________________
श्राद्धानां परिणमन्त्युच्चैः ।।" (षोडशक १३/११) । ततश्च निरपायोऽध्यात्मलाभ इति स्थितम् । पतञ्जलिरप्याह- “मैत्रीकरुणामुदितोपेक्षाणां सुख-दुःख-पुण्याऽपुण्यविषयाणां भावनातश्चित्तप्रसादनमिति” (योगसूत्र १-३३) ।।७।।
अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् ।
तथाऽनुभवसंसिद्धममृतं ह्यद एव नु ।।८।। अत इति । अतः = अध्यात्मात् पापक्षयो = ज्ञानाऽऽवरणादिक्लिष्टकर्मप्रलयः, सत्त्वं = वीर्योत्कर्षः, शीलं = चित्तसमाधिः, ज्ञानं च वस्त्ववबोधरूपं शाश्वतं = अप्रतिघं, तथा इति वक्तव्याऽन्तरसमुच्चये, अनुभवसंसिद्धं = स्वसंवेदनप्रत्यक्षं अमृतं = पीयूषं हि = स्फुटं | अद एव = अध्यात्म एव नु, अतिदारुणमोहविषविकारनिराकारकत्वादस्येति ।।८।।
अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः ।
निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् ।।९।। अभ्यास इति । (प्रत्यहं = प्रतिदिवसं) वृद्धिमान् = उत्कर्षमनुभवन् बुद्धिसङ्गतो = ज्ञानाऽनुगतः अस्य = अध्यात्मस्य अभ्यासः = अनुवर्तनं भावना उच्यते ।।
अशुभाऽभ्यासात् = काम-क्रोधादिपरिचयात् निवृत्तिः = उपरतिः भाववृद्धिश्च १. 'शुद्धानां' इति मुद्रितप्रतावशुद्धः पाठः । २. मुद्रितप्रतौ .त्युच्चेः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अपि' इत्यशुद्धः पाठः । ४. हस्तादर्श 'क्षये' इत्यशुद्धः पाठः ।
॥३१४॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org