________________
Fd to
अपायेति । 'अपायस्य अभाव-भावाभ्यां = असद्भाव-सद्भावाभ्यां (= अपायाभावभावाभ्यां) सानुबन्धोऽपरो = निरनुबन्धः च स योगः। अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति। योगस्य बाधकं निरुपक्रम = विशिष्टानुष्ठानचेष्टयाप्यनुच्छेद्यं अनाश्यस्वविपाकसामर्थ्य वा कर्मैव (=निरुपक्रमकर्मैव) चारित्रमोहनीयाख्यं अपायः।।१७।।
'बहुजन्मान्तरकरः सापायस्यैव साश्रवः ।
अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ॥१८॥ बहिवति । बहुजन्मान्तरकरो = देव-मनुष्याद्यनेकजन्मविशेषहेतुः, निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् । सापायस्यैव = अपायवत एव साश्रवो योगः। एकमेव = वर्तमानं जन्म यत्र स (=एकजन्मा) त्वनाश्रवः । ननु कथमेतदयोगिकेवलिगुणस्थानादर्वाक् सर्वसंवराभावेनाऽनाश्रवत्वाऽसम्भवादित्यत आह- तत्त्वाङ्ग = निश्चयप्रापको यो व्यवहारस्ततः (तत्त्वाङ्गव्यवहारतः) । तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याऽभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नाऽनाश्रवयोगक्षतिरिति भावः । तदुक्तं → "आश्रवो बन्धहेतुत्वाद् बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः।। एवं चरमदेहस्य सम्परायवियोगतः । इत्वराऽऽश्रवभावेऽपि स तथाऽनाश्रवो मतः ।।
१९/१८
॥३३५॥
१. हस्तादर्श 'अपायस्य भावाभा...' इति पाठोऽर्थतः शुद्धोऽपि क्रमानुसारेण मूलकारिकानुसारेण चाऽशुद्धः । २. हस्तादर्श 'बहुजन्मान्तरः कृतापायस्यैव...' इति पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org