________________
11 = प्रतिपादितः ।।२।। प्रधानस्येच्छययोगत्वे तदङ्गस्याऽपि तथात्वमिति दर्शयन्नाह
साङ्गमप्येककं कर्म 'प्रतिपन्ने प्रमादिनः ।
नत्वेच्छायोगत इति श्रवणादत्र मज्जति ।।३।। साङ्गमिति । साङ्गमपि = अङ्गसाकल्येनाऽविकलमपि एककं = स्वल्पं किञ्चित् कर्म प्रतिपन्ने = बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिनः = प्रमादवतः 'नत्वेच्छायोगत' (योगदृष्टिसमुच्चय १) इति श्रवणादत्र = इच्छायोगे नि(?)मज्जति = निमग्नं भवति । अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरिोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्याऽऽरम्भप्रदर्शनार्थं नत्वेच्छायोगतोऽयोगमित्यादि नाऽवक्ष्यत्', वाग्नमस्कारमात्रस्याऽल्पस्य विधिशुद्धस्यापि सम्भवात् । प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्याऽपीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ।।३।।
यथाशक्त्यप्रमत्तस्य तीव्रश्रद्धाऽवबोधतः ।।
शास्त्रयोगस्त्वखण्डार्थाऽऽराधनादुपदिश्यते ।।४।। यथाशक्तीति । यथाशक्ति = स्वशक्त्यनतिक्रमेण अप्रमत्तस्य = विकथादिप्रमादरहितस्य, तीव्रौ = 'तथाविधमोहापगमात 'पटुतरौ यो श्रद्धाऽवबोधौ = जिनप्रवचनास्तिक्य-तत्त्वपरिच्छेदौ १. हस्तादर्श 'प्रतिपन्न...' इति पाठः । टीकानुसारेण स चाशुद्धः । २. 'अवक्षत्' इत्यशुद्धः पाठो मुद्रितप्रती। ३. हस्तादर्श ...प्रमाणस्य' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'तथाविध...' इत्यशुद्धः पाठः । ५. हस्तादर्श 'पटुतमो' इत्यशुद्धः पाठः ।
।।।३२७॥
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org