________________
।। अथ योगविवेकद्वात्रिंशिका ।।१९।। अध्यात्मादीन् योगभेदानुपदर्श्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाह
इच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् ।
गीयते योगशास्त्रज्ञैर्निर्व्याजं यो विधीयते ॥१॥ इच्छामिति । इच्छां शास्त्रं सामर्थ्यं चाश्रित्य त्रिविधोऽप्ययं योगो योगशास्त्रज्ञैर्गीयते, इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्चेति । यो निर्व्याजं = निष्कपटं विधीयते । सव्याजस्तु योगाऽऽभासो गणनायामेव नाऽवतरतीति ।।१।।
चिकीर्षोः' श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः ।
कालादिविकलो योग इच्छायोग उदाहृतः ।।२।। चिकीर्षोरिति । चिकीर्षोः = तथाविधक्षयोपशमाऽभावेऽपि निर्व्याजमेव कर्तुमिच्छोः, श्रुतार्थस्य = श्रुतागमस्य, अर्थ्यतेऽनेन तत्त्वमिति कृत्वा', अर्थशब्दस्याऽऽगमवचनत्वात् । ज्ञानिनोऽपि = अवगतानुष्ठेयतत्त्वार्थस्याऽपि प्रमादिनो = विकथादिप्रमादवतः (कालादिविकलः =) कालादिना विकलः = असम्पूर्णः योगः चैत्यवन्दनादिव्यापार इच्छायोग उदाहृतः १. मुद्रितप्रतौ 'चिकीर्षोः श्रुतशास्त्रस्य.' इति पाठः । परं स्वोपज्ञवृत्त्यनुसारेण छन्दोऽनुसारेण च 'चिकीर्षास्तु श्रुतार्थस्य' इति पाठेन भवितव्यम् । २. हस्तप्रतो मुद्रितप्रतौ च 'अर्यत' इत्यशुद्धः पाठः । परमग्रेतनव्याख्यानुसारेण योगदृष्टिसमुच्चयवृत्त्यनुसारेण च शुद्धः पाठोऽत्राऽस्माभिर्गृहीतः । ३. 'तत्त्वा' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
१९/२
।।३२६।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org