनेषु सुखाऽनुभवकालेऽपि सदावस्थिततत्प्रतिपन्थिद्वेषलक्षणात् । संस्कारात् च अभिमताऽनभिमतविषयसन्निधाने सुख-दुःखसंविदोरुपजायमानयोः स्वक्षेत्रे तथाविधसंस्कारतथाविधाऽनुभवपरम्परया संस्काराऽनुच्छेदलक्षणात् ।। गुणवृत्तिविरोधाच्च गुणानां = सत्त्वरजस्तमसां वृत्तीनां = सुख-दुःख-मोहरूपाणां परस्पराऽभिभाव्याऽभिभावकत्वेन विरुद्धानां जायमानानां सर्वत्रैव दुःखाऽनुवेधाच्चेत्यर्थः । हन्त दुःखमयो = दुःखै-कस्वभावः स्मृतः । तदुक्तं “परिणाम-ताप-संस्कार-दुःखैर्गुणवृत्तिविरोधाच्च २५/२२ स्कारदुःखगुणवत्तीवराधाच्च ।।।।४४१।। दुःखमेव सर्वं विवेकिनः” इति (योगसूत्र २-१५) ।।२२।। १. हस्तादर्श ....नुभूमिं' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्राप्तित्तदुः' इत्यशुद्धः पाठः । Pho OFFod Page #447 -------------------------------------------------------------------------- ________________ The EFF इत्थं दृग्दृश्ययोगात्माऽऽविद्यको भवविप्लवः ।। नाशान्नश्यत्यविद्याया इति पातञ्जला जगुः ॥२३॥ इत्थमिति । इत्थं दुःखरूपो दृगदृश्ययोः = पुरुष-बुद्धितत्त्वयोर्योगो = विवेकाऽख्यातिपूर्वकः संयोग आत्मा = कारणं यस्य स (=दृग्दृश्ययोगात्मा) तथा आविद्यको = अविद्यारचितः भवविप्लवः = संसारप्रपञ्चो अविद्याया' नाशानश्यति। अविद्यानाशात्स्वकार्यदृग्दृश्यसंयोगनाशे तत्कार्यभवप्रपञ्चनाशोपपत्तेः इति पातञ्जला जगुः = भणितवन्तः ।।२३।। एतद् दूषयति- 'नैतत्साध्वपुमर्थत्वात् पुंसः कैवल्यसंस्थितेः । क्लेशाऽभावेन संयोगाऽजन्मोच्छेदो हि गीयते।।२४।। 'नैतदिति । न एतत् = पातञ्जलमतं साधु = न्याय्यं, पुंसः कैवल्यसंस्थितेः सदातनत्वेन अपुमर्थत्वात् = पुरुषप्रयत्नाऽसाध्यत्वात् । हि = यतः क्लेशाऽभावेन संयोगस्याऽऽविद्यकस्य स्वयमेव निवृत्तस्य अजन्म = अनुत्पादः (=संयोगाजन्म) उच्छेदः गीयते । तदेव च पुरुषस्य कैवल्यं "व्यपदिश्यत इति न पुनर्मूर्तद्रव्यवत्संयोगपरित्यागोऽस्य युज्यते, कूटस्थत्व१. हस्तादर्श 'अविद्यानाशा..' इति पाठः । स च शुद्धोऽपि मूलानुसारेणाऽनुचितत्वादत्र न गृहीतः । २. हस्तादर्श 'एतद्' इति पदं नास्ति । हस्तादर्शान्तरे 'तद्' इति पाठः । ३. हस्तादर्श 'नैताभा' इत्यशुद्धः पाठः । ४. हस्तादर्श 'संयमा' इत्यशुद्धः पाठः । ५. हस्तादर्श 'नैतदिति' इति नास्ति । ६. हस्तादर्श 'उच्छेदा' इत्यशुद्धः पाठः । ७. हस्तादर्श 'विश्यते' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'विषदिश्यते' इत्यशुद्धः पाठः । ।।४४२॥ २५/२४ Jain Education Interational For Private & Personal use only Page #448 -------------------------------------------------------------------------- ________________ ।। हानिप्रसङ्गात् इति हि परसिद्धान्तः । तदुक्तं- “तदभावात्संयोगाऽभावो हानमिति" (योगसूत्र | २-२५) ।।२४।। एतदेवाऽऽह तात्त्विको नाऽऽत्मनो योगो ह्येकान्ताऽपरिणामिनः । कल्पनामात्रमेवं च क्लेशास्तद्धानमप्यहो ।॥२५॥ __तात्त्विक इति । तात्त्विकः = 'पारमार्थिको नाऽऽत्मनो हि योगः = सम्बन्ध एकान्ताऽपरिणामिनः सतो युज्यते । एवं च आहो ! इत्याश्चर्ये क्लेशास्तद्धानमपि कल्पनामात्रम । उपचरितस्य भवप्रपञ्चस्य प्रकतिगतत्वं विनाऽपि अविद्यामात्रनिर्मितत्वेन बौद्धनयेन वेदान्तिनयेनाऽपि च वक्तुं शक्यत्वात्, मुख्याऽर्थस्य च भवन्मतनीत्याऽद्याप्यसिद्धत्वादित्यर्थः ।।२५।। काल्पनिकत्वेनैवैतन्मतं, अन्यदपीत्थं दूषयन्नाह नृपस्येवाऽभिधानाद्यः सातबन्धः प्रकीर्तितः । ___ अहिशङ्काविषज्ञानाच्चेतरोऽसौ निरर्थकः ।।२६।। नृपस्येति । नृपस्येव = तथाविधनरपतेरिव अभिधानाद् = 'राजाऽयमिति भणनरूपाद् यः सातबन्धः = सुखसम्बन्धरूपः प्रकीर्तितः नित्येऽप्यात्मनि परैः । अहिनाऽदष्टस्याऽपि २५/२६ तथाविधप्रघट्टकवशाद् अहिशङ्काविषज्ञानाच्चेतरः = असातबन्धः । असौ निरर्थकः, कल्प १. हस्तादर्श 'पारिष्यार्थिको' इति पाठः । हस्तादर्शान्तरे 'पारिध्यार्थ' इत्यशुद्धः पाठः । २. हस्तादर्श .....नाद् स्यायः' इत्यशुद्धः पाठः । ।।४४३।। Jain Education Interational For Private & Personal use only Page #449 -------------------------------------------------------------------------- ________________ The Fb कक नामात्रस्याऽर्थाऽसाधकत्वादेव । ___ अथ प्रकृतौ कर्तृत्व-भोक्तृत्वाऽभिमानोपवर्णनमात्रमेतत्, तन्निरासार्थमेव च सकलशास्त्रार्थोपयोग इति को दोषः ? तत्त्वार्थसिद्ध्यर्थमुपचाराऽऽश्रयणस्याऽपि अदुष्टत्वादिति चेत् ? न, तत्त्वार्थस्यैवाऽऽत्मनश्चिद्रूपत्वे मुक्त्यवस्थायां विषयपरिच्छेदकत्वस्याऽप्यापत्तेः, ज्ञानस्य ज्ञानत्ववत्सविषयकत्वस्याऽपि स्वभावत्वात्, अन्तःकरणाऽभावेऽर्थपरिच्छेदाऽभावस्य च निरावरणज्ञाने तस्याऽहेतुत्वेन वक्तुमशक्यत्वात् । दिदृक्षाऽभावेऽपि दर्शनाऽनिवृत्तेः, प्राकृताऽप्राकृतज्ञानयोः सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य चाऽन्याय्यत्वात् । आत्मचैतन्येऽविषयकत्व स्वाभाव्य वत्सविषयकत्वस्वाभाव्यकल्पने बाधकाऽभावात् । किञ्च विवेकाऽख्यातिरूपसंयोगाऽभावोऽपि विवेकख्यातिरूप एवेति विषयग्राहकचैतन्यस्य स्वतन्त्रनीत्यैवोपपत्तेः मुक्तावपि निर्विषयचिन्मात्रतत्त्वार्थाऽसिद्धिः । तदुक्तं हरिभद्राचार्यैः"आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः । तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः ।।" (योगबिन्दु ४५७) इति । ननु विवेकख्यातिरपि अन्तःकरणधर्म एव, तस्मिंश्च प्रकृतौ प्रविलीने न तद्धर्मस्थित्य१. मुद्रितप्रती '...कत्वस्वभा...' इत्यशुद्धः पाठः । २. हस्तादर्श '...भाव्यकल्पने' इति त्रुटितः पाठः । का । ४४४॥ २५/२६॥ Page #450 -------------------------------------------------------------------------- ________________ ।। वकाशः, न चैवं संयोगोन्मज्जनप्रसङ्गः, परेषां घटविलयदशायां घटप्रागभावाऽनुन्मज्जनव दुपपत्तेः । ___ इत्थं च प्रकृतेरेव तत्त्वतः संयोगहानं, आत्मनस्तूपचारादिति नाऽस्माकमयमुपालम्भः शोभत इति चेत् ? न, उपचारस्याऽपि सम्बन्धाऽविनाभावस्याऽऽश्रयणे चिन्मात्रधर्मकत्वत्यागात्, सर्वज्ञत्वस्वभावपरित्यागस्य स्ववासनामावविजृम्भितत्वादित्याचार्याणामाशयात् ।।२६।। पुरुषार्थाय दुःखेऽपि प्रवृत्तेर्ज्ञानदीपतः । हानं चरमदुःखस्य क्लेशस्येति तु तार्किकाः ॥२७।। पुरुषार्थायेति । ज्ञानदीपतः = तत्त्वज्ञानप्रदीपादज्ञानध्वान्तनाशात् पुरुषार्थाय = पुरुषार्थनिमित्तं दुःखेऽपि प्रवृत्तेः, राजसेवादौ तथादर्शनात् । चरमदुःखस्य क्लेशस्य स्वयमुत्पादितस्य हानमिति तु तार्किकाः = नैयायिकाः । अतीतस्य स्वत एवोपरतत्वात्, अनागतस्य हातुमशक्यत्वात्, वर्तमानस्याऽपि विरोधिगुणप्रादुर्भावेनैव नाशात् । चरमदुःखमुत्पाद्य तन्नाशस्यैव पुरुषार्थत्वादिति भावः ।।२७।। एतदपि मतं दूषयति ब्रूते हन्त विना कश्चिददोऽपि न मदोद्धतम् ।। २५/२८ सुखं विना न दुःखार्थं कृतकृत्यस्य हि श्रमः।।२८।। १. हस्तादर्श ...भावो नैव...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'पुरुषार्थक....' इति अधिकः पाठः । ३. हस्तादर्श 'ददापि' इत्यशुद्धः पाठः ।। The EFF ।।४४५।। Page #451 -------------------------------------------------------------------------- ________________ ब्रूत इति । (हन्त !) अदोऽपि वचनं मदोद्धतं विना 'कश्चिद्'इत्यनन्तरमपेर्गम्यमानत्वात् कश्चिदपि न ब्रूते । हि = यतः कृतकृत्यस्य सुखं विना = स्वसुखाऽतिशयितसुखं विना दुःखार्थं श्रमो न अस्ति । राजसेवादावपि हि सुखार्थं प्रवृत्तिर्दृश्यते । ___ कटुकौषधपानादावपि आगामिसुखाऽऽशयैव । अन्यथा विवेकिनो दुःखजिहासोमरणादावपि प्रवृत्त्यापत्तेः, न च मोक्षे सुखमिष्यते भवद्भिरिति व्यर्थः सर्वः प्रयासः ।।२८।। ___किं च चरमदुःखत्वं तत्त्वज्ञानजन्यताऽवच्छेदकमपि न सम्भवतीत्याह चरमत्वं च दुःखत्वव्याप्या जातिर्न जातितः । 'तच्छरीरप्रयोज्यातः साङ्कर्यान्नाऽन्यदर्थवत् ।।२९।। चरमत्वं चेति । चरमत्वं च दुःखत्वव्याप्या जातिः न, तच्छरीरप्रयोज्यातो' जातितः | साङ्कर्यात्, मैत्रीयचरम सुखचैत्राऽचरम दुःखाऽवर्तिन्योस्तयोश्चैत्रचरमदुःख एव समावेशात् । चैत्रशरीरप्रयोज्यजातिव्याप्यायाश्चैत्रचरमसुख-दुःखादिनिष्ठाया भिन्नाया एव चरमत्वजातेरुपगमे तु सुखत्वादिनैव साङ्कर्यात् ।। अन्यत् समानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वलक्षणं चरमत्वं नाऽर्थवत् = न तत्त्वज्ञानजन्यतावच्छेदकं, आर्थादेव समाजात्तदुपपत्तेः । १. हस्तादर्श 'तच्छरीरप्रयोज्यातः' इति नास्ति । २. मुद्रितप्रतौ ...प्रयोज्या, अतो जा...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'चरमदुःख...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'दुःखवर्ति...' इत्यशुद्धः पाठ इत्यवधेयम् । ५. मुद्रितप्रतौ 'अर्था...' इत्यशुद्धः पाठः । हस्तादर्शप्रत्यन्तरे 'अर्थो' इत्यशुद्धः पाठः । ||४४६॥ २५/२९ Jain Education Interational For Private & Personal use only Page #452 -------------------------------------------------------------------------- ________________ क्ले श हा hot Fb ho to नो पा य द्वा त्रिं शि का २५/३१ कार्यवृत्तियावद्धर्माणां कार्यताऽवच्छेदकत्वे चैत्राऽवलोकित • मैत्रनिर्मितघटत्वादेरपि तथात्वप्रसङ्गात् । तथा च नियतितत्त्वाऽऽश्रयणाऽऽपत्तेरिति दिक् ।। २९ ।। अन्यमतदूषणेन निर्व्यूढं स्वमतमुपन्यस्यन्नाह* सुखमुद्दिश्य तद्दुःखनिवृत्त्या नान्तरीयकम् । प्रक्षयः कर्मणामुक्तो युक्तो ज्ञान-क्रियाऽध्वना ॥३०॥ सुखमिति । तत् = तस्मात् दुःखनिवृत्त्या नान्तरीयकं = व्याप्तं सुखमुद्दिश्य कर्मणां = ज्ञानावरणादीनां प्रक्षयो ज्ञान-क्रियाऽध्वना युक्त उक्तः ||३०|| क्लेशाः पापानि कर्माणि बहुभेदानि नो मते । योगादेव क्षयस्तेषां न भोगादनवस्थितेः । । ३१ ।। = क्लेशा इति । नो अस्माकं मते पापानि = अशुभविपाकानि बहुभेदानि विचित्राणि कर्माणि = ज्ञानावरणीयादीनि क्लेशा उच्यन्ते । अतः कर्मक्षय एव क्लेशहानिरिति = भावः । ननु- “नाऽभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म ......• चिह्नद्वयमध्यवर्ती पृष्ठत्रि - तयव्यापी दीर्घं पाठो हस्तादर्शे नास्ति । १. हस्तादर्शे 'पादानि' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'योगदेव' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'दभोगा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ यावीनि' इत्यशुद्धः पाठः । 1188911 Page #453 -------------------------------------------------------------------------- ________________ शुभाशुभम् ।।” (ब्रह्मवैवर्तपुराण-उत्तर ४/८१/५५) इति वचनाद् भोगादेव कर्मणां क्षये तस्याऽप्यपुरुषार्थत्वमनिवारितमेवेत्यत आह- योगादेव = ज्ञानक्रियासमुच्चयलक्षणात् क्षयः तेषां = नानाभवाऽर्जितानां प्रचितानां, न भोगात्, अनवस्थितेः = 'भोगजनितकर्मान्तरस्याऽपि भोगनाश्यत्वादनवस्थानात् । ____ ननु निरभिष्वङ्गभोगस्य न कर्मान्तरजनकत्वम् । प्रतिचानामपि च तेषां क्षयो योगजाऽदृष्टाधीनकायव्यूहबलादुपपत्स्यत इति चेन्न, प्रायश्चित्तादिनाऽपि कर्मनाशोपपत्तेः कर्मणां भोगेतरनाश्यत्वस्याऽपि व्यवस्थितौ योगेनाऽपि तन्नाशसम्भवे कायव्यूहादिकल्पने प्रमाणाऽभावात् । कर्मणां ज्ञानयोगनाश्यताया "ज्ञानाग्निः सर्वकर्माणि भस्मर ४/३७) इति भवदागमेनाऽपि सिद्धत्वात । ___नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः कायव्यूहाऽनुपपत्तेः, मनोऽन्तरप्रवेशादिकल्पने गौरवाच्च । ये त्वाहुः पातञ्जलाः अग्नेः स्फुलिङ्गानामिव कायव्यूहदशायामेकस्मादेव चित्तात्प्रयोजकानानाचित्तानां परिणामोऽस्मितामात्रादिति । तदुक्तं- “निर्माणचित्तान्यस्मितामात्रात्" (यो.सू.४४) “प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति” (यो .सू.४-५) तेषामप्यनन्तकालप्रचितानां १. हस्तादर्श 'भोगजनितभोग...' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रतौ .....दुत्पत्स्यत' इत्यशुद्धः पाठः । ३. हस्तादर्श 'भगवदा...' इति पाठः । ४. हस्तादर्श 'अगः' इत्यशुद्धः पाठः । का २५/३१ ॥४४८।। Jain Education Interational Page #454 -------------------------------------------------------------------------- ________________ 'F FE कर्मणां नानाशरीरोपभोगनाश्यत्व कल्पनं मोह एव, तावददृष्टानां युगपद्वृत्तिलाभस्याऽप्य- || || नुपपत्तेरिति निरुपक्रमकर्मणामेव भोगैकनाश्यत्व माश्रयणीयमिति सर्वमवदातम् ।।३१।। ततो निरुपमं स्थानमनन्तमुपतिष्ठते । भवप्रपञ्चरहितं परमानन्दमेदुरम् ।।३२।। तत इति । व्यक्त ॥३२॥ ।। इति क्लेशहानोपायद्वात्रिंशिका ।।२५।। ।। अथ योगमाहात्म्यद्वात्रिंशिका ।।२६।। क्लेशहानोपायं विविच्य तथाभूतस्य योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं माहात्म्यमुपदर्शयन्नाह शास्त्रस्योपनिषद्योगो योगो मोक्षस्य वर्तनी । अपायशमनो योगो योगः कल्याणकारणम् ॥१॥ संसारवृद्धिर्धनिनां पुत्रदारादिना यथा । शास्त्रेणाऽपि तथा योगं विना हन्त विपश्चिताम् ॥२॥ इहाऽपि लब्धयश्चित्राः परत्र च महोदयः । ....... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्तादर्श नास्ति । Jain Education Interational For Private & Personal use only Page #455 -------------------------------------------------------------------------- ________________ 5 F Fest परात्माऽऽयत्तता चैव योगकल्पतरोः फलम् ।।३।। योगसिद्धैः श्रुतेष्वस्य बहुधा दर्शितं फलम् । दर्श्यते लेशतश्चैतद्यदन्यैरपि दर्शितम् ॥४॥ शास्त्रस्येति । इयमाद्या चतुःश्लोकी सुगमा ।।१-२-३-४ ।। अतीताऽनागतज्ञानं परिणामेषु संयमात् । शब्दाऽर्थधीविभागे च सर्वभूतरुतस्य धीः ।।५।। अतीतेति । संयमो नाम धारणाध्यानसमाधित्रयमेकविषयम् । यदाह- "त्रयमेकत्र संयमः” इति (योगसूत्र ३-४) । एतदभ्यासात् खलु हेयज्ञेयादिप्रज्ञाप्रसर इति पूर्वभूमिषु ज्ञात्वोत्तरभूमिष्वयं विनियोज्यः । ___ तदाह- “तज्जयात्प्रज्ञालोकः"(योगसूत्र ३-५) “तस्य भूमिषु विनियोग इति" (योगसूत्र ३-६) । ततः परिणामेष धर्मलक्षणाऽवस्थारूपेषु संयमाऽञ्चितस्य सर्वार्थग्रहणसामर्थ्यप्रतिबन्धकविक्षेपपरिहारात् अतीताऽनागतज्ञानं = अतिक्रान्ताऽनुत्पन्नाऽर्थपरिच्छेदनं योगिनो भवति। तदुक्तं- “परिणामत्रयसंयमादतीताऽनागतज्ञानमिति" (योगसत्र ३-१६)। ___शब्दः = श्रोत्रेन्द्रियग्राह्यनियतक्रमवर्णात्मा, क्रमरहितः स्फोटात्मा ध्वनिसंस्कृतबुद्धिग्राह्यो ॥ वा, अर्थो = जातिगुणक्रियादिः, धीः = विषयाकारा बुद्धिवृत्तिः, एता हि गौरिति शब्दो ||४५०।। Jain Education Intemational Page #456 -------------------------------------------------------------------------- ________________ 5 F Fhoto . गौरित्यर्थो गौरिति च धीरित्यभेदेनैवाऽध्यवसीयन्ते, 'कोऽयं शब्दः ?' इत्यादिषु प्रश्नेषु गौरयमित्येकरूपस्यैवोत्तरस्य प्रदानात् । तस्य चैकरूपप्रतिपत्तिनिमित्तकत्वात् । तत एतासां विभागे (= शब्दार्थधीविभागे) च 'इदं शब्दस्य तत्त्वं 'यद्वाचकत्वं नाम, इदं चाऽर्थस्य यद्वाच्यत्वं, इदं च धियो यत्प्रकाशकत्वमित्येवंलक्षणे संयमात् (सर्वभूतरुतस्य=) सर्वेषां भूतानां मृग-पशु-पक्षि-सरीसृपादीनां रुतस्य = शब्दस्य धीः भवति ‘अनेनैवाऽभिप्रायेण अनेन प्राणिनाऽयं शब्दः समुच्चरित' इति । तदुक्तं- “शब्दाऽर्थप्रत्ययानामितरेतराऽध्यासात्सङ्करस्तत्र' प्रविभागसंयमात्सर्वभूतरुत ज्ञानमिति” (योगसूत्र ३-१७) ।।५।। संस्कारे पूर्वजातीनां प्रत्यये परचेतसः । शक्तिस्तम्भे तिरोधानं कायरूपस्य संयमात् ॥६॥ ___संस्कार इति । संस्कारे स्मृतिमात्रफले जात्यायुर्भोगलक्षणे च “एवं मया सोऽर्थोऽनुभूतः, | एवं मया सा क्रिया कृता" इति भावनया संयमात पूर्वजातीनां = प्रागनुभूतजातीनां धीः = अनुस्मृतिरवबोधकमन्तरेणैव भवति । तदुक्तं- “संस्कारस्य साक्षात्करणात पूर्वजातिज्ञानम" (योगसूत्र ३-१८)। १. मुद्रितप्रती 'मद्वाचकत्वं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ....काशत्व...' इति त्रुटितः पाठः । ३. हस्तादर्श 'तत्..' इति पाठः । ४. मुद्रितप्रतौ 'प्रतिभाग..' इत्यशुद्धः पाठः । ५. हस्तादर्श '..भूतरुतरत...' इत्यशुद्धः पाठः। ६. हस्तादर्श 'शक्तिस्तम्भति' इति पाठः । ७. हस्तादर्श '....मन्तरेणेव' इत्यशुद्धः पाठः । ४५१॥ Page #457 -------------------------------------------------------------------------- ________________ 5he R ho tক ग मा हा त्म्य द्वा त्रिं शि का २६/६ प्रत्यये परकीयचित्ते केनचिन्मुखरागादिना लिङ्गेन गृहीते परचेतसो धीर्भवति । तथासंयमवान् 'सरागमस्य चित्तं वीतरागं वेति' परचित्तगतान् सर्वानेव धर्मान् जानातीत्यर्थः । तदुक्तं - " प्रत्ययस्य परचित्तज्ञानम् " ( योगसूत्र ३ - १९) । “न च तत्सालम्बनं तस्याऽविषयीभूतत्वादिति ” ( योगसूत्र ३ - २० ) । लिङ्गाच्चित्तमात्रमवगतम्, न तु नीलविषयं पीतविषयं वा तदिति । अज्ञाते आलम्बने संयमस्य कर्तु - मशक्यत्वात्तदनवगतिः । सालम्बनचित्तप्रणिधानोत्थसंयमे तु तदवगतिरपि भवत्येवेति भोजः । = कायः = शरीरं, तस्य रूपं = चक्षुर्ग्राह्यो गुणः, तस्य ( = कायरूपस्य) २' अस्त्यस्मिन् काये रूपमिति संयमाद् रूपस्य चक्षुर्ग्राह्यत्वरूपायाः शक्तेः स्तम्भे = भावनावशात्प्रतिबन्धे ( = शक्तिस्तम्भे ) सति तिरोधानं भवति चक्षुषः प्रकाशरूपस्य सात्त्विकस्य धर्मस्य तद्ग्रहणव्यापाराऽभावात् । तथा संयमवान् योगी न केनचिदृश्यत इत्यर्थः । एवं शब्दादितिरोधानमपि ज्ञेयम् । तदुक्तं- “कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषः (क्षुःप्र) प्रकाशाऽसं (प्र) योगेऽन्तर्धानम् ” ( योगसूत्र ३ - २१) । “ एतेन शब्दाद्यन्तर्धानमुक्तम्” ( योगसूत्र ३ - २२ ) इति ।।६।। १. मुद्रितप्रतिषु हस्तादर्शेषु च 'न च साल..' इति पाठः । योगसूत्रानुसारेणाऽपेक्षितः पाठोऽत्र योजितः । * .... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । २. मुद्रितप्रतिषु हस्तादर्शेषु च 'नास्त्य...' इत्येव पाठः । परं स प्रामादिकः । 'अस्त्य...' इत्येव सम्यक् पाठः । ।।४५२ ।। Page #458 -------------------------------------------------------------------------- ________________ ... FF hot संयमात् कर्मभेदानामरिष्टेभ्योऽपरान्तधीः । मैत्र्यादिषु बलान्येषां हस्त्यादीनां बलेषु च ।।७।। ___ संयमादिति । कर्मभेदाः सोपक्रम-निरुपक्रमादयस्तत्र यत्फलजननाय सहोपक्रमेण कार्यकारणाऽऽभिमुख्येन वर्तते, यथोष्णप्रदेशे प्रसारितमार्द्र वस्त्रं शीघ्रमेव शुष्यति । निरुपक्रम च विपरीतं, यथा तदेवाऽऽर्द्र वासः पिण्डीकृतमनुष्णे देशे चिरेण शोषमेतीति । ___एवमन्येऽपि । तेषां (=कर्मभेदानां) संयमाद् = 'इदं शीघ्रविपाकमिदं च मन्दविपाकमि'त्याद्यवधान'दाढ्यजनिताद् अरिष्टेभ्यः = आध्यात्मिकाधिऽऽभौतिकाऽऽधिदैविकभेदभिन्नेभ्यः कर्णपिधानकालीनकोष्ठ्यवायुघोषाऽश्रवणाऽऽकस्मिकविकृतपुरुषाऽशक्यदर्शनस्वर्गादिपदार्थदर्शनलक्षणेभ्यः (अपरान्तधीः =) अपरान्तस्य = करणशरीरवियोगस्य धीः = नियतदेशकालतया निश्चयः । सामान्यतः संशयाऽऽविलतद्धियोऽरिष्टेभ्योऽयोगिनामपि सम्भवादिति ध्येयम् । तदुक्तं"सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वेति" ।(योगसूत्र ३-२२) मैत्र्यादिषु मैत्री-प्रमोद-कारुण्य-माध्यस्थ्येषु संयमात् एषां मैत्र्यादीनां बलानि भवन्ति, मैत्र्यादयस्तथा प्रकर्ष गच्छन्ति यथा सर्वस्य मित्रत्वादिकं प्रतिपद्यते योगीत्यर्थः । तदुक्तं + ।।।।४५३।। । १. हस्तादर्श 'प्रासा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ...धानधायज..." इत्यशुद्धः पाठः । ३. हस्तादर्श 'निरुपक्रम' पदं नास्ति । Jain Education Interational For Private & Personal use only Page #459 -------------------------------------------------------------------------- ________________ / “मैत्र्यादिषु बलानि” (योगसूत्र ३-२३) । बलेषु च = हस्त्यादिसम्बन्धिषु संयमात् हस्त्यादीनां बलान्याविर्भवन्ति सर्वसामर्थ्ययुक्तत्वात्, नियतबलसंयमेन नियतबलप्रादुर्भावात् । एवं विषयवत्या' ज्योतिष्मत्याश्च प्रवृत्तेः सात्त्विकप्रकाशप्रसरस्य विषयेषु संन्यासात् सूक्ष्म-व्यवहित-विप्रकृष्टाऽर्थज्ञानमपि द्रष्टव्यम्, सान्तःकरणेन्द्रियाणां प्रशक्तिताऽऽपत्तेः । तदुक्तं “प्रवृत्त्यालोकसंन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानमिति” (योगसूत्र ३-२५) ।।७।। सूर्ये च 'भुवनज्ञानं ताराव्यूहे 'गतिर्विधौ । ध्रुवे च तद्गते भिचक्ने व्यूहस्य वर्मणः ।।८।। सूर्ये चेति । सूर्ये च प्रकाशमये संयमाद् भुवनानां सप्तानां लोकानां ज्ञानं (= भुवनज्ञानं) | भवति । तदुक्तं- “भुवनज्ञानं सूर्ये(य)संयमात्” (योगसूत्र ३-२६) । ताराव्यूहे = ज्योतिषां विशिष्टसंनिवेशे संयमाद् विधौ = चन्द्रे गतिः = ज्ञानं भवति, सूर्याऽऽहततेजस्कतया ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथगयमुपायोऽभिहितः। तदुक्तं- “चन्द्रे ताराव्यूहज्ञानम्” (योगसूत्र ३-२७)। ___ध्रुवे च निश्चले ज्योतिषां प्रधाने संयमात्तासां ताराणां गतेः (=तद्गतेः) नियत१. मुद्रितप्रतौ 'विषय वत्या' इत्येवमस्थानच्छिन्नः पाठः । २. हस्तादर्श 'च न ता...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'गतिविधौ' इत्यशुद्धः पाठः । ४. हस्तादर्श 'समानां' इत्यशुद्धः पाठः । २६/८ ||४५४|| Jain Education Interational For Private & Personal use only Page #460 -------------------------------------------------------------------------- ________________ ॥ देशकालगमनक्रियाया गतिर्भवति, ‘इयं तारा इयता कालेन अमुं राशिमिदं वा क्षेत्रं यास्यतीति । तदुक्तं- “ध्रुवे तद्गतिज्ञानं” (योगसूत्र ३-२८)। नाभिचक्रे = शरीरमध्यवर्तिनि समग्राङ्गसन्निवेशमूलभूते संयमात् वर्मणः कायस्य व्यूहस्य' रस-मल-नाड्यादीनां स्थानस्य गतिर्भवति । तदुक्तं- “नाभिचक्रे कायव्यूहज्ञानं" (योगसूत्र ३-२९) ।।८।। क्षुत्तृड्व्ययः कण्ठकूपे कूर्मनाड्यामचापलम् । ___ मूर्धज्योतिषि सिद्धानां दर्शनं च प्रकीर्तितम् ॥९॥ क्षुदिति । कण्ठे = गले कूप इव (=कण्ठकूपे) कूपो गर्ताकारः प्रदेशस्तत्र संयमात् क्षुत्तृषोळयो (=क्षुत्तृड्व्ययः) भवति। घण्टिकाश्रोतःप्लावनात्तृप्तिसिद्धेः । तदुक्तं- 'कण्ठकूपे क्षुत्पिपासानिवृत्तिः' (योगसूत्र ३-३०) । कूर्मनाड्यां कण्ठकूपस्याऽधस्ताद्वर्तमानायां संयमात् अचापलं भवति, मनःस्थैर्यसिद्धेः । तदुक्तं- “कूर्मनाड्यां स्थैर्यमिति” (योगसूत्र ३-३१)। ___मूर्धज्योतिर्नाम गृहाऽभ्यन्तरस्य मणेः प्रसरन्ती प्रभेव कुम्भिकादौ प्रदेशे, हृदयस्थ एव सात्त्विकः प्रकाशो ब्रह्मरन्ध्रे सम्पिण्डितत्वं भजन तत्र (= मूर्धज्योतिषि) संयमाच्च सिद्धानां दर्शनं च प्रकीर्तितम् । द्यावापृथिव्योरन्तरालवर्तिनो ये दिव्यपुरुषास्तानेतद्वान् पश्यति, तैश्चाऽयं सम्भाष्यत इति भावः । तदुक्तं- “मूर्धज्योतिषि सिद्धदर्शनम्” (यो.सू. ३-३२)।।९।। १. हस्तादर्श 'व्यूहस्य रस' इति नास्ति । २. हस्तादर्श ‘कूपकण्ठे' इति पदव्यत्यासः । ३. हस्तादर्श 'कू' वर्णो नास्ति । ४५५।। Jain Education Interational Page #461 -------------------------------------------------------------------------- ________________ FFER प्रातिभात् सर्वतः संविच्चेतसो' हृदये तथा । स्वार्थे संयमतः पुंसि भिन्ने भोगात्परार्थकात् ।।१०।। प्रातिभादिति । निमित्ताऽनपेक्षं मनोमात्रजन्यं अविसंवादकं झगित्युत्पद्यमानं ज्ञानं प्रतिभा (=प्रातिभम्) । तत्र संयमे क्रियमाणे यदुत्पद्यते ज्ञानं विवेकख्यातेः पूर्वभावि तारकम्, उदेष्यति सवितरीव पूर्वप्रभा, ततः (=प्रातिभात्) सर्वतः संविद् भवति । संयमान्तराऽनपेक्षः सर्वं जानातीत्यर्थः । “प्रातिभाद्वा सर्वम्” (योगसूत्र ३-३३) इत्युक्तेः । तथा हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकाऽऽकारे (संयमतः) संयमात् चेतसः संवित् स्वपरचित्तगतवासना-रागादिज्ञानं भवति। तदुक्तं- “हृदये चित्तसंवित्" (यो.सू.३-३४)। परार्थकात् = सत्त्वस्य स्वार्थनैरपेक्ष्येण स्वभिन्नपुरुषार्थकाद् भोगात् = सत्त्वपुरुषाऽभेदाऽध्यवसायलक्षणात् सत्त्वस्यैव सुख-दुःखकर्तृत्वाऽभिमानाद् भिन्ने स्वार्थे = स्वरूपमात्राऽऽलम्बने परित्यक्ताहऽङ्कारे सत्त्वे चिच्छायासङ्क्रान्तौ पुंसि संविद् भवति । ___एवम्भूतं स्वाऽऽलम्बनज्ञानं सत्त्वनिष्ठं पुरुषो जानाति, न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वाऽऽपत्तेः । ज्ञातृज्ञेययोश्चाऽत्यन्तविरोधादिति भावः । तदुक्तं- “सत्त्वपुरुषयोरत्यन्ताऽसङ्कीर्णयोः प्रत्ययाऽविशेषो' भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानमिति" १. हस्तादर्श 'चेतमोक्षदयो' इत्यशुद्धः पाठः । २. योगसूत्रप्रतिषु बह्वीषु'..प्रत्ययाऽविशेषाद् भोगः परार्थान्यस्वार्थसंयमात् पुरुषज्ञानम्' इति पाठः । प्रकृते च योगसूत्रभाष्यानुसारेण पाठो गृहीतः । द्वात्रिंशिकाहस्तप्रतिषु च ‘भोगः परार्थः स्वार्थ...' इति पाठः । २६/१० ।।४५६।। Jain Education Interational Page #462 -------------------------------------------------------------------------- ________________ ।। (योगसूत्र ३-३५) ।।१०।। समाधिविघ्ना 'व्युत्थाने सिद्धयः प्रातिभं ततः । श्रावणं वेदनाऽऽदर्शाऽऽस्वाद-वार्ताश्च वित्तयः ।।११।। समाधीति । ततः स्वार्थसंयमाऽऽह्वयात् पुरुषसंयमादभ्यस्यमानात् प्रातिभं = पूर्वोक्तं ज्ञानम्, यदनुभावात् सूक्ष्माऽर्थादिकमर्थं पश्यति । श्रावणं = श्रोत्रेन्द्रियजं ज्ञानम्, यस्मात्प्रकृष्टादिव्यं शब्दं जानाति । वेदना = स्पर्शनेन्द्रियजं ज्ञानं, वेद्यतेऽनयेति कृत्वा, तान्त्रिक्या संज्ञया व्यवह्रियते, यत्प्रकर्षादिव्यस्पर्शविषयं ज्ञानमुत्पद्यते आदर्शः = चक्षुरिन्द्रियजं ज्ञानम्, आ = समन्ताद् दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा, यत्प्रकर्षाद्दिव्यरूपज्ञानमुत्पद्यते । आस्वादो = रसनेन्द्रियजं ज्ञानं, आस्वाद्यतेऽनेनेति कृत्वा, यत्प्रकर्षादिव्यरससंविदुपजायते । वार्ता = गन्धसंवित्तिः, वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्तमाने गन्धविषये प्रवर्तते इति कृत्वा वृत्तौ घ्राणेन्द्रिये भवा वार्ता, यत्प्रकर्षादिव्यो गन्धोऽनुभूयते । एताः च वित्तयो = ज्ञानानि भवन्ति । तदुक्तं- “ततः प्रातिभश्रावणवेदनादर्शा(र्शना)ऽऽस्वादवार्ता जायन्ते" २६/११ || (योगसूत्र ३-३६) । एताश्च समाधेः प्रकर्षं गच्छतः सतो विघ्नाः (= समाधिविघ्नाः), हर्ष-विस्मयादिकरणेन FFE ||४५७।। १. हस्तादर्श 'व्युत्थानं' इत्यशुद्धः पाठः । २. हस्तादर्श 'सूक्ष्मार्थदि...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'स्वादो' इति त्रुटितः पाठः । Page #463 -------------------------------------------------------------------------- ________________ । तच्छिथिलीकरणात् । व्युत्थाने = व्यवहारदशायां च समाध्युत्साहजननाद् विशिष्टफलदायकत्वाच्च सिद्धयः । यत उक्तं- “ते समाधावुपसर्गा व्युत्थाने सिद्धयः” (योगसूत्र ३-३७) ।।११।। बन्धकारणशैथिल्यात् प्रचारस्य च वेदनात् । चित्तस्य स्यात् परपुरे प्रवेशो योगसेविनः ।।१२।। बन्धेति । “व्यापकत्वादात्म-चित्तयोर्नियतकर्मवशादेव शरीराऽन्तर्गतयोर्नोग्यभोक्तभावेन यत्संवेदनमुपजायते स शरीरबन्ध इत्युच्यते । ततो बन्धस्य = शरीरबन्धस्य यत्कारणं धर्माऽधर्माख्यं कर्म तस्य शैथिल्यात् = तानवात्' (=बन्धकारणशैथिल्यात्) । प्रचारस्य च = चित्तस्य हृदयप्रदेशादिन्द्रियद्वारेण विषयाऽऽभिमुख्येन प्रसरस्य च वेदनात् = ज्ञानात् = "इयं चित्तवहा नाडी, अनया चित्तं वहति, इयं रस-प्राणादिवहाभ्यो 'विलक्षणेति" स्वपरशरीर सञ्चारपरिच्छेदादित्यर्थः, योगसेविनो = योगाऽऽराधकस्य चित्तस्य परपुरे = मृते जीवति वा परकीयशरीरे प्रवेशः स्यात् । चित्तं च परशरीरं प्रविशदिन्द्रियाण्यनुवर्तन्ते, मधुकरराजमिव मक्षिकाः । ततः परशरीरं प्रविष्टो योगी ईश्वरवत्तेन व्यवहरति. यतो २६/१२ १. मुद्रितप्रतौ 'प्रदेशो' इत्यशुद्धः पाठः । २. हस्तादर्श 'योगसेविन' इति पदं नास्ति । ३. हस्तादर्श 'तानवति' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'तानवानति' इत्यशुद्धः पाठः । ४. हस्ताद” 'हृदयद्वारेण' इति त्रुटितः पाठः । ५. मुद्रितप्रतौ 'विलक्षेति' इत्यशुद्धः पाठः । ...... चिनद्वयवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति । ||४५८।। Jain Education Intemational Page #464 -------------------------------------------------------------------------- ________________ FFE // व्यापकयोश्चित्त-पुरुषयोर्भोगसङ्कोचकारणं कर्माऽभूत्, तच्चेत् समाधिना क्षिप्तं तदा । स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिरिति । तदुक्तं- “बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य. परशरीराऽऽवेशः” इति (योगसूत्र ३-३८) ।।१२।। समानस्य जयाद्धामो दानस्याऽबाद्यसङ्गता । दिव्यं श्रोत्रं पुनः श्रोत्र-व्योम्नोः२ सम्बन्धसंयमात् ।।१३।। समानस्येति। समानस्य = अग्निमावेष्ट्य व्यवस्थितस्य समानाऽऽख्यस्य वायोः जयात् = संयमेन वशीकारान्निरावरणस्याऽग्नेरूर्ध्वगत्वात् धाम तेजः तरणिप्रतापवदवभासमानमाविर्भवति, येन योगी ज्वलन्निव प्रतिभाति । यदुक्तं- “समानजयाज्ज्वलनः(म्)” (योगसूत्र ३-४०) । उदानस्य कृकाटिकादेशादाशिरोवृत्तेर्जयादितरेषां वायूनां निरोधादूर्ध्वगतित्वसिद्धेः अबादिना = जलादिना असङ्गता = अप्रतिरुद्धता (=अबाद्यसङ्गता) । जितोदानो हि योगी •जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु वा कण्टकेषु न सजति, किं तु २६/१३ लघुत्वात्तूलपिण्डवज्जलादावनिमज्जन्नुपरि तेन गच्छतीत्यर्थः। तदुक्तं- ""उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च"(योगसूत्र ३-३९)। ।।।४५९।। १. मुद्रितप्रती ...धामादान...' इत्यशुद्धः पाठः । २. हस्तादर्श 'व्योसे' इत्यशुद्धः पाठः । ३. हस्तादर्श 'तन' इत्यशुद्धः पाठः । ४. हस्तादर्श 'तुदान' इत्यशुद्धः पाठः । का Jain Education Interational Page #465 -------------------------------------------------------------------------- ________________ यो ग मा हा ho ho to त्म्य द्वा त्रिं शि का २६/१४ श्रोत्रं = 'शब्दग्राहकमाहङ्कारिकमिन्द्रियं व्योम = शब्दतन्मात्रजमाकाशं, तयोः (= श्रोत्रव्योम्नोः) पुनः सम्बन्धसंयमाद् देश-देशिभावसम्बन्धसंयमाद् दिव्यं युगपत्सूक्ष्म-व्यवहितविप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति । तदुक्तं- “श्रोत्राऽऽकाशयोः सम्बन्धसंयमाद्दिव्यं • श्रोत्रम्" ( योगसूत्र ३ - ४१) ।।१३।। लघुतूलसमापत्त्या काय- व्योम्नोस्ततोऽम्बरे । गतिर्महाविदेहाऽतः प्रकाशाssवरणक्षयः ।।१४।। लध्विति । कायः = पाञ्चभौतिकं शरीरम्, व्योम च प्रागुक्तम्, तयोः (= कायव्योम्नोः) ततः = अवकाशदानसम्बन्धसंयमात् (लघुनूलसमापत्त्या = ) लघुनि तूले समापत्त्या तन्मयीभावलक्षणया प्राप्ताऽभ्यन्तरलघुभावतया अम्बरे = आकाशे गतिः स्यात् । उक्तसंयमवान् प्रथमं यथारुचि जले सञ्चरन् क्रमेणोर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः । तदुक्तं- “कायाऽऽकाशयोः सम्बन्धसंयमाल्लघु ́तूलसमापत्तेरा(श्चा)काशगमनम् ” ( योगसूत्र ३ - ४२) । शरीराद् बहिर्या शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहा इत्युच्यते, शरीराऽहङ्कारविगमात् । अत एवाऽकल्पितत्वेन महत्त्वात्, शरीराऽहङ्कारे सति हि बहिर्वृत्ति१. हस्तादर्शे ‘शब्दग्राहेक' इत्यशुद्धः पाठः । २ हस्तादर्शे 'युपगप...' इत्यशुद्धः पाठः । चिह्नद्वयमध्यवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति । ३. हस्तादर्शे 'रश्मिनिश्च' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'लघुत्तल' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'शरतैर...' इत्यशुद्धः पाठः । ६. हस्तादर्शे 'सति न हि' इत्यशुद्धः पाठः । For Private Personal Use Only ।।४६० ।। Page #466 -------------------------------------------------------------------------- ________________ "FFE मनसः कल्पितोच्यते, तस्याः कृतसंयमायाः सकाशात् प्रकाशस्य शुद्धसत्त्वलक्षणस्य यदा- ॥ वरणं क्लेशकर्मादि तत्क्षयः (=प्रकाशाऽऽवरणक्षयः) भवति, सर्वे चित्तमलाः क्षीयन्त इति यावत् । तदुक्तं- “बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशाऽऽवरणक्षयः” (योगसूत्र ३४३) इति ।।१४।। स्थूलादिसंयमाद् भूतजयोऽस्मादणिमादिकम् । कायसम्पच्च तद्धर्माऽनभिघातश्च' जायते ।।१५।। स्थूलादीति । स्थूलादीनि स्थूलस्वरूपसूक्ष्माऽन्वयाऽर्थवत्त्वानि पञ्चानां भूतानामवस्थाविशेषरूपाणि । (१) तत्र भूतानां परिदृश्यमानं विशिष्टाऽऽकारवत्त्वं स्थूलं रूपम् । (२) स्वरूपं च पृथिव्यादीनां कार्कश्य-स्नेहोष्णता-प्रेरणाऽवकाशदानलक्षणम् । (३) सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । (४) अन्वया गुणाः प्रकाशप्रवृत्ति-स्थितिरूपतया सर्वत्रैवोपलभ्यमानाः । (५) अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसम्पादनशक्तिरूपम् । तेषु क्रमेण प्रत्यवस्थं संयमात् (=स्थूलादिसंयमाद्) भूत जयो भवति। कृतैतत्संयमस्य सङ्कल्पाऽनुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः । तदुक्तं- “स्थूल-स्वरूप-सूक्ष्माऽन्वयाऽर्थवत्त्व संयमाद् भूतजयः” (योगसूत्र ३-४४) इति । अस्माद् भूतजयाद् अणिमादिकं भवति । (१) अणिमा, (२) गरिमा, (३) लघिमा, १. हस्तादर्श ...नभिनयातश्च' इत्यशुद्धः पाठः । ...... चिह्नद्वयवर्ती अग्रेतनपृष्ठव्यापी पाठो हस्तादर्शविशेषे नास्ति । २६/१५ ४६१ ।। Jain Education Interational For Private & Personal use only Page #467 -------------------------------------------------------------------------- ________________ ग मा he है ho to a f हा त्म्य द्वा त्रिं शि का २६/१६ (४) महिमा, (५) प्राकाम्यम्, (६) 'ईशित्वम्, (७) वशित्वम्, (८) यत्रकामावसायित्वं चेत्यणिमादिकम्। तत्राऽणिमा परमाणुरूपताऽपत्तिः । गरिमा वज्रवद् गुरुत्वप्राप्तिः । लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । महिमा महत्त्वप्राप्तिः अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता । प्राकाम्यमिच्छाऽनभिघातः । शरीराऽन्तःकरणयोः ईशित्वम् । सर्वत्र प्रभविष्णुता वशित्वम्, यतः सर्वाण्येव भूतानि वचनं नाऽतिक्रामन्ति । यत्रकामावसायित्वं स्वाऽभिलषितस्य समाप्तिपर्यन्तनयनम् । कायसम्पच्च उत्तमरूपादिलक्षणा “ रूप लावण्य-बल-वज्रसंहननत्वानि कायसम्पत्” ( योगसूत्र ३-४६) इत्युक्तेः । तद्धर्माऽनभिघातश्च तस्य कायस्य धर्माः रूपादयस्तेषामभिघातो = नाशस्तदभावश्च जायते । न ह्यस्य रूपमग्निर्दहति न वाऽऽपः क्लेदयन्ति, न वा वायुः शोषयतीति । तदिदमुक्तं- “ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्चेति" ( योगसूत्र ३-४५) ।।१५।। संयमाद् ग्रहणादीनामिन्द्रियाणां जयस्ततः । मनोजवो 'विकरणभावश्च प्रकृतेर्जयः ।। १६ ।। संयमादिति । ग्रहणादयो ग्रहणस्वरूपाऽस्मिताऽन्वयाऽर्थवत्त्वानि । तत्र ग्रहणं इन्द्रियाणां विषयाऽभिमुखी वृत्तिः । स्वरूपं सामान्येन प्रकाशकत्वम् । अस्मिता १. मुद्रितप्रती 'ईशत्वं' इति पाठः । २ हस्तादर्शे 'विकरणां...' इत्यशुद्धः पाठः । = = = ।।४६२ ।। Page #468 -------------------------------------------------------------------------- ________________ । अहङ्कारानुगमः । अन्वयाऽर्थवत्त्वे प्रागुक्तलक्षणे । तेषां (=ग्रहणादीनां) यथाक्रमं संयमा दिन्द्रियाणां जयो भवति। तदुक्तं- “ग्रहण-स्वरूपाऽस्मिताऽन्वयार्थवत्त्वसंयमादिन्द्रियजयः" (योगसूत्र ३-४७) इति । ___ततः = इन्द्रियजयाद् मनोजवः = शरीरस्य मनोवदनुत्तमगतिलाभः विकरणभावश्च कायनरपेक्ष्येणेन्द्रियाणां वृत्तिलाभः । प्रकृतेः = प्रधानस्य जयः सर्ववशित्वलक्षणो भवति। तदुक्तं- “ततो मनोजवित्वं विकरणभावः प्रधानजयश्च” (योगसूत्र ३-४८) ।।१६।। स्थितस्य सत्त्व-पुरुषाऽन्यता ख्यातौ च केवलम् । सार्वज्यं सर्वभावानामधिष्ठातृत्वमेव च ।।१७।। स्थितस्येति । केवलं (सत्त्व-पुरुषान्यताख्यातौ =) सत्त्व-पुरुषयोरन्यताख्यातौ गुणकर्तृत्वाभिमानशिथिलीभावलक्षणायां शुद्धसात्त्विकपरिणामरूपायां स्थितस्य च सार्वज्यं सर्वेषां शान्तोदिताऽव्यपदेश्यधर्मत्वेन स्थितानां यथावदिवेकज ज्ञानलक्षणम्, सर्वेषां भावानां (सर्वभावानां=) = गुणपरिणामानां अधिष्ठातृत्वमेव च स्वामिवदाक्रमणलक्षणं भवति । तदुक्तं- “सत्त्व-पुरुषाऽन्यताख्यातिमात्रस्य सर्वभावाऽधिष्ठातृत्वं सर्वज्ञत्वं च” (योगसूत्र ३-४९) ।।१७।। १. हस्तादर्श 'पुरुषाः न्याता...' इत्यशुद्धः पाठः । २. हस्तादर्श'...विवेकजज्ञान...' इति पाठान्तरः । ३. हस्तादर्श '...क्रमणलक्षणलक्षणं' इति अधिकः पाठः । २६/१७ ||४६३॥ Jain Education Interational Page #469 -------------------------------------------------------------------------- ________________ ग मा ho टच् to हा त्म्य द्वा त्रिं शि का २६/१९ स्मृता सिद्धिर्विशोकेयं तद्वैराग्याच्च योगिनः । दोषबीजक्षये नूनं कैवल्यमुपदर्शितम् ।।१८।। स्मृतेति । इयं विशोका सिद्धिः स्मृता । तस्यां विशोकायां सिद्धौ वैराग्याच्च (= तद्वैराग्याच्च) योगिनो = योगभाजः दोषाणां = रागादीनां बीजस्य = अविद्यादेः क्षये = निर्मूलने ( = दोषबीजक्षये) नूनं निश्चितं कैवल्यं = पुरुषस्य गुणानामधिकारपरिसमाप्तेः स्वरूपप्रतिष्ठत्वं उपदर्शितम् । यतः - 'तद्वैराग्यादपि दोषबीजक्षये कैवल्यमिति” ( योगसूत्र ३-५० ) ।।१८।। = = असङ्गश्चाऽस्मयश्चैव स्थितावुपनिमन्त्रणे । बीजं पुनरनिष्टस्य प्रसङ्गः स्यात् किलाऽन्यथा ।। १९ ।। असङ्गश्चेति । उपनिमन्त्रणे उक्तसमाधिस्थस्य देवैर्दिव्यस्त्रीरसायनाद्युपढौकनेन भोगनिमन्त्रणे असङ्गश्चाऽस्मयश्चैव स्थितौ बीजम् । सङ्गकरणे पुनर्विषय प्रवृत्तिप्रसङ्गात् स्मयकरणे च कृतकृत्यमात्मानं मन्यमानस्य समाधावुत्साहभङ्गात् । एतदेवाह- अन्यथा = असङ्गाऽस्मयाऽकरणे पुनः किल इति सत्ये अनिष्टस्य प्रसङ्गः (स्यात्) इति । तदिदमुक्तं- “ ५ स्थान्युपनिमन्त्रणे सङ्ग - स्मयाऽकरणं पुनरनिष्टप्रसङ्गादिति” १ . हस्तादर्शे ‘...समाधिस्थदेवैः' इत्यशुद्धः पाठः । २. हस्तादर्शे 'गकरणे ' इति त्रुटितः पाठः । ३. हस्तादर्शे ' ...षयवृत्ति....' इति पाठः । ४. हस्तादर्शे 'अनिष्टसंग' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ स्थित्य...' इत्यशुद्धः पाठः । ।।४६४ ।। Page #470 -------------------------------------------------------------------------- ________________ FF hd (योगसूत्र ३-५१) ।।१९।। स्यात् क्षणक्रमसम्बन्धसंयमाद्यद्विवेकजम् । 'ज्ञानं जात्यादिभिस्तच्च तुल्ययोः प्रतिपत्तिकृत् ।।२०।। ___स्यादिति । क्षणः = सर्वाऽन्त्यः कालाऽवयवस्तस्य क्रमः = पौर्वापर्यं तत्सं(बन्धसं)यमात् (=क्षणक्रमसम्बन्धसंयमात्) सूक्ष्मान्तरसाक्षात्करणसमर्थात् यद्विवेकजं ज्ञानं स्यात् । यदाह"क्षणक्रमयोः सम्बन्धसंयमाद्विवेकजं ज्ञानमिति” (योगसूत्र ३-५२) । तच्च जात्यादिभिस्तुल्ययोः पदार्थयोः प्रतिपत्तिकृत् = विवेचकम् । तदुक्तं- “जाति-लक्षण-देशैरन्यताऽनवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिरिति” (योगसूत्र ३-५३) । पदार्थानां भेदहेतवो हि जाति-लक्षण-देशा भवन्ति । जातिः पदार्थभेत्री, यथा गौरयं महिषोऽयमिति । जात्या तुल्ययोर्लक्षणं भेदकम् , यथा 'इयं कर्बुरा इयं चाऽरुणे'ति । उभाभ्यामभिन्नयोर्देशो भेदहेतुः, यथा तुल्यप्रमाणयोरामलकयोर्भिनदेशस्थितयोः । यत्र च त्रयमपि न भेदकं, यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परणाण्वोः, तत्र संयमजनिताद्विवेकजज्ञानादेव भवति भेदधीरिति ।।२०।। तारकं सर्वविषयं सर्वथाविषयाऽक्रमम् । शुद्धिसाम्येन कैवल्यं ततः पुरुष-सत्त्वयोः ।।२१।। तारकमिति । तच्च विवेकजं ज्ञानं तारयत्यगाधात्संसारपयोधेर्योगिनमित्यान्वर्थिक्या । १. हस्तादर्श 'ज्ञाना' इत्यशुद्धः पाठः । २. हस्तादर्श ‘कर्तुरा' इत्यशुद्धः पाठः । ३. हस्तादर्श 'सर्वथा' पदं नास्ति । २६/२१ ||४६५।। Jain Education Interational For Private & Personal use only Page #471 -------------------------------------------------------------------------- ________________ FFhoto संज्ञया तारकं उच्यते। तथा सर्वविषयं सर्वाणि तत्त्वानि महदादीनि विषयो यस्य तत्तथा। तथा सर्वथा = सर्वैः प्रकारैः सूक्ष्मादिभेदैर्विषयो यस्य तच्च तदक्रमं च (=विषयाऽक्रम) निःशेषनानाऽवस्थापरिणतव्यर्थिकभावग्रहणे क्रमरहितं चेति कर्मधारयः । इत्थं चाऽस्य संज्ञाविषय-स्वभावा व्याख्याताः। तदुक्तं- “तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति” (योगसूत्र ३-५४) । 'ततः = तस्मात् ज्ञानात् पुरुष-सत्त्वयोः शुद्धिसाम्येन कैवल्यं भवति । तत्र पुरुषस्य शुद्धिरुपचरित'भोगाऽभावः । सत्त्वस्य तु सर्वथा कर्तृत्वाऽ•भिमाननिवृत्त्या स्वकारणेऽनुप्रवेश इति । तदिदमुक्तं- “सत्त्व-पुरुषयोः शुद्धिसाम्ये कैवल्यमिति” (योगसूत्र ३-५५) ।।२१।। इत्थमन्यैरुपदर्शिते योगमाहात्म्ये उपपत्त्यनुपपत्त्योर्दिशा प्रदर्शयन्नाह इह सिद्धिषु वैचित्र्ये बीजं कर्मक्षयादिकम् । संयमश्चाऽत्र "सदसत्प्रवृत्तिविनिवृत्तितः ॥२२॥ इहेति । इह प्रागुक्तग्रन्थे सिद्धिषु वैचित्र्ये कर्मक्षयादिकं बीजं, तथाज्ञाने तथाज्ञानावरणक्षयोपशमादेर्वीर्यविशेषे च वीर्यान्तरायक्षयोपशमादेर्हेतुत्वात् । संयमश्चाऽत्र = उक्तसिद्धिषु १. मुद्रितप्रतो'...णतत्वत आ(णता)र्थिक...' इत्यशुद्धः पाठः । २. हस्तादर्श'...मत्रमं' इत्यशुद्धः पाठः । हस्तादर्शविशेषे च 'विक्रम' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ ....चरिता | भोगाभावः' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'पुरुषसत्त्वयोः' इति पदव्यत्यासः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ६. हस्तादर्श 'दिशप्र' इत्यशुद्धः | पाठः । ६. हस्तादर्श 'प्रयन्ना..' इति त्रुटितोऽशुद्धश्च पाठः । ७. हस्तादर्श 'दिवसत्प्र..' इत्यशुद्धः पाठः ।। २६/२२ ४६६॥ Page #472 -------------------------------------------------------------------------- ________________ FFood सत्प्रवृत्त्यसन्निवृत्तिभ्यां (=सदसत्प्रवृत्तिविनिवृत्तितः) तथाविधक्षयोपशमाद्याधानद्वारैव बीजं न तु तत् तद्विषयज्ञानप्रणिधानादिरूपः, अनन्तविषयकज्ञानस्य प्रतिविषयं संयमाऽसाध्यत्वाद्विहिताऽनुष्ठानप्रणिधानमात्रसंयमेनैव मोहक्षयात्तदुपपत्तेः । चित्तप्रणिधानार्थं त्वालम्बनमात्रं क्वाऽपि न वारयामः । केवलमात्मप्रणिधानपर्यवसान एव सर्वः संयमः फलवानित्यात्मनो ज्ञेयत्वं विना सर्वं विलूनशीर्णं भवेदित्यधिकं स्वयमूहनीयम् ।।२२।। प्रायश्चित्तं पुनर्योगः प्राग्जन्मकृतकर्मणाम् । अब्धीनां 'निश्चयादन्तःकोटाकोटिस्थितेः किल ।।२३।। प्रायश्चित्तमिति । (प्राग्जन्मकृतकर्मणाम्=) प्राग्जन्मकृतपाप्मनां पुनः प्रायश्चित्तं योगः, तन्नाशकत्वात् तस्य । तथा किल इति सत्ये । अब्धीनां सागरोपमाणां अन्तःकोटाकोटीस्थितेः निश्चयात् अपूर्वकरणाऽऽरम्भेऽपि तावस्थितिककर्मसद्भावाऽऽवश्यकत्वस्य महाभाष्यादिप्रसिद्धत्वात् तस्य च धर्मसंन्यासैकनाश्यत्वादिति ।।२३।। निकाचितानामपि यः कर्मणां तपसा क्षयः । सोऽभिप्रेत्योत्तमं योगमपूर्वकरणोदयम् ॥२४ ।। १. हस्तादर्श 'निश्चयानन्तः' इत्यशुद्धः पाठः । २. हस्तादर्श '...पापानां' इति पाठान्तरः । ३. हस्तादर्श 'वपसः' इत्यशुद्धः पाठः । ४. हस्तादर्श '...तंसयोगा..' इत्यशुद्धः पाठः । २६/२४॥ ।।४६७।। Page #473 -------------------------------------------------------------------------- ________________ निकाचितानामिति । निकाचितानामपि उपशमनादिकरणान्तरायोग्यत्वेन' व्यवस्थापितानामपि कर्मणां यस्तपसा क्षयो भणित इति शेषः । “तवसा उ निकाइआणं पि” (विशेषावश्यकभाष्य-२०४६) इति वचनात् । सोऽपूर्वकरणोदयं उत्तमं योगं धर्मसंन्यासलक्षणं अभिप्रेत्य, न तु यत्किञ्चित्तप इति द्रष्टव्यम् । तत्त्वमत्रत्यं अध्यात्मपरीक्षादौ विपञ्चितम् ।।२४।। अपि क्रूराणि कर्माणि क्षणाद्योगः क्षिणोति हि । ज्वलनो ज्वालयत्येव कुटिलानपि पादपान् ।।२५।। दृढप्रहारिशरणं चिलातीपुत्ररक्षकः । अपि पापकृतां योगः पक्षपातान्न शङ्कते ।।२६।। अहर्निशमपि ध्यातं योग इत्यक्षरद्वयम् । अप्रवेशाय पापानां ध्रुवं वज्राऽर्गलायते ।।२७।। आजीविकादिनाऽर्थेन योगस्य च विडम्बना । पवनाऽभिमुखस्थस्य ज्वलनज्वालनोपमा ।।२८।। योगस्पृहाऽपि संसारतापव्ययतपात्ययः । महोदयसरस्तीरसमीरलहरीलवः ।।२९।। १. मुद्रितप्रतौ ....करणान्तसंयोग्य(ज्य)त्वेन' इत्यशुद्धः पाठः । २६/२९ ।।४६८।। Jain Education Interational For Private & Personal use only Page #474 -------------------------------------------------------------------------- ________________ sh, योगाऽनुग्राहको योऽन्यः परमेश्वर इष्यते । अचिन्त्यपुण्यप्राग्भारयोगाऽनुग्राह्य एव सः ।।३०।। भरतो भरतक्षोणी भुजानोऽपि महामतिः । तत्कालं योगमाहात्म्याद बुभुजे केवलश्रियम् ।।३१।। पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ।।३२।। ।। इति योगमाहात्म्यद्वात्रिंशिका ।।२६।। ॥ अथ भिक्षुद्वात्रिंशिका ।।२७।। अनन्तरं योगमाहात्म्यमुपदर्शितं तच्च भिक्षौ सम्भवतीति तत्स्वरूपमिहोच्यते - नित्यं चेतः समाधाय यो निष्क्रम्य गुरूदिते । प्रत्यापिबति नो वान्तमवशः' कुटिलभ्रुवाम् ।।१।। नित्यमिति । यो निष्क्रम्य द्रव्यभावगृहात् योग्यतायां सत्यां गुरूदिते = ज्ञानवृद्धवचने (४६९ ।। नित्यं = निरन्तरं चेतः समाधाय = प्रणिधाय वान्तं = परित्यक्तं विषयजम्बालं नो १. हस्तादर्श 'योन्य' इति पाठः । १. हस्तादर्श'...मविशः' इत्यशुद्धः पाठः । २. हस्तादर्श प्रमेणि...' इत्यशुद्दः पाठः । Jain Education Interational For Private & Personal use only Page #475 -------------------------------------------------------------------------- ________________ नैव प्रत्यापिबति = पुनराद्रियते अवशः कुटिल वां = पुरन्ध्रीणाम् ।।१।। पृथिव्यादींश्च षटकायान् सुखेच्छूनसुखद्विषः । गणयित्वाऽऽत्मतुल्यान् यो महाव्रतरतो भवेत् ।।२।। पृथिव्यादीनिति- व्यक्तः ।।२।। औदेशिकं न भुञ्जीत त्रसस्थावरघातजम् । बुद्धोक्तध्रुवयोगी यः कषायांश्चतुरो वमेत् ।।३।। औदेशिकमिति । औदेशिकं कृताद्यन्यच्च सावद्यम् । बुद्धोक्तेन = जिनवचनेन ध्रुवयोगी = नित्योचितयोगवान् (=बुद्धोक्तध्रुवयोगी) ।।३।। __ निर्जातरूपरजतो गृहियोगं च वर्जयेत् । सम्यग्दृष्टिः सदाऽमूढस्तपः संयमबुद्धिषु ॥४॥ निर्जातरूपेति । निर्जातरूपरजतो = निर्गतसुवर्णरूप्यः । परिग्रहान्तरनिर्गमोपलक्षणमेतत् । गृहियोगं मूर्च्छया गृहस्थसम्बन्धं (च वर्जयेत्) । सम्यग्दृष्टिः = भावसम्यग्दर्शनी यः ।।४।। न यश्चाऽऽगामिनेऽर्थाय सन्निधत्तेऽशनादिकम् । साधर्मिकान्निमन्त्र्यैव भुक्त्वा स्वाध्यायकृच्च यः ।।५।। १. मुद्रितप्रती 'तथा सं...' इत्यशुद्धः पाठः । |||४७०।। Page #476 -------------------------------------------------------------------------- ________________ नेति । आगामिनेऽर्थाय = श्वः परश्वो वा भाविने प्रयोजनाय । निमन्त्र्यैव इत्यनेन स्वात्मतुल्यसाधर्मिकवात्सल्यसिद्धिरुक्ता । भुक्त्वा स्वाध्यायकृच्च इत्यत्र 'च'शब्दाच्छेषाऽनुष्ठानपरत्वग्रहेण नित्याऽप्रमादित्वमुक्तम् ।।५।। न कुप्यति कथायां यो नाऽप्युच्चैः कलहायते । उचितेऽनादरो यस्य नाऽऽदरोऽनुचितेऽपि च ।।६।। न कुप्यतीति । व्यक्तः ।।६।। 'आक्रोशादीन्महात्मा यः सहते ग्रामकण्टकान् । न बिभेति भयेभ्यश्च स्मशाने प्रतिमास्थितः ।।७।। आक्रोशादीनिति । आक्रोशादीन् = आक्रोश-प्रहार-तर्जनान् ग्रामकण्टकान् ग्रामाणामिन्द्रियाणां कण्टकवदुःखहेतुत्वात् ।।७।। आक्रुष्टो वा हतो वाऽपि लूषितो वा क्षमासमः । व्युत्सृष्टत्यक्तदेहो योऽनिदानश्चाऽकुतूहलः ।।८।। आक्रुष्टो वेति । आक्रुष्टो वा कुवचनैः, हतो वाऽपि दण्डादिभिः, लूषितो वा खड्गा २७/८ ।।४७१॥ १. हस्तादर्श 'नको...' इत्यशुद्धः पाठः । २. हस्तादर्श 'हते' इति पाठः । Jain Education Interational Page #477 -------------------------------------------------------------------------- ________________ ।। दिभिः, क्षमासमः पृथ्वीसमो; निष्प्रतिकर्मत्वात् । व्युत्सृष्टो 'भावप्रतिबन्धाऽभावेन त्यक्तश्च विभूषाऽकरणेन देहः = शरीरं यस्य(येन)स (= व्युत्सृष्टत्यक्तदेहः) तथा । योऽनिदानो भाविफलाऽऽशंसारहितो अकुतूहलश्च नटादिदर्शने ।।८।। यश्च निर्ममभावेन काये दोषैरुपप्लुते । जानाति पुद्गलाऽन्यस्य न मे किञ्चिदुपप्लुतम् ।।९।। यश्चेति । यश्च निर्ममभावेन = आकालं सकलपरिग्र स्वभावाऽनुभवजनितेन निर्ममत्वेन काये = शरीरे दोषैः = ज्वरशूलादिभिः = उपप्लुते का जानाति 'पुद्गलाऽन्यस्य सतो न मे किञ्चिदुपप्लुतं, पुद्गला एव परमुपप्लुता' इति २७/११ | ।।९।। स्वसंसर्गिणि निर्ममत्वभावनौपयिकं नमिराजर्षिदृष्टान्तमुपदर्शयति तथाहि मिथिलानाथ बभाण मिथिलादाहे न मे किञ्चन दह्यते ॥१०॥ तथाहीति सम्प्रदायव्यक्तोऽयम् ।।१०।। हस्तेन चाऽघ्रिणा वाचा संयतो विजितेन्द्रियः । अध्यात्मध्याननिरतः सूत्रार्थं यश्च चिन्तयेत् ।।११।। १. मुद्रितप्रतौ 'भवप्र...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मतो (स्यात्मनो)...' इत्यशुद्धः पाठः । ||४७२।। Page #478 -------------------------------------------------------------------------- ________________ हस्तेन चेति । हस्तेन चाऽघ्रिणा' च संयतः, कारणं विना कूर्मवल्लीनत्वेन स्थितेः ।। कारणे च सम्यग्गमनात् । वाचा संयतो = अकुशलवाग्निरोध-कुशलवागुदीरणाभ्यां', विजितेन्द्रियो = निवृत्तविषयप्रसरः ।।११।। ___ अज्ञातोच्छं चरन् शुद्धमलोलोऽरसगृद्धिमान् । ऋद्धि-सत्कार-पूजाश्च जीवितं यो न काङ्क्षति ।।१२।। अज्ञातोच्छमिति । शुद्धं = भावपरिशुद्धं, "स्तोकं स्तोकमित्यर्थः । 'अलोलो = नाऽप्राप्तप्रार्थनपरः । अरसगृद्धिमान् = प्राप्तेष्वप्यप्रतिबद्धः । ऋद्धिः 'आमर्पोषध्यादिका, सत्कारो वस्त्रादिना, पूजा प्रसूनादिना, जीवितं = असंयमजीवितम् (यो न काङ्क्षति)।।१२।। यो न कोपकरं ब्रूयात् कुशीलं न वदेत्परम् । प्रत्येकं पुण्यपापज्ञो जात्यादिमदवर्जितः ॥१३॥ य इति । परं = स्वपक्षविनेयव्यतिरिक्तम् । प्रत्येकं =प्रतिस्वं पुण्यपापज्ञो, अन्यसम्बन्धिनोऽन्यत्राऽसङक्रमात । इत्थं च जात्यादिमदैर्वर्जितः ।।१३।। प्रवेदयत्यार्यपदं परं स्थापयति स्थितः । ||४७३॥ १. हस्तादर्श 'चाद्रिणा' इत्यशुद्धः पाठः । २. हस्तादर्श गामनात्' इत्यशुद्धः पाठः । ३. हस्तादर्श ....दीराणाभ्यां' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'स्तोकमिति पदं सकृदेव दृश्यते इति त्रुटितः पाठः । ५. हस्तादर्श 'आलोल' इत्यशुद्धः पाठः । ६. हस्तादर्श 'आमषेष....' इत्यशुद्धः पाठः । २७/१३ Page #479 -------------------------------------------------------------------------- ________________ धर्मचेष्टां कुशीलानां परित्यजति यः पुनः ।।१४।।। प्रवेदयतीति । प्रवेदयति = कथयति आर्यपदं = शुद्धधर्मपदम् ।।१४।। उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा । यस्य नाऽस्ति जुगुप्सा च क्रीडा चाऽपि कदाचन ।।१५।। उद्वेग इति । व्यक्त:२ ।।१५।। इदं शरीरमशुचि शुक्रशोणितसम्भवम् । अशाश्वतं च मत्वा यः शाश्वतार्थं प्रवर्तते ।।१६।। इदमिति । व्यक्तः ।।१६।। स भावभिक्षुर्भेत्तृत्वादागमस्योपयोगतः । भेदनेनोग्रतपसा भेद्यस्याऽशुभकर्मणः ॥१७॥ ___स इति । स भावभिक्षुः भण्यते । उग्रतपसा भेदनेनाऽशुभकर्मणो भेद्यस्याऽऽगमोपयोगतो भेत्तृत्वात् । तदुक्तं- “भेत्तागमोवउत्तो दुविहतवो भेअणं च भेत्तव्वम् । अठ्ठविहं कम्मखुहं तेण निरुत्तं सभिक्खुत्ति"।। (दशवैकालिकनियुक्ति ३४२)।।१७।। १. हस्तादर्श 'यः' नास्ति । २. हस्तादर्श 'व्यक्त' इति पदं नास्ति । हस्तादर्शान्तरे च 'स्पष्टम्' इति पाठः । ३. मुद्रितप्रती 'आशाश्वतं' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘श्लोकद्वयं स्पष्टम् ।।१६।।' इति पाठः । २७/१७ ।।४७४।। Jain Education Intemational Page #480 -------------------------------------------------------------------------- ________________ भिक्षामात्रेण वा भिक्षुर्यतमानो यतिर्भवेत् । भवक्षयाद् भवान्तश्च चरकः संयमं चरन् ॥१८॥ भिक्षेति । भिक्षामात्रेण वा = सर्वोपधिशुद्धभिक्षावृत्तिलक्षणेन भिक्षुः । यतमानो भावतस्तथा तथा गुणेषु यतिर्भवेत् । भवक्षयात् = संसारनाशाद् भवान्तश्च । संयम सप्तदशप्रकारं चरन् चरकः ।।१८।। क्षपकः क्षपयन् पापं तपस्वी च तपःश्रिया । भिक्षुशब्दनिरुक्तस्य भेदाः खल्वर्थतो ह्यमी ॥१९॥ क्षपक इति। पापं क्षपयन् क्षपको भण्यते । तपःश्रिया = तपोलक्ष्म्या च तपस्वी। | खलु अमी हि प्रासङ्गिका अपि अर्थतो भिक्षुशब्दनिरुक्तस्य भेदाः, तदर्थं प्रत्यव्यभिचारात् सर्वेषाम् । तदाह भिक्षुशब्दनिरुक्तद्वारे नियुक्तिकृत्- “भिंदतो अ जहक्खुहं भिक्खु जयमाणओ जई होइ। संजमचरओ चरओ भवं खिवंतो भवंतो' अ ।। जं भिक्खमत्तवित्ती तेण य भिक्खु खवेइ जं खवणो । तवसंजमे तवस्सित्ति वावि अन्नो वि पज्जाओ ।।" (दशवैकालिकनियुक्ति १०/३४३-४) ।।१९।। तीर्णस्तायी व्रती द्रव्यं क्षान्तो दान्तो मुनिर्यतिः । ॥ १. मुद्रितप्रतौ 'तथा' पदं सकृदेव दृश्यते इति त्रुटितस्तत्र पाठः । २. मुद्रितप्रती 'भवंतो' पदं न दृश्यते । २७/१९ ||४७५।। Jain Education Intemational For Private & Personal use only Page #481 -------------------------------------------------------------------------- ________________ का २७/२१ ऋजुः प्रज्ञापको भिक्षुर्विद्वान् विरत-तापसौ ॥२०॥ तीर्ण इति । तीर्णवत् तीर्णो विशुद्धसम्यग्दर्शनादिलाभाद् भवार्णवम् । तायः = सुदृष्टमार्गोक्तिस्तद्वान् = तायी । सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः । हिंसादिविरतत्वाद् व्रती । रागद्वेषरहितत्वाद् द्रव्यम् । क्षमा करोतीति क्षान्तः । • दाम्यतीन्द्रियाणीति दान्तः । मन्यते जगतस्रिकालाऽवस्थामिति मुनिः । उत्तमाऽऽश्रमी प्रयत्नवान् वा = यतिः । मायारहितः = ऋजुः । अपवर्गमार्गस्य प्ररूपकः = प्रज्ञापकः । भिक्षुः प्रागुक्तार्थः । विद्वान् = पण्डितः । विरतो = विषयसुखनिवृत्तः । तापसः = तपःप्रधानत्वात् ।।२०।। "बुद्धः प्रव्रजितो मुक्तोऽनगारश्चरकस्तथा । पाखण्डी ब्राह्मणश्चैव परिव्राजकसंयतौ ॥२१॥ बुद्ध इति । बुद्धो = अवगततत्त्वः । प्रव्रजितः = पापान्निष्क्रान्तः । मुक्तो = निर्लोभः । अनगारो = द्रव्यभावाऽगारशून्यः । तथा चरकः = प्रागुक्तार्थः । पाषण्डी = पाशाड् डीनः । ब्राह्मणश्चैव = विशुद्धब्रह्मचारी १. हस्तादर्श 'विधान' इत्यशुद्धः पाठः । २. हस्तादर्श 'स्वदृष्ट...' इति पाठः । २. हस्तादर्श 'द्रष्टम्' इत्यशुद्धः पाठः । ३. हस्तादर्श · न्द्रियादीनीति' इति पाठः । .....चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ४. हस्तादर्श 'दविण' इति पाठः । ५. मुद्रितप्रतौ 'अ' नास्ति । ||४७६ ॥ Jain Education Interational Page #482 -------------------------------------------------------------------------- ________________ ।। चैव । परिव्राजकः = पापवर्जकः । संयतः = संयमवान् ।।२१।। साधुर्लक्षश्च तीरार्थी निर्ग्रन्थः श्रमणस्तथा । इत्यादीन्यभिधानानि गुणभाजां महात्मनाम् ।।२२।। साधुरिति । निर्वाणसाधकयोगसाधनात् साधुः। स्वजनादिषु स्नेहविरहाद् ऋ(लू)क्षश्च । तीरार्थी भवार्णवस्य । निर्ग्रन्थो ग्रन्थाभावात् । तथा श्रमणः श्रामण्ययोगात् इत्यादीनि अभिधानानि = नामानि गुणभाजां = गुणशालिनां महात्मनां = भावसाधूनाम् । तदुक्तं"तिने ताई दविए' वई अ खंते अ दन्त विरए अ। मुणि तावस पन्नवगुज्जु भिक्खु बुद्धे जइ विऊ अ ।। पब्वइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे य समणे निग्गन्थे संजए मुत्ते ।। साहू लूहे अ तहा तीरट्ठी होइ चेव णायब्वो । नामाणि एवमाइणि होंति तवसंजम२७/२३ | रयाणं ।।" (दशवैकालिकनियुक्ति १०/३४५-६-७) ।।२२।। संवेगो विषयत्यागः सुशीलानां च सङ्गतिः । ज्ञान-दर्शन-चारित्राऽऽराधना विनयस्तपः ॥२३॥ ___ संवेग इति । संवेगो = मोक्षसुखाऽभिलाषः। अयं च निर्वेदस्याऽप्युपलक्षणः । विषयत्यागो = भोगसाधनपरिहारः । सुशीलानां = साधूनां च सङ्गतिः । १. 'मातरहितो = मायारहित' इत्यर्थः । २. 'णाणासति = नानास्मृतिः' इत्यर्थः । ३. हस्तादर्श 'लक्षणं' इति लिङ्गव्यत्ययादशुद्धः पाठः । ४७७॥ Jain Education Interational Page #483 -------------------------------------------------------------------------- ________________ ज्ञानं यथास्थितपदार्थपरिच्छेदनम्। 'दर्शनं नैसर्गिकादि । चारित्रं सामायिकादि। आराधना चरमकाले निर्यापणरूपा (=ज्ञान-दर्शन-चारित्रा| राऽऽधना)। विनयो = ज्ञानादिविषय उपचारः । तपो यथाशक्त्यनशनाद्यासेवनम् ।।२३।। क्षान्तिर्दिवमृजुता तितिक्षा मुक्त्यदीनते । आवश्यकविशुद्धिश्च भिक्षोर्लिङ्गान्यकीर्तयन् ॥२४॥ क्षान्तिरिति । शान्तिः = आक्रोशादिश्रवणेऽपि क्रोधत्यागः । मार्दवं = जात्यादिभावेऽपि मानत्यागः । ऋजुता = परस्मिन्निकृतिपरेऽपि मायापरित्यागः । तितिक्षा = क्षुदादिपरीषहोपनिपातसहिष्णुता । मुक्तिः = धर्मोपकरणेऽप्यमूर्छा । अदीनता = अशनाद्यलाभेऽपि वैक्लव्याऽभावः । आवश्यकविशुद्धिश्च = अवश्यङ्करणीययोगनिरतिचारता । एतानि भिक्षोर्लिङ्गान्यकीर्तयन् गौतमादयो महर्षयः । तदुक्तं-"संवेगो णिब्वेओ विसयविवेगो सूसीलसंसग्गी । आराहणा तवो नाण-दंसण-चारित्त-विणओ अ ।। खंती य मद्दवऽज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी स होंति भिक्खुस्स लिंगाई।।”(दशवैकालिकनियुक्ति १०/३४८-३४९)।।२४।। ||४७८ ।। एतद्गुणाऽन्वितो भिक्षुर्न भिन्नस्तु विपर्ययात् । १. हस्तादर्श 'दर्शने' इति त्रुटितोऽशुद्धश्च पाठः । २७/२४ ॥ Jain Education Interational Page #484 -------------------------------------------------------------------------- ________________ स्वर्णं कषादिशुद्धं चेयुक्तिस्वर्णं न तत्पुनः ।।२५।। 'एतदिति । एतद्गुणान्वितः = प्रागुक्ताऽखिलगुणसम्पन्नो भिक्षुः । भिन्नस्तु न, विपर्ययात्' = उक्तगुणाऽभावात् यतः कषादिशुद्धं स्वर्णगुणोपेतं चेत् भवति तदा स्वर्ण भवति । ते चामीविषघातनम्, वीर्यस्तम्भनकर्तृत्वम्, मङ्गलप्रयोजनत्वम्, यथेष्टकटकादिप्रकारसम्पादकत्वम्, तप्यमानस्य प्रादक्षिण्येनाऽऽवर्तनम्, सारोपेतत्वम्, अग्निनाऽदाह्यत्वम्, अकुथनीयत्वं च । युक्तिस्वर्णं = वर्णादिसाम्येन स्वर्णवदाभासमानं पुनस्तत् स्वर्णं न भवति, स्वर्णगुणाऽभावात् । तथा प्रकृतेऽपि भावनीयमिति ।।२५।। षट्कायभिद्' गृहं कुर्याद् भुजीतौदेशिकं च यः । पिबेत् प्रत्यक्षमप्कायं स कथं भिक्खुरुच्यते ॥२६।। ___षट्कायेति । षट्कायभिद् यत्र क्वचन पृथिव्याधुपमर्दकः गृहं सम्भवत्येवैषणीयाऽऽलये मूर्च्छया वसतिं भाटकगृहं वा कुर्यात् । औदेशिकं च भुञ्जीत योऽपुष्टालम्बनः । प्रत्यक्षं उपलभ्यमान एव 'अकायं पिबेत् तत्त्वतो विनाऽऽलम्बनेन स कथं भिक्षुः = भावभिक्षुः उच्यते ?। तदुक्तं का २७/२६ । ४७९।। १. हस्तादर्श ‘एतणादिति' इत्यधिकोऽशुद्धश्च पाठः । २. हस्तादर्श 'विपर्ययाभावात्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'भिद् गृहं' इति पाठो नास्ति । ४. हस्तादर्श 'अपाकायं' इत्यशुद्धः पाठः । Jain Education Intemational Page #485 -------------------------------------------------------------------------- ________________ ॥ ।। "उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पच्चक्खं च जलगयं जो पिबइ कहं || तु सो भिक्खू ।।” (दशवैकालिकनियुक्ति १०/३५७) ।।२६ ।। गृहिणोऽपि सदारम्भा याचमाना ऋजु जनम् । दीनाऽन्धकृपणा ये च ते खलु द्रव्यभिक्षवः ।।२७।। त्रसस्थावरहन्तारो' नित्यमब्रह्मचारिणः । मिथ्यादृशः सञ्चयिनस्तथा सचित्तभोजिनः ॥२८ ।। विशुद्धतपसोऽभावादज्ञानध्वस्तशक्तयः । त्रिधा पापेषु निरता हन्त त्यक्तगृहा अपि ।।२९।। २७/३१ वर्धकिर्द्रव्यतो भिक्षुरुच्यते दारुभेदनात् । द्रव्यभिक्षणशीलत्वाद् ब्राह्मणादिश्च विश्रुतः ॥३०॥ प्रधानद्रव्यभिक्षुश्च शुद्धः संविग्नपाक्षिकः। सम्पूर्य प्रतिमां दीक्षां गृही यो वा ग्रहीष्यति ॥३१॥ ||४८०॥ १. 'हन्तारा' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. मुद्रितप्रतौ हस्तादर्श च 'प्रतिमादीक्षां' इत्यशुद्धः पाठः । संदर्भानुसारेणाऽपेक्षितः पाठो योजितः ।। Jain Education Interational Page #486 -------------------------------------------------------------------------- ________________ + केचिदुक्ता अनन्तेषु भावभिक्षोर्गुणाः पुनः । भाव्यमाना अपि' सम्यक् परमानन्दसम्पदे ।।३२।। शिष्टाः श्लोकाः षडुत्तानाऽर्थाः ।।२७-२८-२९-३०-३१-३२।। ॥ इति भिक्षुद्वात्रिंशिका ।।२७।। 2 ) ॥ अथ दीक्षाद्वात्रिंशिका ॥२८॥ अनन्तरं भिक्षुरुक्तः । स च दीक्षासम्पन्नो भवतीति तत्स्वरूपमिहोच्यते - दीक्षा हि श्रेयसो दानादशिवक्षपणात्तथा । ___ सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा ।।१।। दीक्षा हीति । दीक्षा हि श्रेयसो दानात् तथाऽशिवक्षपणात् निरुच्यते । तदाह“श्रेयोदानादशिवक्षपणाच्च सतां 'मतेह दीक्षेति" (षोडशक ११/२) । सा निरुक्तार्थशालिनी दीक्षा नियोगेन = नियमेन ज्ञानिनो भवति । ___अथवा ज्ञानिनिश्रावतो = गुरुपरतन्त्रस्य ।।१।। एतदेव भावयति१. मुद्रितप्रतो 'अमी' इति पाठः । २. हस्तादर्श ...संमदैः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'दीक्षा हीति' इति नास्ति । ४. हस्तादर्श ‘सतां ते' इति त्रुटितोऽशुद्धश्च पाठः । ॥४८१।। Jain Education Interational For Private & Personal use only Page #487 -------------------------------------------------------------------------- ________________ thods क क्षा द्वा त्रिं शि का २८/४ एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्तो युगपद् ग्रामं गन्तव्यं यदुभावपि । । २ । । एक इति । स्पष्टः ||२|| यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः । योग्यता तस्य दीक्षायामपि माषतुषाऽऽकृतेः । । ३ । यस्येति । यस्य क्रियासु = चारित्राऽनुष्ठानेषु सम्यग्गुरुरागतः सामर्थ्यं स्यात् तस्य तुषाSS * कृतेरपि मुग्धतया माषतुष • सदृशस्यापि दीक्षायां योग्यता || ३ || या दीक्षाsस्य विधिना नामादिन्यासपूर्वकम् । हन्ताऽनुपप्लवश्चाऽयं सम्प्रदायाऽनुसारतः ।।४।। देयेति । अस्य = योग्यस्य विधिना आगमोक्तेन दीक्षा देया नामादिन्यासपूर्वकम् । अयं च नामादिन्यासः सम्प्रदायानुसारतो हन्ताऽनुपप्लवो = विघ्नरहितः, प्रवचनप्रसिद्धनामादिन्यासेनैव निर्विघ्नदीक्षानिर्वाहात्, कृतप्रशान्तादिनाम्नः प्रशमादिस्वरूपोपलम्भात् । तन्नाम्नैव तद्गुणस्मरणाद्युपलब्धेः जात्यादिसम्पन्नानां प्रतिपन्नपालनोपपत्तेः । तदुक्तं“ तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः ।। नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । ....... चिह्नद्वयवर्ती पाठो हस्तादर्शे नास्ति । = ।।४८२ Page #488 -------------------------------------------------------------------------- ________________ तत्स्थापना तु दीक्षा तत्त्वेनाऽन्यस्तदुपचारः।।" (षोडशक १२/७-८) ।।४।। नाम्नाऽन्वर्थेन कीर्तिः स्यात् स्थापनाऽऽरोग्यकारिणी । द्रव्येण च व्रतस्थैर्य भावः सत्पददीपनः ।।५।। नाम्नेति । नाम्नाऽन्वर्थेन गुणनिष्पन्नेन कीर्तिः स्यात् । तत्कीर्तनमात्रादेव शब्दाऽर्थप्रतिपत्तेर्विदुषां प्राकृतजनस्य च मनःप्रसादात्, यथा भद्रबाहु-सुधर्मस्वामिप्रभृतीनाम् । स्थापना = आकारविशेषरूपा रजोहरणमुखवस्त्रिकादिधारणद्वारेण भावगर्भया प्रवृत्त्या आरोग्यकारिणी, भावरोगोपमर्दनात् । द्रव्येण च आचारादिश्रुतरूपेण सकलसाधुक्रियारूपेण वा व्रतस्थैर्य प्रतिपन्नविरतिदायँ भवति । भावः = सम्यग्दर्शनादिप्रकर्षरूपः सत्पददीपनः = आचार्यत्वादिवि शिष्टाऽवस्थिताऽवस्थाप्रकाशकः । सामस्त्येनाऽप्येषां प्रकृष्टानां कीर्त्यादिहेतुत्वं सम्भवत्येवेत्यूहनीयम् । तदुक्तं "कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ।।” (षोडशक १२/९) अत्र ध्रुवपदं भावप्रधाननिर्देशात् स्थैर्यवाचकमिति वदन्ति ।।५।। इहाऽऽदौ वचनक्षान्तिधर्मक्षान्तिरनन्तरम् । अनुष्ठानं च वचनानुष्ठानात् स्यादसङ्गकम् ।।६।। १. हस्तादर्श 'विशिष्टावस्थाप्रका...' इति पाठः । २८/६ ॥४८३।। Jain Education Interational Page #489 -------------------------------------------------------------------------- ________________ इहेति । इह = दीक्षायां आदौ प्रथमं वचनक्षान्तिः । अनन्तरं धर्मक्षान्तिः भवति । अनुष्ठानं च वचनाऽनुष्ठानात् अध्ययनाद्यभिरतिलक्षणादनन्तरं तन्मयीभावेन स्पर्शाऽऽप्तौ सत्यां असङ्गकं स्यात् ।।६।। उपकाराऽपकाराभ्यां विपाकाद्वचनात्तथा । धर्माच्च समये क्षान्तिः पञ्चधा हि प्रकीर्तिता ।।७।। उपकारेति । (१) उपकारेण क्षान्तिः उपकारिप्रोक्तदुर्वचनाद्यपि सहमानस्य । (२) अपकारेण क्षान्तिः ‘मम दुर्वचनाद्यसहमानस्याऽयमपकारी भविष्यती'त्याशयेन क्षमां कुर्वतः। (३) विपाकात् चेहपरलोकगताऽनर्थपरम्परालक्षणादालोच्यमानात् शान्तिविपाकक्षान्तिः । (४) तथा वचनात् क्षान्तिरागममेवाऽऽलम्बनीकृत्योपकारित्वादिनैरपेक्ष्येण क्षमां कुर्वतः । (५) धर्मात् च आत्मशुद्धस्वभावलक्षणाज्जायमाना क्षान्तिश्चन्दनस्येव शरीरस्य च्छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी सहजत्वेनाऽवस्थिताऽविकारिणी। एवं पञ्चधा (हि) क्षान्तिः समये प्रकीर्तिता'। यदुक्तं- "उपकार्यपकारि-विपाक-वचनधर्मोत्तरा मता शान्तिरिति” (षोडशक १०/१०)।।७।। प्रीति-भक्ति-वचोऽसङ्गरनुष्ठानं चतुर्विधम् । २८/७ ||४८४|| १. हस्तादर्श 'छेदददाहा...' इत्यधिकतयाऽशुद्धः पाठः । २. हस्तादर्श 'कीर्तितात्' इत्यधिकतयाऽशुद्धः पाठः । ३. हस्तादर्श 'संगर' इत्यशुद्धः त्रुटितव पाठः । Jain Education Interational Page #490 -------------------------------------------------------------------------- ________________ फेर रु ho de f क्षा द्वा का २८/८ आद्यद्वये क्षमास्तिस्रोऽन्तिमे द्वे चाऽन्तिमद्वये ॥ ८ ॥ प्रीतीति । प्रीति-भक्ति-वचोऽसङ्गैः निमित्तैः चतुर्विधमनुष्ठानम् । प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं, वचनाऽनुष्ठानं, असङ्गाऽनुष्ठानं चेति । तत्र सुन्दरतामात्राऽऽहितरुचिपूर्वकाऽनुष्ठानमाद्यम् । गौरवाऽऽहितरुचिपूर्वकाऽनुष्ठानं द्वितीयम् । सर्वत्राऽऽप्तवचनपुरस्कारप्रवृत्तमनुष्ठानं तृतीयम् । अभ्यासादात्मसाद्भूतं परद्रव्याऽनपेक्षमनुष्ठानं चतुर्थम् । यदाहु:तत्प्रीतिभक्तिवचनाऽसङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाऽभिज्ञैः परमपदसाधनं सर्वमेवैतत् ।। यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ।। गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद् भक्त्यनुष्ठानम् । 11 अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्यात्प्रीतिभक्तिगतम् ।। वचनात्मिका प्रवृत्तिः ‘सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।। यत्त्वभ्यासाऽतिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।। चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनाऽसङ्गाऽनुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ।। ( षोडशक १० / २-८ ) । । आद्यद्वये प्रीतिभक्त्यनुष्ठानलक्षणे तिस्रः क्षमा भवन्ति उपकाराऽपकार - विपाकोत्तराः । अन्तिमद्वये च वचनाऽसङ्गाऽनुष्ठानलक्षणे ( अन्तिमे) द्वे क्षमे भवतो वचन - धर्मोत्तरे १. हस्तादर्शे ‘आद्यद्वयी' इत्यशुद्धः पाठः । २. हस्तादर्शे ' स्रोतिमि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'सद्' इत्यशुद्धः पाठ: । ४. मुद्रितप्रतौ 'सर्वत्रोचि ...' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठः हस्तादर्शे नास्ति । ।।४८५ ।। Page #491 -------------------------------------------------------------------------- ________________ 44 का तदुक्तं- "आद्यद्वये त्रिभेदा चरमद्वितये 'द्विभेदे"ति (षोडशक.१०/१०) ।।८।। सूक्ष्माश्च विरलाश्चैवाऽतिचारा वचनोदये । स्थूलाश्चैव धनाश्चैव ततः पूर्वममी पुनः ॥९॥ सूक्ष्माश्चेति । सूक्ष्माश्च = लघवः प्रायशः कादाचित्कत्वात्, विरलाश्चैव सन्तानाऽभावात् अतिचाराः = अपराधाः वचनोदये भवन्ति। ततो वचनोदयात् पूर्वममी अतिचाराः पुनः स्थूलाश्च = 'बादराश्च (एव) घनाश्च = निरन्तराश्च (एव) भवन्ति। तदुक्तं-“चरमाऽऽद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव" (षोडशक १०/११) ।।९।। | ततो निरतिचारेण धर्मक्षान्त्यादिना किल । सर्वं संवत्सरादूर्ध्वं शुक्लमेवोपजायते ॥१०॥ तत इति । ततो = वचनोदयात् किल निरतिचारेण धर्मक्षान्त्यादिना, आदिपदेन धर्ममार्दवशुद्धब्रह्मादिग्रहः । सर्वं दशविधमपि क्षान्त्यादि संवत्सरादूर्ध्वं क्रियामलत्यागात् शुक्लमेवोपजायते ।।१०।। मासादौ व्यन्तरादीनां तेजोलेश्याव्यतिक्रमः । १. हस्तादर्श 'भेति' इति त्रुटितः पाठः । २. हस्तादर्श 'लवः' इति त्रुटितः पाठः । ३. मुद्रितप्रती 'बादारा...' इत्यशुद्धः पाठः । २८/१० ||४८६॥ Jain Education Interational Page #492 -------------------------------------------------------------------------- ________________ 4 बजक पर्याये युज्यते चेत्थं गुणश्रेणिप्रवृद्धितः ।।११।। मासादाविति । इत्थं च संवत्सरादूर्ध्वं सर्वशुक्लाऽऽपत्तौ च मासादौ पर्याये व्यन्त|| रादीनां तेजोलेश्याव्यतिक्रमः प्रज्ञप्त्युक्तो युज्यते गुणश्रेणिप्रवृद्धितः ।।११।। दिनानि पक्षा मासा वा गण्यन्ते शरदोऽपि च ।। नाऽस्यां गुणाऽविघातस्य गण्यतेऽवसरः पुनः ।।१२।। नैहिकाऽर्थाऽनुरागेण यस्यां पापविषव्ययः । वसन्तनृपचेष्टेव सा दीक्षाऽनर्थकारिणी ॥१३॥ इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् । २८/१५ या शिरोमुण्डनव्यङ्ग्या तां सद्दीक्षां प्रचक्षते ।।१४।। दिनानीति श्लोकत्रयमदः कण्ठ्यम् ।।१२-१३-१४।। विहाय पूर्वसंयोगमस्यामुपशमं व्रजन् । मनाक्कायं प्रकर्षेण निश्चयेन च पीडयेत् ।।१५।। विहायेति । अस्यां = सद्दीक्षायां पूर्वसंयोग = मातापित्रादिसंयोगं विहायोपशमं व्रजन् = प्राप्नुवन् कायं स्वदेहं मनाक अध्ययनादिकालेऽविकृष्टेन तपसा, प्रकर्षेण तदुत्तरं विकृष्टेन १. हस्तादर्श '...संयोगे' इत्यशुद्धः पाठः । ।।४८७ ।। Jain Education Interational Page #493 -------------------------------------------------------------------------- ________________ + ।। तपसा निश्चयेन च 'अन्त्येऽनशनादिरूपेण पीडयेत् ।।१५।। वीराणां दुश्चरः पन्था एषोऽनागमगामिनाम् । आदानीयाऽभिधानानां भिन्दतां स्वसमुच्छ्रयम् ।।१६।। शरीरेणैव युध्यन्ते दीक्षापरिणतौ बुधाः । दुर्लभं वैरिणं प्राप्य व्यावृत्ता बाह्ययुद्धतः ।।१७।। सर्वो यदर्थमारम्भः क्रियतेऽनन्तदुःखकृत् । सर्पलालनमङ्गस्य पालनं तस्य वैरिणः ।।१८।। शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः । २८/२१ तेषामेकाकिभावोऽपि क्रोधादिनियतः स्मृतः ।।१९।। नन्वेवं तं विना साधोः कथं भिक्षाटनाद्यपि । न, तस्य मोहाऽजन्यत्वादसङ्गप्रतिपत्तितः ॥२०॥ ससङ्गप्रतिपत्तिर्हि ममतावासनात्मिका । असङ्गप्रतिपत्तिश्च मुक्तिवाच्छाऽनुरोधिनी ।।२१।। ।।४८८॥ १. हस्तादर्श 'असे' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मोहजन्य...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only Page #494 -------------------------------------------------------------------------- ________________ फे रु ho de क्षा द्वा त्रिं शि का २८/२५ अनादिकालाऽनुगता महती सगवासना । तत्त्वज्ञानाऽनुगतया दीक्षयैव निरस्यते ।। २२ ।। यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । अत एव च तस्यैव दीक्षा सामायिकात्मिका ।। २३ ।। नाऽरत्यानन्दयोरस्यामवकाशः कदाचन । प्रचारो भानुमत्यभ्रे न तमस्तारकत्विषोः ।। २४ । वीराणामित्याद्यारभ्य नवश्लोकी प्रायो व्यक्तार्था ।।१६-१७-१८-१९-२०-२१-२२२३-२४ ।। शुद्धोपयोगरूपेयमित्थं च व्यवतिष्ठते । व्यवहारेऽपि नैवाऽस्या व्युच्छेदो वासनात्मना ।। २५ ।। शुद्धेति । इत्थं च ममत्वाऽरत्यानन्दाद्यनाक्रान्तसच्चिदानन्दमयशुद्धात्मस्वभावाऽऽचरणरूपत्वे इयं दीक्षा शुद्धोपयोगरूपा व्यवतिष्ठते, कषायलेशस्याप्यशुद्धताऽऽपादकस्याऽभावात् । व्यवहारेऽपि = आहार-विहारादिक्रियाकालेऽपि नैवाऽस्याः शुद्धोपयोगरूपाया दीक्षाया वासनात्मना व्युच्छेदः । १. हस्तादर्शे 'यो सम' इत्यशुद्धः पाठः । ।। ४८९ ।। Page #495 -------------------------------------------------------------------------- ________________ 45 न च वासनात्मनाऽविच्छिन्नस्य तत्फलविच्छेदो नाम, यथा 'मतिश्रुतोपयोगयोर|| न्यतरकालेऽन्यतरस्येति ध्येयम् ।।२५।। फले न 'तुल्यकक्षत्वं शुभ-शुद्धोपयोगयोः । येषामन्त्यक्षणे तेषां शैलेश्यामेव विश्रमः ।।२६।। फल इति । येषां वादिनां फले मोक्षलक्षणे शुभ-शुद्धोपयोगयोर्न तुल्यकक्षत्वं साधारण्येन प्रधानहेतुत्वं तेषां शैलेश्यामन्त्यक्षण एव विश्रमः स्यात्, तदैव सर्वसंवरोपपत्तेः । तदुपकारकत्वस्य चोभयत्राऽविशेषात्, तत्सन्निहितोपकारकत्वस्य च शुद्धोपयोगमात्राऽविश्रान्तत्वात्। आपेक्षिकस्य च तस्य "शुभोपयोगेऽप्यबाधाद्, उचितगुणवृत्तित्वेन न्याय्य त्वाच्चेति ।।२६।। एतदेव भावयति२८/२७ अध्यात्मादिकयोगानां ध्यानेनोपक्षयो यदि । हन्त वृत्तिक्षयेण स्यात्तदा तस्याप्युपक्षयः ॥२७॥ अध्यात्मिकेति । भावितार्थः ।।२७।। एतच्च व्यवहारे ध्यानाऽभावमभिप्रेत्योक्तं वस्तुतः तदा ध्यानमप्यनपायमेवेत्याह ।।४९०।। १. हस्तादर्श 'यथा के मति...' इत्यधिकः पाठः । २. हस्तादर्श 'कक्षतुल्यत्वं' इति पदव्यत्यासः । ३. हस्तादर्श 'सर्वसंचरो...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'आक्षेपिक...' इत्यशुद्धः पाठः । ५. हस्तादर्श मुद्रितप्रतिषु च 'शुद्धोप...' इत्यशुद्धः पाठः । ६. हस्तादर्श 'तवा' इत्यशुद्धः पाठः । Jain Education Interational Page #496 -------------------------------------------------------------------------- ________________ पेज रु ho to p f क्षा द्वा त्रिं शि का २८/३० व्यवहारेऽपि च ध्यानमक्षतप्रसरं सदा । मनोवाक्काययोगानां सुव्यापारस्य तत्त्वतः ॥ २८ ॥ व्यवहारेऽपि चेति । न हि चित्तनिरोधमात्रमेव ध्यानमभ्युपेमः, किं तु करणदृढसुव्यापारमपीति । तदाऽपि तदक्षतमिति तात्पर्यम् ||२८|| शुभं योगं प्रतीत्याऽस्याम नारम्भित्वमागमे । व्यवस्थितमितश्चांऽशात् स्वभावसमवस्थितिः ।। २९ ।। शुभमिति । शुभं योगं प्रतीत्याऽस्यां सदीक्षायां आगमे प्रज्ञप्त्यादिरूपे अनारम्भित्वं व्यवस्थितं, “तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च णो आयारंभा ” ( भगवती १/१/१७) इत्यादिवचनात् । इतश्चांऽशात् स्वभावसमवस्थितिः अनारम्भित्वस्य चरणगुणस्वभावत्वात् । ज्ञानाद्यप्रकर्षेऽपि' ज्ञानवत्पारतन्त्र्ययोग्यतया तदुपपत्तेरप्रमादेन विशुद्धत्वाच्चेति ।। २९ ।। व्युत्थानं व्यवहारे चेन्न ध्यानाऽप्रतिबन्धतः । स्थितं ध्यानान्तराऽऽरम्भ एकध्यानान्तरं पुनः ||३०|| १. हस्तादर्शे ‘...प्रसरस्तदा' इति लिङ्गभेदादशुद्धः पाठः । २. हस्तादर्शे '... मनरं' इत्यशुद्धः पाठः । ३. '... प्रकर्षोऽपि ....' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ हस्तादर्शे च 'व्यवहारश्चे....' इत्यशुद्धः पाठः । व्याख्यानुसारेण शुद्ध: पाठोऽस्माभिः योजितोऽत्र । ।।४९१।। Page #497 -------------------------------------------------------------------------- ________________ व्युत्थानमिति । व्यवहारे आत्ममात्रप्रतिबन्धलक्षण ध्यानप्रतिबन्धेन व्युत्थानं चेत् ? | न, ध्यानाऽप्रतिबन्धतः सुव्यापारलक्षणस्य तस्य करणनिरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामेव तत्प्रतिबन्धकत्वात् ।। ___एकध्यानान्तरं पुनः ध्यानान्तराऽऽरम्भे मैत्र्यादिपरिकर्मणि स्थितम् । तथा च तावन्मात्रेण व्युत्थानत्वे समाधिप्रारम्भस्याऽपि व्युत्थानत्वाऽऽपत्तिरिति न किञ्चिदेतत् ।।३०।। विचित्रत्वमनालोच्य बकुशत्वादिना श्रुतम् । दीक्षाशुबैकरूपेण वृथा भ्रान्तं दिगम्बरैः ।।३१।। विचित्रत्वमिति । बकुशत्वादिना श्रुतं प्रवचनादाकर्णितं विचित्रत्वमनालोच्य दीक्षाया यच्छुद्धमेकं रूपं परमोपेक्षामात्रलक्षणं तेन (-दीक्षाशुबैकरूपेण) वृथा दिगम्बरैर्धान्तम्', यैः प्रतिक्षिप्यते व्यवहारकाले दीक्षापारम्यम । शुद्धदीक्षाकारणाऽवलम्बने उपरितनोत्कर्षाऽभावेऽपि दीक्षामात्राऽप्रतिक्षेपे च धर्मोपकरणधरणेऽपि तेषां तदव्याघातः स्यात् । बुद्धिपूर्वकममत्वपरिहारस्याप्याहारादिग्रहणवदुपपत्तेरित्यन्यत्र विस्तरः ।।३१।। चित्रा क्रियात्मना चेयमेका सामायिकात्मना । तस्मात् समुच्चयेनाऽऽर्यैः परमानन्दकृन्मता ॥३२॥ १. मुद्रितप्रतौ '...लक्षणं ध्यान....' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तादर्श च '...पाणामिव...' इत्यशुद्धः पाठः। ३. हस्तादर्श '...: द्विः भ्रा...' इत्यधिकः पाठः । २८/३२ ४९२।। Jain Education Interational For Private & Personal use only Page #498 -------------------------------------------------------------------------- ________________ चित्रेति । क्रियात्मना चेयं = सद्दीक्षा चित्रा = नानाप्रकारा सामायिकात्मना = 'समतापरिणामेन एका । __तस्मात् समुच्चयेन ज्ञानक्रिययोस्तुल्यबलत्वेन आर्यः = शिष्टैः परमानन्दकृन्मता ।।३२।। ।। इति दीक्षाद्वात्रिंशिका ||२८|| ।। अथ विनयद्वात्रिंशिका ॥२९॥ अनन्तरं दीक्षा निरूपिता तस्याश्च विनयगर्भाया एव सफलत्वमिति विनयं निरूपयन्नाह कर्मणां द्राग्विनयनाद्विनयो विदुषां मतः । अपवर्गफलाऽऽयस्य मूलं धर्मतरोरयम् ।।१।। कर्मणामिति । कर्मणां = ज्ञानावरणीयादीनां द्राक् = शीघ्रं विनयनात्' = अपनयनात् विदुषां विनयो मतः । अयं अपवर्गफलेनाऽऽढ्यस्य (=अपवर्गफलाऽऽन्यस्य) पूर्णस्य धर्मतरोर्मूलम् ।।१।। १. हस्तादर्श 'सता' इति पाठः । २. हस्तादर्श 'निरूपये...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'विनयात्' इति पाठः । ४. हस्तादर्श 'पूर्णताधर्मः' इत्यशुद्धः पाठः । ।।४९३।। Jain Education Interational Page #499 -------------------------------------------------------------------------- ________________ ज्ञान-दर्शन-चारित्र-तपोभिरुपचारतः । अयं च पञ्चधा भिन्नो दर्शितो मुनिपुङ्गवैः ॥२॥ ज्ञानेति । ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनादुत्तरकर्माऽबन्धाच्च द्रष्टव्यम् ।।२।। प्रतिरूपेण योगेन तथाऽनाशातनात्मना । उपचारो द्विधा तत्राऽऽदिमो योगत्रयात् त्रिधा ।।३।। प्रतिरूपेणेति । प्रतिरूपेण = उचितेन योगेन तथाऽनाशातनात्मना = आशातनाऽभावेन उपचारो द्विधा । तत्राऽऽदिमः = प्रतिरूपयोगात्मको योगत्रयात् त्रिधा = कायिको वाचिको मानसश्चेति ।।३।। अभिग्रहाऽऽसनत्यागावभ्युत्थानाऽञ्जलिग्रहौ । कृतिकर्म च शुश्रूषा गतिः पश्चाच्च सम्मुखम् ।।४।। अभिग्रहेति । अभिग्रहो गुरुनियोगकरणाभिसन्धिः । आसनत्यागः = आसनदानं = पीठकाद्युपनयनमित्यर्थः (= अभिग्रहाऽऽसनत्यागौ)। अभ्युत्थानं निषण्णस्य सहसाऽर्हदर्शने । अञ्जलिग्रहः प्रश्नादौ (= अभ्युत्थानाऽञ्जलिग्रहौ)। कृतिकर्म च वन्दनम् । शुश्रूषा विधिवददूराऽऽसन्नतया सेवनम् । पश्चाद् गतिः५ गच्छतः, सम्मुखं च गतिरागच्छतः इति ।।४।। ।।४९४।। १. हस्तादर्श 'भिन्ना' इत्यशुद्धः पाठः । २. हस्तादर्श 'त्रिधात्' इत्यशुद्धः पाठः । ३. हस्तादर्शे ‘पश्चमं...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ....हैदर्शनेन' इत्यशुद्धः पाठः । ५. हस्तादर्श '...गतिर्गतिर्गच्छ....' इत्यधिकः पाठः । २९/४ For Private & Personal use only Page #500 -------------------------------------------------------------------------- ________________ कायिकोऽष्टविधश्चाऽयं वाचिकश्च' चतुर्विधः । हितं मितं चाऽपरुषं ब्रुवतोऽनुविचिन्त्य च ।।५।। कायिक इति । अयं चाऽष्टविधः कायिक उपचारः । वाचिकश्च चतुर्विधः ।। हितं = परिणामसुन्दरं ब्रुवतः प्रथमः । ___मितं = स्तोकाऽक्षरं ब्रुवतो द्वितीयः । अपरुषं = चाऽनिष्ठुरं ब्रुवतस्तृतीयः । अनुविचिन्त्य = स्वालोच्य च ब्रुवतः चतुर्थ इति ।।५।। मानसश्च द्विधा शुद्धप्रवृत्त्याऽसन्निरोधतः । छद्मस्थानामयं प्रायः सकलोऽन्याऽनुवृत्तितः ।।६।। मानसश्चेति । मानसश्च = उपचारो द्विधा शुद्धप्रवृत्त्या = धर्मध्यानादिप्रवृत्त्या, असन्नि-रोधतः = आर्तध्यानादिप्रतिषेधात् । ____ अयं च सकलः प्रायः प्रतिरूपो विनयः छद्मस्थानामन्याऽनुवृत्तित = आत्मव्यतिरिक्तप्रधानानुवृत्तेः । प्रायोग्रहणाद् अज्ञातकेवलभावदशायां केवलिनामपि । अन्यदा तु तेषामप्रतिरूप एव विनयस्तथैव तत्कर्मविनयनोपपत्तेः । तदुक्तं- “पडिरूवो खलु विणओ पराणुअत्तिमइओ मुणेअब्बो। अप्पडिरूवो विणओ णायबो केवलीणं तु ।।” (द.वै.नि. ९/३२३) ।।६।। अर्हत्सिद्ध-कुलाऽऽचार्योपाध्याय-स्थविरेषु च । १. हस्तादर्श 'वाचिकस्तु' इति पाठः । २. मुद्रितप्रतौ 'अक्षात' इत्यशुद्धः पाठः । १४९५।। Jain Education Interational For Private & Personal use only Page #501 -------------------------------------------------------------------------- ________________ गण-सङ्घ-क्रिया-धर्म-ज्ञान-ज्ञानि-गणिष्वपि ।।७।। अर्हदिति । अर्हन्तस्तीर्थकराः । सिद्धाः क्षीणाष्टकर्ममलाः । कुलं नागेन्द्रादि । आचार्यः पञ्चविधाऽऽचाराऽनुष्ठाता तत्प्ररूपकश्च' । उपाध्यायः स्वाध्यायपाठकः । स्थविरः सीदतां स्थिरीकरणहेतुः । गण: कौटिकादिः । सङ्घः साध्वादिसमुदायः । क्रियाऽस्तिवादरूपा। धर्मः श्रुतधर्मादिः । ज्ञानं मत्यादि । ज्ञानिनस्तद्वन्तः । गणिर्गणाधिपतिः ।।७।। अनाशातनया भक्त्या बहुमानेन वर्णनात् । द्विपञ्चाशद्विधः प्रोक्तो द्वितीयश्चौपचारिकः ।।८।। अनाशातनयेति । अनाशातनया = सर्वथाऽहीलनया भक्त्या = उचितोपचाररूपया बहु-मानेन = आन्तरभावप्रतिबन्धरूपेण वर्णनात् = सद्भूतगुणोत्कीर्तनात् द्वितीयः चाऽनाशातनात्मक औपचारिकविनयो द्विपञ्चाशद्विधः प्रोक्तः, त्रयोदशपदानां चतुर्भिर्गुणने यथोक्तसंख्यालाभात् ।।८।। एकस्याऽऽशातनाऽप्यत्र सर्वेषामेव तत्त्वतः । अन्योऽन्यमनुविद्धा हि तेषु ज्ञानादयो गुणाः ।।९।। एकस्येति । अत्र अर्हदादिपदेषु एकस्याऽपि आशातना तत्त्वतः सर्वेषां (एव) हि १. हस्तादर्श'...त्पश्च' इति त्रुटितः पाठः । २. हस्तादर्श 'अनाशत...' इत्यशुद्धः पाठः । ३. हस्तादर्श'...तनाप्यस्मिन्' इत्यशुद्धः पाठः । २९/९ ना। ४९६।। Jain Education Interational Page #502 -------------------------------------------------------------------------- ________________ dous ds Fs वि न य द्वा त्रिं शि का २९/११ = यतः तेषु ज्ञानादयो गुणा अन्योन्यमनुविद्धाः । यदेव ह्येकस्य शुद्धं ज्ञानं तदेवाऽपरस्याऽपि । इत्थं च हीलनाविषयीभूतज्ञानादिसम्बन्धस्य सर्वत्राऽविशेषादेकहीलने सर्वहीलनाऽऽपत्तेर्दारुणविपाकत्वमवधार्य न कस्याऽपि हीलना कार्येति भाव: ।।९।। नूनमल्पश्रुतस्याऽपि गुरोराचारशालिनः । हीना भस्मसात्कुर्याद् गुणं वह्निरिवेन्धनम् । । १० ॥ नूनमिति । नूनं निश्चितं अल्पश्रुतस्याऽपि अनधीताऽऽगमस्याऽपि 'कारणान्तरस्थापितस्य गुरोः = आचार्यस्य आचारशालिनः पञ्चविधाऽऽचारनिरतस्य हीलना गुणं स्वगतचारित्रादिकं भस्मसात् कुर्यात्, इन्धनमिव वह्निः || १० || शक्त्यग्रज्वलन - व्याल - सिंहक्रोधाऽतिशायिनी । = = = = अनन्तदुःखजननी कीर्तिता गुरुहीलना ।। ११ ।। शक्त्यग्रेति । शक्तिः प्रहरणविशेषस्तदग्रं शक्त्यग्रं ज्वलनः = अग्निः, व्याल - सिंहयोः सर्पकेसरिणोः क्रोधः = कोप:, तदतिशायिनी = तेभ्योऽप्यधिका ( = शक्त्यग्रज्वलन- व्यालसिंहक्रोधातिशायिनी) अनन्तदुःखजननी गुरुहीलना कीर्तिता दशवैकालिके ।। ११ ।। पठेद्यस्याऽन्तिके धर्मपदान्यस्याऽपि सन्ततम् । = १. हस्तादर्शे 'कारणन्तर' इत्यशुद्धः त्रुटितश्च पाठः । २ हस्तादर्शे 'कीर्तितो' इत्यशुद्धः पाठः । ३. हस्तादर्शे '...शांतिके' इत्यशुद्धः पाठः । ।। ४९७ ।। Page #503 -------------------------------------------------------------------------- ________________ कायवाङ्मनसां शुद्ध्या कुर्याद् विनयमुत्तमम् ।।१२।। पठेदिति । यस्याऽन्तिके धर्मपदानि = धर्मफलानि सिद्धान्तपदानि पठेत् अस्य सन्ततमपि = निरन्तरमपि, न तु सूत्रग्रहणकाल एव, कुशलाऽनुबन्धव्यवच्छेदप्रसङ्गात् कायवाङ्मनसां शुद्ध्या उत्तमं विनयं कुर्यात् ।।१२।। पर्यायेण विहीनोऽपि शुद्धज्ञानगुणाऽधिकः । 'ज्ञानप्रदानसामर्थ्यादतो रत्नाऽधिकः स्मृतः।।१३।। पर्यायेणेति । अतो = धर्मपाठकस्य सदा विनयाऽर्हत्वात् पर्यायेण = चारित्रपर्यायेण विहिनोऽपि शुद्धज्ञानगुणेनाधिको (=शुद्धज्ञानगुणाऽधिकः) ज्ञानप्रदानसामर्थ्यमधिकृत्य (=ज्ञानप्रदानसामर्थ्यात) रत्नाधिकः स्मत आवश्यकादौ । स्वापेक्षितरत्नाऽऽधिक्येन तत्त्वव्यवस्थितेः । विवेचितमिदं सामाचारीप्रकरणे ।।१३।। शिल्पार्थमपि सेवन्ते शिल्पाऽऽचार्यं जनाः किल । धर्माऽऽचार्यस्य धर्मार्थं किं पुनस्तदतिक्रमः ।।१४।। शिल्पार्थमिति । व्यक्तः ।।१४।। ज्ञानार्थं विनयं प्राहुरपि प्रकटसेविनः । १. मुद्रितप्रतौ 'ज्ञान प्रदान साम...' इत्यस्थानच्छिन्नः पाठः । २. हस्तादर्श 'प्रगटशालिनः' इत्यशुद्धः पाठः । २९/१४ा ||४९८।। Jain Education Interational For Private & Personal use only Page #504 -------------------------------------------------------------------------- ________________ वि न य द्वा host त्रिं शि का २९/१६ अत एवाऽपवादेनाऽन्यथा शास्त्राऽर्थबाधनम्' ।। १५ ।। ज्ञानार्थमिति । अत एव = ज्ञानादिग्रहणे विनयपूर्वकत्वनियमस्य सिद्धान्तसिद्धत्वादेव अपवादेन ज्ञानार्थं प्रकटसेविनोऽपि विनयं आ ( ? प्रा ) हुः, पर्यायादिकारणेष्वेतदन्तर्भावात् । ( अन्यथा = ) तथाविधकारणेऽपि तद्विनयाऽनादरे शास्त्राऽर्थबाधनं शास्त्राऽऽज्ञाव्यति = क्रमः । तदुक्तं - " एयाई अकुब्वंतो जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती अभत्तिमंतादओ दोसा || " ( बृहत्कल्पभाष्य ४५४९, निशीथभाष्य ४३७४, आवश्यकनियुक्ति ११४३) ।। १५ ।। नन्वेवमपवादतोऽपि `प्रकटप्रतिषेविणोऽग्रहिल 'ग्रहिलनृपन्यायेन द्रव्यवन्दनमेव यदुक्तं 'तद्भङ्गाऽऽपत्तिर्ज्ञानगुणबुद्ध्या तद्वन्दने भाववन्दनाऽवतारादित्याशङ्क्य तदुक्तिप्रायिकत्वाऽभिप्रायेण समाधत्ते न चैवमस्य भावत्वाद् द्रव्यत्वोक्तिर्विरुध्यते । सद्भावकारणत्वोक्तेर्भावस्याऽप्यागमाऽऽख्यया ।। १६ । न चैवमिति । न चैवं ज्ञानार्थं प्रकटप्रतिषेविणोऽपि विनयकरणे अस्य = ज्ञानार्थविनयस्य भावत्वाद् द्रव्यत्वोक्तिः आपवादिकविनयस्योपदेशपदादिप्रसिद्धा, विरुध्यते, भाव १. हस्तादर्श' ... बन्धनं' इत्यशुद्धः पाठः । इति पाठः । २. . हस्तादर्शे 'प्राकट...' इति अशुद्धः पाठः । ३. मुद्रितप्रतौ ' .... हितग्रहिल ... ' ।।४९९ ।। Page #505 -------------------------------------------------------------------------- ________________ // स्याऽपि आगमाख्यया = आगमनाम्ना सद्भावकारणत्वोक्तेः = पुष्टाऽऽलम्बनत्ववचनाद् । अस्वारसिककारणस्थल एवोक्तनियमादिति । भावलेशस्तु मार्गानुसारी यत्र क्वचिदपि || मार्गोद्भासनार्थं वन्दनादिविनयाऽर्हतानिमित्तमेव श्रूयते । यदुक्तं बृहत्कल्पभाष्ये "दंसण-नाण-चरित्तं तव-विणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं" ।। (बृहत्कल्पभाष्य ४५५३) ।।१६।। विनयेन विना न स्याज्जिनप्रवचनोन्नतिः । पयःसेकं विना किं वा वर्धते भुवि पादपः ।।१७।। विनयं ग्राह्यमाणो यो मृदूपायेन कुष्यति । उत्तमां श्रियमायान्तीं दण्डेनाऽपनयत्यसौ ।।१८।। २९/२१ त्रैलोक्येऽपि विनीतानां दृश्यते सुखमङ्गिनाम् । त्रैलोक्येऽप्यविनीतानां दृश्यतेऽसुखमङ्गिनाम् ।।१९।। ज्ञानादिविनयेनैव पूज्यत्वाऽऽप्तिः श्रुतोदिता । गुरुत्वं हि गुणाऽपेक्षं न स्वेच्छामनुधावति ।।२०।। विनये च श्रुते चैव तपस्याचार एव च । चतुर्विधः समाधिस्तु दर्शितो मुनिपुङ्गवैः ।।२१।। ५०० ।। Jain Education Interational For Private & Personal use only Page #506 -------------------------------------------------------------------------- ________________ वि न य द्वा त्रिं शि का २९/२७ शुश्रूषति विनीतः सन् सम्यगेवावबुध्यते । यथावत् कुरुते चाऽर्थं मदेन च न माद्यति ।। २२ ।। श्रुतमेकाग्रता वा मे भावितात्मानमेव वा । स्थापयिष्यामि धर्मेऽन्यं वेत्यध्येति सदागमम् ॥ २३॥ कुर्यात्तपस्तथाऽऽचारं नैहिकाऽऽमुष्मिकाऽऽशया । कीर्त्याद्यर्थं च नो किं तु निष्कामो निर्जराकृते ।। २४ ।। इत्थं समाहिते स्वान्ते विनयस्य फलं भवेत् । स्पर्शाख्यं स हि तत्त्वाऽऽप्तिर्बोधमात्रं परः पुनः ।। २५ ।। अक्षेपफलदः स्पर्शस्तन्मयीभावतो' मतः । यथा सिद्धरसस्पर्शस्ताम्रे सर्वाऽनुवेधतः ।। २६ ।। इत्थं च विनयो मुख्यः सर्वाऽनुगमशक्तितः । मिष्टान्नेष्विव सर्वेषु निपतन्निक्षुजो रसः ।। २७ ।। १. हस्तादर्शे 'सुश्रुषितो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सगदागमं' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'अक्षेपः फलद' इत्यशुद्धः पाठः । ४ हस्तादर्शे 'भावनात्मनः' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'नियन्नि' इत्यशुद्धः पाठः । ।।५०१ ।। Page #507 -------------------------------------------------------------------------- ________________ दोषाः किल तमांसीव क्षीयन्ते विनयेन च । प्रसृतेनांऽशुजालेन चण्डमार्तण्डमण्डलात् ॥२८ ।। श्रुतस्याऽप्यतिदोषाय ग्रहणं विनयं विना । यथा महानिधानस्य विना' साधनसन्निधिम् ।।२९।। विनयस्य प्रधानत्वद्योतनायैव पर्षदि । तीर्थं तीर्थपतिर्नत्वा कृतार्थोऽपि कथां जगौ ॥३०॥ छिद्यते विनयो यैस्तु शुद्धोञ्छादिपरैरपि । तैरप्यग्रेसरीभूय मोक्षमार्गो विलुप्यते ॥३१॥ नियुङ्क्ते यो यथास्थानमेनं तस्य तु सन्निधौ । "स्वयंवराः समायान्ति 'परमानन्दसम्पदः ॥३२॥ शिष्टमर्थं स्पष्टम् ।।३२।। ॥ इति विनयद्वात्रिंशिका ।।२९।। २९/३२ ( ५०२।। १. मुद्रितप्रती ...विमाण(न)धन...' इत्यशुद्धः पाठः । हस्तादर्शात् . शुद्धः पाठोऽत्र गृहीतः । २. मुद्रितप्रतौ 'शुश्रूषोऽपि(षणा)परै रित्यशुद्धः पाठः । ३. हस्तादर्श 'भूया' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'स्वयंवरा समा...' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'परस्य रतिसम्पद' इत्यशुद्धः पाठः । क्वचित् हस्तादर्श 'परमपदस...' इति पाठः । ।। ६. हस्तादर्श 'स्पष्टप्राये' इत्यशुद्धः पाठः । हस्तादर्शविशेषे च 'स्पष्टप्रायम्' इति पाठान्तरः । Jain Education Interational Page #508 -------------------------------------------------------------------------- ________________ 2 - 414 APP 4 + अथ केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ।।३०।। अनन्तरं विनय उक्तस्तत्पालनेन च महात्मा केवली भवति, स च कवलभोजित्वान्न || कृतार्थ इति दिगम्बरमतिभ्रमनिरासार्थमाह सर्वथा दोषविगमात् कृतकृत्यतया तथा । __ आहारसंज्ञाविरहादनन्तसुखसङ्गतेः ॥१॥ ___ सर्वेथेति । (१) सर्वथा = सर्वप्रकारैः दोषविगमात् क्षुधायाश्च दोषत्वात्तदभावे कवलाहाराऽनुपपत्तेः। (२) तथा कृतकृत्यतया केवलिनः कवलभोजित्वे तद्धान्यापत्तेः । (३) आहारसंज्ञाविरहात् तस्याश्चाऽऽहारहेतुत्वात् । (४) अनन्तसुखस्य सङ्गतेः (=अनन्तसुखसङगतेः) । केवलिनः कवलभूक्तौ तत्कारणक्षद्वेदनोदयाऽवश्यम्भावात्तेनाऽनन्त ॥ सुखविरोधात् ।।१।। दग्धरज्जुसमत्वाच्च वेदनीयस्य कर्मणः । ___ अक्षोद्भवतया देहगतयोः सुखदुःखयोः ॥२॥ दग्धेति । च = पुनः (५) वेदनीयस्य कर्मणो दग्धरज्जुसमत्वात् । तादृशेन तेन स्वकार्यस्य क्षुद्वेदनोदयस्य जनयितुमशक्यत्वात् । (६) देहगतयोः = शरीराऽऽश्रितयोः सुख तया = इन्द्रियाधीनतयाऽतीन्द्रियाणां भगवतां तदनुपपत्तेः ।।२।। ५०३।। का । ३०/२ ।। Jain Education Interational For Private & Personal use only Page #509 -------------------------------------------------------------------------- ________________ मोहात्परप्रवृत्तेश्च सातवेद्याऽनुदीरणात् । प्रमादजननादुच्चैराहारकथयाऽपि च ॥३॥ __मोहादिति । (७) मोहात् = मोहनीयकर्मणः (च) परप्रवृत्तेः परद्रव्यप्रवृत्तेर्निर्मोहस्य | सत आहारादिपरद्रव्यप्रवृत्त्यनुपपत्तेः । (८) सातवेद्यस्य सातवेदनीयस्याऽनुदीरणात् ( सातवेद्यानुदीरणात्) सातासातमनुजायुषामुदीरणायाः सप्तमगुणस्थान एव निवृत्तेः । __ केवलिनः कवलभुक्तौ तज्जन्यसातोदीरणप्रसङ्गात् । (९) च पुनराहारकथयाऽप्युच्चैः = अत्यर्थं प्रमादजननात् आहारस्य सुतरां तथात्वात् ।।३।। भुक्त्या निद्रादिकोत्पत्तेस्तथा ध्यान-तपोव्ययात् । परमौदारिकाङ्गस्य स्थास्नुत्वात्तां विनापि च ।।४।। भुक्त्येति । (१०) भुक्त्या = कवलाहारेण निद्रादिकस्योत्पत्तेः (=निद्रादिकोत्पत्तेः), आदिना रासनमतिज्ञानेर्यापथपरिग्रहः । केवलिनां च निद्राद्यभावात्तद्व्याप्यभुक्तेरप्ययोगात् । (११) तथा भुक्तौ सत्यां ध्यानतपसोळयात् (=ध्यानतपोव्ययात्), केवलिनश्च तयोः सदातनत्वात् । (१२) तां विनापि च = भुक्तिं विनाऽपि च परमौदारिकाऽङ्गस्य स्थाष्णु(स्नु)त्वात् ३०/४ || || = चिरकालमवस्थितिशीलत्वात् तदर्थं केवलिनस्तत्कल्पनाऽयोगात् ।।४।। P 144P 4 # ।।५०४।। का Jain Education Interational For Private & Personal use only Page #510 -------------------------------------------------------------------------- ________________ में परोपकारहानेश्च पुरीषादिजुगुप्सया । व्याध्युत्पत्तेश्च भगवान् भुङ्क्ते नेति दिगम्बराः ।।५।। परेति । (१३) परोपकारहानेश्च भुक्तिकाले धर्मदेशनाऽनुपपत्तेः, सदा परोपकारस्वभावस्य भगवतस्तद्व्याघाताऽयोगात् । (१४) पुरीषादिजुगुप्सया, भुक्तौ तद्धौव्यात् । (१५) व्याध्युत्पत्तेश्च भुक्तेस्तन्निमित्तत्वात् । भगवान् = केवली भुङ्क्ते नेति दिगम्बरा वदन्ति 2 4 44AGE सिद्धान्तश्चाऽयमधुना लेशेनाऽस्माभिरुच्यते । दिगम्बरमतव्यालपलायनकलागुरुः ।।६।। सिद्धान्तश्चायमिति । व्यक्तः ।।६।। हन्ताऽज्ञानादिका दोषा घातिकर्मोदयोद्भवाः । तदभावेऽपि किं न स्याद्वेदनीयोद्भवा क्षुधा ।।७।। हन्तेति । (१) हन्त अज्ञानादिका घातिकर्मोदयोद्भवा दोषाः प्रसिद्धाः । तदभावेऽपि वेदनीयोद्भवा क्षुधा किं न स्यात् । न हि वयं भवन्तमिव तत्त्वमनालोच्य क्षुत्पिपासादीनेव दोषानभ्युपेमो येन निर्दोषस्य केवलिनः क्षुधाद्यभावः स्यादिति भावः ।।७।। अव्याबाधविघाताच्चेत्सा दोष इति ते मतम् । नरत्वमपि दोषः स्यात्तदा सिद्धत्वदूषणात् ।।८।। |||५०५॥ ३०/८ Jain Education Interational For Private & Personal use only Page #511 -------------------------------------------------------------------------- ________________ अव्याबाधेति । अव्याबाधस्य = निरतिशयसुखस्य विघातात् (=अव्याबाधविघातात्) सा क्षुधा दोषो गुणदूषणस्यैव दोषलक्षणत्वात् इति चेत् = यदि ते = तव मतं, तदा नरत्वमपि भवतो दोषः स्यात् सिद्धत्वदूषणात् । तस्मात केवलज्ञानप्रतिबन्धकत्वेन घातिकर्मोदयोदभवानामज्ञानादीनामेव दोषत्वं, न क्षुधादीनामिति युक्तमुत्पश्यामः ।।८।। घातिकर्मक्षयादेवाऽक्षता च कृतकृत्यता । तदभावेऽपि नो बाधा भवोपग्राहिकर्मभिः ।।९॥ घातीति । (२) घातिकर्मक्षयादेव अक्षता = अहीना च कृतकृत्यता । भवोपग्राहिकर्मभिः = वेदनीयादिभिः सद्भिः तदभावेऽपि = कृतकृत्यत्वाऽभावेऽपि नो = नैव बाधा । सर्वथा कृतकृत्यत्वस्य सिद्धेष्वेव सम्भवात् । उपादित्साभावेऽपि उपादेयस्य मोक्षस्य सयोगिकेव-लित्वकालेऽसिद्धेः। रागाद्यभावमात्रेण कृतकृत्यत्वस्य च भुक्तिपक्षेऽप्यबाध एवेति कथितप्रायमेव ।।९।। आहारसंज्ञा चाऽऽहारतृष्णाख्या न मुनेरपि । किं पुनस्तदभावेन स्वामिनो भुक्तिबाधनम् ।।१०।। ( आहारसंज्ञा चेति । (३) आहारसंज्ञा चाऽऽहारतृष्णाख्या मोहाभिव्यक्तचैतन्यस्य ३०/१०।। १. मुद्रितप्रतौ .....काले सिद्धेः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मुक्ति...' इत्यशुद्धः पाठः । 6 dPER vbo ५०६ ।। Jain Education Interational For Private & Personal use only Page #512 -------------------------------------------------------------------------- ________________ 16 | EPE 3 ।। संज्ञापदार्थत्वात् न मुनेरपि भावसाधोरपि, किं पुनस्तदभावेन = आहारसंज्ञाभावेन स्वामिनो = भगवतो भुक्तिबाधनम् ? तथा चाहारसामान्ये तद्विशेषे, वा आहारसज्ञाया हेतुत्वमेव नास्तीत्युक्तं भवति। न च तद्विशेषे तद्धेतुत्वमेवाऽप्रमत्तादीनां चाऽऽहाराऽभावान्न व्यभिचार इति कुचोद्यमाशङ्कनीयम्, आहारसंज्ञाया अतिचारनिमित्तत्वेन कदापि निरतिचाराहारस्य साधूनामप्राप्तिप्रसङ्गात् ।।१०।। अनन्तं च सुखं भर्तुर्ज्ञानादिगुणसङ्गतम् । क्षुधादयो न बाधन्ते पूर्णं त्वस्ति महोदये ॥११॥ अनन्तं चेति । (४) अनन्तं च सुखं भर्तुः = भगवतो ज्ञानादिगुणसङ्गतं = तन्मयीभूतमिति यावत् । अज्ञानादिजन्यदुःखनिवृत्तेः सर्वेषामेव कर्मणां परिणामदुःखहेतुत्वाच्च क्षुदादयो न बाधन्ते 'स्वाऽभावनियतसुखानामेव तैर्बाधनं । पूर्णं तु = निरवशेषं तु सुखं महोदये मोक्षे अस्ति । तत्रैव सर्वकर्मक्षयोपपत्तेः ।।११।। दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणः । वदन्तो नैव जानन्ति सिद्धान्ताऽर्थव्यवस्थितिम् ।।१२॥ दग्धेति । (५) दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणो वदन्तः सिद्धान्ताऽर्थव्यवस्थितिं ३०/१२॥ १. मुद्रितप्रतौ 'स्वभाव...' इत्यशुद्धः पाठः । Sto ५०७।। का Jain Education Interational Page #513 -------------------------------------------------------------------------- ________________ ts to de ? dE to 21 has its do f के व क्ति व्य व स्था प न द्वा त्रिं शि का ३०/१३ नैव जानन्ति ॥ १२ ॥ पुण्यप्रकृतितीव्रत्वादसाताद्यनुपक्षयात् । स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते ।।१३।। पुण्येति। पुण्यप्रकृतीनां तीर्थकरनामादिरूपाणां तीव्रत्वात् तीव्रविपाकत्वात् (पुण्यप्रकृतितीव्रत्वात्) तज्जन्यसातप्राबल्ये वेदनीयमात्रस्य दग्धरज्जुसमत्वाऽसिद्धेरसातादीनामनुपक्षयादसातवेदनीयस्याऽपि तदसिद्धेः । पापप्रकृतीनां भगवति रसघातेन नीरसत्वाऽभ्युपगमे स्थितिघातेन निःस्थितिकत्वस्याऽप्याऽपत्तेः, अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः । ननु तर्हि कथं भवोपग्राहिकर्मणां केवलिनां दग्धरज्जुकल्पत्वाऽभिधानमावश्यकवृत्त्यादौ श्रूयते ? इत्यत आह- स्थितिशेषाद्यपेक्षं वा तद्वचो = दग्धरज्जुकल्पत्ववचो व्यवतिष्ठते, न तु रसाऽपेक्षया, अन्यथा सूत्रकृतवृत्तिविरोधप्रसङ्गात् । असातादिप्रकृतीनामदुःखदत्वाभिधानमपि आवश्यकनिर्युक्त्यादौ घातिकर्मजन्यबहुत सुखविलयेनाल्पस्याऽविवक्षणात् । अन्यथा भवोपग्रहाऽयोगादिति विभावनीयं सुधीभिः ।।१३।। इन्द्रियोद्भवताध्रौव्यं बाह्ययोः सुखदुःखयोः । १. मुद्रितप्रतौ 'कृट्ट..' इत्यशुद्धः पाठः । २ मुद्रितप्रतौं ' ..मसुखदत्वा ...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ... 'येनान्यस्या ( नाल्पस्या) वि...' इति पाठः । ||५०८ || Page #514 -------------------------------------------------------------------------- ________________ 44AARI चित्रं पुनः श्रुतं हेतुः कर्माऽऽध्यात्मिकयोस्तयोः ॥१४॥ इन्द्रियेति । (५) (इन्द्रियोद्भवताध्रौव्यं =) इन्द्रियोद्भवताया ध्रौव्यं = आवश्यकत्वं बाह्ययोः - इन्द्रियार्थसम्बन्धाऽपेक्षयोर्विलक्षणयोरेव सुख-दुःखयोः आध्यात्मिकयोः तयोः = सुखदुःखयोः पुनश्चित्रं कर्म हेतुः श्रुतम् । क्वचिबहिरिन्द्रियव्यापाराऽभावेऽपि मनोमात्रव्यापारेण सदसच्चिन्ताभ्यामेव तयोरुत्पत्तेः । क्वचिच्च तस्याऽप्यभावे आध्यात्मिकदोषोपशमोद्रेकाभ्यामेव तदुत्पत्तेर्दर्शनाद्भगवत्यपि द्विविधवेदनीयोदयध्रौव्ये तयोः सुवचत्वादिति । वस्तुतो बाह्ययोरपि सुखदुःखयोरिष्टाऽनिष्टाऽर्थशरीरसम्पर्कमात्र प्रयोजकम्, न तु बहिरिन्द्रियज्ञानमपीति भगवति तृणस्पर्शादिपरीषहाभिधानं साम्प्रदायिक सङ्गच्छत इति न किञ्चिदेतत् ।।१४।। __आहारादिप्रवृत्तिश्च मोहजन्या यदीष्यते । देशनादिप्रवृत्त्याऽपि भवितव्यं तदा तथा ॥१५॥ ___ आहारादीति । (६) आहारादिप्रवृत्तिश्च यदि मोहजन्येष्यते भवता बुद्धिपूर्वकपरद्रव्यविषयकप्रवृत्तेर्मोहजन्यत्वनियमात्, तदा देशनादिप्रवृत्त्याऽपि भगवतः तथा = मोहजन्यत्वेन भवितव्यम् ।।१५।। ___ इच्छाऽभावाद् भगवतो नास्त्येव देशनाप्रवृत्तिः, स्वभावत एव च तेषां नियतदेशकाला देशना इतीष्टापत्तावाह (५०९।। का ॥ Jain Education Intemational Page #515 -------------------------------------------------------------------------- ________________ यत्नं विना निसर्गाच्चेद्देशनादिकमिष्यते । भुक्त्यादिकं तथैव स्यादृष्टबाधा समोभयोः ।।१६।। यत्नमिति । यत्नं = ताल्वोष्ठादिव्यापारजनकप्रयत्नं विना निसर्गात् = स्वभावात् चेद्देशनादिकमिष्यते भगवतः, तदा भुक्त्यादिकं तथैव = यत्नं विनैव स्यात् । दृष्टबाधोभयोः पक्षयोः समा, भुक्तेरिव देशनाया अपि यत्नं विना क्वाऽप्यदर्शनात् । चेष्टाविशेषे यत्नहेतुत्वकल्पनस्य चोभयत्र साम्यात् । ननु प्रयत्नं विना चेष्टामात्रं न भवत्येव, देशना च भगवतामव्यापृतानामेव ध्वनिमयी सम्भवत्यक्षरमय्यामेव तस्यां यत्नजन्यत्वे(ने)च्छाजन्यत्वादिनियमाऽवधारणादिति न साम्यं । यदाह समन्तभद्रः- “अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते ।।" ? (रत्नकरण्डकश्रावकाचार १/८) इति, मैवम्, शब्दस्य शब्दान्तरपरिणामकल्पनस्य साजात्येन न्याय्यत्वेऽपि ध्वनेस्तत्कल्पनस्यातिशयतोऽप्यन्याय्यत्वात्, भगवद्देशनाया ध्वनिरूपत्वेऽपि वाग्योगापेक्षत्वेन तादृशशब्दमात्रे पुरुषप्रयत्नाऽनुसरणध्रौव्यात् । अन्यथाऽपौरुषेयमागमं वदतो मीमांसकस्य दुर्जयत्वाऽऽपत्तेरिति न किञ्चिदेतत् । ___ अथ सुहृद्भावेन पृच्छामः- बुद्धिपूर्वकप्रवृत्ताविच्छाया हेतुत्वात् कथं केवलिनो देशना३०/१६ || दावाहारादौ च प्रवृत्तिरिति चेत् ?, सुहृद्भावेन ब्रूमः-बुद्धिः खल्विष्टसाधनताधीरन्यस्या ५१०॥ का Jain Education Interational For Private & Personal use only Page #516 -------------------------------------------------------------------------- ________________ ग म म - ऽतिप्रसक्तत्वात्, तत्पूर्वकत्वं च यदीष्टसाधनताधीजन्यतावच्छेदकं तदाप्यबुद्धिपूर्वकप्रवृत्ते- ॥ र्जीवनयोनिभूताया इव भवोपग्राहिकर्मवशादुपपत्तेर्न कश्चिद्दोष इति । प्रवृत्तिसामान्ये तु योगानामेव हेतुत्वादिच्छापूर्वकत्वमार्थसमाजसिद्धमेव । यदवदाम - "परदवम्मि पवित्ती ण मोहजणिया व मोहजण्णा वा । जोगकया हु पवित्ती फलकंखा रागदोसकया ।।" (अध्यात्ममतपरीक्षा २२ ) || इत्यधिकमन्यत्र ।।१६।। भुक्त्या या सातवेद्यस्योदीरणापाद्यते त्वया । सापि देशनयाऽसातवेद्यस्यैतां तवाऽऽक्षिपेत् ।।१७।। ___ भुक्त्येति । (७) भुक्त्या = कवलाहारेण या सातवेद्यस्य = सातवेदनीयस्य उदीरणा त्वयापाद्यते, भुक्तिव्यापारेण सातोत्पत्तेः । सापि देशनयाऽसातवेद्यस्य एतां = उदीरणां त्वाक्षिपेत्, ततोऽपि परिश्रमदुःखसम्भवात् प्रयत्नजन्यत्वस्य तत्र व्यवस्थापितत्वादिति भावः ।१७।। सुहृद्भावेन समाधत्ते उदीरणाख्यं करणं प्रमादव्यङ्ग्यमत्र यत् । तस्य तत्त्वमजानानः खिद्यसे स्थूलया धिया ।।१८।। ॥ उदीरणाख्यमिति । (८) अत्र यत् उदीरणाख्यं करणं = यदान्तरशक्तिविशेषलक्षणं १८|| प्रमादव्यङ्ग्यं वर्तते, तस्य तत्त्वं = स्वरूपं अजानानः स्थूलया धिया = बहिर्योगमात्र- ॥ - - - - . 4न Jain Education Interational For Private & Personal use only Page #517 -------------------------------------------------------------------------- ________________ ts to वह कल dE to 25 15 ho do भु क्ति व्य स्था प न त्रिं शि का ३०/२० व्यापारगोचरया खिद्यसे त्वम् । योगव्यापारमात्रस्य तदाक्षेपकत्वे ततो मनोयोगेनाऽप्यप्रमत्ते सुखोदीरणप्रसङ्गात्, तदीयसुखस्य ज्ञानरूपत्वे सुखान्तरस्याऽपि तथात्वप्रसङ्गात् । सुख्यहमित्यनुभवस्य चाऽप्रमत्तेऽप्यक्षतत्वादिति ॥ १८ ॥ आहारकथया हन्त प्रमादः प्रतिबन्धतः । तदभावे च नो भुक्त्या श्रूयते सुमुनेरपि ।।१९।। आहारकथयेति । ( ९ ) आहारकथया हन्त प्रतिबन्धतः = तथाविधाहारेच्छासंस्कारप्रवृद्धेः प्रमादो भवति, न त्वन्यथापि, अकथा - विकथानां विपरिणामस्य परिणामभेदेन व्यवस्थितत्वात् । तदभावे च = प्रतिबन्धाभावे च नो नैव भुक्त्या श्रूयते सुमुनेरपि उत्तमसाधोरपि प्रमादः, किं पुनर्भगवत इति भावः । बहिर्योगव्यापारमात्रोपरम एवाऽप्रमत्तत्वलाभ इति तु न युक्तं, आरब्धस्य तस्य तत्राऽसङ्गतया निष्ठाया अविरोधादिति ।। १९ ।। निद्रा नोत्पाद्यते भुक्त्या दर्शनावरणं विना । उत्पाद्यते न दण्डेन घटो मृत्पिण्डमन्तरा ॥ २० ॥ = निद्रेति । (१०) स्पष्टः ।। २० ।। रासनं च मतिज्ञानमाहारेण भवेद्यदि । ।।५१२ ।। Page #518 -------------------------------------------------------------------------- ________________ घ्राणीयं स्यात्तदा 'पुष्पघ्राणतर्पणयोगतः ।।२१।। रासनं चेति । स्पष्टः ।।२१।। ईर्यापथप्रसङ्गश्च समोऽत्र गमनादिना । अक्षते ध्यान-तपसी स्वकालासम्भवे पुनः ।।२२।। ईर्येति । ईर्यापथप्रसङ्गश्चात्र = भगवतो भुक्तौ गमनादिना समः तेनाऽपि तत्प्रसङ्गस्य तुल्ययोगक्षेमत्वात्, स्वाभाविकस्य च तद्गमनस्य दृष्टबाधेन कल्पयितुमशक्यत्वादिति भावः । (११) स्वकालाऽसम्भवे = भुक्तिकालाऽसम्भविनी ध्यान-तपसी पुनरक्षते योगनिरोधदेहाऽपवर्गकालयोरेव तत्सम्भवात् । ___स्वभावसमवस्थितिलक्षणयोश्च तयोर्गमनादिनेव भुक्त्याऽपि न व्याघात इति द्रष्टव्यम् ||२२।। परमौदारिकं चाङ्गं भिन्नं चेत्तत्र का प्रमा । औदारिकादभिन्नं चेद्विना भुक्तिं न तिष्ठति ।।२३।। परमौदारिकं चेति । (१२) परमौदारिकं चाङ्ग = शरीरं भिन्नं चेत् औदारिकादिभ्यः ।५१३।। क्लुप्तशरीरेभ्यः, तर्हि तत्र का प्रमा किं प्रमाणं ? न किंचिदित्यर्थः । ३०/२३|| १. मुद्रितप्रतौ 'पुष्पं घ्राण.' इत्यशुद्धः पाठः । 24 AAP4भ . Jain Education Interational Page #519 -------------------------------------------------------------------------- ________________ ब 4 AAPPA औदारिकादभिन्नं चेत् तत्केवलमतिशयितरूपाद्युपेतं तदेव तदा भुक्तिं विना न । तिष्ठति, चिरकालीनौदारिकशरीरस्थितेर्भुक्तिप्रयोज्यत्वनियमात् । भुक्तेः सामान्यतः पुद्गलविशेषोपचयव्यापारकत्वेनैवोपयोगात्, वनस्पत्यादीनामपि जलाद्यभ्यादानेनैव चिरकालस्थितेः । ___ शरीरविशेषस्थितौ विचित्रपुद्गलोपादानस्याऽपि हेतुत्वेन तं विना केवलिशरीरस्थितेः कथमप्यसम्भवात् । तत्र परमौदारिकभिन्नत्वस्य कैवल्याऽऽकालीनत्वपर्यवसितस्य विशेषणस्याऽप्रामाणिकत्वादिति ।।२३।। भुक्त्याद्यदृष्टसम्बद्धमदृष्टं स्थापकं तनोः । तत्त्यागे दृष्टबाधा त्वत्पक्षभक्षणराक्षसी ॥२४॥ ___ भुक्त्यादीति । भुक्त्याद्यदृष्टेन = भोजनादिफलहेतुजाग्रद्विपाककर्मणा सम्बद्धं (=भुक्त्या| द्यदृष्टसम्बद्धं) तनोः = शरीरस्य स्थापकमदृष्टं दृष्टमिति शेषः । तत्त्यागे केवलिन्यभ्युपगम्यमाने त्वत्पक्षभक्षणराक्षसी दृष्टबाधा समुपतिष्ठते । तथा च तद्भयादपि तव नेत्थं कल्पना हितावहेति भावः ।।२४।। ननु तनुस्थापकाऽदृष्टस्य भुक्त्याद्यदृष्टनियतत्वेऽपि भुक्त्याद्यदृष्टस्य तनुत्वादभुक्त्याधुपपत्तिर्भगवतो भविष्यतीत्यत आह ।।।।५१४।। प्रतिकूलाऽनिवर्त्यत्वात्तत्तनुत्वं च नोचितम् । दोषजन्म तनुत्वं च निर्दोषे नोपपद्यते ॥२५।। ३०/२५ Jain Education Interational For Private & Personal use only Page #520 -------------------------------------------------------------------------- ________________ __ प्रतिकूलेति । (तत्) तस्य भुक्त्याद्यदृष्टस्य तनुत्वं च नोचितं । प्रतिकूलेन विरोधिपरिणामेनानिवर्त्यत्वात् (=प्रतिकूलानिवर्त्यत्वात् । न हि वीतरागत्वादिपरिणामेन रागादीनामिव क्षुधादीनां तथाविधपरिणामेन निवर्त्यत्वमस्ति, येन ततस्तज्जननकाऽदृष्टतनुत्वं स्यात् । ___'अस्त्येवाभोजनभावनातारतम्येन क्षुन्निरोधतारतम्यदर्शनादिति चेन्न । ततो भोजनादिगतस्य प्रतिबन्धमात्रस्यैव निवृत्तेः, शरीरादिगतस्येव 'अशरीरादिभावनया । अन्यथाऽभोजनभावनात्यन्तोत्कर्षेण भुक्तिनिवृत्तिवदशरीरभावनात्यन्तोत्कर्षेण शरीरनिवृत्तिरपि प्रसज्येतेति महत्सङ्कटमायुष्मतः । ननु भुक्त्यादिविपरीतपरिणामेन भुक्त्याद्यदृष्टस्य मोहरूपप्रभूतसामग्री विना स्वकार्याऽक्षमत्वलक्षणं तनुत्वमेव क्रियते। तनुस्थापकाऽदृष्टस्यापि अशरीरभावनया तद्भवबाह्ययोगक्रियां विरुणद्ध्येव । 'शरीरं तु प्रागेव निष्पादितं न बाधितुं क्षमत इति अस्माकं न कोऽपि दोष' इति चेत् ? न, विपरीतपरिणामनिवर्त्यत्वे भुक्त्यादेस्तददृष्टस्य रागाद्यर्जकादृष्टवद्योगप्रकर्षवति भगवति निर्मूलनाशाऽऽपत्तेर्विशेषाऽभावात् ।। घात्यघातिकृतविशेषाऽभ्युपगमे तु अघातिनां भवोपग्राहिणां यथाविपाकोपक्रममेव निवृत्ति- सम्भवादिति न किञ्चिदेतत । ३०/२५।। १. मुद्रितप्रतौ ‘शरीरादिभाव...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'निरुण...' इति पाठः । सोऽपि शुद्धः । 4 AAAAA ५१५ ।। Jain Education Interational For Private & Personal use only Page #521 -------------------------------------------------------------------------- ________________ भु क्ति व्य व स्था प न द्वा त्रिं शि का ३०/२८ has दोषजन्म अग्निमान्द्यादिदोषजनितं तनुत्वं च चिरकालविच्छेदलक्षणं निर्दोषे भगवति नोपपद्यते । नियतविच्छेदश्च नियतकालभुक्त्याद्याक्षेपक एवेति भाव: ।। २५ ।। परोपकारहानिश्च नियताऽवसरस्य न । = पुरीषादिजुगुप्सा च निर्मोहस्य न विद्यते ।। २६ । परोपकारेति । (१३) परोपकारस्य हानि ( = परोपकारहानिः ) च नियताऽवसरस्य भगवतो न भवति, तृतीययाममुहूर्तमात्र एव भगवतो भुक्तेः, शेषमशेषकालमुपकाराऽवसरात् । (१४) पुरीषादिजुगुप्सा च निर्मोहस्य क्षीणजुगुप्सामोहनीयकर्मणो भगवतः न विद्यते ||२६|| ततोऽन्येषां जुगुप्सा चेत्सुरासुरनृपर्षदि । नाग्न्येऽपि न कथं तस्याऽतिशयश्चोभयोः समः ।। २७ ।। तत इति । ततः पुरीषादेः अन्येषां = लोकानां जुगुप्सा चेत् ? सुरासुरनृपर्षदि उपविष्टस्येति शेषः नाग्न्येऽपि तेषां कथं न जुगुप्सा ? (तस्य) अतिशयश्चोभयोः पक्षयोः समः । ततो भगवतो नाग्न्याऽदर्शनवत् पुरीषाद्यदर्शनस्याऽप्युपपत्तेः । सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणान्न दोष इति वदन्ति ||२७|| स्वतो हितमिताहाराद् व्याध्युत्पत्तिश्च कापि न । ततो भगवतो भुक्तौ पश्यामो नैव बाधकम् ।। २८ ।। ।।५१६ ।। Page #522 -------------------------------------------------------------------------- ________________ 6 vERE 8 स्वत इति । (१५) स्वतः = पुण्याऽऽक्षिप्तनिसर्गतः हितमिताऽऽहाराद् व्याध्युत्पत्तिश्च काऽपि न भवति । ततो भगवतो भुक्तौ = कवलभोजने नैव 'बाधकं पश्यामः, उपन्यस्तानां तेषां निर्दलनात् । अन्येषामप्येतज्जातीयानामुक्तजातीयतर्केण निर्दलयितुं शक्यत्वादिति । तत्त्वार्थिना दिगम्बरमतिभ्रमध्वान्तहरणतरणिरुचिः अध्यात्ममतपरीक्षा निरीक्षणीया सूक्ष्मधिया ।।२८।। तथापि ये न तुष्यन्ति भगवद्भुक्तिलज्जया । सदाशिवं भजन्तां ते नृदेहादपि लज्जया ॥२९।। दोषं वृथा पृथूकृत्य भवोपग्राहिकर्मजम् । बन्धन्ति पातकान्याप्तं दूषयन्तः कदाग्रहात् ॥३०॥ कलकैः कल्पितैर्दुष्टैः स्वामी नो नैव दूष्यते । चौराद्युत्क्षिप्तधूलीभिः स्पृश्यते नैव भानुमान् ॥३१।। परमानन्दितैरित्थं दिगम्बरविनिग्रहात् । प्राप्तं सिताम्बरैः शोभा जैनं जयति शासनम् ।।३२।। शिष्टा चतुःश्लोकी स्पष्टा ।।२९-३०-३१-३२।। ।। इति केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ।।३०।। + sh 11५१७|| ३०/३२ Jain Education Interational Page #523 -------------------------------------------------------------------------- ________________ ।। अथ मुक्तिद्वात्रिंशिका ।।३१।। अनन्तरं कवलभोजित्वेऽपि कृतार्थत्वं केवलिनो व्यवस्थापितम् । सर्वथा कृतार्थत्वं चाऽस्य | मुक्तौ व्यवतिष्ठत इति बहुविप्रतिपत्तिनिरासेन मुक्तिरत्र व्यवस्थाप्यते दुःखध्वंसः परो मुक्तिर्मानं दुःखत्वमत्र च । आत्मकालाऽन्यगध्वंसप्रतियोगि'न्यवृत्तिमत् ॥१॥ दुःखध्वंस इति । परो दुःखध्वंसो मुक्तिः । परत्वं च समानकालीन-समानाधिकरणदुःखप्रागभावाऽसमानदेशत्वं वर्धमानग्रन्थे श्रूयते । तत्र च यद्यत्स्वसमान कालीन-स्वसमानाधिकरणदुःखप्रागभावसमानदेशमिदानींतनदुःखध्वंसादि तत्तद्भेदो निवेश्यः, अन्यथा चरमदुःखध्वंससमानकालीनसमानाधिकरणदुःखप्रागभावाऽप्रसिद्धः । वस्तुतः समानाधिकरणदुःखप्रागभावाऽसमानकालीनदुःखध्वंसो मुक्तिरित्येकं लक्षणम् । अपरं च समानकालीनदुःखप्राग भावाऽसमानाधिकरणो दुःखध्वंस इति लक्षणद्वये तात्पर्यम्। तेन नाऽसमानदेशत्वविवेचनेऽन्यतरविशेषणवैयर्थ्यम् । मानं = प्रमाणं च अत्र = मुक्तौ दुःखत्वं इति पक्षः । आत्मकालाऽन्यगः = आत्मका१. हस्तादर्श ...गिनिवृ...' इत्यशुद्धः पाठः । २. हस्तादर्श 'च' नास्ति । ३. हस्तादर्श 'स्वसमोना' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भावसामा..' इत्यशुद्धः पाठः । (५१८।। Page #524 -------------------------------------------------------------------------- ________________ लाऽन्याऽऽकाशादिवृत्तियों ध्वंसः शब्दादेस्तत्प्रतियोगिनि शब्दादौ अवृत्तिमद् = अवर्तमानं (= आत्मकालाऽन्यगध्वंसप्रतियोगिन्यवृत्तिमत्) । शब्दादिवृत्तित्वेनाऽर्थान्तरवारणार्थमेतत् पक्षविशेषणम्, बाधाऽस्फूर्तिदशायां तत्सिद्धिप्रसङ्गात्, नियतबाधस्फोरणेनैतत्साफल्याद् । 'अवृत्तिदुःखत्व मि'त्युक्तावसिद्धिः, दुःखत्वस्य दुःखवृत्तित्वात् । _ 'ध्वंसे'त्याद्युक्तावपि धंसप्रतियोगिनि, 'कालाऽन्यवृत्ती'त्याधुक्तावपि कालान्याऽऽत्मवृत्तिदुःखध्वंसप्रतियोगिनि, कालाऽन्यत्वत्यागे चाऽऽत्माऽन्यकालवृत्तिदुःखध्वंसप्रतियोगिनि दुःखे विद्यमानत्वात् सैवेति सम्पूर्णम् । __ आत्म-कालपदेन तदुपाध्योरपि ग्रहाच्च न तस्यास्तादवस्थ्यम् ।।१।। सत्कार्यमात्रवृत्तित्वात् प्रागभावोऽसुखस्य यः । तदनाधारगध्वंसप्रतियोगिनि वृत्तिमत् ॥२॥ सदिति । असुखस्य = दुःखस्य यः प्रागभावः तदनाधारो महाप्रलयस्तत्र गच्छति यो ध्वंसो दुःखीयस्तत्प्रतियोगिनि (= तदनाधारगध्वंसप्रतियोगिनि) दुःखे वृत्तिमदिति साध्यम्। ___ वृत्तिमत्' इत्युक्तौ सिद्धसाधनं, दुःखत्वस्य दुःखे विद्यमानत्वात् । प्रतियोगिवृत्तित्वोक्तावपि दुःखाऽत्यन्ताऽभावप्रतियोगिवृत्तित्वेन, 'तद्ध्वंसे'त्याधुक्तावपि दुःखध्वंसाऽङ्गीकारात्तदेव । ___ प्रागभावाऽनाधारवृत्तित्वस्य ध्वंसविशेषणत्वे दृष्टान्ताऽसिद्धिः, प्रदीपाऽवयवानां प्रदीप.... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्ताद नास्ति । १. हस्तादर्श 'दुःखविद्य.' इत्यशुद्धः पाठः । ५१९ ।। Jain Education Interational For Private & Personal use only Page #525 -------------------------------------------------------------------------- ________________ E ।। प्रागभावाऽऽधारत्वात्तदर्थं 'दुःखे'त्यादि । प्रदीपाऽवयवास्तु दुःखप्रागभावाऽनाधारभूता इति || दृष्टान्तसङ्गतिः । 'दुःखानधिकरणे'त्यादिकरणे खण्डप्रलयेनाऽर्थान्तरता स्यादिति दुःखप्रागभावनिवेशः । सत्कार्यमात्रवृत्तित्वादिति हेतुः । वृत्तित्वमात्मत्वे व्यभिचारि, कार्यवृत्तित्वमनन्तत्वे, ध्वंसाऽप्रतियोगित्वरूपस्य तस्याऽकार्ये आत्मादौ कार्ये ध्वंसे च सत्त्वात् । कार्यमात्रवृत्तित्वमपि ध्वंसत्वे' व्यभिचारीति तदर्थं भाववृत्तित्वे सतीति विशेषणे दीयमानेऽपि न तदुद्धारः, प्रागभावध्वंसस्य प्रतियोगि-तद्ध्वंसस्वरूपत्वेन ध्वंसत्वस्याऽपि भाववृत्तित्वात् । ततः सदिति कार्यविशेषणम् ।।२।। दीपत्ववदिति प्राहुस्तार्किकास्तदसङ्गतम् । बाधाद् वृत्तिविशेषेष्टावन्यथाऽर्थान्तराऽव्ययात् ॥३॥ दीपत्ववदिति । दीपत्ववदिति दृष्टान्त इति प्राहुः तार्किका = नैयायिकाः । ___ इत्थं सर्वमुक्तिसिद्धौ चैत्रदुःखत्वादिकं पक्षीकृत्य तत्तन्मुक्तिसाधनोपपत्तेः । तत् = तार्किकमतं असङ्गतं = न्यायाऽपेतम् । (वृत्तिविशेषेष्टौ=) वृत्तिविशेषस्य = अभावीयविशेषणतया दुःखप्रागभावाऽनाधारवृत्तित्वस्य इष्टौ = साध्यकोटिनिवेशोपगमे बाधात्, १. मुद्रितप्रतौ ...ध्वंसत्वे व्यभिचारवृत्तित्वे (व्यभिचारि तदर्थं भाववृत्ते) सतीति...' इत्यशुद्धः पाठः । २. हस्तादर्श 'अभावनीय' इत्यशुद्धः पाठः । ३१/३ ५२० ।। Jain Education Interational Page #526 -------------------------------------------------------------------------- ________________ दुःखध्वंसस्य दुःखसमवायिन्येव तया वृत्तित्वस्य त्वयोपगमात् ।। - अन्यथा = सम्बन्धमात्रेण तदिष्टौ अर्थान्तराऽव्ययात् = अर्थान्तराऽनुद्धारात्, आकाशादावपि दुःखध्वंसस्य व्यभिचारितादिसम्बन्धेन वृत्तित्वात्प्रकृताऽन्यसिद्धेः । ___ कालिक-दैशिकविशेषणताऽन्यतरसम्बन्धेन वृत्तित्वोक्तावपि कालोपाधिवृत्तित्वेन तदनपायात् । ___ कालिकेन दुःखप्रागभावाऽनाधारत्वनिवेशे च दृष्टान्ताऽसङ्गतेः । ___ मुख्यकालवृत्तित्वविशिष्टकालिकसम्बन्धेन तन्निवेशेऽप्यात्मनस्तथात्वात् । उक्ताऽन्यतरसम्बन्धेन तन्निवेशेऽपि तथासम्बन्धगर्भ'व्याप्त्यग्रहादिति भावः ।।३।। विपक्षबाधकाऽभावादनभिप्रेतसिद्धितः । अन्तरैतदयोग्यत्वाशङ्का' योगाऽपहेति चेत् ॥४॥ विपक्षेति। विपक्षे हेतुसत्त्वेऽपि साध्याऽसत्त्वे बाधकस्याऽनुकूलतर्कस्याऽभावात् (=विपक्षबाधकाऽभावात्) । तथा च अनभिप्रेतसिद्धितः = अनिष्टसिद्धिप्रसङ्गात्, कालाऽन्यत्वगर्भसाध्यं प्रत्यपि उक्तहेतोरविशेषात् । ____एतद् = उक्तसाध्यं अन्तरा सर्वमुक्त्यसिद्धौ अयोग्यत्वाऽऽशङ्का ‘य एव न कदाऽपि १. हस्तादर्श 'गर्भा व्याप्त्यः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ....ग्यत्वाच्छंका(त्वाशंका)..' इति पाठः । ३. हस्तादर्श 'अनिष्टसिप्र..' इत्यशुद्धः पाठः । ३१/४ ५२१॥ Page #527 -------------------------------------------------------------------------- ________________ मोक्ष्यते तद्वदहं यदि स्यां, तदा मम विफलं परिव्राजकत्वमित्याकारा योगाऽपहा = . योगप्रतिबन्धि केत्यद एव विपक्षबाधकमिति नैवं, शमादिसम्पत्त्या स्वयोग्यत्वविनिश्चयात् । न चाऽन्योऽन्याश्रयस्तस्याः सम्भवात् पूर्वसेवया ।।५।। नैवमिति । एवं न यथोक्तं विपक्षबाधकं भवता, शमादीनां = शम-दम-भोगाऽनभिष्वङ्गादीनां मुमुक्षुचिह्नानां सम्पत्त्या (=शमादिसम्पत्त्या) स्वयोग्यत्वस्य विनिश्चयात् (=स्वयोग्यत्वविनिश्चयात्), तेषां तद्व्याप्यत्वात् । ___न 'चाऽन्योऽन्याऽऽश्रयो योगप्रवृत्तौ सत्यां शमादिसम्पत्तिस्ततश्चाऽधिकारविनिश्चयात्सेति सम्भावनीयम्, तस्याः = शमादिसम्पत्तेः पूर्वसेवया योगप्रवृत्तेः प्रागपि सम्भवात् । योगप्रवृत्तेरतिशयितशमादिसम्पादकत्वेनैव फलवत्त्वात्।। सामान्यतस्तु तत्र कर्मविशेषक्षयोपशम एव हेतुरिति न किञ्चिदनुपपन्नम् ।।५।। शमाद्युपहिता हन्त योग्यतैव विभिद्यते । तदवच्छेदकत्वेन सङ्कोचस्तेन तस्य न ॥६॥ शमादीति । शमादिभिर्मुमुक्षुलिङ्गैरुपहिता (= शमाद्युपहिता) हन्त योग्यतैव विभिद्यते, १. मुद्रितप्रतौ ' बन्धके...' इति पाठः । २. हस्तादर्श 'नेवं' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्वयोगत्व...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भवत्' इत्यशुद्धः पाठः । ५. हस्तादर्श 'त्वान्यो' इत्यशुद्धः पाठः । ५२२।। Jain Education Interational For Private & Personal use only Page #528 -------------------------------------------------------------------------- ________________ BE ।। सामान्ययोग्यतातः समुचितयोग्यतायाः प्राग् भेदसमर्थनात् । तेन कारणेन तदवच्छेदकत्वेन' = योग्यतावच्छेदकत्वेन तस्य = शमादेः सङ्कोचो न योग्यताऽवच्छेदकत्वलक्षणः, योग्यताविशेषस्यैव अतिशयितशमादौ तद्द्वारा च मोक्षे हेतुत्वात् ।।६।। ननु शमादावपि संसारित्वेनैव हेतुतेति सर्वमुक्त्याक्षेप इत्यत आह संसारित्वेन गुरुणा शमादौ च न हेतुता । भव्यत्वेनैव किं त्वेषेत्येतदन्यत्र दर्शितम् ।।७।। ___ संसारित्वेनेति । संसारित्वेन = नित्यज्ञानादिमद्भिन्नत्वरूपेण गुरुणा = नानापदार्थघटितेन शमादौ च हेतुता न तव कल्पयितुमुचितेति शेषः । किं तु भव्यत्वेनैव एषा - हेतूता, शमाद्यनगतकार्यजनकताऽवच्छेदकतयाऽऽत्मत्वव्याप्यजातिविशेषस्य कल्पयितुमचितत्वात् । द्रव्यात्वादावप्यनुगतकार्यस्यैव मानत्वात् । आत्मत्वेनैव शमादिहेतुत्वे विशेषसामग्र्यभावेनेश्वरेऽतिप्रसङ्गाऽभावे समर्थनीयेऽन्यत्राऽपि तेन तस्य 'सुवचत्वात् । भव्यत्वाऽभव्यत्वशङ्कयैव भव्यत्वनिश्चयेन प्रवृत्त्यप्रतिबन्धात् इति । एतद् अन्यत्र = न्यायालोकादौ दर्शितम् ।।७।। १. हस्तादर्श ...त्वेना' इति पाठः । स चाऽशुद्धः । २. हस्तादर्श 'शमावपि' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्श 'संसारित्वेनेति' इति नास्ति । ४. हस्तादर्श '...तानच्छेद....' इत्यशुद्धः पाठः । ५. हस्तादर्श 'सुवत्वात्' इति त्रुटितोऽशुद्धश्च पाठः । ।।५२३।। Jain Education Interational Page #529 -------------------------------------------------------------------------- ________________ 牙和酊仟何可 क्ति द्वा त्रिं शि का ३१/९ परमात्मनि जीवात्मलयः सेति त्रिदण्डिनः । लयो लिङ्गव्ययोऽत्रेष्टो जीवनाशस्तु' नेष्यते ॥८॥ परमात्मनीति । परमात्मनि जीवात्मलयः सा मुक्तिः इति त्रिदण्डिनो वदन्ति । अत्र = एतन्मते लयो लिङ्गव्यय इष्टः अस्माकमप्यभिमतः । एकादशेन्द्रियाणि पञ्चमहाभूतानि च सूक्ष्ममात्रया सम्भूयाऽवस्थितानि जीवात्मनि सुख-दु:खाऽवच्छेदकानि लिङ्गशब्देनोच्यन्ते, तद्व्ययश्च परमार्थतो नामकर्मक्षय एवेति । जीवनाशस्तु नेष्यते, उपाधिशरीरनाशे औपाधिकजीव 'नाशस्याऽप्यकाम्यत्वात् ||८|| बौद्धास्त्वालयविज्ञानसन्ततिः सेत्यकीर्तयन् । विनाऽन्वयिनमाधारं तेषामेषा कदर्थना ।।९।। स्त्विति । बास्तु आलयविज्ञानसन्ततिः प्रवृत्तिविज्ञानोपप्लवरहिता संहृतज्ञेयाऽऽकारा ज्ञानक्षणपरम्परा सा मुक्ति इत्यकीर्तयन् । यथोक्तं“चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ।। " (महोपनिषद् - ४ / ६६) न च शरीरादिनिमित्ताऽभावे तदनुपपत्तिः, पूर्वपूर्वविशिष्टक्षणानामेव तद्धेतुत्वाद्, विशिष्टभावनात एव तेषां विसभागपरिक्षये प्रवृत्तेः । तेषा' मन्वयिनं = १. मुद्रितप्रतौ ' ... शश्च' इत्यशुद्धः पाठः । २. हस्तादर्शे ' ... मत्रे' इत्यशुद्धः पाठः । ३. हस्तादर्शे ' ...जीरोद्ध' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ‘संहत' इति पाठः । ५. मुद्रितप्रतौ '...भावनात्' इति पाठः । ६. हस्तादर्शे 'मत्वनं' इत्यशुद्धः पाठः । ।।५२४ ।। Page #530 -------------------------------------------------------------------------- ________________ 149 dE has to क्ति द्वा शि का ३१/११ त्रिकालाऽनुगताऽऽत्मलक्षणम् आधारं विना एषा मुक्तिः कदर्थना, सन्तानस्याऽवास्तवत्वेन बद्ध-मुक्तव्यवस्थाऽनुपपत्तेः, सर्वथाऽभावीभूतस्य क्षणस्योत्तरसदृशक्षणजननाऽसामर्थ्यादिति ।।९।। विवर्तमानज्ञेयाऽर्थाऽपेक्षायां सति चाऽऽश्रये । अस्यां विजयतेऽस्माकं पर्यायनयदेशना । । १० ॥ = विवर्तमानेति । विवर्तमानाः प्रतिक्षणमन्यान्यपर्यायभाजो ये ज्ञेयार्थास्तदपेक्षायाम् (= विवर्तमानज्ञेयाऽर्थाऽपेक्षायां ) आश्रये च अन्वयिद्रव्यलक्षणे सति अस्यां = उक्तमुक्त अस्माकं पर्यायनयदेशना विजयते, 'प्रतिक्षिप्तद्रव्यस्य बौद्धसिद्धान्तस्य परमार्थतः पर्यायार्थिकनयाऽन्तःपातित्वात् । तदुक्तं सम्मतौ - “२ सुद्धोअणतणयस्स उ परिसुद्धा पज्जवविअप्पो” ( सं . त . ३ / ४८ ) ।।१०।। स्वातन्त्र्यं मुक्तिरित्यन्ये प्रभुता तन्मदः क्षयी । अथ कर्मनिवृत्तिश्चेत् सिद्धान्तोऽस्माकमेव सः ।।११।। स्वातन्त्र्यमिति । स्वातन्त्र्यं मुक्तिरित्यन्ये वदन्ति । = स्वातन्त्र्यं यदि प्रभुता तदा मदः, स च क्षयी | अथ चेत् कर्मनिवृत्तिः तदा अस्माकमेव स सिद्धान्तः ।। ११ ।। पुंसः स्वरूपाऽवस्थानं सेति साङ्ख्याः प्रचक्षते । १. कोबाप्रती प्रकृतिक्षि...' इति पाठ: । २. मुद्रितप्रतौ 'सुद्धो अणणयस्स' इत्यशुद्धः पाठः । तत् ।।५२५ ।। Page #531 -------------------------------------------------------------------------- ________________ । तेषामेतदसाध्यत्वं वज्रलेपोऽस्ति दूषणम् ।।१२।। पुंस इति । पुंसः = पुरुषस्य स्वरूपाऽवस्थानं = प्रकृति-तद्विकारोपधानविलये चिन्मात्रप्रतिष्ठानं सा = मुक्तिः इति साङ्ख्याः प्रचक्षते । तेषां एतस्या मुक्तेः असाध्यत्वं (-एतदसाध्यत्वं) दूषणं वज्रलेपोऽस्ति, एकान्तनित्याऽऽत्मरूपायास्तस्या नित्यत्वात् । उपचरितसाध्यत्वस्याऽप्रयोजकत्वात् ।।१२।। पूर्वचित्तनिवृत्तिः साऽग्रिमाऽनुत्पादसङ्गता । इत्यन्ये श्रयते तेषामनुत्पादो न साध्यताम् ।।१३।। पूर्वेति । अग्रिमानुत्पादसङ्गता = अग्रिमचित्ताऽनुत्पादविशिष्टा पूर्वचित्तनिवृत्तिः सा ३१/१४ मुक्तिः इत्यन्ये । तेषामनुत्पादः साध्यतां न श्रयत' इति मुक्तेरपुरुषार्थत्वाऽऽपत्तिरेव दोषः ।।१३।। साऽऽत्महानमिति प्राह चार्वाकस्तत्तु पाप्मने । तस्य हातुमशक्यत्वात्तदनुद्देशतस्तथा ॥१४॥ सेति । आत्महानं सा = मुक्ति इति चार्वाकः प्राहः । तत्तु वचनं श्रूयमाणमपि पाप्मने भवति । तस्य आत्मनो हातुमशक्यत्वात् असतो नित्यनिवृत्तत्वात्, सतश्च वीतरागजन्माऽदर्शनन्यायेन नित्यत्वात. सर्वथा हानाऽसिद्धेः । १. हस्तादर्श 'पूर्वश्चत्त..' इति पाठः । अर्थतः शुद्धोऽपि व्याख्यानुसारेण सोऽशुद्धः । २. हस्तादर्श 'श्रया' इत्यशुद्धः पाठः । ५२६।। Jain Education Interational For Private & Personal use only Page #532 -------------------------------------------------------------------------- ________________ 4 भर तथा पर्यायाऽर्थतया तद्धानावपि तदनुद्देशतः = आत्महानाऽनभिलाषात् । मुक्ति- ॥ पदार्थस्य च निरुपधीच्छाविषयत्वात ।।१४।। नित्योत्कृष्टसुखव्यक्तिरिति तौतातिता जगुः । नित्यत्वं चेदनन्तत्वमत्र तत्सम्मतं हि नः ॥१५॥ नित्येति । नित्यमुत्कृष्टं च निरतिशयं यत्सुखं तद्व्यक्तिर्मुक्तिः (=नित्योत्कृष्टसुखव्यक्तिः) इति तौतातिता जगुः । अत्र मते नित्यत्वमनन्तत्वं चेत्तत् = तदा नः = अस्माकं हि = निश्चितं सम्मतं, सिद्धसुखस्य साद्यपर्यवसितत्वाऽभिधानात् । तस्य च मुक्तावभिव्यक्तेः ।।१५।। अथाऽनादित्वमेतच्चेत्तथाप्येष नयोऽस्तु नः । सर्वथोपगमे च स्यात्सर्वदा तदुपस्थितिः ॥१६॥ अथेति । अथैतत् मुक्तिसुखे नित्यत्वम् = अनादित्वं चेत्तथापि न एष 'नयोऽस्तु, संसारदशायां कर्माऽऽच्छन्नस्याऽपि सुखस्य द्रव्याऽर्थतया शाश्वताऽऽत्मस्वभावत्वात् । सर्वयोपगमे च = एकान्ततोऽनादित्वाऽऽश्रयणे च सर्वदा = संसारदशायामपि तदुपस्थितिः = मुक्तिसुखाऽभिव्यक्तिः स्यात् । अभिव्यञ्जकाऽभावेन तदा तदभिव्यक्त्यभावसमर्थने च घटादेरपि दण्डाद्यभिव्यङ्ग्यत्वस्य सुवचत्वे साङ्ख्यमतप्रवेशाऽऽपातात् ।।१६।। १. हस्तादर्श 'नयास्तु' इत्यशुद्धः पाठः । ३१/१६ ५२७।। Jain Education Interational For Private & Personal use only Page #533 -------------------------------------------------------------------------- ________________ वेदान्तिनस्त्वविद्यायां निवृत्तायां विविक्तता । सेत्याहुः सापि नो तेषामसाध्यत्वादवस्थितेः ।।१७।। वेदान्तिनस्त्विति । वेदान्तिनस्तु अविद्यायां निवृत्तायां विविक्तता = केवलाऽऽत्मा| ऽवस्थानं सा मुक्तिः, इति आहुः साऽपि नो तेषां युक्तेति शेषः, अवस्थितेः विज्ञान सुखात्मकस्य ब्रह्मणः प्रागप्यवस्थानाद् असाध्यत्वात् । ___'कण्ठगतचामीकरन्यायेन भ्रमादेव तत्र' प्रवृत्तिरिति तु भ्रान्तपर्षदि वक्तुं शोभत इति भावः ।।१७।। कृत्स्नकर्मक्षयो मुक्तिरित्येष तु विपश्चिताम् । __स्याद्वादाऽमृतपानस्योद्गारः स्फारनयाऽऽश्रयः ।।१८॥ कृत्स्नेति । (कृत्स्नकर्मक्षयः =) कृत्स्नानां कर्मणां ज्ञानाऽऽवरणादीनां क्षयो मुक्तिरित्येष तु विपश्चितां = एकान्तपण्डितानां स्याद्वादाऽमृतपानस्योद्गारः, स्फारा ये नयाः = तत्तत्तन्त्रप्रसिद्धार्थास्तदाश्रयः (=स्फारनयाऽऽश्रयः), षड्दर्शनसमूहमयत्वस्य जैनदर्शने "सम्मतिसम्मतत्वात् ।।१८।। नयानेवाऽत्राऽभिव्यनक्ति ऋजुसूत्रादिभिर्जान-सुखादिकपरम्परा । १. मुद्रितप्रतौ 'सेत्याह' इत्यशुद्धः पाठः । हस्तादर्श शुद्धः पाठो वर्तते । २. मुद्रितप्रतौ 'नात्र(s) प्र...' इत्यशुद्धः भ्रामकश्च पाठः । ३. हस्तादर्श '...णादिक्षयो' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'सम्मतत्वात्' इति त्रुटितः पाठः । ३१/१८ ।।५२८।। Jain Education Interational For Private & Personal use only Page #534 -------------------------------------------------------------------------- ________________ क्ति द्वा शि का ३१/२० व्यङ्गयमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् ।।१९।। ऋजुसूत्रादिभिरिति । ऋजुसूत्रादिभिः नयैः ज्ञान-सुखादिपरम्परा मुक्तिरिष्यते, शुद्धनयैस्तैरुत्तरोत्तरविशुद्धपर्यायमात्राऽभ्युपगमात् । ज्ञानादीनां क्षणरूपतायाः क्षणसत्तयाऽपि सिद्धेः, तस्याः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात् । सङ्ग्रहेण = सङ्ग्रहनयेन आवरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिः इष्यते । तद्धि जीवस्य स्वभावः सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपाऽऽवरणेनाऽऽच्छाद्यते, प्रदीपस्याऽपवरकाऽवस्थितपदार्थप्रकाशकत्वस्वभाव इव तदावारकशरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेति । शरीराऽभावे ज्ञान - सुखाद्यभावोऽप्रेर्य एव, अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गात् । 'शरावादेः प्रदीपाद्यजनकत्वान्नोक्तप्रसङ्ग' इति चेत् ? न तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तद'नावारकत्वप्रसङ्गादिति ।।१९।। क्षयः प्रयत्नसाध्यस्तु व्यवहारेण कर्मणाम् । न चैवमपुमर्थत्वं द्वेषयोनिप्रवृत्तितः ।। २० ।। क्षय इति । व्यवहारेण तु प्रयत्नसाध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वय१. हस्तादर्शे 'स्वयम्' इत्यशुद्धः पाठः व्याख्यानुसारेण । २. हस्तादर्शे 'व्यंपि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'तरना...' इयशुद्धः पाठः । ४. हस्तादर्शे 'चैवपुम...' इत्यशुद्धः पाठः । ।। ५२९ ।। Page #535 -------------------------------------------------------------------------- ________________ ॐ Pat व्यतिरेकाऽनुविधानेन तत्प्रवृत्तेः, ज्ञानादीनां कर्मक्षये तदनुविधानात् । न चैवं कर्मक्षयस्य मुक्तित्वाऽभ्युपगमे अपुमर्थत्वं मुक्तेः, द्वेषयोनिप्रवृत्तितः साक्षाद्दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वाऽविरोधात् ।।२०।।। दुःखद्वेषे हि तद्धेतून् द्वेष्टि प्राणी नियोगतः । जायतेऽस्य प्रवृत्तिश्च ततस्तन्नाशहेतुषु ।।२१।। दुःखद्वेषे हीति । दुःखद्वेषे हि सति प्राणी तळेतून् = दुःखहेतून् नियोगतो = निश्चयतो द्वेष्टि । अस्य = दुःखहेतुद्विषः च ततस्तन्नाशहेतुपु = दुःखोपायनाशहेतुषु ज्ञानादिषु प्रवृत्तिर्जायते, दुःखद्वेषस्य' दुःखहेतुनाशोपायेच्छा-दुःखहेतुद्वेषयोस्तयोश्च दुःखहेतुनाशहेतुप्रवृत्तौ स्वभावतो हेतुत्वात् । अनुस्यूतैकोपयोगरूपत्वेऽपि क्रमाऽनुवेधेन हेतु-हेतुमद्भावाऽविरोधात् । क्रमिकाऽक्रमिकोभयस्वभावोपयोगस्य तत्र तत्र व्यवस्थापितत्वात् ।।२१।। इत्थं चाऽत्र 'दुःखं मा भूदि'त्युद्देशे दुःखहेतुनाशविषयकत्वं फलितमित्येतदन्यत्राऽप्यतिदिशन्नाह अन्यत्राऽप्यसुखं मा भून्माङोऽर्थेऽत्राऽन्वयः स्थितः । दुःखस्यैवं समाश्रित्य स्वहेतुप्रतियोगिताम् ॥२२॥ 'अन्यत्रापीति । अन्यत्राऽपि = प्रायश्चित्तादिस्थलेऽपि 'असुखं मा भूत्' अत्र 'माङोऽर्थे ।।५३०।। १. मुद्रितप्रतौ 'दुःखद्वेष्य(षेऽ)स्य...' इत्यशुद्धः पाठः । २. हस्तादर्श हेतुमद्भा...' इति त्रुटितः पाठः । ३. हस्तादर्श 'अत्रत्रा...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'अन्यत्रापीति' इति पाठो नास्ति । ५. हस्तादर्श 'माक्षो' इत्यशुद्धः पाठः। ३१/२२ Jain Education Interational For Private & Personal use only Page #536 -------------------------------------------------------------------------- ________________ ध्वंसे एवम् = उक्तरीत्या दुःखस्य स्वहेतुप्रतियोगितां आश्रित्य (=समाश्रित्य) अन्वयः | स्थितः । तत्पापजन्यदुःखाऽप्रसिद्ध्या तद्ध्वंसस्याऽसाध्यत्वात् । अस्तु वा दुःखद्वेषस्यैवाऽयमुल्लेखः ।। मुख्यप्रयोजनविषयकेच्छाविषयत्वेन च मुख्यप्रयोजनत्वमविरुद्धमिति भावः ।।२२।। स्वतोऽपुमर्थताप्येवमिति चेत् कर्मणामपि । शक्त्या चेन्मुख्यदुःखत्वं स्याद्वादे किं नु बाध्यताम् ।।२३।। स्वत इति । एवमपि स्वतोऽपुमर्थता, निरुपधिकेच्छाविषयत्वेन सुख-दुःखहान्यन्यतरस्यैव स्वतः पुमर्थत्वात् इति चेत् ? कर्मणामपि शक्त्या चेन्मुख्यदुःखत्वं तदा स्याद्वादे किं नु बाध्यताम् ? दुःखहेतोरपि कथञ्चिद्दःखत्वात् । तेन दुःखक्षयत्वेन रूपेण कर्मक्षयस्य त्वन्नीत्याऽपि मुख्यप्रयोजनत्वाऽनपायाद्रे, रूपान्तरेण तत्त्वस्य चाऽप्रयोजकत्वात् ।।२३।। स्वतः प्रवृत्तिसाम्राज्यं किं चाऽखण्डसुखेच्छया । निराबाधं च वैराग्यमसङ्गे तदुपक्षयात् ॥२४ ।। स्वत इति । किं च स्वतो = निरुपधिकतया प्रवृत्तिसाम्राज्यमखण्डसुखेच्छया अखण्ड ॥५३१।। १. मुद्रितप्रतौ 'मुख्यप्रयोजना विषय...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'तेन' इति पदं नास्ति । ३. मुद्रितप्रतौ '...पायद्' इत्यशुद्धः पाठः । ४. हस्तादर्श '...रेणा' इत्यशुद्धः पाठः । १/२४ Jain Education Intemational For Private & Personal use only Page #537 -------------------------------------------------------------------------- ________________ FE क सुखसंवलितत्वात् कर्मक्षयस्य । नन्वेवं सुखेच्छया वैराग्यव्याहतिरित्यत आह- असङ्गे = असङ्गाऽनुष्ठाने तदुपक्षयात् = सुखेच्छाया अपि विरमात् निराबाधं च वैराग्यं “मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः” (योगशतक-२० वृ.उद्धृत) इति वचनात् । न चेदेवं, सुखेच्छया वैराग्यस्येव दुःखद्वेषात् प्रशान्तत्वस्याऽपि व्याहतिरेवेति भाव ।।२४।। समानाऽऽय-व्ययत्वे च वृथा मुक्तौ परिश्रमः । गुणहानेरनिष्टत्वात्ततः सुष्ठूच्यते ह्यदः ।।२५।। समानेति । समानाऽऽयव्ययत्वे च सुख-दुःखाऽभावाभ्यामभ्युपगम्यमाने मुक्तौ वथा परिश्रमः, गणहानेरनिष्टत्वात तदनुविद्धदुःखनाशोपायेऽनिष्टाऽनुबन्धित्वज्ञानेन प्रेक्षावत्प्रवृत्तेरयोगात् । ततो ह्यदः सुष्ठूच्यते ।।२५।। दुःखाऽभावोऽपि नाऽवेद्यः पुरुषार्थतयेष्यते । न हि मूर्छाद्यवस्थाऽर्थं प्रवृत्तो दृश्यते सुधीः ।।२६ ।। दुःखाऽभावोऽपीति । दुःखाऽभावोऽपि न अवेद्यः = स्वसमानाधिकरण-समानकालीनसाक्षात्काराऽविषयः 'पुरुषार्थतयेष्यते । न हि मूर्छाद्यवस्थार्थं सुधीः प्रवृत्तो दृश्यते । अन्यथा 'तु तदर्थमपि प्रवृत्तिः स्यात् ।। ___अतो गुणहानेरनिष्टत्वेन दुःखाऽभावरूपायां मुक्तौ तदर्थप्रवृत्तिव्याघात एव दूषण१. हस्तादर्श ....षयः षार्थ...' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रतिषु 'तु' नास्ति । ३१/२६ ॥॥५३२।। Jain Education Interational For Privale & Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ 79 df has to t क्ति द्वा त्रिं शि का ३१/२८ मिति भावः || २६ ॥ एतेनैतदपास्तं हि पुमर्थत्वेऽप्रयोजकम् । = तज्ज्ञानं दुःखनाशश्च वर्तमानोऽनुभूयते ।। २७ ।। एतेनेति । एतेन गुणहानेरनिष्टत्वेन हि निश्चितं एतदपास्तम् । यदुक्तं महानैयायिकेन 'पुमर्थत्वे तज्ज्ञानं पुमर्थज्ञानं अप्रयोजकं, वर्तमानोऽनुभूयते विनश्यदवस्थेन योगिसाक्षात्कारेणेति ।। २७ ।। गुणहारनिष्टत्वं वैराग्यान्नाऽथ वेद्यते । = दुःखनाशश्च इच्छा - द्वेषौ विना नैवं प्रवृत्तिः सुख-दुःखयोः ।।२८।। गुहारिति । अथ गुणहानेरनिष्टत्वं वैराग्यान्न वेद्यते कामान्धत्वादिव पारदायें बलवद्दुःखाऽनुबन्धित्वम्, ततः प्रवृत्त्यव्याघात इति भावः । एवं सति इच्छा - द्वेषौ विना सुख-दुःखयोः २प्राप्यनाश्ययोरिति शेषः प्रवृत्तिर्न स्यात् । परवैराग्ये `प्रवृत्तिकारणयोस्तयोर्निवृत्तेरपरवैराग्ये च गुणवैतृष्ण्यस्यैवाऽभावाद्, गुणहानेरनिष्टत्वाऽप्रतिसन्धानाऽनुपपत्तेः । गुणहानेरनिष्टत्वे प्रतिसंहिते प्राक्तनप्रवृत्त्यनुपपत्तौ तत्संस्कारतोऽप्यसङ्गप्रवृत्तेर्दुर्वचत्वमिति न किञ्चिदेतत् ॥ २८ ॥ १. हस्तादर्शे 'द्वेष' इत्यशुद्धः पाठः । २ हस्तादर्शे 'प्राप्य नाश्ययो 'रिति नास्ति । ३ मुद्रितप्रती प्रवृतिकरण...' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'वैतृष्णस्य' इत्यशुद्धः पाठः । ।।५३३ ।। Page #539 -------------------------------------------------------------------------- ________________ 24 ननु श्रुतिबाधान्न मुक्तौ सुखसिद्धिरित्यत आह अशरीरं वाव सन्तमित्यादिश्रुतितः पुनः । सिद्धो हन्त्युभयाऽभावो नैकसत्तां यतः स्मृतम् ।।२९॥ अशरीरमिति। 'अशरीरं वाव सन्तमि'त्यादिश्रुतितः = 'अशरीरं वाव सन्तं प्रियाऽप्रिये न स्पृशतः' (छान्दोपनिषद् ८/१२/१) इति श्रुतेः पुनरुभयाऽभावः सुख-दुःखोभयाऽभावः सिद्धः, एकसत्तां = सुखसत्तां न हन्ति, एकवत्यपि द्वित्वाऽवच्छिन्नाऽभावप्रत्ययात् । अस्तु वा तत्राऽप्रियपदसन्निधानात् प्रियपदस्य वैषयिकसुखपरत्वमेवेत्यपि द्रष्टव्यम् । यतः स्मृतम् ।।२९।। सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयादुष्षापमकृतात्मभिः ॥३०॥ सुखमिति । स्पष्टः ।।३०।। उपचारोऽत्र नाऽबाधात् साक्षिणी चाऽत्र दृश्यते । 'नित्यं विज्ञानमानन्दं ब्रह्मे'त्यप्यपरा श्रुतिः ॥३१ ।। उपचार इति । अत्र = मुक्तिसुखप्रतिपादिकायामुक्तस्मृतौ उपचारो न दुःखाऽभावे ॥५३४।। सुखपदस्य लाक्षणिकत्वं, अबाधाद = बाधाऽभावात् । १. हस्तादर्श 'सविधानात्' इत्यशुद्धः पाठः । २. हस्तादर्श 'नाबा...' इत्यशुद्धः पाठः । ३१/३१ Jain Education Interational Page #540 -------------------------------------------------------------------------- ________________ जन्यस्याप्यभावस्येव भावस्याऽपि कस्यचिदनन्तत्वसम्भवात् । अत्र = मुक्तिसुखे 'नित्यं ॥ | विज्ञानमानन्दं ब्रह्मेति (बृहदारण्यकोपनिषद्-३/९/२८) अपराऽपि श्रुतिः साक्षिणी वर्तते (=दृश्यते), तया नित्यज्ञानाऽऽनन्दब्रह्माऽभेदबोधनादिति ।।३१।। परमानं दलयतां परमानं दयावताम् । परमानन्दपीनाः स्मः परमानन्दचर्चया ॥३२॥ ___परमानमिति । (परमानं =) परेषां = एकान्ताऽभिनिविष्टानां मानं = कुहेतुं दलयतां स्याद्वादमुद्गरेण । (परमानं) किं भूतम् ? परः = प्रकृष्टो मानो = दर्पो यस्मात्तत्तथा (=परमानम्) । ___दयावतां अनेकान्तप्रणयितया जगदुद्दिधीर्षावतां सिताम्बरसाधूनां परमानन्दचर्चया = महोदयमीमांसया वयं (परमानन्दपीनाः) परमेण = उत्कृष्टेनाऽऽनन्देन पीनाः = पुष्टाः स्मः ।।३२।। ।। इति मुक्तिद्वात्रिंशिका ।।३१।। ३१/३२ ।।५३५।। १. हस्तादर्श ...नन्तसम्भवात्' इति पाठः । Page #541 -------------------------------------------------------------------------- ________________ 파 괴되 최 ॥ अथ सज्जनस्तुतिद्वात्रिंशिका ।।३२।। नाम सज्जन इति त्रिवर्णकं, कर्णकोटरकुटुम्बि चेद् भवेत् । नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोक्तयः ॥१॥ स्याद् बली बलमिह प्रदर्शयेत्, सज्जनेषु यदि सत्सु दुर्जनः । किं बलं नु तमसोऽपि वर्ण्यते, यद् भवेदसति भानुमालिनि ।।२।। दुर्जनस्य रसना सनातनी, सङ्गतिं न परुषस्य मुञ्चति । सज्जनस्य तु सुधाऽतिशायिनः, कोमलस्य वचनस्य केवलम् ।।३।। या द्विजिह्वदलना घनाऽऽदराद् याऽऽत्मनीह पुरुषोत्तमस्थितिः । याऽप्यनन्तगतिरेन'येष्यते. सज्जनस्य गरुडाऽनुकारिता ॥४॥ सज्जनस्य विदुषां गुणग्रहे, दूषणे निविशते खलस्य धीः । चक्रवाकदृगहर्पतेर्युतौ, घूकदृक् तमसि सङ्गमङ्गति ।।५।। दुर्जनैरिह सतामुपक्रिया, तद्वचोविजयकीर्तिसम्भवात् । व्यातनोति जिततापविप्लवां, वह्निरेव हि सुवर्णशुद्धताम् ॥६॥ । १. मुद्रितप्रतौ ...रेतये...' इति पाठः । २. हस्तादर्श 'सुवर्णसिद्धितः' इत्यशुद्धः पाठः । | 의 적 파 ३२/६ ||५३६।। Jain Education Intemational For Private & Personal use only Page #542 -------------------------------------------------------------------------- ________________ 여 되 최 고 या कलङ्किवसतेर्न' सक्षया, या कदाऽपि न भुजङ्गसङ्गता । गोत्रभित्सदसि या न सा सतां, वाचि काचिदतिरिच्यते सुधा ।।७।। दुर्जनोद्यमतपर्तुपूर्तिजात्तापतः श्रुतलता क्षयं व्रजेत् । नो भवेद्यदि गुणाऽम्बुवर्षिणी, तत्र 'सज्जनकृपातपात्ययः ॥८॥ तन्यते सुकविकीर्तिवारिधौ दुर्जनेन वडवानलव्यथा । सज्जनेन तु शशाङ्ककौमुदीसङ्ग्रङ्गवदहो महोत्सवः ॥९॥ यद्यनुग्रहपरं सतां मनो दुर्जनात् किमपि नो भयं तदा । सिंह एव तरसा वशीकृते किं भयं भुवि शृगालबालकात् ॥१०॥ खेदमेव तनुते जडात्मनां सज्जनस्य तु मुदं कवेः' कृतिः । स्मेरता कुवलयेऽम्बुजे व्यथा(इब्नपीडन) चन्द्रभासि' भवतीति हि स्थितिः ।।११॥ न त्यजन्ति कवयः श्रुतश्रमं संमुदैव खलपीडनादपि । स्वोचिताऽऽचरणबद्धवृत्तयः साधवः शम-दमक्रियामिव ॥१२॥ १. मुद्रितप्रतो ....सतेन...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ....सज्जनकृपां तपात्ययः (या)...' इत्यशुद्धः । ३. मुद्रितप्रती 'शशांककौमुदी संग..' इत्यस्थानच्छिन्नः पाठः । ४. हस्तादर्श 'चक' इत्यशुद्धः पाठः । ५. हस्तादर्श ...ब्लमीम' इत्यशुद्धः पाठः । ६. हस्तादर्श 'चन्द्रमासि' इत्यशुद्धः पाठः । 파 의 ३२/१२ 11५३७।। Jain Education Intemational Page #543 -------------------------------------------------------------------------- ________________ नव्यतन्त्ररचनं सतां रतेस्त्यज्यते न खलखेदतो बुधैः । नैव भारभयतो विमुच्यते शीतरक्षणपटीयसी पटी ॥१३॥ आगमे सति नवः श्रमो मदान्न स्थितेरिति खलेन दूष्यते । नौरिवेह जलधौ प्रवेशकृत् सोऽयमित्यथ सतां सदुत्तरम् ।।१४।। पूर्वपूर्वतनसूरिहीलना नो तथापि निहतेति दुर्जनः । तातवागनुविधायिबालवन्नेयमित्यथ सतां सुभाषितम् ॥१५॥ किं तथापि पलिमन्थ मन्थरैरत्र साध्यमिति दुर्जनोदिते । स्वाऽन्ययोरुपकृतिर्नवा मतिश्चेति सज्जननयोक्तिरर्गला ॥१६॥ सप्रसङ्गमिदमाद्यविंशिकोपक्रमे मतिमतोपपादितम् । चारुतां व्रजति सज्जनस्थितिर्नाऽक्षतासु नियतं खलोक्तिषु ।।१७।। न्यायतन्त्रशतपत्रभानवे लोकलोचनसुधाऽञ्जनत्विषे । पापशैलशतकोटिमूर्तये सज्जनाय सततं नमो नमः ॥१८॥ भूषिते बहुगुणे तपागणे श्रीयुतैर्विजयदेवसूरिभिः । १. हस्तादर्श 'पूर्व' इति पदं त्रुटितम् । २. हस्तादर्श 'मंथरिरत्न' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्यान्य...' इत्यशुद्धः पाठः । ३२/१८ ।।५३८॥ Jain Education Interational Page #544 -------------------------------------------------------------------------- ________________ 여 외 | 고 भूरिसूरितिलकैरपि श्रिया पूरितैर्विजयसिंहसूरिभिः ।।१९।। धाम भास्वदधिकं निरामयं रामणीयकमपि प्रसृत्वरम् । नाम कामकलशाऽतिशायि'तामिष्टपूर्तिषु यदीयमञ्चति ॥२०॥ यैरुपेत्य विदुषां सतीर्थ्यतां स्फीतजीतविजयाऽभिधावताम् । धर्मकर्म विदधे जयन्ति ते श्रीनयादिविजयाऽभिधा बुधाः ।।२१।। उद्यतैरहमपि प्रसद्य तैस्तर्कतन्त्रमधिकाशि पाठितः । एष तेषु धुरि लेख्यतां ययौ सद्गुणस्तु जगतां सतामपि ॥२२॥ येषु येषु तदनुस्मृतिर्भवेत्तेषु धावति च दर्शनेषु धीः । यत्र यत्र मरुदेति लभ्यते तत्र तत्र खलु पुष्पसौरभम् ।।२३।। तद्गुणैर्मुकुलितं रवेः करैः शास्त्रपद्ममिह मन्मनोहृदात् । उल्लसन्नयपरागसगतं सेव्यते सुजनषट्पदव्रजैः ।।२४।। निर्गुणो बहुगुणैर्विराजितांस्तान् गुरूनुपकरोमि कैर्गुणैः । १. मुद्रितप्रतो ... शायिनामि...' इत्यशुद्धः पाठः । २. हस्तादर्श 'तन्त्रमन्त्र' इत्यशुद्धः पाठः । ३. हस्तादर्श | 'तरदनु' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘खपुष्प...' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ '...मुकुिलतं' इत्यशुद्धः पाठः । 하 척 ३२/२४ ||५३९।। Jain Education Interational For Private & Personal use only Page #545 -------------------------------------------------------------------------- ________________ स ज्ज 5 te ho to न ति त्रिं शि का ३२/३० 'वारिदस्य ददतो हि जीवनं किं ददातु बत चातकाऽर्भकः ' ।। २५ ।। प्रस्तुतश्रमसमर्थितैर्नयैर्योग्यदानफलितैस्तु तद्यशः । यत्प्रसर्पति सतामनुग्रहादेतदेव मम चेतसो मुदे ।। २६ ।। आसते जगति सज्जनाः शतं तैरुपैमि नु समं कमञ्जसा । किं न सन्ति गिरयः परःशता मेरुरेव तु बिभर्तु मेदिनीम् ।। २७ ।। तत्पदाम्बुरुहषट्पदः स च ग्रन्थमेनमपि मुग्धधीर्व्यधाम् । यस्य भाग्यनिलयोऽजनि श्रियां सद्म पद्मविजयः सहोदरः । । २८ ॥ मत्त एव मृदुबुद्धयश्च ये तेष्वतोऽप्युपकृतिश्च भाविनी । किं च बालवचनाऽनुभाषणाऽनुस्मृतिः परमबोधशालिनाम् ।। २९ ।। अत्र पद्यमपि पाङ्क्तिकं क्वचिद्वर्तते च परिवर्तितं क्वचित् । स्वाऽन्ययोः स्मरणमात्रमुद्दिशंस्तत्र नैष तु जनोऽपराध्यति ।। ३० ।। ख्यातिमेष्यति परामयं पुनः सज्जनैरनुगृहीत एव च । १. हस्तादर्शे ‘वारिदोवारि’ इत्यशुद्धः पाठः । २. हस्तादर्शे 'चातकोर्भक' इति पाठः अवग्रहप्रक्षेपात् शुद्धः भवितुमर्हति। ३. हस्तादर्शे '... नुग्रहात् देतदेव' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'रपः शता' इति वर्णव्यत्यासः । ५. हस्तादर्शे 'क्वपि' इति अशुद्धः त्रुटितश्च पाठः । 1148011 Page #546 -------------------------------------------------------------------------- ________________ 되 고 किं न शङ्करशिरोनिवासतो निम्नगा सुविदिता सुरापगा ॥३१॥ यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा निस्तारात् 'जन्मसिन्धोः 'शिवपदपदवी प्राणिनो यान्ति यस्मात् । अस्माकं किं च यस्माद् भवति शमरसैनित्यमाकण्ठतृप्तिः जैनेन्द्र शासनं तद्विलसति परमानन्दकन्दाऽम्बुवाहः ॥३२॥ ।। शिष्टा द्वात्रिंशिका सज्जनगुणवर्णनमयी ग्रन्थाऽविच्छेदहेतुमङ्गलरूपा स्पष्टा ।। ॥ इति सज्जनस्तुतिद्वात्रिशिंका ।।३२।। * तत्त्वार्थदीपिकावृत्ति-प्रशस्तिः * प्रतापाऽर्के येषां स्फुरति विहिताऽकब्बरमनःसरोजप्रोल्लासे भवति कुमतध्वान्तविलयः । विरेजुः सूरीन्द्रास्त इह जयिनो हीरविजया दयावल्लीवृद्धौ जलदजलधारायितगिरः ।।१।। प्रमोदं येषां सद्गुणगणभृतां बिभ्रति यशःसुधां पायं पायं किमिह निरपायं न विबुधाः। अमीषां षट्तर्कोदधिमथनमन्थानमतयः सुशिष्योपाध्याया बभुरिह हि कल्याणविजयाः ।।२।। चमत्कारं दत्ते त्रिभुवनजनानामपि हृदि स्थितिमी यस्मिन्नधिकपदसिद्धिप्रणयिनी । ।।५४१।। सुशिष्यास्ते तेषां बभुरधिकविद्याऽर्जितयशःप्रशस्तश्रीभाजः प्रवरविबुधा लाभविजयाः ।।३।। १. मुद्रितप्रतौ ...राजन्म...' इत्यशुद्धः पाठः। २. हस्तादर्श 'शिवपुर..' इति पाठः। ३. हस्तादर्श 'किंचि' इत्यशुद्धः पाठः । 속 파 का ३२/३२ Jain Education Interational Page #547 -------------------------------------------------------------------------- ________________ 고 최 외퇴 예 यदीया दृग्लीलाऽभ्युदयजननी मादृशि जने जडस्थानेऽप्यर्कद्युतिरिव जवात् पङ्कजवने । । स्तुमस्तच्छिष्याणां बलमविकलं जीतविजयाऽऽभिधानां विज्ञानां कनकनिकषस्निग्धवपुषाम् ।।४।। प्रकाशार्थं पृथ्व्यास्तरणिरुदयाद्रेरिह यथा यथा वा पाथीभृत्सकलजगदर्थं जलनिधेः । तथा वाणारस्याः सविधमभजन ये मम कृते सतीर्थ्यास्ते तेषां नयविजयविज्ञा विजयिनः ।।५।। यशोविजयनाम्ना तच्चरणाऽम्भोजसेविना । द्वात्रिंशिकानां विवृतिश्चक्रे तत्त्वार्थदीपिका ।।६।। महार्थे व्यर्थत्वं क्वचन सुकुमारे च रचने बुधत्वं सर्वत्राऽप्यहह ! महतां कुव्यसनिताम्। नितान्तं मूर्खाणां सदसि करतालैः कलयतां खलानां साद्गुण्ये क्वचिदपि न दृष्टिर्निविशते ।।७।। अपि न्यूनं दत्वाभ्यधिकमपि संमील्य सुनयैर्वितत्य व्याख्येयं वितथमपि सङ्गोप्य विधिना। अपूर्वग्रन्थार्थप्रथनपुरुषार्थाद्विलसतां सतां दृष्टिः सृष्टिः कविकृतिविभूषोदयविधौ ।।८।। अधीत्य सुगुरोरेनां सुदृढं भावयन्ति ये । ते लभन्ते श्रुताऽर्थज्ञाः परमानन्दसम्पदम् ।।९।। प्रत्यक्षरं ससूत्राया अस्या मानमनुष्टुभां । शतानि च सहस्राणि पञ्च पञ्चाशदेव च ।।१०।। इति श्रीमहामहोपाध्याय-न्यायविशारद-न्यायाचार्य-श्रीयशोविजयगणिविरचितम् तत्त्वार्थदीपिकाऽभिधान-स्वोपज्ञवृत्तिसमलङ्कृतम् मुनियशोविजयेन संशोधितं सम्पादितञ्च ।।५४२॥ द्वात्रिंशद्वात्रिंशिकाप्रकरणम् । 의 Jain Education Interational Page #548 -------------------------------------------------------------------------- ________________ श्रीयशोविजयउपाध्यायविरचित तत्त्वार्थदीपिकाभिधान-स्वोपज्ञवृत्तिविभूषित द्वात्रिंशद द्वात्रिंशिका प्रकरण प्रकाशक दिव्य दर्शन ट्रस्ट, धोळका.