________________
।। 'शुद्धसत्त्वसमुत्कर्षरूपा तत्फलं = भावनाफलम् ।।९।।
ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः ।
इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् ।।१०।। ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेन (ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः) आवश्यकभाष्यादिप्रसिद्धा पञ्चधेष्यते ।
दृढस्य = झटित्युपस्थितिहेतोः संस्कारस्य कारणं (= दृढसंस्कारकारणम्), भावनाया एव पटुतरभावनाजनकत्वनियमात् ।।१०।।
उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक् ।
शुभैकप्रत्ययो ध्यानं सूक्ष्माऽऽभोगसमन्वितम् ।।११।। उपयोग इति । उपयोगे = स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने (विजातीयप्रत्यया
ऽव्यवधानभाक्=) विजातीयप्रत्ययेन = तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाऽपि १८/११
अव्यवधानभाग = अनन्तरितः शुभैकप्रत्ययः = प्रशस्तैकाऽर्थबोधो ध्यानं उच्यते। (सूक्ष्माभोगसमन्वितं=) सूक्ष्माऽऽभोगेन = उत्पातादिविषयसूक्ष्माऽऽलोचनेन समन्वितं = सहितम् ।।११।।
।।३१५॥
१. हस्तादर्श 'मुद्ध' इत्यशुद्धः पाठः । २. हस्तादर्श ....धानयुक्' इति पाठः । स चार्थतः शुद्धोऽपि व्याख्यानुसारेणाऽशुद्धः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org