SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Fiva संज्ञानात्तद्व्युदासेन समता समतोच्यते।।” (योगबिन्दु ३६४) 'इति ।।२२।। ।। विनैतया न हि ध्यानं ध्यानेनेयं विना च न । अतः प्रवृत्तचक्रं स्याद् द्वयमन्योऽन्यकारणात् ।।२३।। विनेति । एतया = समतया विना हि ध्यानं न स्यात्, चित्तव्यासङ्गाऽनुपरमात् । ध्यानेन विना चेयं = समता न भवति, प्रतिपक्षसामग्र्या बलवत्त्वात् । अतो द्वयं = ध्यानसमतालक्षणं अन्योऽन्यकारणात् प्रवृत्तचक्रं = अनुपरतप्रवाहं स्यात् । न चैवमन्योऽन्याश्रयः, "अपकृष्टयोस्तयोमिथ उत्कृष्टयोर्हेतुत्वात् । सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् ।।२३।। ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते ।।२४।। ___ ऋद्धीति । ऋद्धीनां = आमर्पोषध्यादीनां अनुपजीवनेन अप्रवर्तनं = अव्यापारणं (=ऋळ्यप्रवर्तन), सूक्ष्माणां = केवलज्ञान-दर्शन-यथाख्यातचारित्राद्यावरकाणां कर्मणां क्षयः (=सूक्ष्मकर्मक्षयः), तथा इति समुच्चये । 'अपेक्षैव बन्धनहेतुत्वात्तन्तुः तद्व्यवच्छेदः ।।३२२॥ १. मुद्रितप्रतौ 'इति' पदं नास्ति । २. मुद्रितप्रतौ हस्तादर्श चात्र 'ततः' इति पाठः । व्याख्यानुसारेण 'अतः' पाठः सम्यगाभाति। ३. हस्तादर्श 'अन्योन्यकारणाऽकारणात्' इत्यशुद्धः पाठो मूलानुसारेण । ४. मुद्रितप्रतौ 'अप्रकृ...' इति पाठः । ५. हस्तादर्श 'प्रवर्तनं' नास्ति । ६. हस्तादर्श 'अपोक्षे ....' इत्यशुद्धः पाठः । १८/२४| Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy