SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 65 do to s ग क द्वा त्रिं शि का १९/१९ Jain Education International निश्चयेनाऽत्र शब्दाऽर्थः सर्वत्र व्यवहारतः । निश्चय - व्यवहारौ च द्वावप्यभिमताऽर्थदौ ।। " ← ( योगबिन्दु ३७६, ३७७, ३७८) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकाद् व्यवहारत इत्यन्वयः ।। १८ ।। इत्थं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्व-तद्विपर्ययाभ्यां तद्द्द्वैविध्याऽभिधानाऽभिप्रायवानाह शास्त्रेणाऽधीयते चायं नाऽसिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ।।१९।। शास्त्रेणेति । अयं च योगो गोत्रयोगिनां गोत्रमात्रेण योगिनां असिद्धेः = मलिनाऽन्तरात्मतया योगसाध्यफलाऽभावात् शास्त्रेण = योगतन्त्रेण नाऽधीयते । तथा सिद्धेः = सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य = असङ्गाऽनुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्याऽयं शास्त्रेण नाऽधीयते, यद् = यस्मात् पश्यकस्य = स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः सदसत्कर्तव्याऽकर्तव्याऽऽदेशो न अस्ति । यतोऽभिहितं आचारे- “उद्देसो पास- गस्स नत्थि त्ति” ( आचाराड्ग १/१/२/८३) ।।१९।। कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । = १. मुद्रितप्रतौ यद् द्वा...' इति अशुद्धः पाठः । परं मुद्रित - योगबिन्दुप्रतौ हस्तादर्शे च च द्वा...' इति पाठः । अतः सोऽत्र गृहीतः । २ मुद्रितप्रतौ प्रापकव्य...' इति पाठान्तरम् । For Private & Personal Use Only ।। ३३६ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy