SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 5 First क्षेप इति । अन्तराऽन्तरा योगकरणकालस्यैव अन्यत्र = अधिकृताऽन्यकर्मणि चित्तन्यासः = क्षेपः । स च अफलाऽऽवहः = फलाऽजनकः । यद् = यस्मात् शालेरपि = व्रीहेरपि असकृद् = वारंवारं उत्खनने = उत्पाटने फलं न दृष्टम् । असकृदुत्पाटनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भावः । . तदुक्तं- “क्षेपेऽपि चाऽप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । 'नाऽसकृदुत्पाटनतः शालिरपि फलाऽऽवहः पुंसः ।।” (षोडशक १४/६) ।।१७।। आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थाने स्थितिप्रदः ॥१८॥ आसङ्ग इति । आसङ्गोऽभिष्वङ्गः स्यात् ‘इदमेव सुन्दरमनुष्ठानमित्येवं नियमाऽभिनिवेशरूपः । तत्र = तस्मिन् सति असङ्गक्रियैव = अभिष्वङ्गाऽभाववत्यनवरतप्रवृत्तिरेव न भवति। ततोऽयं आसङ्गो हन्त तन्मात्रगुणस्थाने = अधिकृतगुणस्थानमात्रे स्थितिप्रदः, न तु मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवतीत्यासङ्गादपि तत्त्वतोऽफलमेवानुष्ठानम् । तदाह- “आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं यतः परमम् ।।" (षोडशक १४/११) ।।१८।। विहितेऽविहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । का १८/१८ ।।३१९।। १. हस्तादर्श 'नाशकृत्पा...' इति त्रुटितः पाठः । २. हस्तादर्श '...संगतं' इत्यशुद्धः पाठः ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy