________________
Foto s
ग
वि
वे
क
द्वा
त्रिं
शि
का
१९/१५
Jain Education International
इति तद्विदोऽभिदधति, शैलेश्यवस्थायां कायादियोगानां सन्यासेनाऽयोगाख्यस्य सर्वसन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति ।।१२।।
तात्त्विको तात्त्विकश्चेति सामान्येन द्विधाऽप्ययम् ।
तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः ।। १३॥
तात्त्विक इति । सामान्येन = विशेषभेदाऽनुपग्रहेण तात्त्विको तात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते । तात्त्विको = वास्तवः = केनाऽपि नयेन मोक्षयोजनफल इत्यर्थः । अन्यः अतात्त्विकः तु तदाभासः = उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ||१३||
=
अपुनर्बन्धकस्याऽयं व्यवहारेण तात्त्विकः ।
अध्यात्म-भावनारूपो निश्चयेनोत्तरस्य तु ।।१४।।
अपुनर्बन्धकस्येति । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च अयं = योगो व्यवहारेण कारणस्याऽपि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च निश्चयेन = निश्चयनयेन उपचारपरिहाररूपेण उत्तरस्य तु चारित्रिण एव ।।१४।।
=
सकृदावर्तनादीनाम' तात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ।। १५ ।।
=
१. हस्तादर्शे . नामदंता...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
||३३३ ।।
www.jainelibrary.org