SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ द्विधाऽयं धर्मसंन्यास'-योगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥११॥ द्विधेति । द्विधा = द्विप्रकारो अयं = सामर्थ्ययोगः धर्मसन्न्यास-योगसन्न्याससंज्ञे जाते यस्य स तथा (=धर्मसन्न्यास-योगसन्याससंज्ञितः)। संज्ञा चेह 'तया' संज्ञायत' इति कृत्वा तत्स्वरूपमेव गृह्यते । क्षायोपशमिकाः = क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो धर्माः, योगास्तु कायादिकर्म = कायोत्सर्गकरणादयः कायादिव्यापाराः ।।११।। द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ।।१२।। द्वितीयेति । द्वितीयाऽपूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमाऽपूर्वकरणव्यवच्छेदार्थं | द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । अपूर्वकरणस्य तु तत्राऽसञ्जातपूर्वग्रन्थिभेदादिफलेनाभिधानात् । यथाप्राधान्यमयमुपन्यासः । चारुश्च पश्चानुपूर्वेति समयविदः । ततो द्वितीयेऽस्मिंस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि प्रथमो = धर्मसन्याससंज्ञितः सामर्थ्ययोगः तात्त्विकः = पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । १. हस्तादर्श 'सन्यासां' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तप्रतौ चात्र 'तथा' इति पाठः । स चाशुद्धः प्रतिभाति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणात्र 'तया' इति पाठः सम्यगिति कृत्वा गृहीतोऽस्माभिः । ३. मुद्रितप्रतौ 'क्षान्त्याधदिर्म' इत्यशुद्धः पाठः । का १९/१२ |||३३१।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy