________________
सकृदिति । सकृद् = एकवारं आवर्तन्ते = उत्कृष्टस्थिति बनन्तीति सकृदावर्तनाः।। आदिशब्दाद् द्विरावर्तनादिग्रहः । तेषां (=सकृदावर्तनादीनां) अतात्त्विको = व्यवहारतः, निश्चयतश्चाऽतत्त्वरूपः, अशुद्धपरिणामत्वाद् उदाहृतः अध्यात्म-भावनारूपो योगः । प्रत्यपायोऽनर्थः फलं प्रायो = बाहुल्येन यस्य स तथा (=प्रत्यपायफलप्रायः) । तथा = तत्प्रकारं' भावसाराऽध्यात्मभावनायुक्तयोगियोग्यं यद्वेषादिमानं नेपथ्य-चेष्टा-भाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् (= तथावेषादिमात्रतः) । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ।।१५।।
शुद्ध्यपेक्षो यथायोगं चारित्रवत एव च ।
हन्त ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते ।।१६।। शुद्ध्यपेक्ष इति । यथायोगं = यथास्थानं शुद्ध्यपेक्ष = उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानः चारित्रवत एव च हन्त तात्त्विकः = पारमार्थिकैकस्वरूपो ध्यानादिको योगः
प्रविज़म्भते = प्रोल्लसति ।।१६।। १९/१७
अपायाऽभाव-भावाभ्यां सानुबन्धोऽपरश्च सः ।
निरुपक्रमकर्मैवापायों योगस्य बाधकम् ।।१७।। १. ....कारभा...' इति मुद्रितप्रतौ पाठोऽशुद्धः । २. 'भावमारा' इत्यशुद्धः पाठो मुद्रितप्रती । । ३. 'मानचा' इति मुद्रितप्रतावशुद्धः पाठः । ४. हस्तादर्श 'वापार्यो' इत्यशुद्धः पाठः ।
।।३३४।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org