________________
रात्रेरिति । यथाऽरुणोदयो रात्रेर्दिनादपि पृथग् नो वाऽपृथगित्यर्थः । न पुनरत्रैकरूप्यं विवेचयितुं शक्यते, पूर्वापरत्वाऽविशेषेणोभयभागसम्भवात् । श्रुतात् केवलज्ञानाच्च तथेदमपि प्रातिभं ज्ञानं भाव्यतां, तत्काल एव तथाविधक्षयोपशमभाविनस्तस्य श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यतया श्रुताद् अशेषद्रव्यपर्यायाऽविषयत्वेन क्षायोपशमिकत्वेन च केवलज्ञानाद्विभिन्नत्वात् । केवलश्रुतपूर्वापरकोटिव्यवस्थितत्वेन तद्धेतु-कार्यतया च ताभ्यामभिन्नत्वात् ।।८॥
ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि ।
इष्यते गमकत्वं चाऽमुष्य व्यासोऽपि यज्जगौ ॥९॥ ऋतम्भरादिभिरिति । एतत् = प्रकृतं प्रातिभज्ञानं परैरपि पातञ्जलादिभिः ऋतम्भरादिभिः ॥ शब्दैर्वाच्यमिष्यते । आदिना तारकादिशब्दग्रहः । गमकत्वं = सामर्थ्ययोगज्ञापकत्वं चाऽमुष्य | प्रातिभस्य परैरिष्यते । यद् = यस्माद् व्यासोऽपि जगौ ।।९।।
आगमेनाऽनुमानेन योगा(ध्याना)भ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ।।१०।। आगमेनेति । आगमेन = शास्त्रेण, अनुमानेन = लिङ्गाल्लिङ्गिज्ञानरूपेण, ध्यानाऽभ्यासस्य रसः = श्रुतानुमानप्रज्ञाविलक्षणऋतम्भराऽऽख्यो विशेषविषयस्तेन ( ध्यानाभ्यासरसेन च त्रिधा प्रज्ञा प्रकल्पयन उत्तमं = सर्वोत्कृष्टं योगं लभते ।।१०।।
१९/१०
॥३३०।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org