________________
यो
ग
द
hus
द्वा
त्रिं
शि
का
१८/३२
Jain Education International
= कथिता ।।२९।।
अन्यासामवतारोऽपि यथायोगं विभाव्यताम् ।
यतः समिति - गुप्तीनां प्रपञ्चो योग उत्तमः ||३०||
अन्यासामिति । अन्यासां = वाक्कायगुप्तीर्यासमित्यादीनां अवतारोऽपि = अन्तर्भावोऽपि यथायोगं = यथास्थानं विभाव्यतां = विचार्यतां यतो = यस्मात् समितिगुप्तीनां प्रपञ्चो यथापर्यायं विस्तारो योग उच्यते उत्तमः = उत्कृष्टः । न तु समिति गुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति ।। ३० ।।
उपायत्वेऽत्र पूर्वेषामन्त्य एवाऽवशिष्यते ।
=
तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः ।।३१।।
उपायत्व इति । अत्र = अध्यात्मादिभेदेषु योगेषु पूर्वेषां = अध्यात्मादीनां उपायत्वे योगोपायत्वमात्रे वक्तव्ये अन्त्य एव = वृत्तिक्षय एव योगः अवशिष्यते । तत् = तस्मात् पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपायः, तत आरभ्य तु सानुबन्धयोगप्रवृत्तिरेव इति स्थितिः सत्तन्त्रमर्यादा ||३१ ॥
=
=
भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् ।
सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा ।।३२।।
भगवदिति । निगदसिद्धोऽयम् ||३२|| ।। इति योगभेदद्वात्रिंशिका ।। १८ ।।
For Private & Personal Use Only
।।३२५ ।
www.jainelibrary.org