________________
ग
ho has
द
द्वा
त्रिं
शि
का
१८/२९
Jain Education International
चेद्योग उच्यते अयमपि पञ्चधा भिद्यते मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः । अनुभवसिद्धानां भेदानां दुरपह्नवत्वात्, अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः ।।२७।। प्रवृत्ति-स्थिरताभ्यां हि मनोगुप्तिद्वये किल ।
भेदाश्चत्वार इष्यन्ते तत्राऽन्त्यायां तथाऽन्तिमः ।। २८ ।।
वृत् । वृत्तिः = प्रथमाऽभ्यासः, स्थिरता = उत्कर्षकाष्ठाप्राप्तिः ताभ्यां (= प्रवृत्तिस्थिरताभ्यां हि) मनोगुप्तिद्वये किल आद्या: = चत्वारो भेदा अध्यात्म-भावनाध्यान-समतालक्षणा इष्यन्ते, व्यापारभेदादेकत्र क्रमेणोभयोः समावेशाद्, यथोत्तरं विशुद्धत्वात् । तथाऽन्त्यायां = चरमायां तत्र = मनोगुप्तौ अन्तिमो = वृत्तिसङ्क्षय इष्यते । इत्थं हि पञ्चाऽपि प्रकारा निरपाया एव ||२८||
विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनस्त'ज्ज्ञैर्मनोगुप्तिस्त्रिधोदिता ं ।।२९।। विमुक्तेति । विमुक्तं = परित्यक्तं कल्पनाजालं = सङ्कल्पविकल्पचक्रं येन तत् ( = विमुक्तक-ल्पनाजालं), तथा समत्वे सुप्रतिष्ठितं सम्यग्व्यवस्थितं, आत्मारामं = स्वभावप्रतिबद्धं मनः तज्ज्ञैः तद्वेदिभिः मनोगुप्तिः ि त्रिभिः प्रकारैः उदिता
=
=
=
१. ' मनश्चेति' एवं मुद्रितप्रतौ हस्तादर्शे च पाठः । परं व्याख्यानुसारेण योगशास्त्रानुसारेण चात्र 'मनस्तज्ज्ञैः' इति पाठेन भवितव्यम् । २ हस्तादर्शे रुदाहृता' इत्यपि पाठः ।
For Private & Personal Use Only
।।३२४।।
www.jainelibrary.org