________________
_
N_
-
स्वापराधस्यैव च मोहादिकर्मविकारसमुत्थस्य भावनात्' सर्वतः = सर्वत्रैव स्वव्यतिरिक्तस्य कस्याऽपि सुख-दुःखहेतुत्वाऽनाश्रयणात् । तदुक्तं-“करुणाऽनुबन्ध-निर्वेद-तत्त्वसारा ह्युपेक्षेति" (षोडशक १३/१०) ।।६।। ___उक्तभेदानामेतासां मैत्र्यादीनां यथाक्रमं परिणममानानां विशुद्धस्वभावानामेवाऽध्यात्मोपयोग इति फलद्वारा दर्शयन्नाह
सुखीया॑ दुःखितोपेक्षां पुण्ये द्वेषमधर्मिषु ।
राग-द्वेषौ त्यजन्नेता लब्ध्वाध्यात्म समाश्रयेत् ।।७।। सुखीति । सुखिष्वीदूँ (=सुखीा ), न तु 'साध्वेषां सुखित्वमिति 'मैत्री; दुःखितानामुपेक्षां (=दुःखितोपेक्षां), 'न तु 'कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपां; पुण्ये = प्राणिनां सुकृते द्वेषं, न तु तदनुमोदनेन हर्ष; अधर्मिषु राग-द्वेषौ , न तूपेक्षां; त्यजन् = परिहरन् एताः = परिणतिशुद्धा मैत्राद्या लब्ध्वा अध्यात्म समाश्रयेत् ।।
निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्बोधमेव स्वभावतः परार्थसारं चित्तम् । योगाऽऽरम्भकाणां त्वभ्यासादेव सुखीादित्यागेन 'मैत्र्यादिविशुद्धिरिति । ____ तदुक्तं- “एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । 'सवृत्तानां सततं १. हस्तादर्श 'भावात्' इति पाठः । २. 'मैत्री' इति मुद्रितप्रतावशुद्धः पाठः । ३. हस्तादर्श 'सकृते' इति पाठोऽशुद्धः त्रुटितश्च । ४. हस्तादर्श 'मैत्र्यादे' इति पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ५. हस्तादर्श _'सवृ..' इति त्रुटितः पाठः।
छ
।।।३१३।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org