________________
वशिता चैव सर्वत्र भावस्तैमित्यमेव च ।।
अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः ॥२१।। वशितेति । सर्वत्र कार्ये वशिता चैव = आत्माऽऽयत्ततैव भावस्य = अन्तःकरणपरिणामस्य स्तैमित्यमेव च = निश्चलत्वमेव (=भावस्तैमित्यमेव) । अनुबन्धव्यवच्छेदो = भवान्तराऽऽ॥ रम्भकाणामितरेषां च कर्मणां वन्ध्यभावकरणं च इति = एतद ध्यानफलं विदः = जानते ध्यानफलविदः ।।२१।।
व्यवहारकुदृष्ट्योच्चैरिष्टाऽनिष्टेषु वस्तुषु ।
कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते ॥२२॥ ___ व्यवहारेति । व्यवहारकुदृष्ट्या = अनादिमत्या 'वितथगोचरया कुव्यवहारवासनयाऽविद्या| पराऽभिधानया उच्चैः = अतीव कल्पितेषु इष्टाऽनिष्टेषु = इन्द्रियमनःप्रमोददायिषु तदितरेषु
च वस्तुषु = शब्दादिषु विवेकेन = "तानेवार्थान् द्विषतस्तानेवाऽर्थान् प्रलीयमानस्य । निश्चयतो नाऽनिष्टं न विद्यते किंचिदिष्टं वा ।।” (प्रशमरति ५२) इत्यादिनिश्चयाऽऽलोचनेन तत्त्वधीः = इष्टानिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते । ___ यदुक्तं- “ अविद्याकल्पितेषूच्चैरिष्टाऽनिष्टेषु वस्तुषु । १. हस्तादर्श 'वितथागो...' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रतीप...' इत्यशुद्धः पाठः । ३. 'निश्चयतोऽस्यानिष्टं' इति प्रशमरतो पाठः ।
१८/२२
||३२१।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org