________________
BF vs
खेदोद्वेगभ्रमोत्थानक्षेपाऽऽसङ्गाऽन्यमुद्रुजाम् ।
त्यागादष्टपृथक्चित्तदोषाणामनुबन्ध्यदः ।।१२।। खेदेति । खेदादीनां वक्ष्यमाणलक्षणानां अष्टानां पृथक्चित्तदोषाणां = २अयोगिमनोदोषाणां (अष्टपृथक्चित्तदोषाणां) त्यागात् = परिहारात् अदो ध्यानं अनुबन्धि = उत्तरोत्तरवृद्धिमद्-भवति । यद्यप्यन्यत्र___"खेदोद्वेग-क्षेपोत्थान-भ्रान्त्यन्यमुद्रुगाऽऽसङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान्"।। (षोडशक १४/३) इत्येवं क्रमोऽभिहितस्तथाप्यत्र बन्धाऽऽनुलोम्याद्व्यत्ययेनाऽभिधानमिति द्रष्टव्यम् ।।१२।।
प्रवृत्तिजः क्लमः खेदस्तत्र दाढ्यं न चेतसः ।।
मुख्यो हेतुरदश्चाऽत्र कृषिकर्मणि वारिवत् ।।१३।। ___प्रवृत्तिज इति । प्रवृत्तिजः = क्रियाजनितः क्लमो = मानसदुःखाऽनुबन्धी प्रयासः खेदः। तत्र = तस्मिन् सति दायँ प्रणिधानैकाग्रत्वलक्षणं चेतसो न भवति । 'अदश्च = प्रणिधानैकाग्र्यं च अत्र = योगकर्मणि कृषिकर्मणि = कृषिसाध्यधान्यनिष्पत्तौ वारिवत् १. हस्तादर्श 'बन्ध्यांदः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'योगिम...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती हस्तादर्श चात्र 'ततो' इति पाठ किन्तु व्याख्यानुसारेणात्र 'तत्र' इति पाठः सम्यगाभाति । ४. हस्तादर्श 'अदद' इत्यशुद्धः पाठः ।
१८/१३
॥३१६।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org