SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ मुख्यो = असाधारणो हेतुः । तदुक्तं- “खेदे दाढाऽभावान्न प्रणिधानमिह सुन्दरं भवति। । ।। एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ।।" (षोडशक १४/४). ।।१३।। स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ।।१४।। स्थितस्यैवेति । स्थितस्यैव = अप्रवृत्तस्यैव स क्लम उद्वेग उच्यते । ततः = तस्मादनादरजनिताद् योगद्वेषात् क्रिया = 'पारवश्यादिनिमित्ता प्रवृत्तिः राजविष्टिसमा = नृपनियुक्ताऽनुष्ठानतुल्या । योगिनां = श्रीमतां श्राद्धानां कुले जन्म बाधते = प्रतिबध्नाति, अनादरेण योगक्रियाया योगिकुलजन्मबाधकत्वनियमात् । •तदुक्तं- “उद्वेगे विद्वेषाद् विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ।।” (षोडशक १४/५). ।।१४।। भ्रमोऽन्तर्विप्लवस्तत्र न कताऽकतवासना । १८/१५ तां विना योगकरणं प्रस्तुताऽर्थविरोधकृत् ।।१५।। भ्रम इति । भ्रमः = अन्तर्विप्लवः = चित्तविपर्ययः, शुक्तिकायां 'रजतमिदमि'तिवदतस्मिंस्तद्ग्रह इतियावत् । तत्र = तस्मिन् सति कृताकृतवासना = 'इदं मया कृतमिदं ॥३१७।। | वा न कृतमित्येवंरूपा वासना न भवति, विभ्रमदोषेण सत्यसंस्कारनाशाद्विपरीतसंस्कारो। ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श 'पारवशा...' इत्यशुद्धः पाठः । FVE Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy