SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 5 ho ho ग द द्वा त्रिं शि का १८/२७ Jain Education International (= अपेक्षातन्तुविच्छेदश्चैव) फलमस्या: = समताया: प्रचक्षते विचक्षणाः || २४ ।। १विकल्पस्पन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः ।। २५ ।। विकल्पेति । स्वभावत एव निस्तरङ्गमहोदधिकल्पस्याऽऽत्मनः अन्यजन्मनां पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यसंयोगजनितानां विकल्पस्पन्दरूपाणां वृत्तीनां अपुनर्भावतः पुनरुत्पत्तियोग्यतापरिहारात् रोधः = परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृत्तिसङ्क्षयः प्रोच्यते । तदाह - “ अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । = अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः ।। " ( योगबिन्दु ३६६ ) ।। २५ ।। केवलज्ञानलाभश्च शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् ॥ २६ ॥ केवलेति । स्पष्टः ||२६|| वृत्तिरोधोऽपि योगश्चेद् भिद्यते पञ्चधाऽप्ययम् 1 मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः ।। २७ ।। वृत्तिरोधोऽपीति । मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितम् । वृत्तिरोधोऽपि १. हस्तादर्शे 'किवल्प' इत्यशुद्धः पाठः । २. 'स्यन्दे 'ति मुद्रितप्रतावशुद्धः पाठः । For Private & Personal Use Only ।।३२३।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy