SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ __ अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसन्न्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवाऽस्या भवविरक्त एवाऽधिकार्युक्तः ।। ___ यथोक्तं- “अथ प्रव्रज्यार्हः । (१) आर्यदेशोत्पन्नः, (२) विशिष्टजातिकुलान्वितः, (३) क्षीणप्रायकर्ममलः, (४) तत एव विमलबुद्धिः, (५) 'दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगो 'वियोगान्तः, प्रतिक्षणं मरणं, दारुणो विपाक' इत्यवगतसंसारनैर्गुण्यः, (६) तत एव तद्विरक्तः, (७) प्रतनुकषायः, (८) अल्पहास्यादिः, (९) कृतज्ञो, (१०) विनीतः, (११) प्रागपि राजाऽमात्यपौरजनबहुमतः, (१२) अद्रोहकारी, (१३) कल्याणाङ्गः, (१४) श्राद्धः, (१५) स्थिरः , (१६) समुपसम्पन्नश्चेति" (ध.बि.४/३)। ____न ह्यनीदृशो ज्ञानयोगमाराधयति । न चेदृशो नाऽऽराधयतीति भावनीयम् । सर्वज्ञवचनमागमस्त नायमनिरूपितार्थ इति । आयोज्यकरणं = केवलाऽऽभोगेनाऽचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापारणं शैलेश्यवस्थाफलं ततः (=आयोज्यकरणाद्) ऊर्ध्वं द्वितीयो योगसन्न्याससंज्ञित १. 'धर्यस' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र 'क्षीणप्रायकर्ममलबुद्धिः' इत्यशुद्धः पाठः । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण शुद्धः पाठो योजि-तोऽत्र । ३. हस्तादर्श 'वियोगोः' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थिर' इति पदं नास्ति । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण तदत्र योजितम्। ५. मुद्रितप्रतौ 'तत्राय'मित्यशुद्ध पाठः । १९/१२ ।।।।३३२॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy