SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ "सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ।। सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः। तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाऽऽप्तितः ।।" (योगदृष्टिसमुच्चय ६-७) ।।६।। प्रातिभज्ञानगम्यस्तत्सामर्थ्याख्योऽयमिष्यते । अरुणोदयकल्पं हि प्राच्यं तत्केवलाऽर्कतः ।।७।। प्रातिभेति । तत् = तस्मात् प्रातिभज्ञानगम्योऽयं सामर्थ्याख्यो योग “इष्यते । सार्वश्यहेतुः खल्वयं मार्गानुसारिप्रकृष्टोहस्यैव विषयो न तु वाचा, क्षपकश्रेणिगतस्य धर्मव्यापारस्य स्वाऽनुभवमात्रवेद्यत्वादिति भावः । ननु प्रातिभमपि श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गात्तथा च कथं शास्त्राऽतिक्रान्तविषयत्वमस्येत्यत आह- तत् = प्रातिभं हि 'केवलाऽर्कतः = केवलज्ञानभानुमालिनः प्राच्यं = पूर्वकालीनं अरुणोदयकल्पम् ।।७।। एतदेव भावयति रात्रेर्दिनादपि पृथग्यथा नो वाऽरुणोदयः । श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ॥८॥ १. मुद्रितप्रतौ ' प्राप्तेर्हेतु..' इति पाठोऽशुद्धः । २. हस्तादर्श 'प्रतिभ...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'तदिति' इत्यशुद्धः पाठः । ४. हस्तादर्श प्रकृते 'उच्यते' इति पाठो वर्तते । परं मूलश्लोकानुसारेणात्र 'इष्यते' इति पाठः सम्यक् । ५. हस्तादर्श 'केला...' इति त्रुटितः पाठः । ६. हस्तादर्श 'तथेदमिति...' इति पाठः । १९/८ ।।३२९। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy