________________
।। ततः (= तीव्रश्रद्धावबोधतः) अखण्डाऽर्थाऽराधनात् = कालाद्यविकलवचनानुष्ठानात् तु शास्त्रयोग उपदिश्यते ।।४।।
शास्त्रेण दर्शितोपायः फलपर्यवसायिना ।
तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः ।।५।। ___ शास्त्रेणेति । • फलपर्यवसायिना = मोक्षपर्यन्तोपदेशेन' •शास्त्रेण दर्शितः = सामान्यतो ज्ञापित उपायो यस्य स तथा (= दर्शितोपायः), सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिक्प्रदर्शकत्वात् । अतिशक्तितः = शक्तिप्राबल्यात् तदतिक्रान्तविषयः शास्त्राऽतिक्रान्तगोचरः सामर्थ्याख्यो योग उच्यते ।।५।। शास्त्राऽतिक्रान्तविषयत्वमस्य समर्थयन्नाह
शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः ।
अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ॥६॥ शास्त्रादिति । सिद्धिहेतवः सर्वे सर्वथा = सर्वैः प्रकारैः शास्त्रादेव न बुध्यन्ते । अन्यथा = शास्त्रादेव सर्वसिद्धिहेतूनां बोधे सर्वज्ञत्वं प्रसज्यते श्रवणादेव, सर्वसिद्धिहेतुज्ञाने सार्वज्ञ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्, तदुपलम्भाऽऽख्यस्वरूपाऽऽचरणरूपचारित्रस्याऽपि विलम्बाऽभावात्, सर्वसिद्ध्युपायज्ञानस्य सार्वज्यव्याप्यत्वाच्च । तदिदमुक्तं ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श ...देशेन न' इत्यशुद्धः पाठः ।
का
१९/६
।।३२८।
Jain Education Interational
For Privale & Personal Use Only
www.jainelibrary.org