SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ । त्पादाद्वा । तां = कृताऽकृतवासनां विना योगकरणं प्रस्तुताऽर्थस्य = योगसिद्धिलक्षणस्य | विरोधकृत् (=प्रस्तुताऽर्थविरोधकृत्) । संस्काररहितयोगस्य तादृशयोग एव हेतुत्वादिति भावः। तदिदमुक्तं- "भ्रान्तौ' विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः। तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ।।" (षोडशक १४/८) ।।१५।। प्रशान्तवाहिताऽभाव उत्थानं करणं ततः । त्यागाऽनुरूपमत्यागं निर्वेदादतथोदयम् ।।१६।। प्रशान्तेति । प्रशान्तवाहितायाः = प्रशमैकवृत्तिसन्तानस्य अभावो मनःप्रभृतीनामुद्रेकान्मदाऽवष्टब्धपुरुषवद् उत्थानं उच्यते । ततः करणं योगस्य त्यागाऽनुरूपं = परिहारोचितं, प्रशान्तवाहिताऽभावदोषात् । अत्यागं = न विद्यते त्यागो यस्य तत्तथा, कथञ्चिदुपादेयत्वात् । निर्वेदाद् = एकवृत्तिभङ्गलक्षणात् खेदात् न विद्यते तथा = योगकरणोचितत्वेन उदयो = भाविकाल-विपाको यत्र तत्तथा (=अतथोदयम्) । १८/१७|| तदुक्तं- "उत्थाने निर्वेदात्करणमकरणोदयं सदैवाऽस्य । अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ।।" (षोडशक १४/७) ।।१६।। क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्यासोऽफलावहः । शालेरपि फलं नो यदृष्टमुत्खननेऽसकृत् ॥१७॥ ॥ १. मुद्रितप्रतौ 'भ्रान्तो' इत्यशुद्धः पाठः । २. हस्तादर्श 'स्वमये' इति त्रुटितः पाठः । ||३१८॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy