SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ॥२०॥ कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च (=कुल-प्रवृत्तचक्राणां) शास्त्राद् = योगतन्त्रात् सा सा विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये "कुलप्रवृत्तचक्रा ये त एवाऽस्याऽधिकारिणः । योगिनो न तु सर्वेऽपि तथासिद्ध्यादिभावतः ।।” (योगदृष्टिसमुच्चय २०९) तेषां कुलप्रवृत्तचक्रयोगिनां लक्षणं (=तल्लक्षणं) पुनरिदं वक्ष्यमाणं योगाचार्यैः = योगप्रतिपादकैः सूरिभिः विनिर्दिष्टम् ।।२०।। ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नाऽपरे ।।२१।। __ य इति । ये योगिनां कुले जाता = लब्धजन्मानः तद्धर्मानुगताश्च = योगिधर्माऽनुसरणवन्तश्च ये = प्रकृत्याऽन्येऽपि, ते कुलयोगिन उच्यन्ते द्रव्यतो भावतश्च । गोत्रवन्तोऽपि = सामान्येन कर्मभूमिभव्या अपि नाऽपरे कुलयोगिन इति ।।२१।। सर्वत्राऽद्वेषिणश्चैते गुरु-देव-द्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः ॥२२।। सर्वत्रेति । एते च तथाविधाऽऽग्रहाऽभावेन सर्वत्राऽद्वेषिणः । तथा धर्मप्रभावाद्यथास्वाचारं गुर्वादिप्रियाः । तथा प्रकृत्या क्लिष्टपापाऽभावेन दयालवः । विनीताश्च कुशलाऽनुबन्धिभव्यतया १. 'सा' इत्येकं पदं मुद्रितप्रतौ नास्ति । २. 'ते' इति पदं मुद्रितप्रतौ नास्ति । १९/२२ ।।३३७।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy