________________
FF
v_st
स्वादुरसाऽऽस्वादसुखकल्पे । तृतीया च अनुबन्धयुते = अव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणप्राप्तिलक्षणे इह-परभवाऽनुगते । चतुर्थी तु परे = प्रकृष्टे मोहक्षयादिसम्भवे अव्याबाधे च सर्वेषां प्राणिनां सुखे इत्येवं चतुर्विधा । तदुक्तं- “सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु" (षोडशक १३/१०) ।।५।।
करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् ।
उपेक्षा ह्यहितेऽकाले सुखेऽसारे च सर्वतः ।।६।। ___करुणात इति । (१) उपेक्षा हि माध्यस्थ्यलक्षणा' करुणातोऽहिते विषये भवत्येका, यथाऽऽतुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य करुणया तन्निवारणमवधीर्योपेक्षा क्रियते ।
(२) अपरा च अनुबन्धाद् = आयत्यालोचनेन कार्यविषयप्रवाहपरिणामाद् अकाले = अनवसरे, यथा कश्चिदालस्यादेरा(व?)जनादिषु न प्रवर्तते, तं चाप्रवर्तमानं कदाचित्तद्धितार्थी प्रवर्तयति, कदाचित्तु परिणामसुन्दरं कार्यसन्तानम वेक्षमाणो माध्यस्थ्यमवलम्बत इति ।
(३) अन्या च निर्वेदाद् = भवसुखवैराग्याद् असारे = बहुतरदुःखाऽनुविद्धत्वेन दुःखाऽनतिविशिष्टे सुखे, यथा सर्वेन्द्रियोत्सवकरं संसारिसुखमनुपश्यतोऽपि योगिनः । (४) इतरा च तत्त्वचिन्तनाद् = मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वस्य ।।३१२।। १. हस्तादर्श ....लणा' इत्यशुद्धः पाठः । २. हस्तादर्श 'परा' इति पाठः । ३. हस्तादर्श 'परिमाण' इत्यशुद्धः पाठः । ४. 'नमनवे' इति सर्वत्र प्रतौ पाठोऽशुद्धः । षोडशकवृत्त्यनुसारेणाऽस्माभिः शुद्धः पाठो गृहीतः ।।
.
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org