SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ इष्टेऽर्थेऽङ्गार'वृष्ट्याभाऽत्यनादरविधानतः ।।१९।। विहित इति । प्रकृतात् = प्रस्तुतात् कर्मणः अन्यत्र विहितेऽविहिते वाऽर्थे मुत् 1 = प्रीतिः (किल)इष्टेऽर्थेऽङ्गारवृष्ट्याभा, अत्यनादरस्य = गाढाऽबहुमानस्य विधानतः (=अत्यानादरविधानतः), अवसरोचितरागाभाव-रागविषयानवसराभ्यां, प्रतिपक्षरागाच्च । यथा चैत्यवन्दन-स्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुताऽनुरागादन्याऽऽसक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । ___ तदुक्तं- “अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महाऽपाया । सर्वाऽनर्थनिमित्तं मुद्विषयाऽङ्गारवृष्ट्याभा ।।"(षोडशक १४/९) ।।१९।। रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तद्धितम् ॥२०॥ रुजीति । रुजि = पीडारूपायां भङ्गरूपायां वा सत्यां सम्यगनुष्ठानोच्छेदात् = सदनुष्ठानसामान्यविलयात् वन्ध्यफलं = मोघप्रयोजनं हि तद् = अनुष्ठानं बलात्कारेण क्रियमाणम् । तदुक्तं-“रुजि निजजात्युच्छेदात्करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद् वन्ध्यफलमेव ।।" (षोडशक१४/१०) तत् = तस्माद् एतान् दोषान् विना ||३२० ।। शान्तोदात्तस्य = क्रोधादिविकाररहितोदाराशयस्य योगिनो ध्यानं हितं = कुशलाऽनुबन्धि ।।२०।। १. हस्तादर्श 'दृष्टना...' इत्यशुद्धः पाठः। २. हस्तादर्श ‘प्रसुप्ता...' इत्यशुद्धः पाठः। १८/२० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy